धाटी-पञ्चकम्

यश्चक्रे भक्तनगरे धाटीपञ्चकमुत्तमम् । रामानुजार्यसच्छात्रं वन्दे दाशरथिं गुरुम् ॥ पाषण्डद्रुमषण्डदावदहनश्चार्वाकशैलाशनिः बौद्धध्वान्तनिरासवासरपतिः जैनेभकण्ठीरवः । मायावादिभुजङ्गभङ्ग-गरुडस्त्रैविद्यचूडामणिः श्रीरङ्गेशजयध्वजो विजयते रामानुजोऽयं मुनिः ॥ {१} पाषण्डषण्डगिरिखण्डनवज्रदण्डाः प्रच्छन्न-बौद्ध-मकरालयमन्थदण्डाः । वेदान्तसारसुखदर्शनदीपदण्डाः रामानुजस्य विलसन्ति मुखे त्रिपुण्ड्राः ॥ {२} चारित्रोद्धारदण्डं चतुरनयपथालङ्क्रियाकेतुदण्डं सद्विद्यादीपदण्डं सकलकलिकथासंहृतेः कालदण्डम् । त्रय्यन्तालंबदण्डं त्रिभुवनविजयच्छत्रसौवर्णदण्डं धत्ते रामानुजर्यः प्रतिकथकशिरोवज्रदण्डं त्रिदण्डम् ॥ {३} त्रय्या माङ्गल्यसूत्रं त्रियुगयुगपदारोहणालंबसूत्रं सद्विद्यादीपसूत्रं सगुणनयविदां संपदां हारसूत्रम् । प्रज्ञासूत्रं बुधानां प्रशमधनमनः पद्मनीनालसूत्रं रक्षासूत्रं मुनीनां जयति यतिपतेः वक्षसि ब्रह्मसूत्रम् ॥ {४} पाषण्डसागरवहा बडबामुखाग्निः श्रीरङ्गराजचरणांबुजमूलदासः । श्रीविष्णु-लोकमणि-मण्टपमार्गदायी रामानुजो विजयते यतिराजराजः ॥ {५} इति श्रीधाटी पञ्चकम्