विश्वास-प्रस्तुतिः
ऐरावतमथारुह्य श्वेताद्रिमिव जङ्गमम् ।
पुरीं द्वारवतीं शौरेराजगाम पुरन्दरः॥
मूलम्
ऐरावतमथारुह्य श्वेताद्रिमिव जङ्गमम् ।
पुरीं द्वारवतीं शौरेराजगाम पुरन्दरः॥
विश्वास-प्रस्तुतिः
अपत्यभावमापन्नमात्मानममृतोदधेः।
निमेषरहितैः पौरैर्देवभूतैर्निरीक्षितम् ॥
मूलम्
अपत्यभावमापन्नमात्मानममृतोदधेः।
निमेषरहितैः पौरैर्देवभूतैर्निरीक्षितम् ॥
विश्वास-प्रस्तुतिः
अदृश्यं मन्दपुण्यानाममन्दप्रीतिदायिनम् ।
आत्तदेहमिव स्वर्गमासेचनकदर्शनम् ॥
मूलम्
अदृश्यं मन्दपुण्यानाममन्दप्रीतिदायिनम् ।
आत्तदेहमिव स्वर्गमासेचनकदर्शनम् ॥
विश्वास-प्रस्तुतिः
महनीयपरिष्कारं वल्गुध्वजमतल्लिकम् ।
महोत्सवमिवाशानामाशाभ्यधिकसंपदम् ॥
मूलम्
महनीयपरिष्कारं वल्गुध्वजमतल्लिकम् ।
महोत्सवमिवाशानामाशाभ्यधिकसंपदम् ॥
विश्वास-प्रस्तुतिः
उदधेरिव मन्थेन पीडितस्य समुत्थितैः।
दृढलग्नैरिवोत्पत्तौ दीप्तं शोणितबिन्दुभिः॥
मूलम्
उदधेरिव मन्थेन पीडितस्य समुत्थितैः।
दृढलग्नैरिवोत्पत्तौ दीप्तं शोणितबिन्दुभिः॥
विश्वास-प्रस्तुतिः
दैत्यदानवदर्पघ्नैर्दन्तैर्दलितमन्दरैः।
सिंहानामपि हन्तारं सिंहवक्त्रविभूषणैः॥
मूलम्
दैत्यदानवदर्पघ्नैर्दन्तैर्दलितमन्दरैः।
सिंहानामपि हन्तारं सिंहवक्त्रविभूषणैः॥
विश्वास-प्रस्तुतिः
मेरुकल्पेन रुपेण मेदिनीधृतिहेतुना ।
त्रिदशप्रीतिदातारं स्त्यानसिन्दूरधातुना ॥
मूलम्
मेरुकल्पेन रुपेण मेदिनीधृतिहेतुना ।
त्रिदशप्रीतिदातारं स्त्यानसिन्दूरधातुना ॥
विश्वास-प्रस्तुतिः
मूर्ध्ना विपुलतुङ्गेन मेनकास्तनबन्धुना ।
दधतं मौक्तिकाकल्पं गङ्गाबुद्बुदनिर्मलम् ॥
मूलम्
मूर्ध्ना विपुलतुङ्गेन मेनकास्तनबन्धुना ।
दधतं मौक्तिकाकल्पं गङ्गाबुद्बुदनिर्मलम् ॥
विश्वास-प्रस्तुतिः
अजहद्भृङ्गगीतेन गर्जाडम्बरशोभिना ।
स्वकान्त्या कर्णतालेन क्लृप्तसंगीतखेलनम् ॥
मूलम्
अजहद्भृङ्गगीतेन गर्जाडम्बरशोभिना ।
स्वकान्त्या कर्णतालेन क्लृप्तसंगीतखेलनम् ॥
विश्वास-प्रस्तुतिः
नर्तयन्तममर्त्यानां नेत्रकौतुकसुतिकाम् ।
नासां त्रिदशनारीणामूरुनिर्माणमातृकाम् ॥
मूलम्
नर्तयन्तममर्त्यानां नेत्रकौतुकसुतिकाम् ।
नासां त्रिदशनारीणामूरुनिर्माणमातृकाम् ॥
विश्वास-प्रस्तुतिः
मङ्गलत्वमिवेच्छद्भिर्हैमशङ्खादिमण्डनैः।
आश्रितं रत्नपूर्णेन कुम्भेन च महीयसा ॥
मूलम्
मङ्गलत्वमिवेच्छद्भिर्हैमशङ्खादिमण्डनैः।
आश्रितं रत्नपूर्णेन कुम्भेन च महीयसा ॥
विश्वास-प्रस्तुतिः
विभूतिशरदम्भोदैः कीर्तिवल्लीगुलुच्छकैः।
कान्तिसागरकल्लोलैः सपक्षमिव चामरैः॥
मूलम्
विभूतिशरदम्भोदैः कीर्तिवल्लीगुलुच्छकैः।
कान्तिसागरकल्लोलैः सपक्षमिव चामरैः॥
विश्वास-प्रस्तुतिः
सहजं प्रभया चन्द्रं वारुणीं मदसंपदा ।
सूचयन्तं स्वमूर्त्या च सुधां शुद्धानुभाव्यया ॥
मूलम्
सहजं प्रभया चन्द्रं वारुणीं मदसंपदा ।
सूचयन्तं स्वमूर्त्या च सुधां शुद्धानुभाव्यया ॥
विश्वास-प्रस्तुतिः
जगदामोदजनकं दानार्द्रकरपुष्करम् ।
दभ्रयन्तमिवौदार्यात् दिव्यपादपसंपदम् ॥
मूलम्
जगदामोदजनकं दानार्द्रकरपुष्करम् ।
दभ्रयन्तमिवौदार्यात् दिव्यपादपसंपदम् ॥
विश्वास-प्रस्तुतिः
उदग्रबहुदन्तांशुं बृंहितव्याप्तदिङ्मुखम् ।
हसन्तमिव दिङ्नागान् अन्यान् अतिबलानपि ॥
मूलम्
उदग्रबहुदन्तांशुं बृंहितव्याप्तदिङ्मुखम् ।
हसन्तमिव दिङ्नागान् अन्यान् अतिबलानपि ॥
विश्वास-प्रस्तुतिः
उद्वहन्तं कदलिकां काञ्चनीं किङ्किणीफलाम् ।
वप्राभिघातभीतस्य सुमेरोरुपदामिव॥
मूलम्
उद्वहन्तं कदलिकां काञ्चनीं किङ्किणीफलाम् ।
वप्राभिघातभीतस्य सुमेरोरुपदामिव॥
विश्वास-प्रस्तुतिः
चित्रकम्बलसञ्छन्नं कान्तं कनककक्ष्यया।
विद्युतेव परिष्वक्तं वासरान्तशरद्घनम् ॥
मूलम्
चित्रकम्बलसञ्छन्नं कान्तं कनककक्ष्यया।
विद्युतेव परिष्वक्तं वासरान्तशरद्घनम् ॥
विश्वास-प्रस्तुतिः
अवधिं दर्शनीयानामाकल्पमनघं दिवः।
जीवातुं देवसैन्यानां दर्पभङ्गं विरुन्धताम् ॥
मूलम्
अवधिं दर्शनीयानामाकल्पमनघं दिवः।
जीवातुं देवसैन्यानां दर्पभङ्गं विरुन्धताम् ॥
विश्वास-प्रस्तुतिः
घण्टायुगलनादेन नगेन्द्रेष्वनुनादिना ।
क्षरन्तममृतक्ष्वेडौ कर्णेष्वमरतद्द्विषाम् ॥
मूलम्
घण्टायुगलनादेन नगेन्द्रेष्वनुनादिना ।
