विश्वास-प्रस्तुतिः
अथोपहूतैः पुरुहूतजेता सेनेश्वरैरप्रतिमानवीर्यैः।
अभीषुभिः सूर्य इवाभिदीप्तः कुबेरगुप्तां ककुभं प्रतस्थे ॥
मूलम्

प्रयाणतूर्णतूर्यध्वनिरस्य भूयान् घर्मान्तजीमूतरवानुकारी।
अनर्तयद्धर्ममयूरमाद्यं प्राप्तस्थितिं पादयुगेन भूम्याम् ॥

नभः पृथिव्योरुपदिष्टकम्पे नाथस्य यात्रापटहप्रणादे ।
उषेतरासां नयनं चकम्पे वामेतरं बाणपुराङ्गनानाम्॥

तस्येन्दुबिम्बं सितमातपत्रं भास्वान् मणीन्द्रो महनीयतेजाः।
ताराश्च मुक्तावलया विरेजुः शिखी रथाङ्गाकृतिरात्मधाम्नः॥

अग्रे मुकुन्दस्य तदग्रजन्मा दैत्यैस्समं जन्यविहारमिच्छन् ।
अवाहयद्यादवभूपतीनां वरूथिनीं शम्बरवैरिपूर्वाम् ॥

कथंचिदुत्क्षिप्तकरेँ सोढं भुग्नाग्रभोगं भुजगेश्वरेँण।
आसन्नभारात्ययजातहर्षा विश्वंभरा सैन्यभरं विषेहे॥

प्रस्थानभाजि प्रथमे यदूनां पृथ्वी स्वयं तद्बलरेणुलक्षात्।
भारावतारप्रियवादलुब्धा प्रायो ययौ पद्मभुवस्सकाशम् ॥

अशेषतशछादयता दिगन्तान् आरोहता भूमिभृतां च मुर्ध्नः।
प्रायेण सेनारजसा स्वमेव प्रादुष्कृतं लाघवमुल्बणेन ॥

रथादिघोषैरथ शार्ङ्गपाणेः कल्पात्ययैकार्णवनादकल्पैः।
वित्रासितेव त्रिदशारिलक्ष्मीः इयेष गन्तुं यदुवीरदुर्गम् ॥

अथ क्षणादात्मभुवं प्रयान्तं परिष्कृतं पञ्चभिरायुधाग्र्यैः।
आशाबलेन स्वयमुत्तराशा प्रायः प्रतीयाय जगत्प्रतीक्ष्यम् ॥

पुरं ततः शोणितपूर्वमग्रे ददर्श दैत्याधिपदर्पहन्ता ।
स्वगेन्द्रपक्षानिलतीव्रघातात् त्रासादिवोत्कम्पितकेतुहस्तम् ॥

पुरोपकण्ठे पुरभिननियोगात् प्राकारभावं प्रमथा भजन्तः।
प्रलम्बहन्तुः प्रसमीक्ष्य वेगं भीताः पलायन्त भृशार्तनादाः॥

इतस्ततस्संपततां यदूनां व्यक्तानुबन्धं बिरुदैरुदारैः।
सुरद्विषः शश्रुवुरेकतानं कलध्वनिं काञ्चनकाहलीनाम् ॥

कशाग्रसंस्पर्शममृष्यमाणैः समीरवेगैः समरावलुप्ताः।
उदग्रहेषामुखरैस्तुरङ्गैः वृष्ण्यन्धका वैरिपुरीमवृण्वन्॥

उद्वेलवेगान् स्तनतो गभीरं और्वप्रतिच्छन्दविदीप्तदृष्टीन् ।
अचोदयन् दानववप्रभङ्गे स्तम्बेरमान् सागरपोतकल्पान् ॥

प्राकारभङ्गे प्रसभं प्रयुक्ताः दम्भोलिभीमायतदन्तकाण्डाः।
ऊर्ध्वप्रवृत्तैर्निजहस्ततालैः उत्तम्भयामासुरिवान्तरिक्षम् ॥

