24

विश्वास-प्रस्तुतिः

अथ निजविभवादजातशत्रौ प्रशमितशत्रुबले निवेश्य भूमिम् ।
परिचरणफलं प्रभुः प्रयच्छन्नमितगुणाभिररंस्त वल्लभाभिः ॥1॥क्रतुविधिनियतोऽप्यकर्मवश्यः परिचितकामरसोऽपि वीतरागः ।

मूलम्

नगरवसतिरप्यशेषवासः कथमिव केन विभुः स वर्णनीयः ॥

2॥

विश्वास-प्रस्तुतिः

अनुगमितमिदं स्वदाररक्षामनघमनोभवतन्त्रमाननीयम् ।
निरुपाधिकरस्य नेतुरासीत् नृपतिमहर्षिभिरञ्चितं चरित्रम् ॥3॥श्रुतिशतमहिते पदे परस्मिन् सितजलधौ रविमण्डले च सिद्धाम् ।

बहुमतिमतिशय्य सा बभासे नरकरिपोरवरोधभूमिरग्र्या ॥

4॥

विश्वास-प्रस्तुतिः

निधिगणमुखवान्तनिष्कराजिः प्रचितगुणा मणिभिस्स्यमन्तकाद्यैः ।
प्रमुदितमहिषीगणेन चक्रे यदुनगरी विभुना निवासभूमिः ॥

5॥

विश्वास-प्रस्तुतिः

अविकलविभवस्य विश्वमूर्तेरधिवसनं यदुवीरराजधान्याम् ।
अनुदिनमनपायिनीं प्रतिष्ठामभिलषतामनुचिन्तनीयमासीत् ॥

6॥

विश्वास-प्रस्तुतिः

सह मुनिभिरुपास्त धर्ममाद्यं व्यवहरणानि ददर्श वेदविद्भिः ।
अरमत च वधूजनैर्यथार्हं बहुतनुरक्रमतो विचित्रशक्तिः ॥

7॥

विश्वास-प्रस्तुतिः

अपि युगपदवाप्तनैकदेहैरुपनतयोगबलैस्स्वकर्मनिघ्नैः ।
धृतबहुवपुषा जगद्विधात्रा जितकरणेन तु भुज्यते तदर्थः ॥

8॥

विश्वास-प्रस्तुतिः

यदुपतिरधिरूढचन्द्रशालः सह दयिताभिरन्यमानसाभिः ।
जलनिधिमभितः प्रदर्शयंस्ताः निजमिव धाम निवेदयांबभूव ॥

9॥

विश्वास-प्रस्तुतिः

निजपदमनपायमाश्रितानां प्रभुरपवर्गदशामिव प्रयच्छन् ।
अमितबहुगुणामनन्यलभ्यामतनुत कामपि संपदं प्रियाणाम् ॥

10॥

विश्वास-प्रस्तुतिः

स्वयमुदवसिते स्ववासधन्ये त्रिषु भुवनेषु समामिवाद्भुतानाम् ।
अतनुत समवायमात्मयोगात् अतिशयिनीमथवा विभुस्समृद्धिम् ॥

11॥

विश्वास-प्रस्तुतिः

विधिसदनमुखेष्वदृष्टपूर्वां प्रथितपरस्परसंमि(म)तिं समृद्धिम् ।
यदुपपतिदयितागृहेषु पश्यन् मुदमभजद्भुवि नारदो मुनीन्द्रः ॥

12॥

विश्वास-प्रस्तुतिः

ललितरुचिषु कल्पवृक्षपोतैः उपवनराजिषु तस्य सञ्चरिष्णोः ।
अदधुरवयवैर्मुदं मुरारेः अमुकृतपुष्पफलादिकैस्तरुण्यः ॥

13॥

विश्वास-प्रस्तुतिः

अधिगतकुसुमावचायलीलः प्रमदवनानि विभूषयन् स्वधाम्ना ।
प्रजनितमदनो मनस्विनीभिः गुणसुरभिः सुरभिः स्वयं स मेने ॥

