13

विश्वास-प्रस्तुतिः

प्रसादभाजः प्रतिनिर्गतां तां प्रासादतो वासववल्लभायाः।
समग्रशक्तिः समयोपयातः प्राणेश्वरीं प्राप्तुमियेष शौरिः॥

मूलम्

तमद्भुतां सिद्धिमावाद्भुतानां सौभाग्यविद्यामिव सद्गुणानाम् ।
सत्तामनन्यामिव सद्गणानां यथाश्रुतं प्रैक्षत यादवेन्द्रः॥

अङ्गैरवज्ञातकदम्बगोलैरस्पन्दमन्देन विलोचनेन ।
लीलोपशान्त्या लिखितेव सा भूत् दामोदरे दृष्टिपथं प्रयाते ॥

पद्माकराणां परिषन्निवेशे परियाप्तचन्द्रायुतकान्तिपूरे ।
अनन्यलभ्यां लभते स्म तृप्तिं तस्या मुखे दृष्टिरतीव शौरेः॥

वाचस्पतित्वं च वनस्पतीनां दिव्येतरेषां च दिवस्पतित्वम् ।
दातुं क्षमाया दयिते तदानीमाज्ञापको नूनमभूदनङ्गः॥

तस्मिने द्वितीयामिव वैजयन्तीं सा च प्रिये साचिविशेषरम्याम् ॥

कटाक्षमालां निबबन्ध कृष्णो कामाधिके कौतुकमेदुराक्षी॥

विश्वास-प्रस्तुतिः

अलक्ष्यभेत्रिविधाम्बुजाभैरालक्ष्यशृङ्गारगुणानुबन्धैः।
स्वयंवरस्रग्भिरभावि तस्याः कालोदिते कंसरिपौ कटाक्षैः॥

स वैजयन्त्यादिविभावशाली निर्व्याजनिष्पन्ननिजानुभावः।
शृङ्गारवीराद्भूतचित्रितात्मा रम्यस्तया निर्विविशे रसोन्यः॥

आकेकराणामनघस्तदानीमेकक्षणं लक्ष्यमभूत् बहूनाम् ।
तस्याः स्थिरानन्दपरिप्लुतानामर्थंस्पृशामर्धविलोकितानाम् ॥

तस्याश्चिराकाङ्क्षितलाभधन्यैरपत्रपामन्थरितैरपाङ्गैः।
बभार भूयो बहुमानपूर्वं बाल्ये धृतां बर्हिकलापभूषाम् ॥

सन्तानसौभाग्यघनेन यूना सिक्ता सुधासारनिभैरपाङ्गैः।
उद्भिन्नरोमाञ्चततिर्बभासे कान्तप्ररोहा कलमस्थलीव ॥

स्वकान्तिसाम्यादिव जातसङ्गैः शौरिस्तदा स्वागतसूक्तिगर्भैः।
प्रियासखीनामभजत् प्रहृष्टैरुद्वीक्षणैरुत्पलपुष्पवृष्टिम् ॥

स रुक्मिणीनेत्रचकोरचन्द्रः सा तत्प्रहर्षाम्बुजपूर्वसन्ध्या
तदद्भुतद्वन्द्वमवेक्ष्य सद्यो ययुस्तुलामप्सरसामनूनाम् ॥

विश्वास-प्रस्तुतिः

तयैव तादात्म्यमिवागतानां तस्याः सखीनां सममाविरासन् ।
परस्य वीक्षां प्रतिसल्लपन्तो वक्त्रोक्तिगर्भा इव मन्दहासाः॥

स कौस्तुभाभ्यर्णनिवेशयोग्यं कन्यामयं कामपयोधिरत्नम् ।
परीतमारात् प्रतिहारपालैः पश्यम् क्षणं पान्थ इवावतस्थे॥

तं माल्यभूषापरिकर्मिताङ्गं धारातटित्वन्तमिवाम्बुवाहम् ।
समीक्ष्य बाला तदनन्यदृष्टिश्चर्यामवालम्बत चातकानाम् ॥

तलोदरीं तालफलस्तनीं तां ताम्राधरां चारुनवोत्पलाक्षीम् ।
किं नाम भावीति विभावयन्तीं कृष्णस्तदा किञ्चिदिवाससाद॥

दुर्दर्शमध्यां द्विरदेन्द्रयातां व्यूहक्रमव्यक्तविचित्रगात्रीम् ।
परैरभेद्यां प्रतिजग्मुषीं तां कान्तात्मिकां कामचमूं स मेने ॥

