विश्वास-प्रस्तुतिः
वासुदेव इति नाम दधानः पौण्ड्रकस्तदनु भूरिमदान्धः।
मानुषत्वकवचान्तरितेन स्पर्धते स्म हरिणा हतचित्तः॥
मूलम्

हेतिपञ्चकमधारयत श्रीवत्सकौस्तुभमुखानि च मूढः।
ऐश्वराणि चरितानि च पूर्वाणयात्मनः स्वयमजूघुषदाप्तैः॥

इन्द्रजालकुहनादिषु दाक्ष्यात् ईश एष इति मोहितलोकः।
अध्यशेत भुजगेश्वरशय्यां आरुरोह विहगेन्द्रविवर्तम् ॥

अन्वहं च महतीं वनमालां माल्यकृद्भिरुपकल्प्य बभार।
नामधेयमदिशत् सचिवानां नाकनायकविशेषनिरूढम् ॥

बद्धकृत्रिमभुजान्तरयुग्मं शस्यमानमनुजीविजनेन ।
विश्वकर्तुरवतार इति स्वं बह्वमंस्त बधिरे निगमेषु॥

इत्थमीश्वरविडम्बनरूपं नाटकीयमनुरुध्य विहारम् ।
शोच्यतामपि परावरविद्धिः हास्यतामपि जगाम जगद्भिः॥

मस्तकस्थितदुरत्ययमृत्योः तस्य दूत उपसृत्य जगाद ।
कृत्यशेषविनिवेशितचित्तं निर्भयो नृपतिसंसदि नाथम् ॥

कृष्णकृष्ण गदतो गिरमर्थ्यां संशृणुष्व महतीमिह मत्तः।
अप्रमत्तमतिभिस्सह मित्त्रैः आप्तवाक्यमवधीर्य न सिद्धिः॥

अस्ति कश्चिदवधारितभूमा पूरुषः श्रुतिगणेषु पुराणः।
स क्षितिं परिगृहीतविहारः पौण्ड्रकत्वमधिगम्य भुनक्ति॥

तस्य नित्यनिरुपाधिकभूम्नो विश्वभोक्तुरधिगम्य तितिक्षाम् ।
भुज्यते नियतकर्मविपाकैः युष्मदादिभिरिला बहुभागा॥

अर्थतत्त्वमिदमश्रुतपूर्वं शृण्वतात्र भवता भवितव्यम् ।
निश्चलीकृतहिताहितसीम्ना जिष्णुना यदुकुलस्य विभूत्यै॥

आदिशत्यखिललोकनियन्ता त्वामसौ भजनसौ हृदनिघ्नः।
ईशितव्यगणनालिखितस्त्वं मा कृता वितथमीश्वरमानम् ॥

बाह्यवर्त्मनि परावरतत्त्व व्यत्ययेन विनिवृत्तसतत्वे ।
चित्तवृत्तिमधिरोप्य विमूढाः श्रेयसो हि बहिरेव भवन्ति॥

ईश्वरस्त्वमसि चेत् कुत एवं न त्वदग्रज इति प्रमितिः स्यात्।
द्वौ युवां परम इत्यपि दुःस्थं कस्ततो विषम एव न चान्यः॥

अर्थवादकुहनाभिरपि स्वान् ईश्वान् विगणयन्ति सुरेन्द्राः।
निष्प्रमाणजनुषो जनवादात् कःस्विदीश इति विश्वसिति स्वम्॥

गोपिकाभिरपि कर्मभिरास्तां बद्ध एव यदि मुक्तिविधाता ।
अद्भुतस्थितिरनान्तरबाह्यः सप्तमस्तु समयोयमपूर्वः॥

इष्ट एव तु मदीश्वरभावः त्वन्मुखैर्न खलु शक्यनिरोधः।
मत्सुखादिषु कथं विशयानैः मत्परत्वमपदं प्रतिषेध्यम् ॥

