आल्वारुल-श्लोकाः

पोय्गेपूदप्पेयाल्वारुल-प्रभावः

काञ्च्यां सरसि हेमाब्जे जातं कासारयोगिनम् । कलये यश्श्रियःपत्युः अरविन्दमकल्पयत् ॥ मल्लापुरवराधीशं माधवीकुसुमोद्भवम् । भूतं नमामि यो विष्णोः ज्ञानदीपमकल्पयत् ॥ तुला शतभिषग्जातं मयूरपुरकैरवात् । महान्तं महदाख्यातं वन्दे श्रीनन्दकांशजम् ॥ पद्मारमणपादाब्जप्रेमभ्रान्त्या मनोज्ञया। भ्रान्तयोगीति विख्यातं मुनिं वन्दे गुणाम्बुधिम् ॥

तिरुमलैशैयाल्वारुल-प्रभावः

पञ्चशक्तिमय-दिव्य-विग्रहं भक्तिमत्सुजनभूर्यनुग्रहम् । पापचेतनमनोऽतिदुर्ग्रहं भक्तिमत्सुजन-भूर्यनुग्रहम् ॥ मखायां मकरे मासे चक्राशं भार्गवोद्भवम् । महीसारपुराधीशं भक्तिसारमहं भजे ॥

कुलशेखराल्वारुल-वैभवः

कुम्भे पुनर्वसौ जातं केरले कोलिपट्टणे। कौस्तुभांशं धराधीशं कुलशेखरमाश्रये ॥

पेरियाल्वारुल-वैभवम्

मिथुने स्वाजितं विष्णोः रथांशं ध्वनिनः पुरे । प्रपद्ये श्वशुरं विष्णोः विष्णुचित्तं पुरश्शिखम् ॥

शूडिक्कोडुत्तनाच्चियारु-वैभवम्

कर्कटे पूर्वफल्गुन्यां तुलसी-काननोद्भवाम् । पाण्ड्ये विश्वंभरां गोदां वन्दे श्रीरङ्गनायिकीम् ॥

तोण्डरडिप्पोडियाल्वारुल-वैभवम्

कोदण्डे ज्येष्ठनक्षत्रे मण्डंगुडिपुरोद्भवम् । चोलोर्व्यां वनमालांशं भक्तपद्रेणुमाश्रये ॥ भक्ताङ्घ्रिरेणु-प्रभाव-मवाङ्मनो,गोचरमार्युलु कूर्मिं-बलुक विन्नन्त कन्नन्त वेन्नुनि करुणचेँ, देलिय वच्चिनयन्त तेटपडनु जेप्पितिँ गावुनँ, दप्पुलनेञ्चक, परम कारुणिकुलौभागवतुलु साहसं बिदि कृपक्षमियिंपँदगुदुरु, तल्लिदण्ड्रुलु बालदौष्ट्यमट्लु सारे सारेकु मीपादसरसिजमुल, नम्मि युन्नाँड नेम्मदिमिम्मुँ दक्क वेरुपायमुपेयमु वेदकननुचु, वादिभीकरगुरुँ डनेमोदमलर ॥ (तेलुगु) श्रीमत्कान्तिमती-तनूज-सकलश्रेयोनिदानोदया भूमप्राभव केशवार्यहृदयाम्भोजातसूर्योदया । काम क्रोध मलीनमानसजन-ग्रामातिदूरादरा- स्वामि श्रीयतिराज-शेखर हृदब्जस्फार-दामोदरा ॥ श्रीभट्टनाथगोदा शोभितदिव्यप्रबन्धजुष्टमनस्का । श्रीभूतनगरभाग्य प्राभव-भक्ताङ्घ्रिरेणुपदकमलात्मा ॥

मालिनीवृत्ते

सरलजनशरण्या सप्तलोकीवरेण्या परिचितगुरुकाण्डा भागिनेय त्रिदण्डा । गुरुकुशलचरित्रा कूरपांभः पवित्रा सरसिजदलनेत्रा सज्जनस्तोत्रपात्रा ॥

तृतीयोल्लासः

श्रीमद्रङ्गपदस्थिरधामा वज्रत्रिदण्डधरकरकमाला रामानुजभमगुणस्तोमा संपूर्णकाम सुजनारामा

तिरुप्पाणियाल्वारुल-वैभवः

कार्तिके रोहिणीजातं श्रीपाणिं निचुलापुरे । श्रीवत्साङ्कं गायकेन्द्रं मुनिवाहनमाश्रये ॥