स चन्द्रिकां चन्द्र इवाभियातश्चन्द्राननां यादववंशचन्द्रः।
निर्वेशनीयः सविशेषमासीत् नेदीयसां नेत्रचकोरबृन्दैः॥

अहं त्वया दूतमुखेन दूरात् साध्व्या समाहूत इहोपयातः।
मा ते भयं भूदिति मञ्जुभाषी तामग्रहीदग्रकरे मुकुन्दः॥

प्रियेण सा तेन गृहीतहस्ता तद्वक्त्रदिव्याम्बुजषट्पदेन ।
विलोचनेन व्यवृणोत् सखीभ्यः कृतार्थतां क्षीबदशोल्बणेन ॥

प्राचोवतारान् अतिशय्य भूम्ना सा रुक्मिणी तेन वृता चकाशे ।
तस्यैव रूपान्तरदूरवृत्तिः कन्दर्पजन्मानुगुणेव कान्ति॥

मल्लीविकासोज्ज्वलमन्दहासा रोमोद्गमैराहितकोरकश्रीः ।
समेयुषी संददृशे तदा सा वसन्तलक्ष्मीरिव माधवेन ॥

अघर्मजस्वेदकणावकीर्णामभीतिजं वेपथुमुद्वहन्तीम् ।
अनुष्णबाष्पोदयमन्थराक्षीं विलोक्य देवीं विभुरभ्यनन्दत् ॥

हरिप्रियां केसरिणामिवैनां दुरासदामन्यनृपद्विपेन्द्रैः।
सखीजनः प्रीतमना निदध्यौ ययौ च खेदं निजविप्रयोगात् ॥

मिथो गुणैस्तन्मिथुनं निबद्धं वियोगवैदेशिकसंप्रयोगम् ।
अजायतान्योन्यनिलीनभावं सखीदृशां सादरदर्शनीयम् ॥

जगत्त्रयार्तिप्रशमाय जातां विहारसंक्षोभितवैरिसिन्धुः।
देवेषु पश्यत्स्विव पूर्वमेनां जग्राह तां जाग्रति राजलोके ॥

स पुष्पकं राम इव प्रियां स्वामुत्तारितां शत्रुभयादुदीर्णात् ।
मनोजवं सत्यमनोरथस्तामारोपयामास रथं रथाङ्गी ॥

सा चामरौघैरुपचर्यमाणा वातावधूतैरिव काशजालैः।
रराज नाथेन रथोदयाद्रौ चन्द्रेण पूर्णेन शरन्निशेव ॥

परस्परप्राप्तदुणेन भासा बर्हावृतं व्योम विभावयन्तौ ।
विरेजतुस्तुङ्घरथाश्रयौ तौ विद्युत्पयोदाविव मन्दरस्थौ ॥

प्रभेव देवेन तमोपहेन प्रत्यग्दिशं तेन सह प्रयान्ती।
नित्यानपायित्वमजानतीनां सत्यापयामास निजं प्रजानाम् ॥

तामुद्वहंस्तामरसायताक्षो रत्नौघदीप्तेन रथेन देवीम् ।
आत्मानमेवार्यममण्डलस्थं विद्यासखं व्यञ्जयति स्म वीरः॥

अतीतदर्शामुव चन्द्रलेखां शान्तोपरोधामिव शारदीं द्याम् ।
अमंस्त निर्विघ्नफलामिवेच्छां शोकत्यजं शूरकुलेश्वरस्ताम् ॥

समेत्य सिंहीमिव तामनन्यां यानोद्यतं यादवपञ्चवक्त्रम् ।
आघुष्य गोमायुरिवामिषार्थी चैद्यः क्रुधा दीप्तमुखोन्वधावत् ॥

रुक्मी च तूर्णं प्रतिपन्नरोषः पुरो भवन् भूमिभृतां सखीनाम् ।
पराभवस्य प्रतिकारमिच्छन् जग्राह पार्ष्णिं जगदेकनेतुः॥

जिघांसिते भ्रातरि जातखेदैः कान्ताभिलाषैः कतकैरिवाम्भः।
मनः प्रपेदे सहजां प्रसत्तिं सत्त्वाधिकं सात्त्वतवंशगोप्तुः॥

स वीक्षमाणः सविलासनेत्रं वल्गुस्मितं वामदृशो मुखाब्जम् ।
तदुक्तिभिः स्वादुतमाभिरासीदाप्यायितो नूनमनाविलाभिः॥

