अगस्त्यकृतं श्रीरङ्गनारायणस्तोत्रम्

प्रसन्नस्तमृषिं प्राह वरदो भक्तवत्सलः । वरदोऽस्मि वरं दातुं तवाहमधुनाऽऽगतः ॥ श्रीहरेर्वाक्यमाकर्ण्य कुम्भयोनिः प्रणम्य तम् । बद्धाञ्जलिपुटो भूत्वा स्तोत्रयामास केशवम् ॥ विज्ञानतत्त्वविदुषे विविधागमान्तैः वेद्याय वेदपुरुषाय विधीशपाय । विद्याधराच्युत विहङ्गप-वाहनाय नारायणाऽखिलगुरो भगवन् नमस्ते ॥ {१} नन्दात्मजाद्यपुरुषाखिललोकनाथ नालीकसद्मजनकार्यसुपा अनन्त । नव्याम्बुजाक्ष नवनीतहराप्रमेय नारायणाऽखिलगुरो भगवन् नमस्ते ॥ {२} श्रीकेशवाद्य पुरुषोत्तम पूर्णकाम मत्स्यावतार निगमोद्धर सोमकारे। गोविन्द सन्नुत हयास्य जगन्निवास नारायणाऽखिलगुरो भगवन् नमस्ते ॥ {३} नारायणाऽच्युत मुकुन्द सुरेश विष्णो श्रीमन्दराद्रि-वहनाऽद्भुत कूर्मरूप । श्रीसिन्धुजारमण देव जगद्धिताय नारायणाऽखिलगुरो भगवन् नमस्ते ॥ {४} श्रीमाधवेशनुत मन्मथतात विष्णो वाराहरूप वसुधोद्धरणाप्रमेय । हैरण्यनेत्रदहनोज्ज्वल यज्ञमूर्ते नारायणाऽखिलगुरो भगवन् नमस्ते ॥ {५} गोविन्द चिन्मय मनोमय गोपरूप प्रह्लादरक्षक महाद्भुतनारसिह्म । सम्यङ्-नखाग्र-दलितासुरराज-वक्षः नारायणाऽखिलगुरो भगवन् नमस्ते ॥ {६} कृष्णाप्रमेयमहिमाऽर्णव देव विष्णो विख्यातवामनवटो बलिबन्धदक्ष। इन्द्रानुजार्यजन-वन्दित विश्वरूप नारायणाऽखिलगुरो भगवन् नमस्ते ॥ {७} श्रीमन् मुकुन्द मधुसूदन मानवेन्द्र क्षत्राटवीदहन भार्गवराम जिष्णो । शक्रोग्रगर्वहरणाद्भुतवीर्यशौर्य नारायणाऽखिलगुरो भगवन् नमस्ते ॥ {८} स्वामिन् त्रिविक्रम रघूत्तम सेतुनाथ भो रावणान्तक हरेऽप्रतिम-प्रभाव । सीतापते निखिललोकविमोहनाङ्ग नारायणाऽखिलगुरो भगवन् नमस्ते ॥ {९} श्रीवामनाद्भुतचरित्र फणीश विष्णो श्रीरेवतीरमण भो बलभद्र राम । श्रीरोहिणीतनय पालितसर्वलोक नारायणाऽखिलगुरो भगवन् नमस्ते ॥ {१०} भोः श्रीधराद्भुतचरित्र हृषीकनाथ कंसान्तकार्यजन-यादवकल्पभूज । श्रीगोपिकारमण फल्गुनसूत कृष्ण नारायणाऽखिलगुरो भगवन् नमस्ते ॥ {११} श्रीपद्मनाभ सकलात्महृदन्तरात्मन् दामोदराद्य कलिभञ्जन वाजिवक्त्र । म्लेच्छान्तकादियुगधर्मरतैक कल्किन् नारायणाऽखिलगुरो भगवन् नमस्ते ॥ {१२} इत्येवं बहुशः स्तुत्वा कुम्भयोनिः श्रियःपतिम् । प्रणम्योत्थाय सन्तुष्टः कृताञ्जलिरुपस्थितः ॥ {१३} अगस्त्येन कृतं स्तोत्रं पठन्ननुदिनं नरः । सर्वपापविनिर्मुक्तो ब्रह्मलोके महीयते ॥ {१४} इति पुराणप्रोक्तम् आगस्त्यं श्रीरङ्गनारायणस्तोत्रं सम्पूर्णम् । श्रीः ॥ {इदं प्रपन्नामृते पाठान्तरैः युक्तम् उपलभ्यते}

अत्र स्तोत्रे नामत्रयं द्वादशनामानि परव्यूहविभवान्तर्याम्यर्चारूपाणि, दशाधिकाः अवताराः इति नामसङ्कीर्तन-शरणागतिरूप- नमस्कारानुसन्धानम् अस्तीति विशेषो वेदितव्यः ॥ अनुलेखकः अरैयर् श्रीरामशर्मा रामानुजदासः यादवाद्रौ धातृश्रावणामावास्यायां गुरुवासरे पूर्वफल्गुनीनक्षत्रे इति मङ्गलं महाश्रीः ॥ लक्ष्मीं क्षीरसमुद्रराजतनयां श्रीरङ्गधामेश्वरीं दासीभूत-समस्त-देववनितां लोकैकदीपाङ्कुराम् । श्रीमन्मन्दकटाक्ष-लब्धविभव-ब्रह्मेन्द्र-गङ्गाधरां त्वां त्रैलोक्यकुटुम्बिनीं सरसिजां वन्दे मुकुन्दप्रियाम् ॥ ध्यानश्लोकेषु