तिरुमङ्गैयाल्वारुल-वैभवः

कार्तिके कृत्तिकाजातं चतुष्कविशिखामणिम् । षट्प्रबन्धकृतं शार्ङ्गमूर्तिं कलिहमाश्रये ॥

नम्माल्वारुल-वैभवः

वृषभे तु विशाखायां कुरु कापुरिकारिजम् । पाण्ड्यदेशे कवेरादौ शठारिं सैन्यपं भजे ॥ चैत्रे चित्रा-समुद्भूतं शठकोप-पदाश्रयम् । अन्तिमोपायवक्तारं मधुरं कविमाश्रये ॥

मन्नाथमुनिचरितम्

ज्येष्ठमासे त्वनोराधाजातं शठजिदाश्रयम् । उद्धर्तारं प्रबन्धानां श्रीमन्नाथमुनिं भजे ॥

उय्यकोंडार्-आल्वारुल -वैभवः

चैत्रमासे कृत्तिकायामुदितं सद्गुणार्णवम् । श्रीनाथमुनिसच्छात्रं पुण्डरीकाक्षमाश्रये ॥ माघे मखायां संभूतं श्रीरामगुरुसत्तमम् । पुण्डरीकाक्षपादाब्जचञ्चरीकमहं भजे ॥ अयत्नतो यामुनमात्मदास-मलर्कपत्रार्पण-निष्क्रियेण । यः क्रीतवानास्थितयौवराज्यं नमामि तं राममेयसत्त्वम् ॥

आलवन्दारुल-वैभवः

शुचौ मास्युत्तराषाढजातं यामुनदेशिकम् । श्रीराममिश्रपादाब्जचञ्चरीकमहं भजे ॥ श्रीराममिश्रसच्छिष्यं वन्दे तत्त्वार्थकोविदम् । वादादवाप्तराज्याद्यो विरक्तो यामुनोऽभवत् ॥ सिंहासनांशभवमीश्वरयोगसिन्धु मुक्तामणिं महितनाथमुनीन्द्रपौत्रम् । प्रज्ञाविशेषजलधिं प्रतिवादितूल - जञ्झानिलं हृदय चिन्तय यामुनार्यम् ॥ यत्पादाम्भोरुहध्यानविध्वस्ताऽशेषकल्मषः । वस्तुतामुपयातोऽहं यामुनेयं नमामि तम् ॥

रामानुजार्यदिव्य-चरितम् -

मिथुने सार्पभे जातं यामुनार्यपदाश्रयम् । मारनेर्नंबिनामानं वन्दे ज्ञानादिसागरम् ॥ कमालापति-कल्याण-गुणामृतनिषेवया । पूर्णकामाय सततं पूर्णाय महते नमः ॥ कुम्भे मृगशिरोद्भूतं यामुनार्यपदाश्रयम् । देवराजदयापात्रं श्रीकाञ्चीपूर्णमाश्रये ॥ मेषार्द्रासंभवं विष्णोः दर्शनस्थापनोत्सवम् । तूण्डीरमण्डले शेषमूर्तिं रामानुजं भजे ॥ श्रीरामानुजपादाब्ज-सेवामृतनिषेविमौ । कार्पासा-राम-कमलावरदौ दम्पती भजे ॥

रङ्गामृतकवीन्द्रुडनु तिरुवङ्गत्तनारि-चरितम् –

मीने हस्तासमुद्भूतं श्रीरङ्गामृतमाश्रये । कविं प्रपन्नगायत्र्याः कूरेशपदसंश्रयम् ॥ श्रीमद्भूतपुरीश केशवनुता श्रीविष्णु धर्मव्रता भूमध्ये द्विदशाब्दपीठगतजंबूद्वीपभाग्योदया । कामादिद्विषदौष्म दावदहनागकान्तात्मनृष्यद्घना हैमस्तोमतृणाश्मलोष्टसम यात्माराम रामानुजा ॥ रामानुज कार्पासा रामरमाराधिताङ्घ्रिराजीवयुगा । श्रीमद्यज्ञेश बुधग्रामणि विनुत प्रभाव कलिरिपुदेवा ॥

मालिनवृत्ते –

प्रपदनसदुपाया पादजुड्भागधेया शपथजितकुवादी श्रीसद्गुणब्रह्मवादी । कपटगुणसुदूरा कारिमा रेष्टचारा विपदुरगखगेन्द्रा विश्वचन्द्रा यतीन्द्रा ॥