नामधेयमनपायि मदीयं त्यज्यतां प्रथय दासतया वा ।
चिह्न धारणमनेन गतार्थं कल्पनेन कथमीश्वरभावः॥

तादधीन्यनियमं यदि बुद्ध्वा सोहमित्यनुबुभूषसि तत् स्यात् ।
अन्यथा तु निगृहीतिरलङ्घ्या राजभावतृषितैरिव भृत्यैः॥

पाप्मनां तमसि पातयुतृणां आत्मचौर्यमधिराजपदस्थम् ।
चोदितेन नियतोपि हृतात्मा चोरदण्डमवशादुपयाति ॥

अभ्युपेतबडिशामिषनीतिं प्राप्तुमिच्छुरधिकारमयोग्यम् ।
इष्टमर्थमनवाप्य वराकः प्रत्यवैति सहसा परतन्त्रः॥

नापराध्यति क एव नियत्या पण्डितस्तु विनिवृत्य समिन्धे ।
अस्ति चाद्य शरणागतिरर्थ्या मत्परस्य तव जीवितुमिच्छोः॥

इत्युदीरितवति प्रणिधौ तं प्रत्युवाच विहसन् प्रभुराद्यः।
पथ्यमद्य वचनं तव मन्ये यद्ब्रवीषि चिरलिप्सितमेतत् ॥

उग्रसेनभृतका वयमेते नेशितार इति विभ्रमवन्तः।
सम्प्रति त्वदुपदेशमहिम्ना भावयेमहि तवेश्वरभावम् ॥

त्वय्यनीश्वरमति न च कुर्मः त्वं परोसि नियमेन परस्मात् ।
त्वां दिदृक्षव इमे वयमाशु त्वत्पदं गतभियः प्रतियामः॥

त्वादृशं प्रमितिमत्तमदृष्ट्वा त्वय्यनादरवतामतिलोके ।
यामिमां वदसि वाचमनूचीं भागधेयमिव पक्वमिदं नः॥

द्रक्ष्यते शरणमेत्य विभुस्ते क्षेप्यते च न मयैव न चक्रम् ।
गच्छ शीघ्रमभिधत्स्व तमीशं त्वामुपैति कुकुरध्वजिनीति॥

आत्तहेतिरपसर्पनिवृत्तौ चिन्तिताप्तमधिरुह्य सुपर्णम् ।
प्रास्थित प्रतिबलावसथाय प्राणितत्रिदशभूतिरनन्तः॥

साहसैकरसिकेन ततोसौ पौण्ड्रकेण युयुधे यदुवीरः।
तत्सखित्वमुपगम्य च पार्ष्णि गृह्णता सपदि काशिनृपेण॥

तत्र वैरिपृतने समकालं पूर्वपश्चिमतया प्रपतन्त्यौ ।
भावयन्नुभयतोमुखभावं प्रत्यविध्यदधिसायकधन्वा ॥

वैरिसैन्यविततेषु समन्तात् दिङ्मुखेषु सममेव पृषत्कैः।
तस्य दीप्तरुचिभिर्विनिपेते मध्यगस्य किरणैरिव पूष्णः॥

विद्विषौ युगपदुत्थितवन्तौ सागराविव विलङ्घितवेलौ।
रूपिणी इव रजस्तमसी द्वे सत्त्ववृत्तिरनघः स जघान ॥

अस्तमेवमवयद् यदुभास्वान् तावुभौ जगदुपद्रवहेतू ।
पूर्वतश्य परतश्य भवन्तौ दुर्ग्रहाविव दुरासददीप्तिः॥

तस्य तावुभयतो निपतन्तौ भग्नबाहुविटपायुधपुष्पौ।
जग्मतुः पृथुकभावविहारक्षिप्यमाणयमलार्जुनकक्ष्याम् ॥

