18

विश्वास-प्रस्तुतिः

अथात्मचिन्तानुचरेण यास्यन् विहङ्गराजेन विभुः पुरीं स्वाम् ।
उवाच पत्नीं दशनांशुलक्षात् वमन्निवानन्दममान्तमन्तः॥

मूलम्

सत्ये समीक्षस्व विपारिजातां वृत्तेन हीनामिव वेदविद्याम् ।
निशामिव प्रोषितशीतभानुं नारीमनाथामिव नाकलक्ष्मीम् ॥

आलम्बिता नम्रमुखी भवत्या हस्तेन रक्ताङ्गुलिपल्लवेन।
वदान्यवृक्षस्य विभाति शाखा वक्तुं वयस्येव रहः प्रवृत्ता॥

सुपर्णवेगानिलविप्रकीर्णैः सुरद्रुमैरन्तरितः सुमेरुः।
आलक्ष्यते कालवशेन भूयः प्ररूढलूनैरिव पक्षजालैः॥

निसर्गकल्याणतया प्रतीतं सर्वोत्तरं तत्त्वमिवैकमाद्यम् ।
अमुं प्रिये नूनमतन्द्रितानि जायोतींषि भक्त्या परियन्त्यजस्रम्॥

वितानवान् व्योमतलेन मेरुस्तारागणैराहितमौक्तिकेन।
निविश्य मध्येक्षितिभद्रपीठं गङ्गोदकैराद्रियतेभिषेकम्॥

सहस्रभानुप्रमुखैः समन्ताज्ज्योतिर्गणैरस्य विघूर्णमानैः।
महीभृतामग्रसरस्य मन्ये नीराजनं विश्वसृजा प्रयुक्तम् ॥

प्रख्यातधाम्नामपि दिक्पतीनां प्रासादवासादरमाक्षिपन्तः।
अध्यासिता योगिभिरस्य नित्यं राजन्त्यमी रत्नगुहाविशेषाः॥

परिस्फुरन्त्याः क्षितिपद्ममध्ये पिर्श्वेषु हेमाचलकर्णिकायाः।
पश्य प्रिये रत्नविशेषचित्रां कृशोन्नतां केसरशैलपङ्क्तिम् ॥

वलाविभङ्हैरिव वर्षभेदैस्त्रिभिर्विभक्तं त्रिदशानुभाव्यैः।
संदृश्यते सागरमेखलाया सुमध्यमे मध्यमिदं धरण्याः॥

अभञ्जनीयं प्रथिमानमाप्तां स्थानेष्वरैराकलितामहार्यैः।
चराचराणां प्रभवेन धार्यां चक्राकृतिं पश्य समुद्रनेमिम् ॥

विकल्पितानि त्रिदिवेन भूमौ वर्षाणि दिव्यानि विलोकयेथाः।
द्वन्द्वैरिह द्वन्द्वविषादमुक्तैर्निर्विश्यते यौवनमेकरूपम् ॥

इलावृतान्तां निषधादवाचीं विलङ्घ्य हृद्यां हरिवर्षसीमाम्।
खगेश्वरः संश्रितहेमकूटं निनीषते किम्पुरुषास्पदं नः॥

वपुः शुभं वाजिमुखाङ्गनानां वक्त्रं च युञ्जन्निह किन्नरीणाम्।
स्त्रीरत्नसृष्टिं विदधे विधिश्चेत् त्र्यक्षः कथं पञ्चशरस्य जेता॥

दिदृक्षमाणस्य ममैष देशान् सव्यापसव्येन गतिक्रमेण।
अमोघवृत्तिर्गगने गरुत्मान् विचेष्टते चित्तमिव द्वितीयम् ॥

निपत्य चोत्पत्य च लङ्घयन्ती निम्नोन्नतान् वर्षविभागदेशान् ।
छाया समेन स्वपथेन यान्तं तरस्विनं तार्क्ष्यमिवातिशेते ॥

महीयसो वेगवशेन मध्ये सीमन्तयन्नेष शरत्पयोदान् ।
यदृच्छया संभृतचामरश्रीः संदृश्यते देवि तवौपवाह्यः॥

