12

विश्वास-प्रस्तुतिः

तथाविधानन्दमहापयोधेस्तरङ्गवृत्त्या भजतोवतारान् ।
अशेषरूपेष्वनुरूपरूपा देवी जगन्नेतुरनुप्रजज्ञे ॥

मूलम्

सा तस्य नित्योदितदिव्यधाम्नः पत्युः प्रिया भानुमतः प्रभेव ।
अध्यासितुर्द्वारवतीमदूरात् व्यक्तिं शुभां प्राप विदर्भदेशे ॥

शिखण्डकं निष्प्रतिमं श्रुतीनां शृङ्गारलीलोपमविश्वकृत्यम् ।
अधीयते तन्मिथुनं स्वभावादन्योन्यजीवातुमनन्यभोग्यम् ॥

दयेव नित्यं दयिता त्रिधाम्नः सर्वेषु भावेषु समानभावा ।
परावराणां जननी प्रजानामासीत् विदर्भाधिपतेरपत्यम् ॥

महीतलान्मैथिलसीरकृष्टात् क्षीरोदधेराहितमन्थशैलात् ।
भृदूद्वहात् ख्यातिमतश्च याभूत् सा भीष्मकादभ्युदियाय भूयः॥

अमन्यतैनां तनयां स राजा रुक्मी च मोहादनुजामजन्याम् ।
यामेकपत्नीमनघस्य पुंसः प्रजासृजां मातरमामनन्ति ॥

त्यक्त्वा पराः स्त्रीर्गुणराशिरेनां शरण्यभूतां शरणं प्रपेदे।
प्रायेण दोषैरविविक्तवासाद्भीतः स्वयं भीष्मकराजकन्याम् ॥

आरब्धदेहामिव भागधेयैरक्षीणि लक्ष्यान्तरतो नियन्त्रीम् ।
सुतामिमां प्राप्य सुधामिवान्याममर्त्यकल्पौ पितरावभूताम् ॥

अनन्यवृत्त्या घनतामुपेतैरप्रौढसूर्येन्दुमयूखजालैः।
सुवर्णरत्नैरथवा प्रक्लृप्तां सुतां सुजाताकृतिमन्वभूताम् ॥

महीयसीं मङ्गलदीपमालां विद्युत्प्रकाशा विदधे कुमारी ।
आकल्परत्नांशुतिरस्करण्या दीप्त्या रजन्यामपि दीनभासम् ॥

कलामिवार्धामकठोरधाम्नः पुण्योदयानामिव पूर्वचर्याम्।
प्ररोहवेलामिव कान्तिवल्ल्याः प्रैक्षन्त शुद्धान्तमृगीदृशस्ताम् ॥

आत्माधिकारादधिकामवस्थामयत्नतो नूनमवाप्तुकामा ।
वार्तानभिज्ञे वयसि स्थितां तां वाग्देवता वन्दिमुखे ववन्दे ॥

प्रदित्समानान हरेरभीष्टं कामेन सा कल्पलतेव सृष्टा ।
पित्रोरिवानन्यदृशां प्रजानामाशंसया सार्धमवाप वृद्धिम् ॥

पद्मादिरेखाप्रथमानभूमा निर्धार्यमाणा निगमैरभिज्ञैः।
तदङ्घ्रिविन्यासमिषेण जज्ञे भूमेस्तदा भूषणपङ्क्तिरग्र्या ॥

अदृश्यभेदैरतिसूक्ष्मभावाज्जज्ञे जगन्मङ्गलतां दधानैः।
विहारलौल्याद् विषमेषु तस्या गतेषु वाक्येषु च नृत्तगीतैः॥

यदप्सरः पाणिसरोजमुक्तं प्रसूनवर्षं निपपात तस्याम् ।
अपूरि तस्यैव रजोभिरग्र्यैरपांसुला पांसुविहारवाञ्छाम् ॥

यदृच्छया तत्र परागजालैर्यानेव सा केलिगृहानकार्षीत् ।
ततः परं त्वष्टुरमी समीची महेन्द्रशालाविधिमातृकाभूत् ॥