क्षरन्तममृतक्ष्वेडौ कर्णेष्वमरतद्द्विषाम् ॥
विश्वास-प्रस्तुतिः
महता मदगन्धेन तस्य विग्ना विबभ्रमुः।
उत्खातविपुलस्तम्भा नागास्त्रुटितशृङ्खलाः॥
मूलम्
महता मदगन्धेन तस्य विग्ना विबभ्रमुः।
उत्खातविपुलस्तम्भा नागास्त्रुटितशृङ्खलाः॥
विश्वास-प्रस्तुतिः
स तं द्वारवतीद्वारे समवस्थाप्य सानुगम् ।
आससाद हरेः स्थानमवज्ञातत्रिविष्टपम् ॥
मूलम्
स तं द्वारवतीद्वारे समवस्थाप्य सानुगम् ।
आससाद हरेः स्थानमवज्ञातत्रिविष्टपम् ॥
विश्वास-प्रस्तुतिः
शुभानामिव साम्राज्यं श्वेतद्वीपमिवापरम् ।
निवेदितसमाहूतः प्रासादं प्राविशत् प्रभोः॥
मूलम्
शुभानामिव साम्राज्यं श्वेतद्वीपमिवापरम् ।
निवेदितसमाहूतः प्रासादं प्राविशत् प्रभोः॥
विश्वास-प्रस्तुतिः
स तेन विहितां शक्रः प्रतिगृह्य प्रियार्हणाम् ।
निजगाद निजां भीतिं गद्गदोद्गमया गिरा॥
मूलम्
स तेन विहितां शक्रः प्रतिगृह्य प्रियार्हणाम् ।
निजगाद निजां भीतिं गद्गदोद्गमया गिरा॥
विश्वास-प्रस्तुतिः
दयनीयेषु देवेषु देवदेव त्वयाधुना ।
अपाङ्गाः परिपात्यन्तामनुक्रोशानुवर्तिनः॥
मूलम्
दयनीयेषु देवेषु देवदेव त्वयाधुना ।
अपाङ्गाः परिपात्यन्तामनुक्रोशानुवर्तिनः॥
विश्वास-प्रस्तुतिः
सुषुवे नरसिंहं त्वां भक्तप्रह्लादसंमुखम् ।
रक्षार्थमिह दीनानां रत्नस्थूणेव देवकी ॥
मूलम्
सुषुवे नरसिंहं त्वां भक्तप्रह्लादसंमुखम् ।
रक्षार्थमिह दीनानां रत्नस्थूणेव देवकी ॥
विश्वास-प्रस्तुतिः
नाथ त्वयि निराबाधें त्रिलोकीं त्रातुमागते ।
नरको नाम दैत्येन्द्रः कदर्थयति नाकिनः॥
मूलम्
नाथ त्वयि निराबाधें त्रिलोकीं त्रातुमागते ।
नरको नाम दैत्येन्द्रः कदर्थयति नाकिनः॥
विश्वास-प्रस्तुतिः
धर्मसूकररूपस्य तवासौ क्षमयान्वये।
उत्पात इव भूतानामुद्बभूव भयानकः॥
मूलम्
धर्मसूकररूपस्य तवासौ क्षमयान्वये।
उत्पात इव भूतानामुद्बभूव भयानकः॥
विश्वास-प्रस्तुतिः
जननी सर्भूतानां पत्नी तव वसुन्धरा ।
प्रसूय नरकं देवी दूयते त्वदुपेक्षया ॥
मूलम्
जननी सर्भूतानां पत्नी तव वसुन्धरा ।
प्रसूय नरकं देवी दूयते त्वदुपेक्षया ॥
विश्वास-प्रस्तुतिः
न हिरण्यहिरण्याक्षौ न मधुर्न च कैटभः।
उपमानपदे तस्य त्वच्छक्तिजनितात्मनः॥
मूलम्
न हिरण्यहिरण्याक्षौ न मधुर्न च कैटभः।
उपमानपदे तस्य त्वच्छक्तिजनितात्मनः॥
विश्वास-प्रस्तुतिः
एष कल्पान्तवृत्तान्तमिदानीन्तनयन्निव।
विधुनोति त्वदालम्बं ब्रह्मस्तम्बमिदम्परः॥
मूलम्
एष कल्पान्तवृत्तान्तमिदानीन्तनयन्निव।
विधुनोति त्वदालम्बं ब्रह्मस्तम्बमिदम्परः॥
विश्वास-प्रस्तुतिः
विक्रमस्रेतसा तस्य बृहन्त्यपि बलानि नः।
सहसा भेदमायान्ति सैकता इव सेतवः॥
मूलम्
विक्रमस्रेतसा तस्य बृहन्त्यपि बलानि नः।
सहसा भेदमायान्ति सैकता इव सेतवः॥
विश्वास-प्रस्तुतिः
यदृच्छोपगमेप्यस्य यान्ति देवगृहाश्रिताः।
प्रधावितुमनीशानाः साक्षितां सालभञ्जिकाः॥
मूलम्
यदृच्छोपगमेप्यस्य यान्ति देवगृहाश्रिताः।
प्रधावितुमनीशानाः साक्षितां सालभञ्जिकाः॥
विश्वास-प्रस्तुतिः
महता मत्प्रयुक्तेन वज्रेण ज्वलितात्मना।
निलिल्ये तस्य दोर्मध्ये निष्काभरणवर्ष्मणा ॥
मूलम्
महता मत्प्रयुक्तेन वज्रेण ज्वलितात्मना।
निलिल्ये तस्य दोर्मध्ये निष्काभरणवर्ष्मणा ॥
विश्वास-प्रस्तुतिः
त्वत्कोप इव दीप्तोपि ज्वलनो न प्रकाशते।
ज्योतिरिङ्गणवत् तस्य द्युमणेरिव सन्निधौ॥
मूलम्
त्वत्कोप इव दीप्तोपि ज्वलनो न प्रकाशते।
ज्योतिरिङ्गणवत् तस्य द्युमणेरिव सन्निधौ॥
विश्वास-प्रस्तुतिः
अमोघत्वयशोभङ्गभयादिव निवर्तते।
अखण्डितबले तस्मिन् दण्डो दण्डधरार्पितः॥
मूलम्
अमोघत्वयशोभङ्गभयादिव निवर्तते।
अखण्डितबले तस्मिन् दण्डो दण्डधरार्पितः॥
विश्वास-प्रस्तुतिः
नयनार्चिष्मतस्तस्य नैर्ऋतेश्वरवाहिनी।
अपसृप्य पुरोभागादद्यापि न निवर्तते ॥
मूलम्
नयनार्चिष्मतस्तस्य नैर्ऋतेश्वरवाहिनी।
अपसृप्य पुरोभागादद्यापि न निवर्तते ॥
विश्वास-प्रस्तुतिः
तं सुप्तमपि वा मत्तं वारुणो वैरिदारुणः।
न रोद्धुं क्षमते पाशो नलस्तम्ब इव द्विपम् ॥
मूलम्
तं सुप्तमपि वा मत्तं वारुणो वैरिदारुणः।
न रोद्धुं क्षमते पाशो नलस्तम्ब इव द्विपम् ॥
विश्वास-प्रस्तुतिः
शक्तः शमयितुं तस्य संवर्तार्हजवोपि सन्।