असह्यवेगैः सहसा बलोघैराक्रम्यमाणा बलिना यदूनाम् ।
प्रचक्षुभे दैत्यपुरी प्रभूता संवर्तभिन्नेव समुद्रवेला ॥

यथार्थशौर्या यदुवीरयोधाः स्थानानि चित्तानि च दानवानाम् ।
व्यकम्पयन् विक्रमसत्कथानां सिद्धान्तभागैरिव सिंहनादैः॥

जहार चित्तानि बिभेद सौधान् श्रोत्राण्यरीणां बधिरीचकार ।
अनन्यशब्दं च जगद्वितेने घोरस्तदा यादवसैन्यघोषः॥

विमथ्यमानात् स्वपुराहयदूनां मन्थाचलेनेव महाबलेन ।
विनिष्पपात त्रिदशारिनेता काले समुद्रादिव कालकूटः॥

स रोषरूक्षो बहुदीप्तहेतिः दिशो दिधक्षन्निव दैत्यवह्निः।
कृष्णाम्बुवाहप्रमुखं प्रतस्थे तापच्छिदा तेन शमं प्रयास्यन् ॥

सरित्पतीनामिव सन्निपाते वार्ष्णेयदैतेयबलोदधीनाम् ।
अदभ्रसङ्घोषमभूतपूर्वं युगान्तसंवादि बभूव युद्धम् ॥

बलद्वयक्षुण्णमहीतलोत्थं रजस्ततदा संवृतसर्वलोकम् ।
अकल्पयत् स्वेतरतत्त्वलोपात् अपञ्चभूतामिव विश्वसृष्टिम् ॥

प्रथीयसा सूक्ष्मनिरन्तरेण क्षौमाभिरामेण परागभूम्ना ।
प्रच्चछन्नसेनाङ्गतया तदानीं आसीज्जयश्रीरवकुण्ठितेव॥

रजोनुबन्धादभिसंवृताङ्गी भास्वत्करस्पर्शमनश्नुवाना।
निवारिताशाविततिस्तदा़सीत् नभस्स्थली नाकिभिरप्यदृश्या ॥

रणाख्यदर्शे रजसोत्थितेन प्रचच्छाद्यमाने तमसेव भानौ ।
निस्त्रिंशधारासलिले निमग्नाः शुद्धिं परामन्वभवन् सुयोधाः॥

असृक्छटासारवशात् ध्वजिन्या रजस्समेते तमसि प्रशान्ते ।
सत्त्वानुरूपं विदधे प्रमोदं समान् मिथस्संमुखयन् प्रकाशः॥

ततो हरस्त्रातुमनाः स्वभक्तं दत्ताभयं दानवसार्वभौमम्।
अनुद्रुतो भूतगणैरनन्तैः प्रत्युद्ययौ विश्वपतिं प्रकुप्यन् ॥

तमुन्मदोतदग्रवृषाधिरूढं सिताचले मेरुमिव ज्वलन्तम् ।
शरैः प्रतिप्रास्थित शार्ङ्गधन्वा देवं सुधासूतिकलावतंसम् ॥

शिलीमुखैः शौरिधनुर्विमुक्तैः विस्मारितान् पूर्वविकत्थनानि ।
पलायमानान् प्रमथान् अशेषान् मेने पशूनेव पतिः पशूनाम् ॥

आस्वादनीं दानवशोणितानां अकुण्ठितामद्रिविदारणेपि ।
अनाहतास्त्रो युधि शम्बरारिः संस्तम्भयामास गुहस्य शक्तिम् ॥

क्लेशादिदोषैरपराहतेन क्रीडामनुष्येण जनार्दनेन ।
ज्वरे निरस्ते गिरिशप्रयुक्ते वीतज्वरं विश्वमिदं बभूव ॥

अथ प्रयुक्तान् असुरेन्द्रगुप्त्यै प्रसह्य वह्नीनपि पञ्च जित्वा ।
अजृम्भयद्भावितजृम्भणास्त्रो वृषध्वजं विष्णुरचिन्त्यभूमा ॥