चतुर्दशैतानि जगन्ति यस्याः क्षेमाश्रितं क्रीडनकं बभूव ।
पर्याप्तलीला मुमुदे तदैषा पाञ्चालिकापञ्जरशारिकाद्यैः॥

आस्वादनीयान्यधिकं श्रुतीनां मुग्धाभिजातानि वचांसि तस्याः।
प्रायेण लौल्यादधिकृत्य खिन्ना विधिप्रिया व्याहरतान्यभाषाः॥

अविप्लुतव्याकरणानि तस्याः क्रमेण शिक्षानियताक्षराणि ।
अनुश्रवाणामनघप्रवृत्तेरादेशदायीनि वचांस्यभूवन् ॥

विभूतयस्तत्र विशांपतीनामात्मीयया देवतयावतीर्णाः।
स्वचिह्नभेदान् परिबर्हयन्त्यः प्रपेदिरे तत्परिवारभावम् ॥

वेद्लवाले विहितस्थितिं तां रम्यप्रतानामिव रत्नवल्लीम् ।
स्तनादिलक्ष्यस्तबकादिचिह्नैराविष्कृतं यौवनमाविवेश ॥

तदीयसर्वाङ्गजुषोरगाधं सौन्दर्यलावण्यसुधास्रवन्त्योः।
ममज्जुरापत्य दृशः सखीनामन्योन्यसंभेदमपूर्वतीर्थम् ॥

निशेव चन्द्रेण घनव्यपाये नैसर्गिकी बुद्धिरिव श्रुतेन।
फलेन सा नीतिरिवाप्रमादा युक्ता बभौ नूतनयौवनेन ॥

आलक्ष्यसंलापलवैरपाङ्गैरङ्गैरनङ्गोदयपूर्वरङ्गैः।
वियातमुग्धैरपि विभ्रमैः सा विलक्षयामास विभूषणानि ॥

अमुक्तकौमारयुवत्वसीम्ना कान्त्या बभौ कल्पितरागभूम्ना ।
जरत्पलाशप्रसवानुषक्ता प्रतानिनी पल्लवसंपदेव ॥

प्रसाधनानां परिकर्म दिव्यं विजृम्भणं विभ्रमजालकानाम् ।
वयः शुभं वामदृशश्चकाशे पश्यद्दृशां भाग्यमनन्यभोग्यम् ॥

अवाप्य सा मुग्धदशामपूर्वामव्याजलीलागतिराबभासे ।
रम्या रमोत्पत्तिदशाविशेषात् जाम्बूनदी जङ्गमपद्मिनीव ॥

तस्यास्तनुं वर्णयतो ममैवं हीनोपमा दोषपदं न विन्देत् ।
निदर्शनं तैरपि नित्यदृष्टं येषां निकर्षोपि गुणो यतः स्यात् ।

तारेण तस्याश्चिकुरान्धकारे तारायितं मौक्तिकजालकेन।
प्रायेण योसौ प्रलयावसाने निशीथसृष्टेरभवन्निदानम् ॥

द्युतिं शिखारत्नसहस्ररश्मेर्ज्योत्स्नां च मुक्ताफलजालजाताम् ।
तत्कुन्तलश्रेणिमयी तमिस्रमैत्रीं दधौ मन्मथचापमौर्वी ॥

मुखाब्जसौन्दर्यमधुद्विरेफाः कान्त्यापगाशैवलपुञ्जकल्पाः।
शोणेन चूडामणिना ससंध्यां तमीमपुष्यन् अलकास्तदीयाः॥

शरत्प्रसन्नेन्दुकलाभिरामा ललाटरेखा सुदृशो रराज ।
कामेन तत्कान्तिलतासमृद्ध्यै स्वयं प्रक्लृप्तेव सुधास्रवन्ती ॥

कस्तूरिकाक्लृप्तविशेषकं तत् पश्यन् मृगाङ्को वदनं मृगाक्ष्याः।
विभाव्य तादृक्परभागशाभां कलङ्कयुक्तोपि जहौ विषादम् ॥