नभस्वान् खेलतः सङ्ख्ये न स्वेदकणिकामपि॥
मूलम्
शक्तः शमयितुं तस्य संवर्तार्हजवोपि सन्।
नभस्वान् खेलतः सङ्ख्ये न स्वेदकणिकामपि॥
विश्वास-प्रस्तुतिः
धनदेन गदा तस्य महती मूर्ध्नि पातिता।
अभित्त्वा पौष्पमापीडमनापीडत्वमादधे ॥
मूलम्
धनदेन गदा तस्य महती मूर्ध्नि पातिता।
अभित्त्वा पौष्पमापीडमनापीडत्वमादधे ॥
विश्वास-प्रस्तुतिः
जटिलान् कृत्तिवसनात् नियमं तीव्रमास्थितान्।
तपस्विन इति ज्ञात्वा स रुद्रान् नातिवर्तते॥
मूलम्
जटिलान् कृत्तिवसनात् नियमं तीव्रमास्थितान्।
तपस्विन इति ज्ञात्वा स रुद्रान् नातिवर्तते॥
विश्वास-प्रस्तुतिः
अहरत् वारुणं छत्रं मामकं मणिभूधरम्।
अमृतस्यन्दिनी चास्मज्जनन्या मणिकुण्डले॥
मूलम्
अहरत् वारुणं छत्रं मामकं मणिभूधरम्।
अमृतस्यन्दिनी चास्मज्जनन्या मणिकुण्डले॥
विश्वास-प्रस्तुतिः
आदर्शमिव संपत्तेरमृताब्धेरिवाशयम्।
औपवाह्यमसौ मत्कमारुरुक्षति साम्प्रतम् ॥
मूलम्
आदर्शमिव संपत्तेरमृताब्धेरिवाशयम्।
औपवाह्यमसौ मत्कमारुरुक्षति साम्प्रतम् ॥
विश्वास-प्रस्तुतिः
देनदानवसिद्धानां नृपाणामपि कन्यकाः।
अपहृत्य त्वदेकार्हास्त्वरते पाणिपीडने॥
मूलम्
देनदानवसिद्धानां नृपाणामपि कन्यकाः।
अपहृत्य त्वदेकार्हास्त्वरते पाणिपीडने॥
विश्वास-प्रस्तुतिः
स भौमस्त्वन्निरस्तानां समवाय इवोत्थितः।
बाधते विबुधानेवं बलवीर्यपराक्रमैः॥
मूलम्
स भौमस्त्वन्निरस्तानां समवाय इवोत्थितः।
बाधते विबुधानेवं बलवीर्यपराक्रमैः॥
विश्वास-प्रस्तुतिः
तदेवमवसीदत्सु दया देवेषु पात्यताम्।
अनपह्नुतदास्यानां दोषनिह्नवसाक्षिणी ॥
मूलम्
तदेवमवसीदत्सु दया देवेषु पात्यताम्।
अनपह्नुतदास्यानां दोषनिह्नवसाक्षिणी ॥
विश्वास-प्रस्तुतिः
तमर्धं भूमिभारस्य त्वयैवोत्पादितं प्रभो।
त्रिलोकीकण्टकं तीक्ष्णं त्वमेवोद्धर्तुमर्हसि ॥
मूलम्
तमर्धं भूमिभारस्य त्वयैवोत्पादितं प्रभो।
त्रिलोकीकण्टकं तीक्ष्णं त्वमेवोद्धर्तुमर्हसि ॥
विश्वास-प्रस्तुतिः
निवर्त्य धर्मशल्येस्मिन् निदाने सर्वपाप्मनाम् ।
निवेदनमिहास्माकमंशो निर्वहणं तव॥
मूलम्
निवर्त्य धर्मशल्येस्मिन् निदाने सर्वपाप्मनाम् ।
निवेदनमिहास्माकमंशो निर्वहणं तव॥
विश्वास-प्रस्तुतिः
मशकामर्शवत् यस्य मधुकैटभमर्दनम्।
तदन्यदनुजध्वंसे तस्य ते किमिवाद्भुतम्॥
मूलम्
मशकामर्शवत् यस्य मधुकैटभमर्दनम्।
तदन्यदनुजध्वंसे तस्य ते किमिवाद्भुतम्॥
विश्वास-प्रस्तुतिः
निगमान्तेषु निगदव्याख्यातनिजवैभवः।
विधत्स्व विपदुत्तीर्णान् अमर्त्यान् अनुकम्पया ॥
मूलम्
निगमान्तेषु निगदव्याख्यातनिजवैभवः।
विधत्स्व विपदुत्तीर्णान् अमर्त्यान् अनुकम्पया ॥
विश्वास-प्रस्तुतिः
इति विज्ञापितोदन्तं दत्तहस्तं बलद्विषम्।
विनिवर्त्य जगन्नाथो वैनतेयमथास्मरत् ॥
मूलम्
इति विज्ञापितोदन्तं दत्तहस्तं बलद्विषम्।
विनिवर्त्य जगन्नाथो वैनतेयमथास्मरत् ॥
विश्वास-प्रस्तुतिः
अनुचिन्तितमात्रस्तमुपतस्थे खगेश्वरः।
अहीन्द्रदामभिर्भीमैरंसलम्बिभिरंसलः॥
मूलम्
अनुचिन्तितमात्रस्तमुपतस्थे खगेश्वरः।
अहीन्द्रदामभिर्भीमैरंसलम्बिभिरंसलः॥
विश्वास-प्रस्तुतिः
पक्षमारुतघोषेण त्रैलोक्यदुरितच्छिदा।
चतुर्णामिव वेदानां संभूतिमिव भावयन्॥
मूलम्
पक्षमारुतघोषेण त्रैलोक्यदुरितच्छिदा।
चतुर्णामिव वेदानां संभूतिमिव भावयन्॥
विश्वास-प्रस्तुतिः
तरुणार्कप्रभासार सामरस्यजुषा त्विषा।
तप्तहेमद्रवौघेन लिम्पन्निव दिशो दश॥
मूलम्
तरुणार्कप्रभासार सामरस्यजुषा त्विषा।
तप्तहेमद्रवौघेन लिम्पन्निव दिशो दश॥
विश्वास-प्रस्तुतिः
स्वामुदर्शनसन्तोषात् प्रहृष्यद्भिस्तनूरुहैः।
युगान्तसन्ध्याजलदः तटिज्जालैरिव ज्वलन्॥
मूलम्
स्वामुदर्शनसन्तोषात् प्रहृष्यद्भिस्तनूरुहैः।
युगान्तसन्ध्याजलदः तटिज्जालैरिव ज्वलन्॥
विश्वास-प्रस्तुतिः
विपुलाद्भुतसंस्थानैर्द्योतितो दिव्यभूषणैः।
भुजगेन्द्रफणारत्नशङ्कार्हमणिचित्रितैः॥
मूलम्
विपुलाद्भुतसंस्थानैर्द्योतितो दिव्यभूषणैः।
भुजगेन्द्रफणारत्नशङ्कार्हमणिचित्रितैः॥
विश्वास-प्रस्तुतिः
तुङ्गवज्रव्रणाङ्केन सुविस्तीर्णेन वक्षसा।
अबहिर्भावयन् कृत्स्नमवकाशं विहायसः॥
मूलम्
तुङ्गवज्रव्रणाङ्केन सुविस्तीर्णेन वक्षसा।
