आकार त्रय संपन्नाम् अरविन्दनिवासिनीम् ।
_अशेष जगतीशित्रीम् वन्दे वरदवल्लभाम् ॥ {यामुनमुनेः}
यस्य प्रसाद कलया बधिरः शृणोति
पङ्गुः प्रधावति जवेन च वक्ति मूकः ।
अन्धः प्रपश्यति सुतं लभते च वन्ध्या
तं देवदेववरदं शरणं गतोऽस्मि ॥ {यामुनमुनेः}
लक्ष्मीकपोलतलकल्पितपत्ररेखा
कस्तूरिकासुरभिसस्मित-वक्त्रचन्द्र ।
श्रीहस्तिभूधरसुभूषण तावकेनौ
श्री देवराज चरणौ शरणं प्रपद्ये ॥ {१}
सान्देन्द्रनीलमणिचारुतनुप्रकाश
संराजमानवरभागसुवर्णदूष ।
सौदामनी सततयोगतनूनमोद
श्री देवराज चरणौ शरणं प्रपद्ये ॥ {२}
मूलेति मुक्तगिरिवारिगते करीन्द्रे
वेगागमव्रहतार्क्ष्यगतागतादेः ।
ग्राहक्षतिक्षरदसृक्वस्रमृजाकृतस्ते
श्री देवराज चरणौ शरणं प्रपद्ये ॥ {३}
ब्रह्मत्रिलोचन-सहस्रविलोचनाद्यैः
आविर्भृतौ सुरमहीरुहपुष्पजालैः ।
नीराजतौ च नतमौलिमरीचिभिस्ते
श्री देवराज चरणौ शरणं प्रपद्ये ॥ {४}
काञ्चीपुरीश करुणाकर देवदेव
देवादिसेव गरुडोपरि देवदेव ।
दासापराधसहदेव सदा त्वदीयौ
श्री देवराज चरणौ शरणं प्रपद्ये ॥ {५}
श्रीकाञ्चीपूर्णवचनप्रतिवाक्प्रसादात्
अर्चावतार-समयव्यतिलंधिवृत्तेः ।
लक्ष्यादि-दिव्यमहिषीस्मित-कारिणस्ते
श्री देवराज चरणौ शरणं प्रपद्ये ॥ {६}
शेषस्सहस्रफणरत्नसहस्रदीपः
चक्षुः सहस्रयुगवीक्षण-पुष्पवर्षः
यत्त्वां प्रसादयति नाथ कलौ युगे ते
श्री देवराज चरणौ शरणं प्रपद्ये ॥ {७}
सत्तोत्तकैः सततसेव्यपदाम्बुजेन
संसारतारकवयाद्रदृगञ्चलेन ।
सोम्योपयन्त्यमुनिना मम दर्शितौ ते
श्री देवराज चरणौ शरणं प्रपद्ये ॥ {८}
श्रीश श्रिया घटकया त्वदुपायभावे
प्राप्ते त्वयीतरदुरापतया स्फुरन्त्या ।
नित्याश्रिताय निरवद्यगुणाय तुभ्यं
स्यां किङ्करः करिगिरीश न जातु मह्यम् ॥ {९}
इति श्रीहस्तिगिरीश-प्रपत्तिः