वियत्पयोधिं तरतां विशालं विमानदीप्तेन गरुत्मता नः।
इयं पुरः शैलवनोपपन्ना विश्वंभरा भाति विलोमगेव ॥

शरद्घनस्तोम इवोपसीदन् संदृश्यते किन्नरनाथशैलः।
सन्ध्याविहारच्युतसंहतात्मा शम्भोरिवोद्धूलनभस्मराशिः॥

सुधायमानां धनदस्य सौधे स्वाभाविकीमस्य गिरेरभिख्याम् ।
पर्याकुलैर्विष्णुपदीतरङ्गैराम्रेडयन्तीव हराट्टहासाः॥

अमुष्य दीप्तोन्नतदन्तभूम्नो नक्षत्रमालार्चिततुङ्गमौलेः।
पादेषु भान्ति स्फटिकाः प्रभूताः नाकद्विषस्येव नखेन्दुबिम्बाः॥

उदग्रवज्रव्रणकर्कशानां पर्याप्तसारेण भुजार्गलानाम् ।
अनेन विख्यापितविक्रमं तद् रचक्षः पुरा रामशरव्यमासीत्॥

अयं वनैः श्यामनितम्बभागो गौरः स्वयं गैरिकसंभृतश्रीः।
वलाहकग्राह्यगुणान्तरीयं मदारुणं व्यञ्जयते मदार्यम् ॥

अस्मिन् धनाधीश्वरराजधान्यामाकर्णितं हैमवतीसखेन ।
त्वत्कीर्त्युपघ्नं शृणु किन्नरीणां गृहे गृहे किन्नरकण्ठि गीतम् ॥

निशम्य दिव्यद्रुमसम्भवानां नूनं रवं नूपुरमञ्जरीणाम् ।
उड्डीयमानाः प्रतियन्त्यमी त्वां मञ्जुस्वराः मानसहंसदाराः॥

इतो हिरण्यप्रमुखैः प्रभुक्ता शोणाधरे शोणितराजधानी ।
आदौ समुत्खातपुनर्निखातैः कैलासशृङ्गैरिव भाति सौधैः॥

मृदङ्गनादेन मृगाङ्गमौलिं प्रसादयन् पालयतीह दैत्यान् ।
बलेरपत्यं बलिनां विजेता बाणासुरो बाहुसहस्रशाली ॥

रामास्त्ररन्ध्रोदितहंसयूधं क्रौञ्चं गिरिं लक्षय दूरलक्ष्यम् ।
पीतां पुनः श्रोत्रुपथेन काले भागीरथीं जह्नुमिवोद्वमन्तम् ॥

अमुष्य दूरादसिताक्षि दृष्टिं दिव्ये गिरौ दातुमिहार्हसि त्वम् ।
मरिद्गणेन ह्यमुनोन्नतेन स्वाहारसम्भूतिरमन्थि सिन्धुः॥

विलग्नदैत्येश्वरशोणितानां वैकुण्ठकेयूरजुषां मणीनाम् ।
अयत्नशाणोपलतामपुष्यन् आर्द्राः सुधाबिन्दुभिरस्य कूटाः॥

लक्ष्मीसुधासञ्जननाय तूर्णं विमथ्नता वेगमनेन दत्तम् ।
आवर्तभेदैरधुनाप्यगाधैरर्थापयन्त्यम्बुनिधेर्महौघाः॥

अमोघबाणस्च मुनेरशोष्ये फेनायमानानि यशः पयोधौ ।
गतागतैर्हंसकुलान्यमूनि च्छायापथं सञ्जनयन्त्यपूर्वम् ॥

धृतिक्षमं देवि सुरस्रवन्त्याः सिद्धाश्रितं शम्भुमिव द्वितीयम् ।
परिष्कृतिं भारतवर्षसीम्नः प्राप्ता वयं पर्वतसार्वभौमम् ॥

अनुप्रविष्टं गिरिजासखीभिः पर्यन्तसंस्तम्भितभूतवर्गम्।
अदूरतश्चैत्ररथात्प्रभूतं वैहारिकं पश्य वनं पुरारेः॥

