देवराजपञ्चकम्

अथ चोलसिंहपुरं दोड्डय्याचार्य-कृतम् देवराजपञ्चकम् प्रत्यूषे वरदः प्रसन्नवदनः प्राप्ताभिमुख्यान्जनान् आबद्धाञ्जलिमस्तकानविरलान् आबालमानन्दयन् । मन्दोड्डायितचामरो मणिमयश्वेतातपत्रश्शनैः अन्तर्गोपुरमाविरास भगवानारूढपक्षीश्वरः ॥ {१} मुक्तातपत्रयुगलोभयचामरान्तः विद्योतमान-विनयातनयाधिरूढम् । भक्ताभयप्रदकराम्बुजमंबुजाक्षं नित्यं नमामि वरदं रमणीयवेषम् ॥ {२} यद्वेदमौलिगणवेद्यमवेद्यमन्यैः यद्ब्रह्मरुद्रसुरनायकमौलिवन्द्यम् । तत्पद्मनाभपदपद्मयुगं मनुष्यैः सेव्यं भवद्भिरिति दर्शयतीव तार्क्ष्यः ॥ {३} केचित्तत्त्वविशोधने पशुपतौ पारम्यमाहुः परे व्याजह्रुः कमलासने नयविदोऽप्यन्ये हरौ सादरम् । इत्येवं चलचेतसां तनुभृतां पादावरिन्दं हरेः
तत्सन्दर्शयतीव संप्रति नृणां तार्क्ष्यः श्रुतीनां निधिः ॥ {४} प्रत्यग्गोपुरसंमुखे दिनमुखे पक्षीन्द्रसंवाहितं नृत्यच्चामरकोरकं निरुपमच्छत्रद्वयीभासुरम् । सानन्दं द्विजमण्डलं विदधतं सन्नाहचिह्नारवैः कान्तं पुण्यकृतो भजन्ति वरदं काञ्च्यां तृतीयोत्सवे ॥ {५} इति श्रीदेवराजपञ्चकं समाप्तम्