14॥

विश्वास-प्रस्तुतिः

अमृतमयपयः परिप्लुतानां विषमगुणेषु विहारवापिकानाम् ।
कमलकुवलायादिषु प्रियाणां मुखनयनस्तितकान्तिमभ्यनन्दत् ॥

16॥

विश्वास-प्रस्तुतिः

अवितथवमहिमा निजप्रसादादनघमनोरथतोषितासु तासु ।
स्वपरिजनतया सुरैर्नियुक्ता निरदिशदप्सपरो निदेशभाजः ॥

17॥

विश्वास-प्रस्तुतिः

बहिरुपनगरं बलानि दृष्ट्वा सह यदुभिस्समये निवर्तमानम् ।
ददृशुरधिगवाक्षमेकचित्ता रथतुरगादिषु रामपश्चिमं तम् ॥

18॥

विश्वास-प्रस्तुतिः

विधिवदनुविधाय देवयात्रां प्रतिपुरवीथिपरिक्रमेव दृश्यम् ।
पतिमनुददृशुस्तमेव दूरादचरमदेवमनन्यदेवतास्ताः ॥

19॥

विश्वास-प्रस्तुतिः

बहुविधमुपहारजातमग्र्यं सुरपतिभिः स्वयमाहृतं मुकुन्दः ।
अपि गगनचरैरदृष्टपूर्वं सममवरोधजनस्य संविभेजे ॥

20॥

विश्वास-प्रस्तुतिः

उपचितशिखरे वदान्यरत्नैः उचितगुहाश्रितहंसतूलतल्पे ।
बहुरिव स बभौ विहारशैले प्रतिमणिभित्तिविभक्तचारुबिम्बः ॥

21॥

विश्वास-प्रस्तुतिः

युगपदखिलमादरेण साक्षात् युवतिजनस्य निदर्शयन्मुकुन्दः ।
असकृदुपगमय्य चित्रशालामनघसमाधिदशामिवाततान ॥

22॥

विश्वास-प्रस्तुतिः

अनितरमनसां स्ववल्लभानां नरकजिता निरपायवैभवेन ।
भवभयविनिवारिणी स्वभक्तिः ललितविहारमुखेण लम्भिताऽभूत् ॥

23॥

विश्वास-प्रस्तुतिः

प्रमुदितविबुधाहृतप्रकॢप्तः कनकसरोजवनैरलंकृतानाम् ।
अतिशयमवरोधदीर्घिकाणामधिसुरसिन्धुसमीक्षितं निदध्यौ ॥

24॥

विश्वास-प्रस्तुतिः

विहरति वनिताजने तदीयैः अपलपितामवलोकनप्रभावैः ।
पुनरपि हरिनीलरत्नभासा दधुरसितोत्पलसंपदं सरस्यः ॥

25॥

विश्वास-प्रस्तुतिः

स्थिरधृतिमधिरोप्य रत्नडोलां गुणघटितामिव माधवः स्वमायाम् ।
अगमयत गतागतान्यभीक्ष्णं सुकृतजुषः स्वयमङ्गनाः स्वतन्त्रः ॥

26॥

विश्वास-प्रस्तुतिः

रुचिरकनकश्रृङ्गवक्त्रवान्तैः प्रतितनु कुङ्कुमवारिभिः प्रसिञ्चन् ।
अजनयदनुरागयोगमन्तः बहिरपि तोयविहारतो वधूनाम् ॥

27॥

विश्वास-प्रस्तुतिः

नवमणिपरिकल्पितेषु नाथः कमलवनान्तरकेलिमन्दिरेषु ।
श्रिय इव सुदृशो गृहीतपद्मा हृदि निदधे पुरुषोत्तमः प्रतीतः ॥

28॥

विश्वास-प्रस्तुतिः

दिशि दिशि मकरन्दवर्षदिग्धां विविधपरागविभक्तचूर्णचित्राम् ।
भुवमभजत साकमङ्गनाभिः पु(चु)लकिदृष्टिषु पुष्पमण्डलेषु ॥

29॥

विश्वास-प्रस्तुतिः

अनुविहितमहोत्सवो यथार्हं वितरणतोषितवन्दिबन्धुवर्गः ।
परिणयनविधिं लतावधूनामतनुत चूतवरैः प्रियार्पितानाम् ॥

