इह जगति मनीषा भूषणानां जनानाम् अहमहमिकया हर्षदानाय शेषः । तदनु गुणतनूनां तत्तदिष्टार्थसिद्धिं दिशतु वरदराजो देवराट् सुप्रभातम् ॥ {१} सकल-भुवनसीमा सार्वभौमस्य विष्णोः प्रवितर-पदवीक्षा-दीक्षिते पद्मयोनौ । भुवन-नयन-भाग्यात् पुण्यकोट्यामुदीतौ दिशतु वरदराजो देवराट् सुप्रभातम् ॥ {२} भगवति फणिराजे भक्तवात्सल्यसिन्धोः पद-सरसिज-सेवा प्राप्त-दास्ये प्रपन्ते । तदपि मतपरर्त्तिं तत्सरस्तीरजातः दिशतु वरदराजो देवराट् सुप्रभातम् ॥ {३} दिशि दिशि समुदितैः दिग्गजेन्द्रैरमोघैः अहहरपि जातैः अम्बुजैरर्च्यमानः । चरिकिरि? परपाके कल्पितानेक-भोगे दिशतु वरदराजो देवराट् सुप्रभातम् ॥ {४} शिव-सुरपतिवह्नैः शेषभूतेशरक्षो वरुणवरुषतवाहैः वन्द्यमानाङ्घ्रियुग्मः । तदुचितफलदायी तत्तदैश्वर्यदायी दिशतु वरदराजो देवराट् सुप्रभातम् ॥ {५}
अखिल-सुरसमूहैः अस्मदाचार्यवर्यैः अतिनियमविशेषैः आगमोक्तैरनेकैः । अनुदिनमतिमोदैः अर्च्यतो नित्ययोगं दिशतु वरदराजो देवराट् सुप्रभातम् ॥ {६} विरचितरतिभावो वेगवद्युत्तरस्याम् सुरचितपरिपाकैः सुन्रुतैस्सज्जनानाम् । विलसदुभयभावो विच्छ्रुते दानभावो दिशतु वरदराजो देवराट् सुप्रभातम् ॥ {७} इह जनमुपयाता यत्पदाम्बोजसेवात् जनित-नयन-सौख्यात् जातमोद-प्रमोदाः । परम-पुरुष-पादाप्याशमापादितोऽहम् दिशतु वरदराजो देवराट् सुप्रभातम् ॥ {८} इति विरचितमेतत् सुप्रभाताष्टकम् यः पठति सततमादौ प्रातरुत्थाय धीरः । तदभिलषितसिद्धिं दातुमेवाद्रुमाणिः तकुति वरदमुद्राम् देवराजस्समिन्ते ॥ {९} इति श्रीदेवराज-सुप्रभातं समाप्तम्