शरव्ययभूतत्रिपुरेप्यमोघं शूल्युधे शौर्यमवेक्ष्य शौरेः।
पुरन्दरप्रत्युपरोघजातं व्ययोजयन् विस्मयमादितेयाः॥

बाणः सहस्रेण भुजैः समाद्यन् आत्मानुरूपैरसुरैः समेतः।
असह्यशस्त्रास्त्रबलो बलादीन् प्रत्यग्रहीत् प्रत्ययितप्रभावान् ॥

स वज्रनिर्घोषनिभाट्टहासो गोत्रेण रुन्धन् गगनावकाशम् ।
उदग्रधन्वा शरवृष्टिमुग्रां उत्पातजीमूत इवोज्जगार॥

शरासनैरर्धसहस्रसङ्ख्यैः योद्धुं प्रवृत्तो युगपत्प्रकृष्टैः।
प्रतिद्रुतान् प्रार्दयत प्रकुप्यन् एकः समस्तानपि यादवाग्र्यान् ॥

अथ क्षणादन्तरितान्तरिक्षा वात्या विहङ्गेन्द्रविहारजाता ।
अलातचक्रप्रतिमान् अकार्षीत् बाणाशनान् बाणघनप्रसूतान् ॥

गरुत्मतः पक्षमरुत्प्रचारात् दूरीकृतो वारुणनागपाशैः।
उषासहायः सरथः सधन्वा जग्राह दैतेयबलस्य पार्ष्णिम् ॥

विनिघ्नतो दैत्यबलौघमग्रे चापाभियोगो युधि शम्बरारेः।
चकार चक्रीकृतचन्द्रलेखं शम्भोश्शिरःकम्पमनन्यलभ्यम् ॥

रामोपि लङ्काधिपतेस्समानान् मुसल्यवृत्तीन् मुसलेन भिन्दन् ।
चमत्कृतिं चक्रधरस्य कुर्वन् आदत्त सङ्ग्रामविहारमग्र्यम् ॥

उदग्रशृङ्गोल्बणबाहुभूम्ना सञ्चारिकैलासनिभेन तेन।
अमृष्यता क्षिप्रमकारि सैन्यं नागाधिपेनेव वनं नलानाम् ॥

स लाङ्गलाकर्षणनिर्विचेष्टान् निष्पिष्य नागान् निषधप्रमाणान् ।
रणक्षितिं शोणितमांसपङ्कैः आमग्ननिस्पन्दरथान् अकार्षीत् ॥

हलायुदोत्क्षिप्तरथौघपूर्णं समीक्ष्य देवाः सहसान्तरिक्षम् ।
आशङ्क्य दैतेयबलोपयानं दृढार्गलं देवपुरीमकुर्वन् ॥

प्रभूश्च किञ्चित् प्रथयन् अमर्षं क्रीडोचितान् प्रेक्ष्य कृताभियोगान् ।
विव्याध बाणानुचरान् अयोघ्यःशार्ङ्गोदधेरूर्मिनिभैः शरौघैः॥

अरदृष्टतूणीरमनुप्लवान्यैः अग्राह्यसन्धानविमोक्षबाणम्।
अमंसतैनं स्थिरचापचक्रं प्रत्येकमात्माभिमुखं प्रतीपाः॥

निषङ्गदत्ताग्रकरे मुरारौ निर्भिद्य दैत्यान् भुवमाविशन्तः॥
लक्ष्याणि दूरादलभन्त बाणाः रसातलस्थैरपि दानवेन्द्रैः॥
विश्वास-प्रस्तुतिः
न सेहिरे शार्ङ्गपयोदजातां नाराचवृष्टिं दनुजेन्द्रयोधाः।
अमोघवाचा कविना प्रयुक्तां अन्तर्वतीं सूक्तिमिवानभिज्ञाः॥

यतोयतो दानवसैन्यमासीत् ततस्ततो दैत्यचमूरपायात् ।
गतानि तेजस्तमसोरिवारात् आशाविकल्पेन तयोरभूवन् ॥