30॥

विश्वास-प्रस्तुतिः

सुतबहुमतिभागिनां शुकानामुपहृतदिव्यरसोपभोगभाजम् ।
श्रुतिमधुरगिरां स्वशिक्षितानामतिशयसिद्धिमदर्शयत्प्रियाभ्यः ॥

31॥

विश्वास-प्रस्तुतिः

अनुकृतनिजशक्तिभिः प्रियाभिः सह गुणबन्धविचित्रसन्निवेशैः ।
मुहुरिह निपतद्भिरुत्पतद्भिः करणवरैरिव कन्दकैरदीव्यत् ॥

32॥

विश्वास-प्रस्तुतिः

निजयुवतिषु यद्यपि त्रिधामा नयनपिधानविहारमाजहार ।
न तदनुचरितं तथापि ताभिः त्रिभुवनदृष्टिनिरोधशङ्किनीभिः ॥

33॥

विश्वास-प्रस्तुतिः

श्रुतिविहितमवन्ध्ययन् स्वधर्मं प्रतिदिनमन्यपरो यदा बभूव ।
तदुपचरणस्तदाऽपि तासां समजनयत् प्रियभोगमेव कालः ॥

34॥

विश्वास-प्रस्तुतिः

मणिपरुवकमञ्जुलस्तनीभिः मधुसमयापगमे वरङ्गनाभिः ।
सितमणिविहितान् स यन्त्रधाराव्यतिकरशीतलितानभुङ्क्त सौधान् ॥

35॥

विश्वास-प्रस्तुतिः

स्फटिकसदनदीप्तिदत्तहस्तां मुरभिदसेवत सादरं सदारः ।
अपजलदनिशोदितस्य शोभां हलधरकान्तिजुषस्तुषारभासः ॥

36॥

विश्वास-प्रस्तुतिः

अगरुभिरसितैरनूरुगौरैः अपघुसृणैरपि निर्विवेश नाथः ।
हिमऋतुमवरोधसुन्दरीणां स्तनपरिरम्भसमर्पितैर्विलिप्तः ॥37॥अनलशकटिकाभिरप्यजय्यं शिशिरसमीरणमञ्जसा जिगाय ।

अविरलपरिरम्भलम्भनीयैः स्तनकलशोष्मभिरात्मवल्लभानाम् ॥

38॥

विश्वास-प्रस्तुतिः

उपनिषदुपदेशसाभिलाषैरुपचरितो मुनिभिस्सनन्दनाद्यैः ।
रतिपतिसमयस्थितो वधूनां ललितकलागमदेशिको बभूव ॥

39॥

विश्वास-प्रस्तुतिः

कलमधुरगिरां कलाप्रसङ्गादतिमदनोपनिषत्परं रहस्यम् ।
प्रियहितरुचिराक्षरं प्रियाणां श्रुतिषु चकार शिखामणिः श्रुतीनाम् ॥

40॥

विश्वास-प्रस्तुतिः

निरुपधिकनिजप्रभावगर्भं परिषदि विश्वपतिर्निजप्रियाणाम् (याः) ।
किमपि निशमयांबभूव गीतं प्रमुदितकिन्नरदम्पतिप्रयुक्तम् ॥

41॥

विश्वास-प्रस्तुतिः

मृदुकरतललीलया मृदङ्गनामसमयनर्तितनीलकण्ठयूथान् ।
ध्वनयति दयिते विदूरभूमेः श्रियमिव ताः पुलकोद्गमैरपुष्यन् ॥

42॥

विश्वास-प्रस्तुतिः

करकमलपरिग्रहेण धन्यां वरतनुसंसदि वादयन्विपञ्चीम् ।
अविदितगमनाय गायकैः स्वैः उपरतगीतिभिरुन्मुखैः सिषेवे ॥

43॥

विश्वास-प्रस्तुतिः

श्रुतिमधुसुभगैरदीनहृद्यैः श्रुतघननादशिखण्डिनीगणश्रीः ।
मधुरिपुवनितागणः समाजे ध्वनिभिरमाद्यत दिव्यदुन्दुभीनाम् ॥

