श्रीभूमिनायक दयापर दिव्यमूर्ते देवादिदेव जगदेकशरण्य विष्णो । गोपाङ्गनाकुचतटेषु निमग्नदृष्टे गोविन्दराज विजयिन् तव सुप्रभातम् ॥ {१} देवादिदेव फणिराजविहङ्गराज- राजकिरीटमणिराजविराजिताङ्ग्रे । राजाधिराज वसुदेवकुलाधिराज गीविन्दराज विजयिन् तव सुप्रभातम् ॥ {२} कासारयोगिपरमाद्भुतभक्तिबद्ध- वाङ्मूलभूषितमहोत्पलरम्यपाद । गोपाधिनाथ वसुदेवकुमार कृष्ण गोविन्दराज विजयिन् तव सुप्रभातम् ॥ {३} श्रीभूतयोगिपरिकल्पितदिव्यमान- ज्ञानप्रदीपपरिदृश्यरतैकतान । गोगोपजालपरिरक्षणबद्धदीक्ष गोविन्दराज विजयिन् तव सुप्रभातम् ॥ {४} मान्यानुभावमहदाह्वययोगिदृष्टे श्रीशङ्खचक्रकमलासहितामलाङ्ग । गोपीजनप्रियचरित्र विचित्रवेष गोविन्दराज विजयिन् तव सुप्रभातम् ॥ {५} श्रीमत्त्वदीयपदपङ्कजभक्तिनिष्ठ- श्रीभक्तिसारमुनिनिश्चितमुख्यतत्त्व । गोपीजनातिहर गोपजनान्तरङ्ग गोविन्दराज विजयिन् तव सुप्रभातम् ॥ {६} श्रीमत्पराङ्कुशमुनीन्द्रसहस्रशाख- संस्तूयमानचरणाम्बुज सर्वशेषिन् । गोपालवंशतिलकाच्युतपादपद्म गोविन्दराज विजयिन् तव सुप्रभातम् ॥ {७} शेषाचले महति पादपपक्षिजन्म तद्भक्तितः स्पृहयता कुलशेखरेण । राज्ञा पुनःपुनरुपासितपादपद्म गोविन्दराज विजयिन् तव सुप्रभातम् ॥ {८} श्रीविष्णुचित्तकृतमङ्गलदिव्यसूक्ते तन्मानसाम्बुरुहकल्पितनित्यवास । गोपालबालयुवतीविटसार्वभौम गोविन्दराज विजयिन् तव सुप्रभातम् ॥ {९} श्रीविष्णुचित्तकुलनन्दनकल्पवल्ली- गोदालकान्तविनिवेशितमाल्यलोल । गोपाङ्गनाकुचकुलाचलमध्यसुप्त गोविन्दराज विजयिन् तव सुप्रभातम् ॥ {१०} भक्ताघ्रिरेणुमुनिना परमत्वदीय- शेषत्वमाश्रितवता विमलेन नित्यम् । प्राबोधकीस्तुतिकृता ह्यवबोधितश्रीः गोविन्दराज विजयिन् तव सुप्रभातम् ॥ {११} श्रीपाणनामकमहामुनिदिव्यनाम- दिव्यानुभावदयमानहगश्चलाख्य । पूर्णानुकम्प पुरुषोत्तम पुष्कराक्ष गोविन्दराज विजयिन् तव सुप्रभातम् ॥ {१२} भक्तोत्तमाय परकालमुनीन्द्रनाम्ने विश्राणितातुलमहातनुमूलमन्त्र । सर्वात्मरक्षणविचक्षण चक्रपाणे गोविन्दराज विजयिन् तव सुप्रभातम् ॥ {१३} सत्त्वोत्तरैः सततसेव्यपदाम्बुजेन संसारतारकदयार्द्रगञ्चलेन । सौम्योपयन्तृमुनिमानसराजहंस गोविन्दराज विजयिन् तव सुप्रभातम् ॥ {१४} भक्तप्रपन्नकुलनायकभाष्यकार- सङ्कल्पकल्पतरुदिव्यफलामलात्मन् । श्रीशेषशैलनिकटस्थितशेषशायिन् गोविन्दराज विजयिन् तव सुप्रभातम् ॥ {१५} श्रीमच्छठारिकरुणाश्रितदेवगान- सारज्ञनाथमुनिसन्नुतपुण्यमूर्ते । गोब्राह्मणप्रियगुरो श्रितपारिजात गोविन्दराज विजयिन् तव सुप्रभातम् ॥ {१६} देव प्रसिद्ध करुणाकर भक्तवर्ग- सेनापतिप्रणयिताखिललोकभानो । श्रीवासदिव्यनगराधिप राजराज गोविन्दराज विजयिन् तव सुप्रभातम् ॥ {१७} इति श्रीगोविन्दराजसुप्रभातं सम्पूर्णम्