अशूरसंदर्शनतापशान्त्यै स्वहेतिधारगृहमाश्रयन्तीम् ।
विहारयामासुरिव स्ववृत्त्या वीरश्रियं वृष्णिकुलप्रवीराः॥

कृपाणभिन्नद्विपकुम्भमुक्ता मुक्ताः पतन्त्यो रणवप्रभूमौ।
प्ररोहतां वीरयशस्तरूणां बीजान्यभूवन् बहुधा विकीर्णाः॥

द्विपाचलेभ्यः शरवृष्टिपातैः आपातितानां रुधिरापगानाम् ।
अकल्पयन् योधमुखेन्दुक्लृप्ताः कौमुद्वतीं संपदमट्टहासाः॥

अदृश्यतान्योन्यविलूनशीर्षैरारब्धमन्योन्यकृतप्रशंसैः।
अनेकरूपैकसुराङ्गनाप्तैः अपास्तवैरं रणरङ्गनृत्तम् ॥

प्रयोजितैः प्राणतृणैः प्रगल्भा रथ्याभिगम्येषु रणापणेषु ।
क्षणप्रभालोलतरैरविन्दन् यावद्युगान्तानि यशोधनानि ॥

कृतापदानाः कृशजीविताशाः स्वनाथनामाङ्कजयोक्तिमन्तः।
जयश्रियं दोष्णि निवेशयन्तः कीर्तिं दिगन्तावसथामकुर्वन् ॥

अमोघशस्त्रास्त्रतरङ्गभीमे वैरोपसन्दर्शितबाडवाग्नौ ।
विकत्थनं संपति विक्लवानां वीरोदधौ गोष्पदवद्विलिल्ये॥

जिगीषुभिर्जीवितसंशयाख्या दोलाधिरूढा दृढवैरबन्धा ।
अदूरतो यादवमर्षवेगं मिथः प्रतिक्षेपशतानि चक्रे॥

शरप्रयोगोचितविप्रकर्षं सम्पादयिष्यन्त्यपराङ्मुखानाम् ।
प्रशंसनीयानि बभूवुराजौ पश्चात्प्रयातानि धनुर्धराणाम् ॥

प्रतीपवृत्त्या प्रतिगृह्य शूराः शत्रुप्रयुक्तां शरवृष्टिमुग्राम् ।
त्रिविष्टपानोकहपुष्पवृष्टिं वैमानिकैरन्वभवन् विमुक्ताम् ॥

तस्मिन् अघच्छेदिनि धर्मयुद्धे कालत्यजां कृष्णसमीक्षितानाम्।
सुहृद्द्विषद्भेदवतां समोभूत् स्वर्गापवर्गान्तगतिः सुपन्थाः॥

बभूव कीर्त्या धृतकेतकश्रीः निस्त्रिंशधाराधरपङ्क्तिनीला।
रणस्थली यादवदानवानां आकालिकी प्रावृडिवास्त्रवर्षैः॥

अलङ्घनीया रथवारणाद्यैः आ सागरादप्रतिघप्रवाहाः।
उदग्रभूभृत्प्रभवाः पृथिव्यां उत्तस्थिरे शोणितशैवलिन्यः॥

ज्वलत्प्रतापानलजातदीप्तिः समिद्वती सैन्ययुगस्य लीला।
जयश्रिया वीरपतिंवराया वैवाहिकी सम्पदिवाबभासे ॥

अमर्षवैश्वानरधूमलेखां अन्योन्यसंहारनिशां कृपाणीम् ।
अवेक्ष्य मृत्योर्भ्रुकुटीमनन्दन् वीराः स्वविक्रान्तिशिरीषमालाम् ॥

मनस्विनः संयति वीरशय्यामभूषयन् प्रीतिकृतः शिवानाम् ।
सुखावहाः स्वर्गविलासिनीनां विहारशय्यामपि वीरलोके ॥

समाश्रितैराहवसत्रदीक्षां कुर्वद्भिरन्योन्यमिवोपकारम् ।
अलभ्यत श्लाघितमप्सरोभिः दैत्यैर्मनुष्यैरपि देवभूयम् ॥