44॥

विश्वास-प्रस्तुतिः

सललितकरणाङ्गहारहृद्यं सह दयिताभिरुदारदिव्यनाट्यम् ।
अनुदिनमनिमेषदर्शनीयं जितमधुरप्सरसां ददर्श नृत्यम् ॥

45॥

विश्वास-प्रस्तुतिः

अभिनवमभिनन्द्य नर्तकीनां स्वयमुपदिष्टमलङ्घितोपदेशम् ।
पुनरपि मुदितस्तमेव युञ्जन् अविदितपूर्वमिवादरादपश्यत् ॥

46॥

विश्वास-प्रस्तुतिः

प्रतियुवतिगृहीतनैकरूपः प्रणयवतीभिरनन्य उत्युपेतः ।
अपहृतमणिपादुकः कदाचित् पदमपि गन्तुमशक्नुवन्निवासीत् ॥

47॥

विश्वास-प्रस्तुतिः

अनवहिततया सखीसमक्षं द्रुतमुपहूय समाख्ययेतरस्याः ।
रुषितमनसमद्भुतैर्विलासैरिदमपि नाम तवेत्युवाच मुग्धाम् ॥

48॥

विश्वास-प्रस्तुतिः

समुचितदिनलङ्घनं सपत्न्याः परिपणितं स्वयमभ्युपेत्य नाथः ।
स्मितमधुरमुखो जितः कयाचिद्विवश इवाक्षविहारतो बभूव ॥

49॥

विश्वास-प्रस्तुतिः

अनुगतनिजबिम्बमेनमन्या मणिमुकुरस्थमवेक्ष्य मन्दहासम् ।
न खलु तदवलोकनाय पश्चात् व्यतनुत साचिविधिं तदेकतृप्ता ॥

50॥

विश्वास-प्रस्तुतिः

पुलकितकुचकुड्मले परस्याः कथमपि साध्वसकम्पिताग्रहस्तः ।
स्थिरचरजगदेकदिव्यशिल्पी विषमतमं विलिलेख पत्रभङ्गम् ॥

51॥

विश्वास-प्रस्तुतिः

मृदुसुरभिसुजातबन्धुराभिः प्रणिदधदग्रनिबद्धपङ्कजाभिः ।
मुहुरसितदृशां स्वकण्ठयोग्यां भुजलतिकाममिमीत मालिकाभिः ॥

52॥

विश्वास-प्रस्तुतिः

अभजत स च ताश्च दूतिकानाममृतपरिप्लुतभेषजायमानैः ।
प्रतिदिनमिदमादिमं प्रमोदं प्रणयविरोधसितासितैर्वचोभिः ॥

53॥

विश्वास-प्रस्तुतिः

निजपदपरिचारकाङ्क्षिणीभिः कतिषु भवेषु समर्चिताङ्घ्रिपद्मः ।
प्रतिविधिमभजत्प्रसाधिकावत्प्रियपरिकर्मविधानतः स तासाम् ॥

54॥

विश्वास-प्रस्तुतिः

निजसुदयसंभवैर्निशायां प्रणयपयोनिधिवीचिकाविसर्पैः ।
प्रणतिभिरिव विभ्रमैः प्रियाणां बहुमतिभेदमवाप यादवेन्द्रः ॥

55॥

विश्वास-प्रस्तुतिः

शरदुपगमशोधिता इवापः तुहिनकरोदयनिर्मला इावाशाः ।
मुरभिदुपगमप्रशान्तखेदाः प्रतिययुरुन्मनसस्तमायताक्ष्यः ॥

56॥

विश्वास-प्रस्तुतिः

अमृतमयमिवोदधिं तमुच्चैः अनुसखि लोचनशुक्तिभिः पिबन्त्यः ।
अवशनियतचित्तवृत्तिमेकामदधुरदृष्टपरस्परामवस्थाम् ॥

57॥

विश्वास-प्रस्तुतिः

स्मरजनकतनुः स्वदर्शिनीनां ननु विरहः सुदृशां निमेष एव ।
इति किल विगणय्य विश्वकर्ता नियतमकल्पयदप्सरस्त्वामासाम् ॥