तिरुयालेयान्डार् –

माखे मखायां संभूतं द्राविडाम्नायबोधक- तुरीयार्यं यतीन्द्रस्य मालाधरगुरुं भजे ॥

तिरुवरङ्गव्पेरुमाल् –

द्राविडाम्नाय चरमोपायदं यतिशासितुः । ज्येष्ठायां वृषभे जातं वन्दे श्रीरङ्गदेशिकम् ॥

तिरुक्कच्चिनम्बि –

मृगशीर्षोदितं कुम्भे यतिराजोपकारकम् । श्रीकाञ्चीपूर्णमनघं वरदैकान्तिनं भजे ॥

पेरियनम्बि –

धनुर्ज्येष्ठा समुद्भूतं यामुनाङ्घ्य्रब्ज-संश्रयम् । यतीन्द्र-प्रथमाचार्यं महापूर्णमहं भजे ॥

तिरुक्कोटियारिनम्बि –

वृषभे रोहिणी जातं यामुनार्यपदाश्रयम् । गोष्ठीपूर्णं यतीन्द्रस्य द्वितीयं गुरुमाश्रये ॥

पेरियतिरुमलनम्बि –

चैत्रे स्वाती समुद्भूतं श्रीरामायणबोधकम् । श्रीशैलपूर्णार्यं तृतीयं यतिराड्गुरुम् ॥

मोदलियाण्डार् -

चैत्रे पुनर्वसूजातं यतिराजपदाश्रयम् । वाधूलकुलधौरेयं वन्दे दाशरथिं गुरुम् ॥ पादुके यतिराजस्य कथयन्ति यदाख्यया । तस्य दाशरथेः पादौ शिरसा धारयाम्यहम् ॥

तिरुक्कुरुप्परान् बिल्लान् तनियन् –

विख्यातो यतिसार्वभौमजलधेः चन्द्रस्समत्वेन यः श्रीभाष्येण यदन्वयाः सुविदिताः श्रीविष्णुचित्तादयः । व्याख्यां भाष्यकृदाज्ञयोपनिषदां यो द्राविडीनां व्यथात् पूर्वं तं कुरुकेश्वरं गुरुवरं कारुण्यपूर्णं भजे ॥ किलांबियान् तनियन् श्रीविष्णुचित्तचरणाम्बुजसंश्रयाय चेतो मम स्पृहयते किमतः परेण । नोचेन्ममापि यतिशेखरभारतीनां भावः कथं भवितुमर्हति वाग्विधेयः॥

नडातूरियाल्वार् तनियन् -

यस्मिन्पदं यतिवरस्य मुखात् प्रणीतं निष्काममेव निदधे निगमान्तभाष्यम् । तस्यैवतं भगवतः प्रियभागिनेयं वन्दे गुरुं वरदविष्णुपदाभिधानम् ॥

सोमासियांडालार् –

नौमि लक्ष्मण योगीन्द्रपाद सेवैकसाधनम् । श्रीरामं क्रतुना धार्यं श्रीभाष्यामृत सागरम् ॥

नडिविलाल्वार् –

येन प्रोल्लस्यते नित्यं गार्ग्यवंशमहाम्बुधिः । मन्महे तु सदाचित्ते मध्यमार्यं कलानिधिम् ॥

अरुलालप्पेरुमाल् –

कार्तिके भरणीजातं यतीन्द्राश्रयमाश्रये । ज्ञानप्रमेयसाराभिवक्तारं वरदं गुरुम् ॥

अनन्ताल्वार् –

चैत्रे चित्रासमुद्भूतं रामानुजपदाश्रयम् । वन्दे श्रीमदनन्तार्यं कल्याणगुणसागरम् ॥ अखिलात्मगुणावासमज्ञानतिमिरापहम् । आश्रितानां सुशरणं वन्दे(अ)नन्तार्यदेशिकम् ॥ यो वै वैष्णवशेषत्वपर्यन्तं सरमात्मनः । शेषत्वमातनो ज्ञेयं यज्ञेशं तं समाश्रये ॥

डेब्बदिनलुगुरु-सिंहासनस्थुल-समुदाय-तनियन्लु –

रामानुजार्यश्रुतिमौलिभाष्यमर्थं रहस्यटीकां द्रविडश्रुतेश्च । संप्राप्यते नैव गुरूकृतास्थाम् भजे चतुस्सत्पतिपीठसंस्थान् ॥ ज्ञातुं कूरकुलाधिपं क्रिमिगलात्प्राप्तं पदं प्रेषितः श्रीरामावरजेन कोसलपतिं दृष्ट्वा तदीयस्थितिम् । प्रत्याप्तस्वर यापरान्तकपुरात् कल्याणवापीतटे यो(अ)सौ मारुतिरित्यशंसि विबुधेः तस्मै नमः कुर्महे ॥