अनुद्रुतां वैरिचमूं स वीरो बलेन रुद्ध्वा निजबाहुनैव ।
विनिर्दिशन् मार्गभवान् विशेषान् विश्वासयामास विदर्भकन्याम् ॥

प्रियासहायः पदवीं स गच्छन् द्राघीयसीं दारुकसारथिस्ताम् ।
उदग्रवेगान् उदधेरनूपे वीतीन् क्षणं विश्रमयां बभूव ॥

भयार्णवादुद्धृतया स्वयासौ श्रियेव साक्षादनुभूयमानः।
पयोधिरुपां परिघां विलङ्घ्य द्युसंमितां द्वारवतीमयासीत् ॥

श्रुतोत्सवानां विदधे पुरी सा स्वर्गौकसां श्रोत्रसुधामपुर्वाम् ॥

विश्वास-प्रस्तुतिः

परिष्कृतां काञ्चनतोरणैस्तां वल्गुध्वजां वन्दनदामचित्राम् ।
रमासहायः प्रसमीक्ष्य रेमे रम्यप्रसूना़ञ्चितराजवीधीम् ॥

महीयसां मङ्गलदुन्दुभीनां नादैरवज्ञातपयोधिशब्दा ।
श्रुतोत्सवानां विदधे पुरी सा स्वर्गौकसां श्रोत्रसुधामपूर्वाम् ॥

प्रत्येयुषां कंसरिपुर्यदूनां देवद्रुमाणामिव जङ्गमानाम् ।
अनर्घरत्नाभरणप्रधानान् आदत्त दिव्यान् उपदाविशेषान् ॥

तस्मिन् महानीलमणिप्रकाशे तां रुक्मिणीमाहितरुक्मकान्तिम् ।
पुराङ्गनाः प्रेक्षितुमीहमानाः स्वर्गाधिकान् आरुरुहुः स्वसौधान् ॥

कलक्वणन्नूपुरचारुवाद्यं कर्णावतंसोदितभृङ्गगीतम् ।
कस्याश्चिदन्वागतनाट्यवेदं लीलागतं लास्यमभूदपूर्वम् ॥

परिच्युतं किञ्चिदिवान्तरीयं काचित्समालम्ब्य सहैव काञ्च्या।
क्षिप्तेन तीव्रेण कुतूहलेन क्षणेन वातायनमाससाद ॥

आमुच्य ताटङ्कमनङ्गचक्रं सव्येतरे सत्वरमाव्रजन्ती ।
अन्येन काचिद्भृशमाबभासे कर्णेन कैवल्यविभूषणेन ॥

उदञ्चिता बाहुलतेतरस्या मौलिस्रजा हस्तगृहीतयासीत् ॥

जगज्जिगीषोर्मदनस्य जैत्री पताकयेवाद्भुतकेतुयष्टिः॥

विश्वास-प्रस्तुतिः

प्रकोष्ठभाजः प्रियशारिकायाः पयः स्वयं सादरमर्पयन्ती ।
गवाक्षमागम्य गजेन्द्रयाता काचित् प्रसस्मार कृतावशेषम् ॥

प्रचारवेगात् त्रुटितेन चक्रे हारेण मुक्ताफलवर्षिणान्या ।
अदूरतः सन्निहितस्य शौरेराचारलाजाञ्जलिपूर्वरङ्गम् ॥

स्तनांशुकं स्रस्तमबुध्यमाना सखीजने सस्मितमीक्षमाणे ।
परामृशन्ती विततान काचित् प्रतिक्रियां पाणिनखांशुजालैः॥

सखीधृतैश्चामरतालवृन्तैराश्यानतां प्रापितमङ्गरागम् ।
विलोकिते शार्ङ्गिणि विह्वलान्या श्वासानिलैः शोषमिवानिनीषत् ॥

प्रसाधयन्तीमवधीर्य धात्रीमङ्गैरसम्भावितभूषणान्या ।
समीक्ष्य कृष्णं सहसोपजातैः परिष्क्रियामाद्रियतेव भावैः॥

भ्रुवा स्फुरन्त्या मदनस्य मौर्वीं ज्याघातरेखामभिदर्शयन्ती ।
अन्यानुषक्तेपि हरौ वियातां प्रायुङ्क्त दूतीमिव दृष्टिमन्या ॥

समेयुषीमप्रतिमेन यूना तां रक्मिणीं वीक्ष्य विलीनभावा ।
भाग्यं किमस्या इति भावयन्ती तदात्मतां नूनमलिप्सतान्या ॥