पर्यस्तपादं पतितैः पृथिव्यां वज्राहतैरद्रिगणैरिवान्यैः।
द्विपेन्द्रयूथैर्द्रुतसर्षिणीनां द्वीपायितं शोणितवाहिनीनाम् ॥

हतावशिष्टा दनुजेन्द्रभृत्याः प्रद्युम्नविक्रान्तिभयान्निवृत्ताः।
तत्केतुचिह्नस्मरणेन बिभ्युः निशाम्य दृष्टीर्निजवल्लभानाम् ॥

स्वकोपचापेन ततः प्रणुन्नो महेश्वरानुग्रहसंहितात्मा ।
अतीत्य मौर्वीमिव दैत्यसेनां बाणः स्वयं शौरिबलं विवेश॥

व्यभज्यत व्याप्तहयोर्मिजालं बलं यदुनां बलिनन्दनेन।
एकेन पर्याप्तभुजाद्रिभूम्ना नाथो नदीनां नलसेतुनेव ॥

अस्त्राणि तेन प्रहितानि तूर्णं विहारभूम्ना वितथानि कृत्वा ।
युगान्तसूर्यायुतयोगदीप्तं रामानुजन्मा जगृहे रथाङ्गम् ॥

अथाच्छिनद्भीषणसत्त्वसारां भुजाटवीं भूतपतेस्समक्षम् ।
चक्रेण सङ्कल्पनिभेन कृष्णः किं वा विधौ वैरिणि केन रक्ष्यम् ॥

अवृण्वत क्ष्मां हरिचक्रलूना महत्तरा बाणभुजाः पतन्तः।
महेन्द्रहस्तप्रहितेन पूर्वं वज्रेण भिन्ना इव सानुमन्तः॥

अमर्त्यशत्रोरवलेपहेतौ बहिर्द्वये बाहुवले विलूने ।
दयाधनः संयति दैत्यहन्ता प्रदीप्तमस्त्रं प्रतिसञ्जहार॥

अनीकिनीमाश्रितदीर्घनिद्रां बाणो निकृत्तामपि बाहुपङ्क्तिम् ।
अजातखेदो बुबुधे न नूनं विपद्भिरश्रान्तधियो हि वीराः॥

अशान्तदर्पस्त्वसुरो भुजाभ्यां विकृष्टधन्वा विससर्ज बाणान् ।
तदैनमन्वीक्ष्य निहन्तुमैच्छत् जन्योद्धतं दैत्यमनन्यजन्यः॥

ततस्तमव्याहतदिव्यशक्तिं मध्याह्नमार्ताण्डविदीप्तहेतिम् ।
पश्यन् मुकुन्दं प्रतिबोधभूम्ना जयोक्तिपूर्वं गिरिशो जगाद ॥

मैवं प्रभो मत्परिवारभूतं बलेस्सुतं बाधितुमर्हसि त्वम् ।
मयैष रक्ष्यो दनुजस्त्वयापि स्वभक्तबुद्द्यैव समीक्षणीयः॥

त्वमादिदेवः त्रियुगस्त्रिधामा शुद्धामशुद्धां च विभाव्य सृष्टिम् ।
अकर्मतन्त्रैरवतारभेदैः क्रीडस्यनन्तैरपि जन्तुजातैः॥

अयं स ते वेदमयो गरुत्मान् वेदैरशेषैरपि वेद्यसे त्वम् ।
विभागमृच्छन्त्यमरास्त्वदन्ये शाखैकदेशेषु शकुन्तकल्पाः॥

सिसृक्षतस्ते भुवनानि सप्त प्रसादतो नाथ बभूव वेधाः।
संहर्तुकामस्य तवैव कोपात् अहं त्वया दत्तनिजाधिकारः॥

अविक्रियश्चेष्टयसि त्वमेको विश्वानि भूतानि विहारशक्त्या ।
अचेष्टमानप्रकृतीन्ययांसि स्थाताप्ययस्कान्त इवाभिमुख्यात्॥

