अगस्त्यकृत-लक्ष्म्यष्टकम्

सरसिजनयने सरोजहस्तेधवलतरांशुकगन्धमाल्यशुभ्रे । भगवति हरिवल्लभे मनोज्ञे त्रिभुवनतापहरे तव प्रभातम् ॥ श्रीरङ्गभूमितलभूसुरदेशिकेन्द्र श्रीरङ्गवाटमिदमित्युदितप्रबोधैः । श्रीभूमिपाणिकमलैश्च समाश्रिताङ्घ्रे श्रीरङ्गराज जगदीश्वर सुप्रभातम् ॥ {१} श्रीमच्छठारिमुखदिव्यमुनीन्द्रवर्यैः सर्वैश्च संस्तुतमहागुण सर्वपूर्ण । भक्ताङ्घ्रिरेणुमुनिनैव सुगीत कल्ये श्रीरङ्गराज जगदीश्वर सुप्रभातम् ॥ {२} श्रीरामलक्ष्मणकराम्बुजपूजिताङ्घ्रे सीतामुखाम्बुरुहकुट्मलसूर्यकान्ते । श्रीमद्विभीषणवरप्रददेवते ते श्रीरङ्गराज जगदीश्वर सुप्रभातम् ॥ {३} श्रीदिव्यदेशगणवासिमुकुन्दमूर्ति- स्वेच्छावतार- सकलोदयमूलकन्द । श्रीनन्दनन्दन घनद्युतिकान्तमूर्ते श्रीरङ्गराज जगदीश्वर सुप्रभातम् ॥ {४} लीलाविशेषलुलितेव वसुन्धरायाः माला कवेरदुहिता हि; मणिस्तु नीलः। श्रीरङ्गराडिति जना निगदन्ति साक्षात् श्रीरङ्गराज जगदीश्वर सुप्रभातम् ॥ {५} कस्तूरिकाकलिकया कलितालिकस्य भ्रूवल्लिका-धनुरिदं तु कृपाम्बुधे ते । कन्दर्पकोटिसदृशस्य कटाक्षमस्यात् श्रीरङ्गराज जगदीश्वर सुप्रभातम् ॥ {६} श्रीचन्द्रपुष्करिणिकातटसंप्ररूढ- जम्बुद्रुमाधिवसतिश्शशिराजमौलिः । नृत्तादिभिर्वितनुते तव पादसेवां; श्रीरङ्गराज जगदीश्वर सुप्रभातम् ॥ {७} लक्ष्मीश केशव हरे नृहरे मुरारे शौरे रमारमण कारण दीनबन्धो । इत्यादरेण वदताम् इह वाञ्छितार्थ श्रीरङ्गराज जगदीश्वर सुप्रभातम् ॥ {८} श्रीसुप्रभातकमिदं सुकृताभिजप्यं प्रातस्समाहितमतिर्य इदं पठेद्वा । तस्मै भुजङ्गशयनो भुवि रङ्गनाथः सर्वाणि वाञ्छितफलानि सदा प्रसूते ॥ {९} प्रतिवादिभयङ्करार्यकृतिः