वरवरमुनिभिरनुगृहीतम्
श्रीरस्तु । श्रीमते हयग्रीवाय नमः । श्रीमते रामानुजाय नमः ॥ यश्चक्रे देवराजस्य मङ्गलाशासनं मुदा । तं वन्दे रम्यजामातृमुनिं विशदवाग्वरम् ॥ मङ्गलं वेधसो वेदिमेदिनीगृहमेधिने । वरदाय दयाधाम्ने धीरोदाराय मङ्गलम् ॥ {१} वाजिमेधे वपाहोमे धातुरुत्तरवेदितः । उदिताय हुतादग्नेः उदाराङ्गाय मङ्गलम् ॥ {२} यजमानं विधिं वीक्ष्य स्मयमानमुखश्रिये । दयामानदृशे तस्मै देवराजाय मङ्गलम् ॥ {३} वारिदश्यामवपुषे विराजत्पीतवाससे । वारणाचलवासाय वारिजाक्षाय मङ्गलम् ॥ {४} अद्यापि सर्वभूतानां अभीष्टफलदायिने । प्रणतार्तिहरायास्तु प्रभवे मम मङ्गलम् ॥ {५} दिव्यावयवसौन्दर्यदिव्याभरणहेतये । दन्तावलगिरीशाय देवराजाय मङ्गलम् ॥ {६} पुरुषाय पुराणाय पुण्यकोटिनिवासिने । पुष्पितोदारकल्पद्रुकमनीयाय मङ्गलम् ॥ {७} काञ्चनाचलशृङ्गाग्रकालमेघानुसारिणे । सुपर्णांसावतंसाय सुरराजाय मङ्गलम् ॥ {८} भोगापवर्गयोरेकं वाञ्छद्भ्यो ददते द्वयम् । श्रीमद्वरदराजाय महोदाराय मङ्गलम् ॥ {९} मतङ्गजाद्रितुङ्गाग्रशृङ्गशृङ्गारवर्ष्मणे । महाकृपाय मद्रक्षादीक्षितायास्तु मङ्गलम् ॥ {१०} श्रीकाञ्चीपूर्णमिश्रेण प्रीत्या सर्वाभिभाषिणे । अतीतार्चाव्यवस्थाय हस्त्यद्रीशाय मङ्गलम् ॥ {११} अस्तु श्रीस्तनकस्तूरीवासनावासितोरसे । श्रीहस्तिगिरिनाथाय देवराजाय मङ्गलम् ॥ {१२} मङ्गलाशासनपरैर्मदाचार्यपुरोगमैः । सर्वैश्च पूर्वैराचार्यैः सत्कृतायास्तु मङ्गलम् ॥ {१३} **इति देवराजमङ्गलं समाप्तम् **