अभङ्गुरैराहतयोरनङ्गः शृङ्गारदिग्धैरिह चित्रपुङ्खैः।
अभिन्नमन्योन्यलयादकार्षीत् देहं द्वयोरर्धसमीक्ष्यभेदम्॥

दिवा महानीलमयूखजालैर्नक्तं प्रकाशेन महौषधीनाम्।
पश्यन्त्यमुष्मिन् परिवृत्तिशून्यं कालं सदा कर्बुरमादितेयाः॥

अलुप्तमेघद्युतिरिन्द्रनीलैर्वज्रैरसौनित्यतटित्प्रकाशः।
प्रवृत्तगङ्गास्तनितो दधाति प्रावृड्गुणान् प्रीणितनीलकण्ठः॥

अमुष्य मूर्धन्युपपत्य निम्नैश्चतुर्दिशं विष्णुपदी प्रयाति ।
चतुर्भिरुन्मीलितराशिभेदा वेधोमुखैर्वेदमयीव विद्या॥

सरित्सहस्रैरभिगम्यमाना शिलोच्चयैरन्तरिता दधाति।
प्रवालमुक्ताप्रभृतेः प्रसूतिः पत्नी पयोधेरियमानुरूप्यम् ॥

त्रयीमिव क्षालितविश्वपङ्कां त्रैलोक्यलक्ष्म्या इव सत्त्वशुद्धिम्।
तपोधनाः सर्व इमां भजन्ते धर्मस्य निश्रेणिमिव प्रभूताम्॥

प्रख्यातगोत्रप्रभवेपि नित्यं परिग्रहे भूयसि वर्तमाने।
त्वयैव मां वेत्ति कलत्रवन्तं नाथं नदीनामनयैव लोकः॥

पतद्ग्रहे तिष्ठति रुक्मशैले धर्मद्रवैरात्मभुवार्च्यमानः।
अस्याः प्रसूतिः परमस्य पुंसः पादो नभस्सागरपारदृश्वा॥

त्रिभिस्त्रिलोकीमनघैः स्वपूरैः तारागणाम्रेडितशीकरौघैः।
विमार्जयन्ती वृजिनात् पुनीते विष्णोरियं विक्रमवैजयन्ती ॥

अभुग्नभागान्तरितैः पयोभिः सम्भिद्यमानैरियमन्तरेषु।
नगेन्द्रमूर्धन्युपयाति शोभां नक्षत्रमालेव गजेन्द्रकुम्भे॥

स्रोतोभिरस्याः परिपूर्यमाणः सुधामयं सिन्धुमिवादधानैः।
अपां पतिर्नित्यमबिन्धनेन ज्वालावता नूनमशोषितोभूत् ॥

भगीरथप्रार्थितसिद्धिमेनां पृथक्प्रवाहां पृथिवीं पुनानाम्।
भस्मीकृतानां सगरात्मजानां प्राहुः सुधां प्रापितदेवभावाम्॥

स्थानानुरूपां प्रसृतैः प्रवाहैर्महद्भिरेषा मधुरावदातैः।
प्रालेयशैलात् प्रथितानुभावा प्रवर्तते वागिव वश्यवाचः॥

उदीरितास्तार्क्ष्यवानिलेन त्वन्नूपुरान्नूनमधीतनादाः।
भवन्त्यमी स्वागतवादिनस्ते भागीरथीसैकतराजहंसाः॥

प्रदीयते सुन्दरि दूरकृष्टैर्दिव्येन ते शेखरसौरभेण।
मयूरपिञ्छातपवारणश्रीर्मन्दाकिनीहेमसरोजभृङ्गैः॥

वहन्नसौ काञ्चनपद्मरेणून् व्योमापगावीचिविहारशीलः।
विलुप्तपत्राङ्कुरमानने ते स्वेदोद्गमं न क्षमते समीरः॥

अस्याः समीरैरपनीतगन्धान्यलक्तकैरङ्कितसैकतानि।
स्वैरोपभोगं सुरसुन्दरीणां विवृण्वते तीरलतागृहाणि॥

रहस्त्वदाश्लेषरसोत्सुकस्य त्वदेकदृष्टेरपि विश्वदृष्टेः।
वियन्नदी लोचनयोरसौ मे विहन्ति लक्ष्यान्तरपक्षपातम्॥