58॥

विश्वास-प्रस्तुतिः

अनुचरबहुमानमाप्तुकामैरवसरविद्भिरनुस्मृतात्मरक्षैः ।
अनुदिनमुपनीतमादितेयैः अमृतमपाययत प्रियाः प्रतीतः ॥

59॥

विश्वास-प्रस्तुतिः

प्रियवचनशतैरुदारवादी रहसि मनःश्रुतिरञ्जकैर्विचित्रैः ।
मुखकमलमधूपमैः प्रकामं मदमुदिता इव मानिमीरकार्षीत् ॥

60॥

विश्वास-प्रस्तुतिः

अतिशयितगुणैः प्रियोपभोगाद्वसनविभूषणमालिकादिभिस्ताम्(ः) ।
मुदमधिकतमां दधुस्तरुण्यः प्रणयरसो हि रसप्रकर्षहेतुः ॥

61॥

विश्वास-प्रस्तुतिः

अभिलपनमनस्क्रियातिपातिन्यनुबुभुजे यदुपुङ्गत्वेन तासाम् ।
अतिशयमितरेतरं प्रयच्छन्त्यभिनवयौवनसम्पदप्रकम्प्या ॥

62॥

विश्वास-प्रस्तुतिः

अजनिषत कुतो नु भागधेयात् त्रिभुवनमङ्गलदीपिकाः शुभाङ्ग्यः ।
यदुपतिसहधर्मचारिणीभिः सुखमनघं भुवि याभिरन्वभावि ॥

63॥

विश्वास-प्रस्तुतिः

अधिभुजगपति श्रियोपभुक्तं युगपरिपाकविहारिणं युवानम् ।
नरपतिबहुमानतो नताङ्ग्यः सुलभमिवान्वभवन् स्वतल्पभाजम् ॥

64॥

विश्वास-प्रस्तुतिः

शकयुवतिकपोलपाण्डुराभैः शशिशकलैरिव नागवल्लिपत्रैः ।
स्मरसुभटयशोनिभैरनन्दन् युवतिजनौघभृतैस्तदर्पितैस्ताः ॥

65॥

विश्वास-प्रस्तुतिः

जगदुपजननादिजातभूम्नः क इव वधूजनमोहनो विहारः ।
कथमिव स कुतश्च कीर्तनीयः प्रथितमनोभवतन्त्रपारदऋश्वा ॥

66॥

विश्वास-प्रस्तुतिः

युवतिभिरनुभूषितस्स ताभिः यदुपतिरद्भुतरूपवेषशीलः ।
निरुपधिकरसामृतौघसिन्धुः सततमपूर्वमपूर्वमन्वभावि ॥

67॥

विश्वास-प्रस्तुतिः

हरिपरिचरणेन ताषितानां हरिणदृशां विभवं विभावयन्तः ।
अपजहसुरवाप्तसंयमाः स्वान् अपरिमितानणिमादिसिद्धिभेदान् ॥

68॥

विश्वास-प्रस्तुतिः

सरित इव मृगीदृशस्तमेकं महितगुणौघमहोदधिं भजन्त्यः ।
अबिभरुरनपायमैकरस्यं मुनिगणितश्च स एव मुक्तभोगः ॥

69॥

विश्वास-प्रस्तुतिः

अनुभवरसतो जगत्प्रसूतेरपचितसुप्तिसुषुप्तिसंभवास्ताः ।
वितमसि विषये स्थिता इवासन् विरतिविहीनविहारजागरेण ॥

70॥

विश्वास-प्रस्तुतिः

प्रतिदिनमितरेतरानुगुण्यात् प्रचितमयोगवियोगसंप्रयोगैः ।
रसमधिकमवापुरायताक्ष्यः प्रणयिनि शार्ङ्गिणि भागधेयभूम्ना ॥

71॥

विश्वास-प्रस्तुतिः

रविरुचिरमणिप्रदीपकेषु स्फुरदसितागरुधूमधूपितेषु ।
सह युवतिजनैः क्षणोपमेयामनयत वासगृहेषु वासतेयीम् ॥