अबहिर्भावयन् कृत्स्नमवकाशं विहायसः॥
विश्वास-प्रस्तुतिः
पृथुना भुजयुग्मेन भोगीन्द्रपरिकर्मणा।
मन्दरद्वितयेनेव समेतो रुक्मपर्वतः॥
मूलम्
पृथुना भुजयुग्मेन भोगीन्द्रपरिकर्मणा।
मन्दरद्वितयेनेव समेतो रुक्मपर्वतः॥
विश्वास-प्रस्तुतिः
व्यालखण्डनसङ्कान्तविषपङ्ककलङ्किना।
दधान इव तुण्डेन दैत्यदर्पगजाङ्कुशम् ॥
मूलम्
व्यालखण्डनसङ्कान्तविषपङ्ककलङ्किना।
दधान इव तुण्डेन दैत्यदर्पगजाङ्कुशम् ॥
विश्वास-प्रस्तुतिः
तक्षकश्रोणिसूत्रेण दृढबद्धेन बन्धुरम्।
मान्यमग्रजवर्णेन वसानो दिव्यमम्बरम् ॥
मूलम्
तक्षकश्रोणिसूत्रेण दृढबद्धेन बन्धुरम्।
मान्यमग्रजवर्णेन वसानो दिव्यमम्बरम् ॥
विश्वास-प्रस्तुतिः
नाथभक्तिपरिष्कार्यां नृत्तलीलामिव स्पृशन्।
निजेन स्थानकेनाग्रे निहितोन्नतजानुना॥
मूलम्
नाथभक्तिपरिष्कार्यां नृत्तलीलामिव स्पृशन्।
निजेन स्थानकेनाग्रे निहितोन्नतजानुना॥
विश्वास-प्रस्तुतिः
वपुषा भक्तिनम्रेण धीरोन्नतमहीयसा।
शान्तवीराद्भुतरसान् समाहृत्येव संपतन्॥
मूलम्
वपुषा भक्तिनम्रेण धीरोन्नतमहीयसा।
शान्तवीराद्भुतरसान् समाहृत्येव संपतन्॥
विश्वास-प्रस्तुतिः
मूर्तिमानिव संरम्भो रूपवानिव मारुतः।
तरङ्गान् पक्षतीकृत्य संक्षिप्त इव सागरः॥
मूलम्
मूर्तिमानिव संरम्भो रूपवानिव मारुतः।
तरङ्गान् पक्षतीकृत्य संक्षिप्त इव सागरः॥
विश्वास-प्रस्तुतिः
संवर्त इव नागानां सङ्घात इव रंहसाम्।
वालखिल्यचरित्राणां विपाक इव जङ्गमः॥
मूलम्
संवर्त इव नागानां सङ्घात इव रंहसाम्।
वालखिल्यचरित्राणां विपाक इव जङ्गमः॥
विश्वास-प्रस्तुतिः
प्रभुस्तं दैत्यसिद्धीनां प्रसूतकिलिकिञ्चितम्।
ओलण्डितमिवापश्यदुग्रं समरताण्डवम्॥
मूलम्
प्रभुस्तं दैत्यसिद्धीनां प्रसूतकिलिकिञ्चितम्।
ओलण्डितमिवापश्यदुग्रं समरताण्डवम्॥
विश्वास-प्रस्तुतिः
दत्तनीराजनस्तेन ददृशे वाहनेश्वरः।
प्रदक्षिणीकृताः शश्वत् प्रतापविजयश्रिया ॥
मूलम्
दत्तनीराजनस्तेन ददृशे वाहनेश्वरः।
प्रदक्षिणीकृताः शश्वत् प्रतापविजयश्रिया ॥
विश्वास-प्रस्तुतिः
स तदास्फोटयामास विन्ध्यमेरुसमौ भुजौ।
रुद्रया च सुकीर्त्या च मृदितौ कण्ठभूषणैः॥
मूलम्
स तदास्फोटयामास विन्ध्यमेरुसमौ भुजौ।
रुद्रया च सुकीर्त्या च मृदितौ कण्ठभूषणैः॥
विश्वास-प्रस्तुतिः
दुधुवे पक्षती च द्वे डोलायितकुलाचले।
वीजयन् घोरदुर्वादिघर्मतप्तामिव त्रयीम् ॥
मूलम्
दुधुवे पक्षती च द्वे डोलायितकुलाचले।
वीजयन् घोरदुर्वादिघर्मतप्तामिव त्रयीम् ॥
विश्वास-प्रस्तुतिः
मुहुराम्रेडयामास जयालोकयभारतीम्।
मुग्धमध्यप्रगल्भाभिर्दशाभिः कर्बुरामिव ॥
मूलम्
मुहुराम्रेडयामास जयालोकयभारतीम्।
मुग्धमध्यप्रगल्भाभिर्दशाभिः कर्बुरामिव ॥
विश्वास-प्रस्तुतिः
स तदा सन्नतस्कन्धो बद्धाञ्जलिरनिःश्वसन्।
मुमुदे मूर्ध्नि संस्पृष्टो मुकुन्देन प्रसेदुषा॥
मूलम्
स तदा सन्नतस्कन्धो बद्धाञ्जलिरनिःश्वसन्।
मुमुदे मूर्ध्नि संस्पृष्टो मुकुन्देन प्रसेदुषा॥
विश्वास-प्रस्तुतिः
तस्मिन् प्रथममारोप्य सत्यां विरहविक्लवाम्।
आरुरोह ततः शौरिराखण्डलकृतस्तुतिः॥
मूलम्
तस्मिन् प्रथममारोप्य सत्यां विरहविक्लवाम्।
आरुरोह ततः शौरिराखण्डलकृतस्तुतिः॥
विश्वास-प्रस्तुतिः
निवर्त्य स्वनिवासाय शक्रं शमितसाध्वसम्।
प्रययौ दीप्तसन्नाहः प्राग्ज्योतिषपुरं प्रभुः॥
मूलम्
निवर्त्य स्वनिवासाय शक्रं शमितसाध्वसम्।
प्रययौ दीप्तसन्नाहः प्राग्ज्योतिषपुरं प्रभुः॥
विश्वास-प्रस्तुतिः
श्रेयःपरिपणं तस्य श्रुतिश्रेणिशिरोमृतम्।
प्रणतः प्रतिजग्राह शासनं पाकशासनः॥
मूलम्
श्रेयःपरिपणं तस्य श्रुतिश्रेणिशिरोमृतम्।
प्रणतः प्रतिजग्राह शासनं पाकशासनः॥
विश्वास-प्रस्तुतिः
यथास्वं नगरद्वारे यादवा दानवाश्च तम्।
तरस्विगरुडारूढं सत्यमैक्षन्त तत्क्षणम्॥
मूलम्
यथास्वं नगरद्वारे यादवा दानवाश्च तम्।
तरस्विगरुडारूढं सत्यमैक्षन्त तत्क्षणम्॥
विश्वास-प्रस्तुतिः
समन्तात् वैरिदुर्गस्य क्षिप्तचक्रः क्षणेन सः।
क्षुरान्तान् अनिच्छत् पाशान् आततान् शतयोजनम्॥
मूलम्
समन्तात् वैरिदुर्गस्य क्षिप्तचक्रः क्षणेन सः।
क्षुरान्तान् अनिच्छत् पाशान् आततान् शतयोजनम्॥
विश्वास-प्रस्तुतिः
मुरं पञ्चजनं सप्तसहस्राणि मुरोद्भवान्।