दिव्यं बदर्याश्रममेतदन्ते देवैः स्तुतं दक्षिणतः प्रतीयाः।
निःश्रेयसं दर्शयतीव वृत्त्वा नारायणो यत्र नरेण सार्धम्॥

निवृत्तरागैः परिचर्यमाणो नाथः स्वयं नाकनिकेतनानाम्।
धन्यैरनन्यैरनुपालनीयं धर्मं निजं धारयतीह शुद्धम् ॥

तृतीयवर्णप्रभवे निजाङ्गे स्त्रीरत्नमुत्पाद्य विहारयोगी ।
इहात्मसम्मोहनलालसानामपत्रपामप्सरसामकार्षीत् ॥

अन्यच्च दूरादनघं तदीयं प्राग्दक्षिणं भाति तपोवनाग्र्यम् ।
भजन्ति यस्मिन् पदयोरमुष्य न्यासं शुभं निश्चितयोगलक्ष्याः॥

अत्र स्थितं श्रान्तिजुषां मुनीनां छायालकृष्णाजिनपल्लवेन।
वैरोचनेर्दानजलावसेकात् वर्धिष्णुना वामनपादपेन ॥

इमानि च प्रेयसि तापसानामेकान्तहृद्यानि तपोवनानि ।
इहैकपादस्थितिमेतदीयां धर्मो युगे धारयतीव तुर्ये॥

तमो निगीर्णं सकृदेव पुंसामासीदतामाश्रमहव्यवाहाः।
इहौषधाख्यानि हवींषि भुक्त्वा धूमोपलक्ष्यं ध्रुवमुद्वमन्ति ॥

निजाश्रम्भ्यः प्रतिनिर्जिहानाः दूरादमी दर्शितपूर्णकुम्भाः।
सत्याशिषः सम्प्रति साधुवाक्यैरभ्यर्चयन्त्याहितवह्नयस्त्वाम्॥

समीपवृक्षेष्विह बद्धनीडाः शिक्षोपपन्नां श्रुतिमुद्गृणन्तः।
शकुन्तयः शोणमुखा भजन्ते सब्रह्मचर्यं सह तीक्ष्णधीभिः॥

धर्मस्य सम्भूतिरिवाग्रतस्ते सान्दीपिनेराश्रमभूमिरेषा ।
अधीतिनो यत्र मम त्रिवेद्यामन्तः स्थिरालोक इवान्तरात्मा॥

समग्ररत्नौघमिवाब्धितोयं तारागणैराप्तमिवान्तरिक्षम् ।
विशङ्कटं विन्ध्यहिमाद्रिमध्यं पुण्यं प्रिये भूषितमेतदार्यैः॥

पितृक्रियानिर्वृतजामदग्न्यं क्षिप्तैनसां क्षेत्रमिदं कुरूणाम् ।
समेयुषां संयुगदीक्षयैतत् देहत्यजां दक्षिणतो न पन्थाः॥

सव्ये भवत्याः सरयूसमेता सम्येयमाभाति पुरी रघूणाम् ।
दयाविपाकेन चराचराणां दिव्यं पदं यत्र दिदेश रामः॥

तमालषण्डैस्तमसेव दृष्टैर्वामेतरो वामविलोचने नः।
वसुन्धराकुन्तलकान्तिचोरैः कान्तैरसौ भाति कलिन्दशैलः॥

दिवाकरेणात्र बिलेषु नूनं बन्दीकृतानां बहुलक्षपाणाम्।
छायाविशेषैः प्रचितैस्तदर्हमाप्यायनामारचयन्ति वृक्षाः॥

इतः प्रभूतात् पितुराव्रजन्ती कालिन्द्यसौ कालियदोषमुक्ता।
समेत्य सख्येव सुरस्रवन्त्या सरित्पतिं शुद्धिमती प्रयाति ॥

स्वमूलशैलस्य विभाति शृङ्गे धातूपरक्ते सवितुस्सुतेयम् ।
महावराहस्य महीव पूर्वं दंष्ट्राङ्कुरे दानवशोणिताङ्के ॥