तदीक्षणे भर्तुरिव स्मरन्त्या कन्यादशां कामवशाद्भजन्त्या ।
स्वयंवरार्हे स्वयमेव तस्मिन् कयाचिदाधायि कटाक्षमाला ॥

कक्ष्यानिबन्धच्यवने सलीलं स्तनाहितस्वस्तिकबाहुबन्धा ।
जगत्पतौ पश्यति जातभीषा प्रायस्तदालिङ्गनमभ्यनैषीत् ॥

रथेन तं राजपथे प्रयान्तं निर्व्याजसङ्गेन निशामयन्ती ।
त्यक्ता निमेषैरपरान्वकार्षीत् चित्राङ्गनानां सुरयोषितां च ॥

समीक्षितस्याति सहत्वसङ्गात् दुष्प्रापलोभादपि दूयमाना ।
गलद्भिरन्या वलयप्रसूनैरभ्यर्चनामातनुतेव शौरेः॥

समानकान्त्या प्रियया समेते दृष्टे जगद्धातरि जातरागा ।
प्रणामयोग्येयमितीव मत्वा प्राप्तं पदं मेखलयापरस्याः॥

तासां तदेकोत्सुकदर्शनानां समाधिभाजामिव शेमुषीणाम् ।
अलं प्रभुस्सोपि न मातुमासीदपारहर्षादनघामवस्थाम् ॥

अवारुणीसम्भवसौरभैस्तैरनन्यसाध्याधरबिम्बरागैः।
निरञ्जनोपस्थितनेत्रशोभैः स पिप्रिये पौरवधूमुखाब्जैः॥

स पौरकन्याकरविप्रकीर्णान् प्रायः प्रतीच्छन् उपचारलाजान् ।
अचीचरत् स्यन्दनमब्जनेत्रः सव्यापसव्येन गतेन वीधीम् ॥

कह्लारपद्मोत्पलकान्तिचोरैः कटाक्षणैः पौरवधूजनानाम् ।
मुग्धेन्दुहासो मुमुदे मुकुन्दः पश्यन् प्रियां प्रापितपुष्पवृष्टिम् ॥

कृष्णस्य तां स्कन्धमुपघ्नयन्तीं सुरद्रुमस्येव सुवर्णवल्लीम् ॥

अवेक्ष्य नूनं चतुरः पुमर्थान् अनन्यलभ्यामलभन्त पौराः॥

विश्वास-प्रस्तुतिः

वक्त्रैः सुधासोदरकान्तिपूरैः कस्तूरिकापत्रकलङ्कदृश्यैः।
अलक्ष्यदेहा विदधुर्मृगाक्ष्यः प्रत्युप्तपूर्णेन्दुशतान् गवाक्षान् ॥

शुचिस्मिताः सौधतलान्तरस्थाः पद्मेक्षणं प्रेक्ष्य परिस्फुरन्त्यः।
शरत्पयोदोदरसंश्रितानां क्षणद्युतीनां द्युतिमन्वविन्दन् ॥

अपाङ्गजालैरसितोत्पलाभैः कृष्णात्मकं भावमिवोद्वमन्त्यः।
वितेनिरे राजपथे मृगाक्ष्यः तदादृतां बर्हवितानशोभाम् ॥

हरेरभिख्यामनुपाधिरम्यां विलोचनैर्वीतनिमेषविघ्नैः।
आस्वादयन्त्यः सुदृशस्तदानीमयत्ननिष्पीतसुधा इवासन् ॥

अम्भोरुहाणामवलेपसीमां कर्णोत्पलानामपि कान्तिकक्ष्याम् ।
विलङ्धयन्तः सुदृशां कटाक्षा विलिल्यिरे कृष्णमवाप्य लक्ष्यम् ॥

तमात्मवन्तं परविद्ययेव पराक्रमं तत्परयेव लक्ष्म्या ।
तमेव देवं दययेव जुष्टं संमेनिरे तत्त्वविदः सभार्यम् ॥

तां प्राप्य चित्रामिव तारकेशः स्तव्यैः स्तुतो वन्दिगणैरभौमैः।
विवेश धाम स्वमुदीर्णधामा वैवाहिकीं सम्पदमाप्तुमिच्छन् ॥

विहारयोगेन विभज्य युक्तं मिथोनुरूपं मिथुनं तदाद्यम् ।
उपाचरन् व्योमचरा यथार्हं संप्रीणनैरुत्सवसंविधानैः॥