शलभीकृत्य चक्राग्निरुपदुद्राव तत् पुरम्॥
मूलम्
मुरं पञ्चजनं सप्तसहस्राणि मुरोद्भवान्।
शलभीकृत्य चक्राग्निरुपदुद्राव तत् पुरम्॥
विश्वास-प्रस्तुतिः
ततः प्राग्ज्योतिषद्वारे दैत्यदानवसूदनः।
पाञ्चजन्यमुपादध्मौ प्रलयाम्बुधिनिस्वनम्॥
मूलम्
ततः प्राग्ज्योतिषद्वारे दैत्यदानवसूदनः।
पाञ्चजन्यमुपादध्मौ प्रलयाम्बुधिनिस्वनम्॥
विश्वास-प्रस्तुतिः
वीक्ष्य तं विविशुर्दुर्गं दिवाभीता इवासुराः।
उद्यन्तमिव तिग्मांशुमुदयाद्रौ गरुत्मति ॥
मूलम्
वीक्ष्य तं विविशुर्दुर्गं दिवाभीता इवासुराः।
उद्यन्तमिव तिग्मांशुमुदयाद्रौ गरुत्मति ॥
विश्वास-प्रस्तुतिः
अभिमानोदितव्यक्तिरहङ्कार इवोल्बणः।
महतो दैत्यनगरान्निरगान्नरकासुरः॥
मूलम्
अभिमानोदितव्यक्तिरहङ्कार इवोल्बणः।
महतो दैत्यनगरान्निरगान्नरकासुरः॥
विश्वास-प्रस्तुतिः
तमस्रमायाभ्यधिका दानवाः पर्यवारयन्।
प्रकटच्छन्नकौटिल्याः पाषण्डमिव हैतुकाः॥
मूलम्
तमस्रमायाभ्यधिका दानवाः पर्यवारयन्।
प्रकटच्छन्नकौटिल्याः पाषण्डमिव हैतुकाः॥
विश्वास-प्रस्तुतिः
संयुगे रजसोद्रिक्ते तस्मिन् सत्त्वतमस्त्विषोः।
अर्थिप्रत्यर्थिनोरासीदनभिव्यक्तरुपता॥
मूलम्
संयुगे रजसोद्रिक्ते तस्मिन् सत्त्वतमस्त्विषोः।
अर्थिप्रत्यर्थिनोरासीदनभिव्यक्तरुपता॥
विश्वास-प्रस्तुतिः
शरधारासहस्रेणच्छादयन् नरको दिशः।
स्वहेतुमभिसंपेदे समुद्रमिव तोयदः॥
मूलम्
शरधारासहस्रेणच्छादयन् नरको दिशः।
स्वहेतुमभिसंपेदे समुद्रमिव तोयदः॥
विश्वास-प्रस्तुतिः
नरकाम्बुदमुक्ताभिर्नाथो नाराचवृष्टिभिः।
विपद्भिरिव तद्भक्तो विषमाभिर्न विव्यथे॥
मूलम्
नरकाम्बुदमुक्ताभिर्नाथो नाराचवृष्टिभिः।
विपद्भिरिव तद्भक्तो विषमाभिर्न विव्यथे॥
विश्वास-प्रस्तुतिः
दृप्यतामथ दैत्यानां ध्वनिरुत्कम्पयन् दिवम्।
पाञ्चजन्यप्रणादेन पर्यभूयत भूयसा॥
मूलम्
दृप्यतामथ दैत्यानां ध्वनिरुत्कम्पयन् दिवम्।
पाञ्चजन्यप्रणादेन पर्यभूयत भूयसा॥
विश्वास-प्रस्तुतिः
दिदृक्षोपगतानां तत् देवानां रोमहर्षणम्।
अदीव्यत रणद्यूतमन्तरस्थयशःपणम्।
मूलम्
दिदृक्षोपगतानां तत् देवानां रोमहर्षणम्।
अदीव्यत रणद्यूतमन्तरस्थयशःपणम्।
विश्वास-प्रस्तुतिः
प्रतिविव्याध दैतेयं बाणैरशनिभीषणैः।
पक्षवन्तमिवाद्रीन्द्रं प्रकुप्यन् पाकशासनः॥
मूलम्
प्रतिविव्याध दैतेयं बाणैरशनिभीषणैः।
पक्षवन्तमिवाद्रीन्द्रं प्रकुप्यन् पाकशासनः॥
विश्वास-प्रस्तुतिः
शरसंहतयस्तस्य क्षरन्त्यः शार्ङ्गशैलतः।
द्विधा चक्रुः स्ववेगेन द्विषद्बलमहार्णवम्॥
मूलम्
शरसंहतयस्तस्य क्षरन्त्यः शार्ङ्गशैलतः।
द्विधा चक्रुः स्ववेगेन द्विषद्बलमहार्णवम्॥
विश्वास-प्रस्तुतिः
तस्य ज्यास्वनगीतानि समयुज्यन्त संयुगे।
करिणां कर्णतालैश्च कबन्धानां च ताण्डवैः॥
मूलम्
तस्य ज्यास्वनगीतानि समयुज्यन्त संयुगे।
करिणां कर्णतालैश्च कबन्धानां च ताण्डवैः॥
विश्वास-प्रस्तुतिः
दैत्यशोणितदिग्धाभिस्तद्बाणततिभिर्नभः।
रुरुधे रोषताम्राभिः कृतान्तस्येव दृष्टिभिः॥
मूलम्
दैत्यशोणितदिग्धाभिस्तद्बाणततिभिर्नभः।
रुरुधे रोषताम्राभिः कृतान्तस्येव दृष्टिभिः॥
विश्वास-प्रस्तुतिः
द्विरदा शरनिर्भिन्नकुम्भनिर्मुक्तमौक्तिकाः।
क्षरन्तः करकासारं कल्पमेघा इवाबभुः॥
मूलम्
द्विरदा शरनिर्भिन्नकुम्भनिर्मुक्तमौक्तिकाः।
क्षरन्तः करकासारं कल्पमेघा इवाबभुः॥
विश्वास-प्रस्तुतिः
नासावालधिभिर्नागाः क्षरन्तो रक्तनिर्झरान्।
शशंसुर्लाघवं तस्य निष्पत्राकृत सायकम् ॥
मूलम्
नासावालधिभिर्नागाः क्षरन्तो रक्तनिर्झरान्।
शशंसुर्लाघवं तस्य निष्पत्राकृत सायकम् ॥
विश्वास-प्रस्तुतिः
अग्रिमं विशतां स्कन्धमामूलमहितां चमूम्।
शराणां तस्य संधाननिपातौ न द्विषोविदुः॥
मूलम्
अग्रिमं विशतां स्कन्धमामूलमहितां चमूम्।
शराणां तस्य संधाननिपातौ न द्विषोविदुः॥
विश्वास-प्रस्तुतिः
लक्ष्यमेकमभूत् तस्य शराणामुत्पलत्विषाम् ।
अमरस्त्रीकटाक्षाणामप्यभङ्गुरधन्वनः॥
मूलम्
लक्ष्यमेकमभूत् तस्य शराणामुत्पलत्विषाम् ।
अमरस्त्रीकटाक्षाणामप्यभङ्गुरधन्वनः॥
विश्वास-प्रस्तुतिः
चिरप्रार्थितभीतानां स तासामेव शात्रवान्।
स्वयंवरपतींश्चक्रे सुधन्वा सुरसुभ्रुवाम्॥
मूलम्
चिरप्रार्थितभीतानां स तासामेव शात्रवान्।
स्वयंवरपतींश्चक्रे सुधन्वा सुरसुभ्रुवाम्॥