नामचिह्नवसनाभरणाद्यैः नाथसम्पदनुकारनिरूढैः।
पौण्ड्रकस्थितिमवाप्य सृगालोप्यन्वभूत् किल गतिं च तदीयाम् ॥

विद्विषां विहितवीरगतीनां द्वारकोपगमितैर्द्विरदाद्यैः।
कौरवाध्युषितभागविभक्तेः आहितप्रतिभरा क्षितिरासीत् ॥

पातितेषु विमतेष्विति नाम प्राप्य यादवपुरं परमेष्ठी।
प्रेयसीभिरविभक्तरसाभिर्वीतरागसुभगो विजहार॥

जीवयुक्तमितरच्च विचित्रं द्यूतमर्पितपणं विदधानः।
भाविभारतमहाहवसिद्धेः सूचनं वितनुते स्म शुभंयुः॥

तोषितत्रिनयनस्य नृशंसः काशिराजतनयस्य पुरोधाः।
कल्पिताहुतिरजीजनदुग्रां कालवह्निपदवीमिव कृत्याम् ॥

साभिपत्य यदुवीरसकाशं हेतिराजविभवेन हताशा।
जन्मधामनि निजे नियमस्थं जञ्जपूकमभिसृत्य जघान ॥

निर्ददाह मगरीमथ काशीं विस्फुलिङ्ग इव माधवदीप्तेः।
यादवग्रसनकौतुकवत्या कृत्यया सह रथाङ्गकृशानुः॥

स्यन्दनद्विरदवाजिपदात्प्राज्यसौधपरिपाटिसमृद्ध्या।
चक्रवह्निविभवेन तदाभूत् चन्द्रशेखरविलेपनभूमा॥

क्षेत्रमेतदविमुक्तसमाख्यं मुक्तियोग्यमुपसृष्टमयोग्यैः।
इत्यवेक्ष्य दहनेन तदर्हां संस्क्रियामिव चकार सुदृष्टिः॥

अप्रशान्तरुषमद्भुतदीप्तं दग्धवैरिपुरमायुधराजम् ।
निर्जराः प्रतिनिशामयमानाः बिभ्यति स्म जगदुश्च जयोक्तिम् ॥

दैवतैरपि चतुर्मुखमुख्यैः दत्तसत्कृतिरसौ जितकाशी ।
इष्टनिर्वहणनिर्वृतचित्तं विष्टरश्रवसमभ्युपपेदे॥

आसुरप्रकृतिकेषु निरस्तेष्वेवमेभिरनुपालितसख्यः।
वानरो भुजबलेन बबाधे दुर्मतिर्जगदिदं द्विविदाख्यः॥

भूधरान् उदहरद् भुजशाली प्रक्षिपंश्च नगराणि ममर्द।
क्षोभयन् जलनिधीन् अनुवेलं प्लावयंश्च वसुधां प्रजहर्ष ॥

अन्यवीररहितामिव मत्वा वारिराशिरशनामवलिम्पन् ।
आत्मनः सदृशमाद्रियतैकं धेनुकप्रमथनेन नियुद्धम् ॥

एकदा हलधरस्य विहारे संपतन् अमितचापलचेष्टः।
द्वारकोपवनपादपभेदी विश्वतः किलकिलां विततान ॥

तालकेतुयुवतीर्विहरन्तीः त्रालसयन् मुखविकारविशेषैः।
क्रीडनोपकरणानि विभिन्दन् क्ष्वेडितानि विदधे विधिलूनः॥

तं प्रवृत्तकपित्यमदुरात् बाधितप्रतिबलो बलदेवः।
जङ्गमस्फटिकभूधरकल्पो रुक्मशैलरुचिरं निरुरोध॥

वानरेण सुपहृदा दनुजानां यातुधानसमरप्रथितेन ।
प्रेषितां द्रुमशिलोच्चयवृष्टिं निष्पिपेष मुसलेन हलास्त्रः॥