धनुर्दासः –

जागरूकधनुष्पाणिं पाणिखड्गसमन्वितम् । रामानुजस्पर्शवेदिं राद्धान्तार्थ प्रकाशकम् ॥ भागिनेयद्वयायात-भाष्यकारभयापहम् । रङ्गेश मङ्गलं कुर्वन् धनुर्दासमहं भजे ॥

भट्टरुवारि प्रभावः -

वैशाखमा स्यनोराधाजातं भट्टार्यदेशिकम् । गोविन्द-यतिपादाब्जचञ्चरीकमहं भजे ॥ श्री पराशरभट्टार्य श्रीरङ्गेशपुरोहितः । श्रीवत्साङ्कसुतश्रीमान् श्रेयसे मे(अ)स्तु भूयसे ॥

नञ्जिय्यरुगारि-प्रभावः -

फाल्गुनोत्तरफल्गुन्यां जातं वेदान्तिनं मुनिम् । श्रीपराशरभट्टार्यपाद-रेखामयं भजे ॥ नमो वेदान्तवेद्याय जगन्मङ्गलहेतवे । यस्य वागमृतासारपूरितं भुवनत्रयम् ॥

नंबिल्लगारि-वैभवः -

कार्तिके कृत्तिकाजातं वेदान्तिपदसंश्रयम् । कलयामि कलिध्वंसदासं ज्ञानानुमृतार्णवम् ॥

पेरियवाच्चांबिल्लगारि-वैभवः –

श्रावणमासि रोहिण्यां जातं यामुनदेशिकात् । वादिकेसरिणं वन्दे सौम्यजामातरं मुनिम् ॥

वादिकेसरि यलहियमणवालजिय्यरु-तनियन् –

अस्मद्विध-परित्राण प्रेमप्रद्राणमानसम् । वादिकेसरिणं वन्दे सौम्यजामातरं मुनिम् ॥

नैनाराच्चांबिल्ल-वडक्कुत्तिरुवीथिप्पिल्लल-प्रभावः –

सिंहगे(अ)र्के तु रोहिण्यामवतीर्णमहं भजे । ज्ञानाधिराजमभयप्रद राजगुरोस्सुतम् ॥

ईयुण्णि-माधवप्पेरुमाल् –

वरदार्यदयापात्रं श्री माधवगुरुं भजे । कुरुकाधीश-वेदान्त सेवोज्जीवितवेदनम् ॥

पद्मनाभप्पेरुमाल् – तनियन् –

यो(अ)सौ विगाह्य विमलाम्बुशठारिसूरेः वाणीगणार्थपरिबोधनुधापगायाम् । श्रीमन्मुकुन्दचरणाब्जमधुव्रताय श्रीपद्मनाभगुरवे नम आचरामः ॥

नालूरांबिल्ल-तनियन् -

यः पद्मनाभगुरुतः शठजिमुनीन्द्र श्रीसूक्तिभाष्यमधिगम्य समृद्धबोधः। तद्देवराजगुरवे ह्यदिशच्च पूर्वा संसिद्धकोलवरदेशिकमाश्रये तम् ॥ नमोस्तु देवराजाय चतुर्ग्राममुनिवासिने । रामानुजार्यदासस्य सुताय गुणशालिने ॥ श्रावणे बहुलाष्टम्यां स्वातीजं सद्गुणार्णवम् । वन्दे श्रीकृष्णपादार्यं वरदार्यपदाश्रयम् ॥

अलहियमणवालप्पेरुमाल् नैनारुतनियन् -

द्राविडाम्नायहृदयं गुरुपर्वक्रमागतम् । रम्यजामातृदेवेन दर्शितं कृष्णसूनुना ॥

पिल्ललोकाचार्युल वारि-तिरुनक्षत्रतनियन् -

श्रीमत्याश्वयुजे मासे तुलायां श्रवणोदितम् । श्रीकृष्णपादतनयं लोकाचार्यमहं भजे ॥

मणवालमहामुनुलप्रभावः –

श्रीशैलेशगुरुं लोकदेशिकाङ्घ्रि-समाश्रयम् । वृषे विशाखासंभूतं वन्दे वरगुणार्णवम् ॥ नमःश्रीशैलनाथाय कुन्तीनगरजन्मने । प्रसादलब्धपरमप्राप्य कैङ्कर्यशालिने ॥ तुलायामतुले मूले पाण्ड्ये कुन्तीपुरीवरे । श्रीशेषांशोद्भवं वन्दे रम्यजामातरं मुनिम् ॥