विश्वास-प्रस्तुतिः
त्यक्त्वा भीतिवृतांस्तत्र विमुक्तान् जीविताशया।
सार्धमप्सरसः कीर्त्या वीरान् स्वयमवृण्वत॥
मूलम्
त्यक्त्वा भीतिवृतांस्तत्र विमुक्तान् जीविताशया।
सार्धमप्सरसः कीर्त्या वीरान् स्वयमवृण्वत॥
विश्वास-प्रस्तुतिः
अनन्तस्य तदानन्तैरसुरैराहवोत्सवः।
जयश्रियं च सत्यां च सम्मते समतोषयत् ॥
मूलम्
अनन्तस्य तदानन्तैरसुरैराहवोत्सवः।
जयश्रियं च सत्यां च सम्मते समतोषयत् ॥
विश्वास-प्रस्तुतिः
स्वबाधनियतस्तत्र परबाधाभिलाषिणाम्।
प्रयासः सुरशत्रूणां जात्युत्तरमिवाभवत्॥
मूलम्
स्वबाधनियतस्तत्र परबाधाभिलाषिणाम्।
प्रयासः सुरशत्रूणां जात्युत्तरमिवाभवत्॥
विश्वास-प्रस्तुतिः
विसन्धिविग्रहाः क्षिप्तयानासनसमाश्रयाः।
द्वैधीभावसृजो योधा दुर्नयस्था इवाभवन्॥
मूलम्
विसन्धिविग्रहाः क्षिप्तयानासनसमाश्रयाः।
द्वैधीभावसृजो योधा दुर्नयस्था इवाभवन्॥
विश्वास-प्रस्तुतिः
अनघव्यवसायानामसङ्गत्यक्तवर्ष्मणाम्।
योगिनामिव तत्रासीदपरावर्तनागतिः॥
मूलम्
अनघव्यवसायानामसङ्गत्यक्तवर्ष्मणाम्।
योगिनामिव तत्रासीदपरावर्तनागतिः॥
विश्वास-प्रस्तुतिः
वनं तत्र मुकुन्देन त्याजितान् महती स्वयम्।
अवृणोदनघा कीर्तिरधिविन्नाप्सरोगणान्॥
मूलम्
वनं तत्र मुकुन्देन त्याजितान् महती स्वयम्।
अवृणोदनघा कीर्तिरधिविन्नाप्सरोगणान्॥
विश्वास-प्रस्तुतिः
निस्सहायीकृतस्तत्र शरवर्षैर्धरासुतः।
बह्वमन्यत तेनैव द्वन्द्वयुद्धमुपस्थितम्॥
मूलम्
निस्सहायीकृतस्तत्र शरवर्षैर्धरासुतः।
बह्वमन्यत तेनैव द्वन्द्वयुद्धमुपस्थितम्॥
विश्वास-प्रस्तुतिः
कृतप्रतिकृतैरस्त्रप्रयोगैः क्रीडतोस्तयोः।
अदृष्टान्तमभूत् युद्धमन्यदृष्टान्तवर्जितम्॥
मूलम्
कृतप्रतिकृतैरस्त्रप्रयोगैः क्रीडतोस्तयोः।
अदृष्टान्तमभूत् युद्धमन्यदृष्टान्तवर्जितम्॥
विश्वास-प्रस्तुतिः
वक्रवृत्तिः सरुधिरो लोहिताङ्गो महीसुतः।
प्राप्य यादवभास्वन्तं मूढः समभवत् क्रमात्॥
मूलम्
वक्रवृत्तिः सरुधिरो लोहिताङ्गो महीसुतः।
प्राप्य यादवभास्वन्तं मूढः समभवत् क्रमात्॥
विश्वास-प्रस्तुतिः
स्वायुधैकसहायस्तु देवः स्वच्छन्दयादवः।
निरयापरपर्यायं रिपुं चक्रे निरायुधम् ॥
मूलम्
स्वायुधैकसहायस्तु देवः स्वच्छन्दयादवः।
निरयापरपर्यायं रिपुं चक्रे निरायुधम् ॥
विश्वास-प्रस्तुतिः
क्रोधरक्ततनुर्दैत्यः क्षरच्छोणितनिर्झरः।
गृहीतपादसञ्चारो गैरिकाद्रिरिवाबभौ॥
मूलम्
क्रोधरक्ततनुर्दैत्यः क्षरच्छोणितनिर्झरः।
गृहीतपादसञ्चारो गैरिकाद्रिरिवाबभौ॥
विश्वास-प्रस्तुतिः
निशितैस्तस्य नाराचैर्निर्भिन्नरथसारथिः।
आस्फोटितभुजस्तार्क्ष्यमजिघांसदमर्त्यजित्॥
मूलम्
निशितैस्तस्य नाराचैर्निर्भिन्नरथसारथिः।
आस्फोटितभुजस्तार्क्ष्यमजिघांसदमर्त्यजित्॥
विश्वास-प्रस्तुतिः
निसर्गतमसस्तस्य जिह्मगस्याङ्गमुत्तमम्।
रथपादेन चिच्छेद राहोरिव रमापतिः।
मूलम्
निसर्गतमसस्तस्य जिह्मगस्याङ्गमुत्तमम्।
रथपादेन चिच्छेद राहोरिव रमापतिः।
विश्वास-प्रस्तुतिः
स्फुरद्भ्रुकुटि दैत्यस्य रोषदष्टाधरं मुखम्।
निकृत्तमपि न द्रष्टुं प्रबभूवुर्दिवौकसः॥
मूलम्
स्फुरद्भ्रुकुटि दैत्यस्य रोषदष्टाधरं मुखम्।
निकृत्तमपि न द्रष्टुं प्रबभूवुर्दिवौकसः॥
विश्वास-प्रस्तुतिः
निकृत्तशिरसं देवी निजाङ्के पतितं सुतम्।
महती मेदिनी दीनं कम्पमानान्वकम्पत॥
मूलम्
निकृत्तशिरसं देवी निजाङ्के पतितं सुतम्।
महती मेदिनी दीनं कम्पमानान्वकम्पत॥
विश्वास-प्रस्तुतिः
अथ सा दैत्यहन्तारं प्रणम्य नतजीवितम्।
अयाचत दयासिन्धुमात्मजस्य शुभां गतिम् ॥
मूलम्
अथ सा दैत्यहन्तारं प्रणम्य नतजीवितम्।
अयाचत दयासिन्धुमात्मजस्य शुभां गतिम् ॥
विश्वास-प्रस्तुतिः
तुष्टाव च पतिं तुष्टा मेदिनी विश्ववेदिनी।
स्नपयन्तीव संयत्तं दन्तदीधितिगङ्गया॥
मूलम्
तुष्टाव च पतिं तुष्टा मेदिनी विश्ववेदिनी।
स्नपयन्तीव संयत्तं दन्तदीधितिगङ्गया॥
विश्वास-प्रस्तुतिः
अहमस्मि विभूतिस्ते भूतधात्री त्वया धृता।
अशेषाधारमेकं त्वामनाधारमधीयते॥
मूलम्
अहमस्मि विभूतिस्ते भूतधात्री त्वया धृता।
अशेषाधारमेकं त्वामनाधारमधीयते॥
विश्वास-प्रस्तुतिः
तिसृभिश्शक्तिभिर्युक्तं षाड्गुण्यप्रथितोदयम्।
अधिराजमशेषस्य जगदुस्त्वां जिताहितम्॥