आपतन् अपसरन्नपि भेजे ग्राह्यतामिव च दुर्ग्रहतां च ।
अग्रतोभवदलक्ष्यत पश्चात् अप्रतर्क्यरभसो हरिवीरः॥

तौपरस्परगवेषितरन्ध्रौ कामपालकपिसैनिकपालौ।
याजितोद्धतकरौ युयुधाते दर्पतारुणदिशागजसत्तौ ॥

तं प्रलम्बदमनः प्लवगेन्द्रं विप्लुतं पुनपि प्लवमानम् ।
कालपाशनिगृहीतमरातिं कल्पमानमभवाय विवेद ॥

सव्यदक्षिणपरिक्रमणाभ्यां द्रागलातमयचक्रनिरीक्ष्यः।
आततान हलपाणिमदूरादग्निसालवलयस्थमिवारिः॥

तं गृहीतगरुडानिलवेगं सर्वतो युगपदेव समीक्ष्य ।
लाङ्गली जलधिलङ्घनदक्षं लाघवेन लघयन् विचचार॥

अन्धकारमिव तं प्रतिरुन्धन् अर्यमेव मुसली निजदीप्त्या।
दिङ्मुखान्यकलुषाणि वितन्वन् विश्वदृष्टिविभवाय बभूव॥

घर्णिताकुलितकौरवधाम्ना लाङ्गलेन ललितोद्धतलीलः।
यूथनाथमवरुध्य कपीनां मौलिघातमवधीन्मुसलेन ॥

वज्रपाणिमहिताद्भुतभूम्ना वानरेण निहतेन स रामः।
व्याचकार विनताभयदाता पुर्वरामचरितं पुनरुक्तम् ॥

धर्ममर्मभिदि दैवविपाकात् उद्धृते द्विविदनामनि शल्ये ।
रेवतीरमणरेचितखेदा नाकिनश्च मुनयश्च ननन्दुः॥

त्रासितेषु विबुधेषु तदग्रे पीतवन्तममृतं बलभद्रः।
प्रापयत् प्लवगमुख्यमितीव स्वर्गिभिस्सह सुधाशनभावम् ॥

भूतले हलधराहितगुप्तौ सारभूतसुभटग्रहणेन ।
उञ्छवृत्तिरुदरम्भरिरासीत् तादृशेन तपसैव कृतान्तः॥

एवमीषदवरोपितभारां भावयन् भुवमतोषयदार्यान् ।
पूर्वदेवजनितान् अभिनिघ्नन् पुर्वजेन सहितो यदुनाथः॥

भार्गवादिभिरबाधितभूम्नां निर्ममेष्वपि निकारपराणाम् ।
सौभहंसडिभिकप्रभृतीनां सूदनैरलघयच्च धरित्रीम् ॥

उग्रसेनविनिवेशितराज्यां उन्नमय्य यदुवंशविभूतिम् ।
तस्य दिग्विजयकोतुकमाद्यः सप्तलोकतिलको विततान ॥

तन्नियोगमथ शेखरयित्वा स्वप्रशासनवशंवदविश्वः।
यावदुक्तनियताखिलवृत्तीन् यादवान् उपनिनाय सुधर्माम् ॥

आत्मकल्पितधृतेरथ राज्ञः सन्निधौ सचिवपीठनिविष्टः।
मन्त्रणाय महतो यदुमुख्यान् सम्मुखान् प्रतिननन्द मुकुन्दः॥

अभजत नरपालमुग्रसेनं बहुमनुते स्म यदूंस्तथापि तुङ्गः।
क्वचिदभिलपने विभक्तिशक्त्या स्वगुणविभूतिगुणीभवन्निवैकः॥

अधिगुणहरिवंशवीरसङ्गात् अपचितवासवसङ्गमाभिलाषा ।
अतिशयरुचिरां वहन्त्यभिख्यां अचकमतेव सभा तदाधिराज्यम् ॥