सदाभिगम्यैरभिगम्यमानं विश्राणने वैश्रवणात् प्रभूतम् ।
तं शङ्खपद्मप्रमुखा महान्तः सिषेविरे शेवधयः समेताः॥

अकृत्स्नसंवेदिनि जीवलोके संग्राहयन् धर्ममथात्मवृत्त्या ।
प्रत्यर्चयामास मुनीन् उपेतान् प्रभुः स्वयं प्रेष्य इवोपचारैः॥

अपत्रपाविप्लुतचेतसो ये त्यक्त्वा विपक्षं तरसोपसेदुः।
यथाक्रमं सात्यकिरुत्सवादौ संभावयामाय सभासदस्तान् ॥

शुभंयवः स्वामिमहोत्सवेन स्वाराज्यमक्षय्यमिवाप्तवन्तः।
दत्तोपचारा वसुदेवदारैः पुण्याशयाः पौरजनाः जहर्षु- ॥

सहोदरन्यस्तभरस्तदात्मा रुक्माणि रत्नानि च रौहिणेयः।
अदत्त सन्तोषवशादभीक्ष्णं वाञ्छाधिकं वन्दिवनीपकानाम् ॥

अनन्यभक्तैरनुभाव्यभूम्ना दत्तेक्षणो दानपतिस्त्रिधाम्ना ।
समाहितैः संमतमुद्धवाद्यैः पुरोधसां पूजनमाचचार ॥

आहन्यमाना धृतहेमकोणैः गन्धर्वमुख्यैरिव गाढविद्यैः।
जातानुनादा जगतां त्रयाणां दोषच्छिदो दुन्दुभयः प्रणेदुः॥

विभावितं शिक्षितनाट्यवेदैरुद्वाहसंगीतमुदारक्लृप्तम् ।
प्रसादनं दृष्टिमनश्श्रुतीनामदिव्यमास्कन्दितदिव्यमासीत् ॥

लावाण्यपूरं ललिताङ्गयष्टेः कार्स्त्न्येननिर्वेष्टुमपारयन्त्यः।
अङ्गानि वध्वाः कुलवृद्धनार्यः प्रसाधनैरन्तरयांबभूवुः॥

प्रयुज्यमानानि तयोर्यथार्हं मङ्गल्यमाल्याभरणाक्षतानि ।
प्रायेण लोकाभ्युदयं प्रदातुं तत्सङ्गमात् तादृशतामकाङ्क्षन् ॥

अरातिपक्षार्णवमन्दराभे हस्ते हरेर्यत्तदबन्धि सूत्रम् ।
तदाददे स्थानवशादभिख्यां संवीतनागेन्द्रनिदर्शनीयाम् ॥

समेधितस्तस्य विवाहवह्निः पुरोधसा पुण्यकृदग्रिमेण ।
प्रदक्षिणावृत्तशिखाकलापः प्रायेण नीराजनमाततान ॥

आशास्य लाजाञ्जलिहोमभाजा क्षेमाशिषा किञ्चिदशेषहृद्यम् ।
अन्योन्यमाकेकरसस्मिताक्षावपश्यतामादिमदम्पती तौ ॥

वैलक्ष्यडोलामिव संश्रितानां विलोचनानां ववृधे विहारैः।
तयोरनन्यादृशवैभवानामन्योन्यराजीवमधुव्रतानाम् ॥

परस्परं पाणिसोजयोगात् बभूवतुस्तौ पुलकाञ्चिताङ्गौ ।
अस्विद्यतां च ज्वलनस्तु मन्दैरसूत धूमैरधिवासमात्रम् ॥

समन्त्रकं साक्षिणि हव्यवाहे सख्योचितां सप्तपदीं भजन्तौ ।
स्वशासनेन स्वयमन्वयातामाचारमागन्तुकदम्पतीनाम् ॥

अन्वेतु विष्णुः स्वयमित्युदीर्य प्रियां पराधीन इवानुगच्छन् ।
जायापतीनां जगदुद्भवानां भव्यां दशां भावयति स्म नाथः॥

आत्मानमेव स्वयमग्निरूपं परिक्रमैः पर्यचरत् स देवः
विश्वस्य बाह्यान्तरनित्यवृत्त्या न कर्म कर्ता च य एव येषाम् ॥

