भाष्यकारप्रपत्तिः

श्रीवैष्णवागमपयोदधि पूर्णचन्द्र श्रीशाङ्घ्रिपद्म मकरन्दरसज्ञभृङ्ग । गोविन्दवर्यकरसारसपूजितौ ते श्रीभाष्यकारचरणौ शरणं प्रपद्ये ॥ {१} श्रीशैलपूर्णमुखदेशिकलब्धबोध तुर्याश्रमप्रथित मौनिकुल प्रदीप । भट्टार्यवर्यकरनीरजपूजितौ ते श्रीभाष्यकारचरणौ शरणं प्रपद्ये ॥ {२} काञ्चीपुरीवरदराजकृपैकपात्र रङ्गेश पूर्णकरुणा परिणामरूप। वेदान्तदेशिककराम्बुज पूजितौ ते श्रीभाष्यकारचरणौ शरणं प्रपद्ये ॥ {३} श्रीयादवाद्रि पतिपादसरोजहंस श्रीभूतपट्टणरमेश कटाक्ष धन्य । शेषावतार कलिवैरिकरार्चितौ ते श्रीभाष्यकारचरणौ शरणं प्रपद्ये ॥ {४} श्रीवेङ्कटाचलपति प्रियलक्ष्मणार्य सर्वज्ञभव्य यतिशेखर सार्वभौम। वीक्षा वनेशहितकृष्णवनार्चितौ ते श्रीभाष्यकारचरणौ शरणं प्रपद्ये ॥ {५} पाषण्डजालतरुपावक सम्यमीन्द्र जैनेभपञ्चमुखबौद्धतमो दिनेश। लोकार्यहस्तसरसीरुह पूजितौ ते श्रीभाष्यकारचरणौ शरणं प्रपद्ये ॥ {६} चार्वाकशैलपतिवज्र कृपासमुद्र काणाददानव सुदर्शन मौनिचन्द्र। श्रीवेङ्कटेशकरपङ्कज पूजितौ ते श्रीभाष्यकारचरणौ शरणं प्रपद्ये ॥ {७} मिथ्याकथा कुमतिशीलभुजङ्गतार्थ्य कापालिकाम्बुधरमारुत वीतराग । मन्नाथ केशवगुरूत्तमपूजितौ ते श्रीभाष्यकारचरणौ शरणं प्रपद्ये ॥ {८} त्रय्यन्तदेशिकपते वकुलाभिराम पादारविन्द रससारस सारसाक्ष। श्रीमत् शठारि मुनिवल्लभ पूजितौ ते श्रीभाष्यकारचरणौ शरणं प्रपद्ये ॥ {९} काषायरम्यकमनीय शिखोपवीत दण्डत्रयोज्ज्वल करोल्लसितोर्ध्वपुण्ड्र । उद्यद्दिनेश रुचिशोभित पाहि मां ते श्रीभाष्यकारचरणौ शरणं प्रपद्ये ॥ {१०} इति श्रीभाष्यकारप्रपत्तिः समाप्ता