यमस्वसुस्तन्वि यथार्थनामा मान्या समीपे मधुरा बिभाति ।
सुपर्वणां यत्र सभां सुधर्मा भूमेरहं भूषणतामनैषम् ॥

पिबत्यसौ पश्चिमदक्षिणाशां नूनं खगेशोयमनूनवेगः।
विलोकितानामिह न व्यवस्था नेदीयसां देवि दवीयसां वा ॥

त्रयीमयस्तन्वि तवौपवाह्यः कालक्रमादापनतो धरण्याम् ।
सामाभिरामध्वनिभिः समन्तात् पक्षानिलैर्मार्जयतीव दोषान् ॥

आ पश्चिमादम्बुनिधेरवन्ध्या शरत्प्रसूतैः क्षितिरस्य सस्यैः।
दिवौकसां दर्शितभागधेया दिशत्यसौ लोचनदिष्टवृद्धिम् ॥

सरित्प्रवाहैर्व्यतिकीर्यमाणैः सङ्कल्पयोनेरिव शिल्पभेदैः।
पश्य प्रिये त्वं परिवृत्य किञ्चित् दिव्योपमान् जानपदान् विशेषान् ॥

तवैष जीर्णश्चलयन् पुरस्तात् विद्युन्मयीं वेत्रलतां प्रतन्वीम् ।
बिभर्ति शुद्धो धृतकञ्चुकश्रीः प्रायः प्रतीहारपदं पयोदः॥

आदाय शालिस्तबकान् अदूरात् प्राप्ता शुकश्रेणिरसौ विभाति ।
त्वदागमप्रीतशरत्प्रयुक्ता वैहायसी वन्दनमालिकेव ॥

आरक्तफुल्लैररविन्दिनीनां सूनैरमी नूतनसूर्यकल्पैः।
त्वत्कान्तिमाध्वीमनुभूय रक्तैर्नेत्रैरिवाभान्ति समुद्रदाराः॥

करेणुकाभिः सह गाहमानाः पयः प्रसन्नं शरदापगानाम् ।
अमी निमीलन्नयनाः कपोलैराविर्मदैराविलयन्ति नागाः॥

स एष सप्तच्छदरेणुजालैः क्रीडन्निवालिम्पति गन्धवाहः।
वन्यद्विपानां व्रजतां प्रतीपं मदप्रवाहैर्मलिनान् कपोलान् ॥

अभिन्नवर्णा गृहिणीव भव्या वेलाटवी वारिनिधेर्विभाति ।
नित्यानुभूतामपि नव्यबुद्ध्या रसैरसौ निर्विशतीव हृष्यन् ॥

तरङ्गवेगात् तरलाम्बुधारी गृह्णात्यसौ गारुडरत्नवर्णः।
वसुन्धरावारिरुहस्य पार्श्वै सिद्धोदयां श्यामलपत्रशोभाम्॥

विभाति पर्यन्तमही पयोधेः फेनैरसौ वीचिकरप्रकीर्णैः।
अभ्यर्चितानां त्रिदशातिथीनामाहारशेषैरिव पर्युदस्तैः॥

प्रवालवह्नौ परिदीप्यमाने मुञ्चन्त्यसौ मौक्तिकलाजवर्षम् ।
अमुष्य वेला धृतवेपथुस्ते वैवाहिकीं स्मारयति स्म वेलाम् ॥

स्वसम्भवं सम्प्रति पारिजातं दृष्ट्वा चिरप्रोषितसंनिवृत्तम् ।
आलिङ्गनार्थीव तरङ्गहस्तान् आविर्मणीन् उन्नमयत्युदन्वान् ।

अहीन्द्रनिश्वासमरुत्प्रणुन्नैरावर्तसम्भेदिभिरेष फेनैः।
उपायनं दित्सुरिवाम्बुधिस्ते मुक्तातपत्राणि मुहुः प्रसूते ॥

वेलाचलादर्भकपञ्चवक्त्रान् विहङ्गपातेन जिघृक्षमाणान्।
निमज्जनोन्मज्जनवेगभूम्ना मातङ्गयादांसि विलोभयन्ति ॥

