कुलशेखराल्वार्चरितम्

घुष्यतेः यस्य नगरे रङ्गयात्रा दिने दिने। तमहं शिरसा वन्दे राजानं कुलशेखरम् ॥ पराभवनामसंवत्सरे माघमासे शुक्लपक्षे पुनर्वसूनक्षत्रे दशम्यां गुरुवासरे कौस्तुभांशेन महात्मा कुलशेखरः राजर्षेः संजज्ञे । अस्यावतारश्लोकाः - तस्यामभूच्चेरकुलप्रदीपः श्रीकौस्तुभात्मां कुलशेखराख्यः । महामतिमघपुनर्वसूभेदिह हरेः पूर्णकटाक्षलक्ष्यः ॥ कुम्भे पुनर्वसौ जातं केरले कोलिपट्टणे। कौस्तुभांशं धराधीशं कुलशेखरमाश्रये ॥ मखायां मकरे मासे चक्राशं भार्गवोद्भवम् । महीसारपुराधीशं भक्तिसारमहं भजे ॥ तत्त्वं जिज्ञासमानानां हेतुभिः सर्वतोमुखैः । तत्त्वमेको महायोगी हरिनारायणः स्मृतः ॥