विश्वास-प्रस्तुतिः

प्रदक्षिणेनक्रमणेन ताभ्यां दत्तार्चनो दिव्यवधूवराभ्याम् ।
नूनं तथानर्च विघूर्णनेन स्वान्तः स्थितौ वह्निरपि स्वयं तौ ॥

तस्याः सलीलं चरणारविन्दं कामी गृहीत्वा करपङ्कजाभ्याम् ।
आस्थापयत् यां दृषदं मुकुन्दः साभूत् स्वयं मौलिमणिः श्रुतीनाम् ॥

यदत्र कर्मण्ययथाकृतं तत् स्विष्टं क्रियादग्निरिति ब्रुवाणः।
स्वतेजसा भावितविश्वतेजाः स्वाहासखं देवमुपास्त देवः॥

रामस्य सीतेव रमेव विष्णोरमुष्य भूयास्त्वमिहैकपत्नी ।
इत्यूचिषो यादववृद्धदारान् प्रीताशया प्रैक्षत सा सनाथा ॥

वरेण वन्द्येन सुरासुराणां मङ्गल्यसीमान्तभुवा च वध्वा
समीक्षिता ब्रह्मसुतस्य पत्नी सर्वैरभूत् सादरदर्शनीया ॥

विश्वास-प्रस्तुतिः

तदेकभावा तमनन्यभावं नाथप्रिया नाथमनुव्रजन्ती ।
अभीष्टसिद्धेरधिदेवतेयं यद्वा सवित्रीति यथार्थमूचे ॥

मनुष्यतां मानयतो विहारैः स्वामेव देवीमुपयच्छतस्ते ।
समेधतां मङ्गलमित्युशन्तः सत्याशिषस्तं मुनयः शशंसुः॥

कृताशिषं कृष्णगृहेश्वरीं तां पुरोधसा पुण्यमनोरथेन ।
सकौतुकां कौतुकिनः सुरत्नैरभ्यर्चयामासुरमात्यवृद्धाः॥

प्रदाय ताभ्यामुपदाः समीचीः प्रत्यागताः स्वानि गृहाणि पौराः।
आशापतीनां विभवादनूनां तत्रैव ते सम्पदमन्वभूवन् ॥

स्त्रीपुंसनाम्ना बहुधा विभक्तं विश्वं ययोरेव विभूतिमाहुः॥

नयो जहौ द्वारवतीं न ताभ्यामङ्गीकृतामादिमदम्पतिभ्याम् ॥

विश्वास-प्रस्तुतिः

वधूसखे तत्र जगन्निवासे वसत्यमर्यादगुणानुभावे ।
तस्मिन्निवासीदनपायभावा तस्यां नगर्यामपि रुक्मिणी श्रीः॥

तस्याः कटाक्षैर्विहिताभिषेकः तद्बाहुना कल्पितकण्ठमाल्यः।
अवाप शोभामधिकां मुकुन्दः सौभाग्यसिंहासनसार्वभौमीम् ॥

कदम्बगोलश्रियमाक्षिपन्तं कन्दर्परूपोदयपूर्वरूपम् ।
प्रियापरिष्वङ्गरसेन धन्यं प्रीताशयो बह्वमतात्मदेहम् ॥

तां प्राप्य कृष्णः प्रभुतामिव स्वां मनःप्रसूतेरिव मन्त्रसिद्धिम् ।
आसीदभीतैः सरसाभिगम्यो मित्त्रैरमित्त्रैरपि सापराधैः॥

श्रीवत्ससंस्थानजुषा प्रकृत्या स्थानेन चिह्नेन च लक्षणीयौ ।
दृष्टावभीष्टं भजतां ददाते जगत्पती ताविह दम्पती द्वौ ॥

न ते मनुष्या न च देवतास्ता प्रायेण तावेव तथाभवन्तौ ।
यैरेवमन्योन्यविभूषितं तत् द्वन्द्वातिगं द्वन्द्वमवैक्षि धन्यैः॥

अथ समुदितहर्षैरादृतो मन्त्रिवृद्धैः
सुरपतिदयिताभिः स्तूयमानापदानः।
रुचिमिव निरपायां रिक्मिणीं प्रप्य हृष्यन्
यदुपतिरधिचक्रे यायजूकाधिकारम् ॥

सुभगमुपलबिम्बे शातकुम्भेपि रत्नं
कनति विपिनभागे कालकण्ठेपि गङ्गा ।
वशिकनृपगृहे सा वासुदेवेप्यदीव्यत्
न हि भवति विशेषः क्वापि नित्योन्नतानाम् ॥