प्रवालमुक्तामणिभिः प्रदिष्टैः प्रत्याहृतैः पत्रलताङ्कुराद्यैः।
अन्योन्यभूषापरिवृत्तिलीलां करोत्यसौ कूलभुवा पयोधिः॥

वर्णं महानीलमणिप्रकाशैः स्मितद्युतिं मौक्तिकचन्द्रिकाभिः।
बिम्बाधरं विद्रुमभङ्गभेदैः व्यनक्त्यसौ तन्वि तवाम्बुराशिः॥

विवृण्वती बाडबवह्निदीप्तिं विद्योतते विद्रिमपङ्क्तिरेषा ।
देवेन सम्पीडितयोस्त्रिधाम्ना दैत्येन्द्रयोरान्त्रपरम्परेव ॥

महावराहस्य खुराद्रिघातैः क्षुण्णः प्रविद्धो रघुवीरबाणैः।
विसंस्थुलद्वीपतयोपलक्ष्यैर्वीरव्रणैरेष बिभाति रूढैः॥

सम्भृत्य तोयं सहसोज्जिहानान् सेन्द्रायुधान् पश्य घनान् सनादान्।
उदन्वना दुर्जयमन्तरिक्षं जेतुं प्रवृत्तानिव तस्य पुत्रान् ॥

अपां तरङ्गैरयमन्तरङ्गैराप्लावयिष्यन् समये धरित्रीम् ।
समीनयूधस्तनुते सरस्वान् सन्नाहगन्धीनि गतागतानि ॥

असौ परप्रेमपदं स्वभावादापूर्यमाणो महता रसेन।
आत्मेव दृष्टः सहसा प्रजानामदर्शनेच्छामितरेषु दत्ते ॥

गरुत्मतः कम्पितदिव्यवृक्षं पक्षानिलं पातुमुपेत्य नागाः।
वितन्वतेबालमणिप्रकाशैरसूर्यबालातपमन्तरिक्षम् ॥

मरुद्भिराघूर्णितसाद्रिनागैर्वेगोद्भवैरस्य विमथ्यमानः।
उत्क्षिप्तशङ्खप्रकरापदेशात् भूयः सुधामुद्गिरतीव सिन्धुः॥

दोधूयमानं विविधोर्मियोगात् छायागरुत्मन्तमवेक्ष्य भीताः।
आवर्तशैलीमभिनेतुमिच्छन्त्यङ्गैरमी कुण्डलितैर्भुजङ्गाः॥

सफेनहासो जटिलः प्रवालैरुद्वर्तयन् ऊर्मिभुजैर्भुजङ्गान्।
विडम्बयत्येष निसर्गभीमः कस्यापि कल्पान्तनटस्य लीलाम् ॥

अशेषतः सोयमचिन्त्यभूमा कुम्भीकुमारेण निपीतवान्तः।
सिष्णासया सम्पततोपि दृष्ट्वा द्विजाधिपान् वेपत इत्यवैमि॥

प्रदर्शितात्मभ्रमणेन नूनं प्रत्यायितां मन्दरनर्तकेन ।
सव्यापसव्यैर्भ्रमणैस्तरस्वी रम्यामसौ पुष्यति रासलीलाम् ॥

तैस्तैरसौ निर्मथितो विधूतः संक्षोभितो बन्धनपीडन्द्यैः।
प्रसादगाम्भीर्यनिधिः प्रथिम्ना क्षमान्वयं नोज्झति शीतलात्मा ॥

विमथ्य विश्राणितमेतदीयं दैत्यद्विषा देवि मरुत्वदाद्याः।
सारं पिबन्तस्त्रिदशाः कदापि द्राघीयसीं नानुभवन्ति निद्राम् ॥

कलत्रवन्तं पुरुषं पुराणं कपालिनं चन्द्रकलावतंसम् ।
ऐरावताद्यैः प्रचितान् अकार्षीत् वैमानिकान् एष महावदान्यः॥

इदं जगद्दर्शिततारतम्यं यद्भ्रूलतालास्यविशेषनिघ्नम् ।
प्रजापतीनां जननीमजन्यां तामेष देवीमनघामसूत ॥