72॥

विश्वास-प्रस्तुतिः

पुलकितवपुषां सवेपथूनां घनरसभावितघर्मबिन्दुभाजाम् ।
श्लथमिव सुदृशाममुष्टिमेयं चिकुरमगुम्भयदद्भुतं चिरेण ॥

73॥

विश्वास-प्रस्तुतिः

स्ववधूरवधूतभौमभावाः स्वदमानाः स्वयमात्मनैव तृप्तः ।
अनुभूय न तृप्यति स्म नाथस्तमपि प्रेमविलीनचेतसस्ताः ॥

74॥

विश्वास-प्रस्तुतिः

चपलप्रतिकूलतीक्ष्णरूक्ष्णाः स्त्रिय इत्यागमिकैर्निदर्शितार्थः ।
प्रथितो यदुवीरवल्लभाभिः परिवादोऽयमपाकृतः पृथिव्याम् ॥

75॥

विश्वास-प्रस्तुतिः

शरणागतसर्वपापमोक्षे कृतसङ्कल्पमिहानुभूय कृष्णम् ।
परितोऽपि तथाविधानुभूतिः स्मरलब्धा प्रतिलम्भिता प्रियाभिः ॥

76॥

विश्वास-प्रस्तुतिः

अनघामनपायभक्तिरूपामनुभूतिं यदुवीरवल्लभानाम् ।
अनुकर्तुमपि प्रवर्तमानैरवशैरेव समाहितैरभावि ॥

77॥

विश्वास-प्रस्तुतिः

उदधौ बहवो रमा बभूवुर्यदि वा सैव गृहीतनैकरूपा ।
इति नाम विमर्शमादधाना दयिताः प्रेक्ष्य ननन्द देववन्द्यः ॥

78॥

विश्वास-प्रस्तुतिः

अजितस्य विशालतुङ्गभूम्ना भुजमध्येन पयोधरैश्च तासाम् ।
इतरेतरसंवृतत्वमासीत् परिरम्भे परितो मिथस्समत्वम् ॥

79॥

विश्वास-प्रस्तुतिः

परिहासकुतूहली प्रियाणां विहितद्यूतविहारकौतुकानाम् ।
उभयत्र जयं जगाद पृष्टः कितवः स्थेयपदे निवेशितस्सन् ॥

80॥

विश्वास-प्रस्तुतिः

स्वयमादिकविः प्रकल्पिताभिः प्रणयोल्लङ्घनरोषमुत्तितीर्षुः ।
प्रहसन् बहुशः प्रहेलिकाभिः मतिमौढ्यं विदधे मनस्विनीनाम् ॥

81॥

विश्वास-प्रस्तुतिः

एकीभवद्भिरयुतैरपि मन्मथानां यत्कान्तिसिन्धुपृषतानुकृतिर्न शक्या ।
संप्रेक्ष्य तं यदुपतिं यमिनोऽपि नूनं स्त्रीभावमेव मनसा बिभरांबभूवुः ॥

82॥

विश्वास-प्रस्तुतिः

कृष्णानुभूतिविभवेन कृतार्थभावाः तद्वल्लभास्त्रिदशमातृतया चकासुः ।
यत्पादपङ्कजपरागजुषां शशंसुः जन्माद्भुतं जगति गुल्मलतादिकानाम् ॥83॥श्यामो बभूव किमसौ सुदृशां कटाक्षैः श्यामास्तदन्वयवशादथ वा तरुण्यः ।

ताभिः किमस्य ववृधे महिमा महीयान् तासामनेन यदि वेति बुधैश्शशङ्के ॥

84॥

विश्वास-प्रस्तुतिः

अग्राम्यमेव परिहासरसं वितेन नाश्लीलमाह न मृषा न च मर्मभेदि ।
धर्माविरुद्धविभवोचितकामकामः स्त्रीणां वरेण बुभुजे वरजो वरस्त्रीः ॥