मूलम्
तिसृभिश्शक्तिभिर्युक्तं षाड्गुण्यप्रथितोदयम्।
अधिराजमशेषस्य जगदुस्त्वां जिताहितम्॥
विश्वास-प्रस्तुतिः
अपि कोटिमुखैः सर्वैरनन्तेनाप्यनेहसा।
नाथ त्वद्गुणदुग्धाब्धिपृषदास्वादनं क्षमम्॥
मूलम्
अपि कोटिमुखैः सर्वैरनन्तेनाप्यनेहसा।
नाथ त्वद्गुणदुग्धाब्धिपृषदास्वादनं क्षमम्॥
विश्वास-प्रस्तुतिः
अकर्तुमन्यथाकर्तुं कर्तुमप्यखिलं क्षमम्।
लक्ष्मीलक्षणमाहुस्त्वां लङ्घितत्रिविधावधिम्॥
मूलम्
अकर्तुमन्यथाकर्तुं कर्तुमप्यखिलं क्षमम्।
लक्ष्मीलक्षणमाहुस्त्वां लङ्घितत्रिविधावधिम्॥
विश्वास-प्रस्तुतिः
स्थिरत्रसविभक्तं ते चिदचिद्भेदचित्रितम्।
स्वसृष्टमिदमुद्यानं त्वदन्यो नास्ति रक्षितुम्॥
मूलम्
स्थिरत्रसविभक्तं ते चिदचिद्भेदचित्रितम्।
स्वसृष्टमिदमुद्यानं त्वदन्यो नास्ति रक्षितुम्॥
विश्वास-प्रस्तुतिः
स्वातन्त्र्यपरतन्त्रस्त्वं पारतन्त्र्यस्वतन्त्रितैः।
विहरस्यात्मसूत्रस्थैः शकुनैरिव जन्तुभिः॥
मूलम्
स्वातन्त्र्यपरतन्त्रस्त्वं पारतन्त्र्यस्वतन्त्रितैः।
विहरस्यात्मसूत्रस्थैः शकुनैरिव जन्तुभिः॥
विश्वास-प्रस्तुतिः
सितासितगुणारब्धैः पाशजालैर्दुरत्ययैः।
निबद्धाः पशवो नाथ त्वदेकाधीनमुक्तयः॥
मूलम्
सितासितगुणारब्धैः पाशजालैर्दुरत्ययैः।
निबद्धाः पशवो नाथ त्वदेकाधीनमुक्तयः॥
विश्वास-प्रस्तुतिः
यस्य त्वं यश्च हृद्यस्ते यस्यासौ तस्य यस्तथा।
नाथ त्वत्पदमारुह्य न पुनस्तैर्निवृत्यते॥
मूलम्
यस्य त्वं यश्च हृद्यस्ते यस्यासौ तस्य यस्तथा।
नाथ त्वत्पदमारुह्य न पुनस्तैर्निवृत्यते॥
विश्वास-प्रस्तुतिः
सुरासुरविभागोयं तुलाग्रन्यायतस्त्वया।
कल्पितः कालपर्यायान्निम्नोतसमक्रमः॥
मूलम्
सुरासुरविभागोयं तुलाग्रन्यायतस्त्वया।
कल्पितः कालपर्यायान्निम्नोतसमक्रमः॥
विश्वास-प्रस्तुतिः
कस्त्वदङ्गीकृतं हन्ता कस्त्राता त्वज्जिघांसितम्।
निहन्सि पासि चैकस्त्वं स्वेन विश्वंपरेण वा॥
मूलम्
कस्त्वदङ्गीकृतं हन्ता कस्त्राता त्वज्जिघांसितम्।
निहन्सि पासि चैकस्त्वं स्वेन विश्वंपरेण वा॥
विश्वास-प्रस्तुतिः
वृद्धिसङ्कोचविषमा गतागतसहायिनी।
नियतिः केन लङ्घ्येत निजच्छायानुकारिणी॥
मूलम्
वृद्धिसङ्कोचविषमा गतागतसहायिनी।
नियतिः केन लङ्घ्येत निजच्छायानुकारिणी॥
विश्वास-प्रस्तुतिः
नपुत्रवधमन्वीक्ष्य न दूये त्वन्मतस्थिता।
न च पुत्राभिमानो मे मत्प्रसूतेषु जन्तुषु॥
मूलम्
नपुत्रवधमन्वीक्ष्य न दूये त्वन्मतस्थिता।
न च पुत्राभिमानो मे मत्प्रसूतेषु जन्तुषु॥
विश्वास-प्रस्तुतिः
सूदने कृतसङ्कल्पः स्वभक्तपरिपन्थिनाम्।
यदि तीर्णप्रतिज्ञस्त्वं किं मयेदं न मृष्यते॥
मूलम्
सूदने कृतसङ्कल्पः स्वभक्तपरिपन्थिनाम्।
यदि तीर्णप्रतिज्ञस्त्वं किं मयेदं न मृष्यते॥
विश्वास-प्रस्तुतिः
त्वन्मायाजृम्भितैर्देव ब्रह्माण्डैरपि लीयते।
जन्मन्यपि सुरोधेषु जन्तुवर्गेषु का कथा॥
मूलम्
त्वन्मायाजृम्भितैर्देव ब्रह्माण्डैरपि लीयते।
जन्मन्यपि सुरोधेषु जन्तुवर्गेषु का कथा॥
विश्वास-प्रस्तुतिः
त्वत्प्रसूतस्त्वयैवासौ वधितश्चक्रधारया।
का नाम कृतिनस्तस्य परिदेवयितव्यता ॥
मूलम्
त्वत्प्रसूतस्त्वयैवासौ वधितश्चक्रधारया।
का नाम कृतिनस्तस्य परिदेवयितव्यता ॥
विश्वास-प्रस्तुतिः
निरुद्धे नरके नाथ नित्यधर्मात्मना त्वया।
निष्प्रतिद्वन्द्विकं स्वर्गसुखमास्वाद्यतां सुरैः॥
मूलम्
निरुद्धे नरके नाथ नित्यधर्मात्मना त्वया।
निष्प्रतिद्वन्द्विकं स्वर्गसुखमास्वाद्यतां सुरैः॥
विश्वास-प्रस्तुतिः
निर्यातितमिदं भूयः त्वज्जनन्यै मया स्वयम्।
श्रवणाभरणद्वन्द्वं शीतलार्कयुगप्रभम्॥
मूलम्
निर्यातितमिदं भूयः त्वज्जनन्यै मया स्वयम्।
श्रवणाभरणद्वन्द्वं शीतलार्कयुगप्रभम्॥
विश्वास-प्रस्तुतिः
इति विज्ञाप्य सा तस्मै विषादाभावमात्मनः।
विरराम ततो देवी विलक्षा विश्वधारिणी॥
मूलम्
इति विज्ञाप्य सा तस्मै विषादाभावमात्मनः।
विरराम ततो देवी विलक्षा विश्वधारिणी॥
विश्वास-प्रस्तुतिः
तामशेषजगद्धात्रीं संनताङ्गीमसान्त्वयत्।
सहधर्मचरीं पूर्वां वासुदेवो वसुन्धराम् ॥
मूलम्
तामशेषजगद्धात्रीं संनताङ्गीमसान्त्वयत्।
सहधर्मचरीं पूर्वां वासुदेवो वसुन्धराम् ॥
विश्वास-प्रस्तुतिः
पुरस्कृतप्रसादस्तां पूर्वसम्भवगेहिनीम्।