वराय दत्त्वा निरवद्ययूने कन्यामसौ कौस्तुभयौतकं च ।
महोत्सवे वाहनभोजनाद्यैरानर्च देवान् इतरान् यथार्हम् ॥

जगन्त्यशेषाणि यदेकदेशे पर्यङ्कतां तस्य गतः प्रथिम्ना।
अलङ्घनीयं महिमानमन्यैर्भजत्यसौ भावितशेषभावः॥

अनर्घमाद्यं हरिनीलरत्नं लक्ष्मीदृशा नित्यनिदर्शनीयम् ।
नभः प्रतिच्छन्दनिभेन नूनमन्तर्गतं व्यञ्जयति स्वधाम्ना ॥

मधुद्विषो वर्णमुषां मणीनां त्रासव्यपायेपि तिरोहितानाम् ।
उदन्तमाख्यातुमिवोर्मिमाली करान् असौ कर्षति वीचिहस्तैः॥

पश्यामि सौहार्दवतां तवाक्ष्णा तरङ्गनिम्नोन्नतलङ्घनेन।
उद्वर्तितानां महसां मणीनामूर्ध्वं प्रसर्पन्तमिवोर्मिमन्तम्॥

अन्वेषयन् दित्सितदक्षिणोहमाचार्यसान्दीपिनिसूनुवृत्तम् ।
आविष्टशङ्खासुरसन्निवेशं प्राञ्चं महाशङ्खमिहान्वविन्दम् ॥

यादोनिधाने यदुराजधान्याः सम्प्राप्तये सेतुरिहोपक्लृप्तः॥

रामेण सीतापतिना निबद्धे लङ्कापथे लाघवमादधाति ॥

विश्वास-प्रस्तुतिः

अमूनि कैलासनिभान्यदूरात् सिद्धाङ्गनासेव्यलतागृहाणि ।
पुण्यानि सत्ये पुलिनानि सिन्धोश्चिरेण दृष्टिं चरितार्थयन्ति ॥

तटप्रदेशेषु तरङ्गहस्तैः प्रसारयन् सम्प्रति फेनपङ्क्तीः।
सभाजनार्थं तनुते भवत्याः प्रायः पदन्यासपटीमुदन्वान् ॥

विलङ्घयन् व्योमपथेन सिन्धुं त्वद्दर्शने दीप्तकुतूहलानाम् ।
रथस्तवासौ त्वरयातिशेते मनोरथं विष्णुपदीवधूनाम् ॥

सुरद्रुमस्त्वद्विरहालसानां तवागमं सूचयितुं सखीनाम् ।
मधुव्रतीनां मधुरैः प्रणादैः प्रियंवदं प्रेषयतीव गन्धम् ॥

विजित्य सङ्ख्ये नरकं सनाकं प्रत्यागतं मां प्रतिगन्तुकामाः।
पौराः प्रहर्षोपनतैः प्रणादैरम्भोनिधेरन्तरयन्ति घोषान्॥

विधाय तार्क्ष्यं गगनाब्धिपोतं सार्धं मया देवि समाव्रजन्तीम् ।
प्रत्युद्गतेव प्रतिभाति भव्या दूरादियं द्वारवती पुरी त्वाम् ॥

निबद्धजैत्रध्वजपङ्क्तिरम्या पुष्पैरसौ पूरितराजमार्गा ।
सदामजान्बूनदतोरणश्रीः सौधत्विषा सूचयतीव हर्षम् ॥

पदे परस्मिन्निव नित्यमस्यां शुद्धेन सत्त्वेन विभूषितायाम् ।
धर्मस्य वासाः प्रथिताः पृथिव्यां सरित्पतौ गोष्पदवद्भवन्ति ॥

स्वरश्मिनिष्पादितसूर्यभेदामर्चिर्मुखैरञ्चितभव्यभागाम् ।
निवृत्तिधर्मे नियतस्थितीनां नैश्श्रेयसीं पद्धतिमाहुरेनाम् ॥

सौधोपरुद्धत्रिदिवावकाशं छायासमाक्रान्तभुजङ्गलोकाम् ।
पुरीमिमां भूषितसिन्धुमध्यां कुत्र स्थितां वेत्सि कुतोमुखां वा ॥