तिरुमङ्गप्पेरुमालरयरु-तनियन् –

श्री राममिश्र-पदपङ्कजचञ्चरीक- श्रीयामुनार्यनं पुत्र महागुणाढ्यम् । श्री रङ्गराजकरुणा परिणामदत्तं श्रीभाष्यकारशरणं वररङ्गमीडे ॥

कण्दाडयाण्डानुतिरुनक्षत्र-तनियन् –

कुम्भे पुनर्वसूजातं यतिराजपदाश्रयम् । श्रीरामानुजदासाख्यं वन्दे दाशरथेः सुतम् ॥ श्रीगोष्ठीपूर्णसत्पुत्रं यतिराजपदाश्रयम् । कश्यपान्वयसंभूतं नारायणगुरुं भजे ॥ भारद्वाजकुलोद्भूतं लक्ष्मणार्यपदाश्रयम् । वन्दे वङ्गीपुराधीशं नम्बुलार्यं कृपानिधिम् ॥

पिल्ऴतिरुमलनम्बि –

वैशाखे तु विशाखायां जातं यतिवराश्रयम् । श्रीशैलपूर्णसत्पुत्रं श्रीशैलार्यमहं भजे ॥

तिरुमलयाचार्युल-प्रभावः

चित्रे चित्रासमुद्भूतं मालाधरगुरोः सुतम् । रामानुजार्य-सच्छिष्यं श्रीसुन्दरभुजं भजे ॥

एंबार्-तनियन् –

वैशाखे तु विशाखायां वैनतेयांशसंभवम् । रामानुजपदच्छायां वन्दे गोविन्ददेशिकम् ॥ अश्विन्यां ज्येष्ठमासे तु जातं गोविन्द-देशिकम् । गोविन्दार्यानुजं वन्दे यतिराजपदाश्रयम् ॥

तिरुवरङ्गत्तमुदनार् –

श्रीरङ्गे मीनहस्ते च जातं रङ्गार्यनन्दनम् । रङ्गनाथगुरु वन्दे रामानुजपदाश्रयम् ॥

अरुलालप्पेरुमालेंबेरुमानार् तिरुनक्षत्र-तनियन् -

कार्तिके भरणीजातं यतीन्द्राश्रयमाश्रये । ज्ञान-प्रमेयसाराभिवक्तारं वरदं गुरुम् ॥

अण्डकोण्डपल्लिजिय्यरु तिरुनक्षत्र-तनियन् -

चैत्राद्रायां समुद्भूतं, रामानुजपदाश्रयम् । चतुराश्रमसंपन्नं संयमीन्द्रं नमाम्यहम् ॥

रामप्पिल्लतनियन् –

कूरेशनन्दनं वन्दे व्यासांशं रङ्गवासिनम् । अनूराधे तु वैशाखे जातं श्रीरामदेशिकम् ॥

कूरनारायण-जिय्यरु-तनियन् –

ज्येष्ठायां मार्गशीर्षे तु जातं श्रीरङ्गपालकम् । भट्टारकार्यसच्छिष्यं कूरनारायणं भजे ॥

कन्दाडतोडप्पगारि-तनियन् –

आषाढे पूर्वफल्गुन्यां जातं रामानुजात्मजम् । लोकाचार्यकृपापात्रं तोडप्पार्यमहं भजे ॥

उद्दण्डभट्टार्युलवारि-तनियन् –

तुलाधनिष्ठासंभूतं श्रीलोकार्यपदाश्रयम् । नमाम्युद्दण्डभट्टार्यं पराशरगुरोः सुतम् ॥

पिन्बलगियपेरुमाल् जिय्यरुगारि-तनियन् –

तुलाशतभिषग्जातं पश्चात्सुन्दर-देशिकम् । ज्ञानभक्त्यादिसुगुण-रत्नाकरमहं भजे ॥

ईयुण्णिमाधवप्पेरुमल्लुगारि-तनियन् –

कार्तिके रोहिणीजातं श्रीलोकार्यपदाश्रयम् । वन्दे श्रीमाधवाचार्यं ज्ञानादिसुगुणार्णवम् ॥