गृहीतकुण्डलो गन्तुमन्वमंस्त गदाग्रजः॥
मूलम्
पुरस्कृतप्रसादस्तां पूर्वसम्भवगेहिनीम्।
गृहीतकुण्डलो गन्तुमन्वमंस्त गदाग्रजः॥
विश्वास-प्रस्तुतिः
ततः सा तत्समादेशात् सत्यभामाभिवन्दिता।
रम्यं प्रतिययौ स्थानं रत्नसानुशिखण्डकम्॥
मूलम्
ततः सा तत्समादेशात् सत्यभामाभिवन्दिता।
रम्यं प्रतिययौ स्थानं रत्नसानुशिखण्डकम्॥
विश्वास-प्रस्तुतिः
ददर्श यदुवीरोथ दैत्यवीरनिवेशनम्।
अचिन्त्यमिव मायानां प्रभावमनुपप्लवम्॥
मूलम्
ददर्श यदुवीरोथ दैत्यवीरनिवेशनम्।
अचिन्त्यमिव मायानां प्रभावमनुपप्लवम्॥
विश्वास-प्रस्तुतिः
विचक्षणवरं दैत्यं वैरिसंपत्करग्रहे।
विभूतिसंचयप्रेक्षी बह्वमंस्त बलानुजः॥
मूलम्
विचक्षणवरं दैत्यं वैरिसंपत्करग्रहे।
विभूतिसंचयप्रेक्षी बह्वमंस्त बलानुजः॥
विश्वास-प्रस्तुतिः
सुधानिष्यन्दिभिः स्थूलैः मुक्तादामभिरावृतम्।
पश्यन् पाशभृतश्छत्रं विश्वकर्ता विसिष्मिये॥
मूलम्
सुधानिष्यन्दिभिः स्थूलैः मुक्तादामभिरावृतम्।
पश्यन् पाशभृतश्छत्रं विश्वकर्ता विसिष्मिये॥
विश्वास-प्रस्तुतिः
विदध्यौ कन्यकास्तत्र निदर्शितपरस्पराः।
अमुद्राभङ्गसुभगा नीवीरिव रतेः शुभः॥
मूलम्
विदध्यौ कन्यकास्तत्र निदर्शितपरस्पराः।
अमुद्राभङ्गसुभगा नीवीरिव रतेः शुभः॥
विश्वास-प्रस्तुतिः
लावण्यजलधौ लक्ष्म्याश्छाया इव सहोदिताः।
मधुस्वच्छन्दतासीम्नो मान्मथीरिव दीर्घिकाः॥
मूलम्
लावण्यजलधौ लक्ष्म्याश्छाया इव सहोदिताः।
मधुस्वच्छन्दतासीम्नो मान्मथीरिव दीर्घिकाः॥
विश्वास-प्रस्तुतिः
कामकीर्तिपताकाभिः स ताभिः प्रत्यवेक्षितः।
आत्मानममृतोदन्वदन्तस्स्थितममन्यत॥
मूलम्
कामकीर्तिपताकाभिः स ताभिः प्रत्यवेक्षितः।
आत्मानममृतोदन्वदन्तस्स्थितममन्यत॥
विश्वास-प्रस्तुतिः
सुप्रभातमभूत् तासां सुदिनं च तमोपहम्।
भवदोषार्यमा यासां देवो दृष्टिपथे गतः॥
मूलम्
सुप्रभातमभूत् तासां सुदिनं च तमोपहम्।
भवदोषार्यमा यासां देवो दृष्टिपथे गतः॥
विश्वास-प्रस्तुतिः
रत्नशैलनिभांस्तस्य भुजान् कटकभूषितान्।
उपधास्यन्ति यास्तासां श्रेयसी भवितव्यता॥
मूलम्
रत्नशैलनिभांस्तस्य भुजान् कटकभूषितान्।
उपधास्यन्ति यास्तासां श्रेयसी भवितव्यता॥
विश्वास-प्रस्तुतिः
सर्वस्वमिव पुण्यानां साम्राज्यमिव संपदाम्।
समाजमिव सिद्धीनां स तद्यौवतमग्रहीत्॥
मूलम्
सर्वस्वमिव पुण्यानां साम्राज्यमिव संपदाम्।
समाजमिव सिद्धीनां स तद्यौवतमग्रहीत्॥
विश्वास-प्रस्तुतिः
भुजमन्दरवेगेन चक्रभ्रमवता विभुः।
मथितान् दानवाम्भोधेरमृतं तदविन्दत ॥
मूलम्
भुजमन्दरवेगेन चक्रभ्रमवता विभुः।
मथितान् दानवाम्भोधेरमृतं तदविन्दत ॥
विश्वास-प्रस्तुतिः
मणिपरुवकसंपन्माननीयस्तनीनां मनसिजवपुषेव स्वेन सङ्कल्पितानाम्।
सकलजगदभिख्यासारसीम्नां स तासां स्वयमजुषत सिद्धिं स्वप्रसादप्रसूताम्॥
मूलम्
मणिपरुवकसंपन्माननीयस्तनीनां मनसिजवपुषेव स्वेन सङ्कल्पितानाम्।
सकलजगदभिख्यासारसीम्नां स तासां स्वयमजुषत सिद्धिं स्वप्रसादप्रसूताम्॥
पुरमथ गमयित्वा भूषितं यादवाग्र्यैः शतसमधिकसंख्यं षोडशस्त्रीसहस्रम्॥
अवनितनयभीतान् प्रीणयन् आदितेयान् परिणयनविलम्बं पद्मनाभः प्रसेहे॥
विश्वास-प्रस्तुतिः
दिवि भुवि च समिद्धं दीपरूपेण रूढैस्त्रिभुवनविभवानामङ्कुरैरेकरूपैः।
जनितनिगमसख्यं दानवीनां विलापैर्नरकवधदिनं तन्नाथपूजार्हमासीत्॥
मूलम्
दिवि भुवि च समिद्धं दीपरूपेण रूढैस्त्रिभुवनविभवानामङ्कुरैरेकरूपैः।
जनितनिगमसख्यं दानवीनां विलापैर्नरकवधदिनं तन्नाथपूजार्हमासीत्॥
विश्वास-प्रस्तुतिः
ऐरावतप्रतिनिधीनथ षट्सहस्रं स्तम्बेरमान् पृथुलदन्तचतुष्कभाजः।
काम्भोजवाजिनियुतानि च सत्रिसप्तान्यभ्यानयन्निजपुरं नरकस्य भृत्यैः॥
मूलम्
ऐरावतप्रतिनिधीनथ षट्सहस्रं स्तम्बेरमान् पृथुलदन्तचतुष्कभाजः।
काम्भोजवाजिनियुतानि च सत्रिसप्तान्यभ्यानयन्निजपुरं नरकस्य भृत्यैः॥
विश्वास-प्रस्तुतिः
उद्गम्य दुर्गजलधेरुदयाद्रिकल्पं तुङ्गं विहङ्गमपतिं त्वरयाधिरोहन्।
उल्लासहेतुरभवत् यदुवीरभास्वान् वैमानिकप्रणयिनीवदनांबुजानाम्॥
मूलम्
उद्गम्य दुर्गजलधेरुदयाद्रिकल्पं तुङ्गं विहङ्गमपतिं त्वरयाधिरोहन्।
उल्लासहेतुरभवत् यदुवीरभास्वान् वैमानिकप्रणयिनीवदनांबुजानाम्॥