उदन्वता खातवती समन्तादयत्नवप्रायिततुङ्गवेला ।
न शक्यते सात्यकिना सनाथा नाथैः सुराणामपि जेतुमेषा ॥

प्राकारचक्रं यदुराजधान्याः पश्यैतदुत्तुङ्गमसूर्यलङ्घ्यम् ।
यद्भावमेवं भजते यथार्थं सङ्कोचमृच्छन्निव चक्रशैलः॥

निर्मुक्तशेषोरगनिर्विशेषैर्निकेतनैरुन्नमितान्तरिक्षम् ।
उदग्रतालध्वजमेतदग्रे सीमान्तरं सीरभृतो गुरोर्नः॥

अभैमसम्भाव्यविभूतियोगं हैमं सुरत्नैरचिरोपनीतैः।
अनुत्तमादुत्तरमार्यधाम्नः ख्यादं त्वया गेहमिदं मदीयम् ॥

प्रतीक्षमाणान् अधिचन्द्रशालं पश्य त्वया शिक्षितचारुलास्यान् ।
त्वत्केशहस्तस्वजनैः कलापैर्गोपानसीश्छादयतो मयूरान् ॥

आहारभेदैरुचितैर्भवत्या संरक्षितानां तनयाभिमानात्।
शृणुत्वदालोकनतर्षभाजां प्रजल्पितं पञ्जरशारिकाणाम् ॥

सीमन्तमुक्तामणि सन्निकर्षाते प्रसूतिचित्रीकृतशुक्तिरम्याः।
अमी पुरस्तात् भवतीसखीनामन्तर्मुदामञ्जलयः स्वदन्ते ॥

मायाधिकेन विधिना मनसेव सृष्टैराभाति यादवगृहैरनघा पुरीयम् ।
नाभागनाहुषनलादिनराधिपानामाजानसम्पदपहासमिवादधानैः।

नित्यं धनेशनगरीं निधिभिः प्रभूतामाखण्डलेन महिताममरावतीं च ।
प्रत्येकधामविभवैः परिभूय दृप्ता सौधैरियं प्रहसतीव सुधावदातैः॥

इत्यालपन्तमथ तार्क्ष्यरथेन कृष्णे हेमाद्रिणा हरितशैलमिवोपनीतम् ।
पौराः समीक्ष्य मुदिताः सह वल्लभाभिः पद्मावृतां दिवमकुर्वत दृष्टिपातैः॥

प्रत्युद्गतप्रियसखीजनदत्तहस्तां सत्यां त्रयीमयरथादवतारयिष्यन्।
नाथस्तदा नगरमध्यनभःप्रदेशादासीदति स्म निजसौधसमीपरथ्याम् ॥

व्यतिकरितसुवेलां विश्वकर्मप्रसूतिं लवणजलधिगुप्तामाप लङ्कामिवान्याम्।
धनपतिबहुमान्यां धर्मसेतुर्यदूनां दुरधिगमसमीपां द्वारकां राजधानीम् ॥

विजयिनमुपयातं वीक्ष्य सत्यासहायं व्यतनुत मुदितेव द्वारका वन्दिकृत्यम् ।
अमरतरुसमीरैः प्रेषितैराहृतानामुपवनमधुपानामुन्मदानां प्रणादैः॥

स्तुतिशतमुखराभिः स्वर्गनेतुः स जेता सविनयमनुयातः सत्यभामासखीभिः।
निजमगमदगारं निर्विशन् प्रेयसीनां स्मरशरशयितानां मन्दमभ्युत्थितानि ॥

अभिगतमुषया तदानिरुद्धं बलितनयेन बलीयसा निरुद्धम् ।
यदुपरिषदि सर्वलोकदर्शी कलहरुचिः कथयाम्बभूव योगी ॥

बाणाभिख्यं बलिसुतमथो बद्धबन्धुं जिगीषुः
सेनोत्थानं सुमहति पुरे श्वस्तनं घोषयित्वा ।
चिन्तारूढत्रिभुवनहितश्चिन्तनीयो मुनीनां
वासागारं प्रभुरधिगतो वासतेयीं निनाय ॥