85॥

विश्वास-प्रस्तुतिः

ताराभिरिन्दुरिव भानुरिवप्रभाभिः युक्तो वशाभिरिव वारणयूथनाथः ।
विद्याभिरात्मविदिवाभ्यधिकं विरेजे योगेश्वरो युवतिभिस्सह मोदमानः ॥

86॥

विश्वास-प्रस्तुतिः

पायंपायं प्रेयसः कान्तिमाध्वीं माद्यन्तीभिः लञ्जुलालापिनीभिः ।
प्रत्योकोक्तिश्लाघनप्रीणिताभिः प्रायो भोगाः पर्यवाह्यन्त ताभिः ॥

87॥

विश्वास-प्रस्तुतिः

करणव्यापायसमये पुनर्भवं विनिवर्त्य शाश्वतसुखं प्रदास्यता ।
स्वपदानुभूतिरुरपादि तादृशी सुदृशां स्वसंमतिभृता गदाभृता ॥

88॥

विश्वास-प्रस्तुतिः

तद्गतेन मनसा विवशानां तन्मयीकृतधियामिव तासाम् ।
अप्रलुप्तरहसामभजेतां स्वप्नजागरदशे न विशेषम् ॥

89॥

विश्वास-प्रस्तुतिः

श्रियमनपायिनीं वसुमतीमिव दत्ताकारां सह महिषीगणेन विभुरेक इवानुभवन् ।
यदुभिरनन्तार्क्ष्यपृतनेशनिभैस्सहितो निजपदमस्मरन्निह निवासमरोचयत ॥

90॥

विश्वास-प्रस्तुतिः

उपचितचित्रधर्ममुशान्तविपक्षभयं मुदितवधूजनं स मुखरं निगमध्वनिभिः ।
बहुविधरत्नशालि बहुमान्यसमग्रगुणं वलयसमं भुजस्य वसुधावलयं बभुजे ॥

91॥

विश्वास-प्रस्तुतिः

अनितरजनलभ्यां प्रीतमासेदुषीभिः सुचिरमनुबभूवे स्वर्गमोक्षीतिशायी ।
निरुपधिकरसाब्धिं निर्विशन्तीभिराद्यं कलयुवतिभिरित्थं कोऽपि श्रृङ्गारभूमा ॥

92॥

विश्वास-प्रस्तुतिः

सहजबलसमेतः शत्रुपूर्वैरजेय्यः समुदितविषमास्त्रस्तादृशानन्दहेतुः ।
अविदितरचनेन स्वेन पार्थाय गीतः स्वयमजनि स कामः कोऽपि धर्माविरुद्धः ॥

93॥

विश्वास-प्रस्तुतिः

स्वपदनलिभाजां स्वर्गमोक्षौ यतार्हं करणविगमकाले कल्पयिष्यन् क्रमेण ।
मधुरिपुरिह नूनं मन्दपुण्यैरलभ्यौ समतनुत विहारैस्तावुभौ संप्रयुक्तौ ॥

94॥

विश्वास-प्रस्तुतिः

नारीदृष्ट्या नियमितधियो नाकनाथेश्वरत्वं संभोगे च प्रणवमनसः शाश्वतं ब्रह्मचर्यम् ।
अत्रैकस्यां पुरि निवसतः सर्वलोकाधिपत्वं निध्यायन्तस्त्वरितमतरन् दुस्तरां तस्य मायाम् ॥

95॥

विश्वास-प्रस्तुतिः

आसीदेवं परिणतमधि(तिमति)द्वारकं द्वापरान्ते व्यासप्रख्याविभजनभवद्वेदशाखोपमानम् ।
चिन्तातीतं यदुपतिमनः प्रीतिचिन्तामणीनामेकं तासां भवरसभुजां भाग्यमेकातपत्रम् ॥

96॥

विश्वास-प्रस्तुतिः

गुरुभिरनघचित्तैराहितोदारभूमा सुरभितरसमेतत् सूनृतं वेङ्कटेशः ।
व्यतनुत यदुवीरप्रीतिमिच्छन् प्रभूतां कविकथकमृगेन्द्रः क्षेमदं काव्यरत्नम् ॥97॥

॥ इति श्रीकवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेदान्ताचार्यस्य कृतिषु