अलङ्ध्यमायागुणजालभीतान् अनन्यचित्तान् अनुकम्पमानः।
स्वदत्तयैव स्वपदाब्जभाजा भक्त्या स्वयं तारयसे भवाब्धिम् ॥

भारावताराय भुवोवतीर्णं भवन्तमन्तर्हितदिव्यभावम् ।
संस्थापयन्तं नियमेन धर्मं धर्मं परं वेदविदो विदुस्त्वाम् ॥

विधाय दैत्यप्रकृतीन् अशेषान् नामावशेषान् नरलोकपालान् ।
करिष्यसि त्वं करुणार्द्रचेतां नाथ क्षितिं नावमिवास्तभाराम् ॥

दयाक्षमाभ्यामिह दीव्यसि त्वं लक्ष्मीमहीभ्यामिव लालितात्मा।
तत् क्षम्यतामस्य मदेकभक्तेः आजानतः स्वात्मचमत्क्रियेयम् ॥

नाथो यदुनामिति भूतनाथे स्वभक्तरक्षामभियाचमाने ।
अतर्कितप्रत्युपकारलेशामाकस्मिकीमाद्रियतानुकम्पाम् ॥

प्रविश्य देहं पुनरुत्पतन्त्या स्वमौलिभाजेव सुरस्रवन्त्या ।
वाचा मनः प्रीतिमिवोद्वमन्तं शौरिस्तदा शूलिनमित्युवाच ॥

तवैष भक्तो मम चेति मन्ये क्षान्तस्ततो नित्यमसौ मयापि ।
न चास्ति बन्धोरपि साम्पराये वीरव्रतं धारयतोपकारः॥

विहारवृत्तानि वितन्वतस्ते वल्गुध्वनिं वादयिता मृदङ्गम् ।
भजत्वविच्छिन्नधृतिर्भवन्तं दत्ताभयो दैत्यपतिर्मयासौ ॥

अथान्वमंस्त त्रिजगन्नियन्ता पत्युः पशूनां प्रणयानुरोधात् ।
बाणावरोधप्रमताजनानां स्थायीनि मङ्गल्यविभूषणानि ॥

ततोसुरेन्द्रः प्रणिपातपूर्वं जगत्परित्राणरतं जगाद ।
उषानिरुद्धान्वयतः समीक्ष्याः भृत्या वयं प्रीतधिया त्वयेति ॥

हिरण्यरत्नानि हिरण्यपूर्वैः बलादुपात्तान्युपदाय बाणः।
निरोधखिन्नावुचितोपचारैः आनर्च सस्नेहमुषानिरुद्धौ ॥

सम्बन्धिभावप्रतिपत्तिभाजा सन्धाय बाणेन स सत्यसन्धः।
उषापतेर्यौतकलाभलक्ष्यात् जेता जहारैव विपक्षलक्ष्मीम्॥

हरेण दत्तां हरिणापि बाणः स्थिरीकृतामप्रतिघामभीतिम् ।
तनुत्रयन् वर्जितलेखवैरः शमान्वितामास्थित शम्भुसेवाम् ॥

यथार्थनामानमथानुरुद्धं कृत्वा सभार्यं कृतकृत्यचेताः।
सबन्धुसैन्यः सविशेषदृश्यां प्रत्याययौ विश्वपतिः पुरीं स्वाम् ॥

देवाः सहस्रनयनं दनुजेन्द्रमन्ये निर्धूतमानमनघेन निशामयन्तः।
कूपोदकप्रभवकूर्मनयेन जातां अस्वामिकप्रभुपरिग्रहबुद्धिमौज्झन् ॥

नीतस्त्रिलोकपतिना निजराजधानीं भूयः प्रजात इव पौरजनैः प्रतीतः।
दैत्येश्वरस्य सुतया सहितः स रेमे रागाधिको रतिपतेरनघः कुमारः॥

अथ तमुषासहायमुपयातमुपायनवान् जनपदपत्तनप्रभृतिकादुपगम्य जनः।
उपचरति स्म सम्यगुपपन्नधृतिर्बहुधा यदुनगरे विवाहविजयोत्सवयन्त्रितधीः॥