कोलेपराहप्पेरुमाल् नैनारुगारि-तनियन् –

चतुर्ग्रामकुलोद्भूतं द्राविडब्रह्मवादिनम् । यज्ञार्यवंशतिलकं श्रीवराहमहं भजे ॥

नालूराच्चांबिल्लै तनियन् –

भरण्यां मार्गशीर्षे तु जातं यज्ञेशवंशजम् । देवराजगुरुं वन्दे कल्याणगुणसागरम् ॥

द्रविडवेदान्तदेशिकुलवारि-तनियन् –

श्रीरङ्गगुरुसत्पुत्रं धीशमादिगुणार्णवम् । केशवाख्यगुरुं वन्दे द्राविडाम्नायदेशिकम् ॥

शठकोपजिय्यरुवारि-तनियन् –

प्रपद्ये निरवद्द्यानां निषद्यां गुरुसंपदाम् । शरणं भवभीतानां शठकोपमुनीश्वरम् ॥

मन्नारायण-जिय्यरु –

शठकोपमुनीशाङ्घ्रिशरणं करुणालयम् । श्रीमन्नारायणमुनिं श्रीमन्तं शरणं भजे ॥

तिरुक्कुरुहप्पिरान्बिल्लान् तिरुनक्षत्र-तनियन् -

जातमाश्वयुजे मासे पूर्वाषाढाशुभर्क्षगे । कुरुकेशगुरुं वन्दे यतिराजपदाश्रयम् ॥ घुष्यतेः यस्य नगरे रङ्गयात्रा दिने दिने। तमहं शिरसा वन्दे राजानं कुलशेखरम् ॥ तस्यामभूच्चेरकुलप्रदीपः श्रीकौस्तुभात्मां कुलशेखराख्यः । महामतिमघपुनर्वसूभेदिह हरेः पूर्णकटाक्षलक्ष्यः ॥ तत्त्वं जिज्ञासमानानां हेतुभिः सर्वतोमुखैः । तत्त्वमेको महायोगी हरिनारायणः स्मृतः ॥

तिरुमलिशैयाल्वार् चरितम्

शाक्तिपञ्चमयविग्रहात्मने शुक्तिकारजितचितहारिणे । मुक्तिदायकमुरारिपादयोः भक्तिसारमुनये नमो नमः ॥

तिरुनक्षत्रश्लोकः

तुलायां श्रवणे जातं काञ्च्यां काञ्चनवारिजात् । द्वापरे पाञ्चजन्यांशं सरोयोगिनमाश्रये ॥ काञ्च्यां सरसि हेमाब्जे जातं कासारयोगिनम् । कलये यः श्रियःपत्युः रविं दीपमकल्पयत् ॥ पूदत्ताल्वार् नाम श्रीभूतमुनिः मल्लापुरे नाम अद्यतनमहाबलिपुरे सरोमुनेः अवतारदिनानन्तरदिने धनिष्टानक्षत्रयुक्तनवम्यां बुधवासरे कस्मिंश्चित् माधवीनिकुञ्ज तत्कुसुमे कौमोदकीगदांशभूतो अवातरत् ।

तिरुनक्षत्रश्लोकः

तुलाधनिष्ठासंभूतं भूतं कल्लोलमालिनम् । तीरे पुल्लोत्पले मल्लापुर्यामीडे गदांशजम् ॥ पेयाल्वार नाम महदाह्वयमुनिः मयूरपुर्यां नाम अद्यतनमैलापूर नगर्यां श्रीभूतमुनेः अवतारदिनानन्तरदिने शतभिषानक्षत्रयुक्तदशम्यां गुरुवासरे कस्मिंश्चित् कूपे रक्तोत्पले नन्दकाख्यभगवत्खड्गांशों अवततार -

तिरुनक्षत्रश्लोकः

दृष्ट्वा तुष्टाव यो विष्णुं रमया मयिलाधिपम्। कूपे रक्तोत्पले जातं महदाह्वयमाश्रये ॥ तुलाशतभिषग्जातं मयूरपुरि-कैरवात् । महान्तं महदाख्यातं वन्दे श्रीनन्दकां शकम् ॥ भक्तिसारुलनंबडु तिरुमलिशै याल्वारुल-प्रभावः पापचेतन-मनोऽदुर्ग्रहं भक्तिसारमुनिमाश्रयेऽन्वहम् ॥