तारुण्यनद्यास्तनुवीचिकल्पे तद्भ्रूलते शार्ङ्गनिदानदृश्ये ।
अनङ्गवेदप्रणवस्य रत्या लेखाक्षरं न्यस्तमसूचयेताम् ॥

प्रसूतपद्मोत्पलकाननश्रीः प्रारब्धवीचीविभवा विलासैः।
दृष्टिस्तदीया ददृशे दयार्द्रा द्राघीयसी मन्मथदीर्घिकेव ॥

तद्दृष्टिरायामवती सुजाता श्यामोज्ज्वला चारुविशालमध्या ।
मन्ये समेष्यन्मधुवैरिलक्ष्या चेतोभुवः शक्तिरभूदमोघा ॥

निगृह्णती रत्नतिलप्रसूनं नासा तदीया नयनाब्धिसेतुः।
अबोधि निःश्वाससमीरगन्धैरन्तर्गतान् वेदगणान् वमन्ती ॥

नवेन्दुसंध्याप्रभृतीनि लोके निर्वर्ण्यमानानि निदर्शनानि ।
न खल्वविन्दन् कलयापि तस्याः स्मिताधरव्याप्तिकृतामभिख्याम् ॥

अहेतु रज्यन् अधरस्तदीयः प्रसूनमुक्तायितमुग्धहासः।
लक्ष्मीलताया ललितोदधेश्च प्रवालयोगं प्रथयां बभूव ॥

मुखं तदीयं विरराज मुग्धं सौरभ्यलावण्यसमुच्चयेन ।
व्यवस्थितान्योन्यविशेषलोभादेकत्वमापन्नमिवेन्दुपद्मम् ॥

वर्णानुपूर्वीसुभगेन काले भव्यां श्रुतिं भावयता यथावत् ।
तारस्य संस्थानमिवान्वकार्षीत् कण्ठेन सा काञ्चनकम्बुभासा ॥

मधुद्विषः कण्ठपरिष्क्रियार्थं कामात्मना माल्यकृतेव क्लृप्ते
बभूवतुर्बाहुलते तदीये शम्पात्विषौ चम्पकमालिके द्वे ॥

विश्वास-प्रस्तुतिः

आसीदधिष्ठानविशेषसीमा वक्षोजयोरङ्कुरतोरमुष्याः।
मुकुन्दवक्षस्थलमुद्रणार्हा भव्यामवस्थामिव भावयन्ती ॥

समावृतौ हारमयूखसूत्रैस्तस्याः स्तनौ चारुतरावभूताम् ।
जिगीषतस्तत्प्रियचित्तवृत्तिं मनोभुवो मङ्गलपूर्णकुम्भौ ॥

तस्यास्तदा तद्वदलक्ष्यमध्यं तन्व्याः स्तनद्वन्द्वमवाप वृद्धिम् ।
काले यथा तत्प्रथिमप्रभूतं कृच्छ्रादभूत् कृष्णभुजान्तरालम् ॥

मध्यं क्रशिम्ना विरराज तस्या नाभिह्रदान्नालमिव प्ररूढम् ।
प्रियागमोदर्कमभूत् यदग्रे कुचात्मना काञ्चनपद्मयुग्मम् ॥

स्तोकानताङ्गी स्तनभारभूम्ना मुग्धा बभौ मुष्टिमितावलग्ना ।
भृङ्गाभिनन्द्येन गुणेन युक्ता कामस्य सा कापि धनुर्लतेव ॥

रराज लावण्यतरङ्गरम्या वलात्रयी मध्यगता मृगाक्ष्याः।
अन्तःस्थितानामिव दर्शयन्ती निवेशसीमान्तमनुश्रवाणाम् ॥

मध्येवलग्नं सुदृशो विलग्ना रोमावली कामधनुर्गुणाभा ।
जिगाय नाभीसरसः सुजातामुल्लासिनीमुत्पलरेणुपङ्क्तिम् ॥

अनुप्रयातः स्ववशामभिख्यां यूथोज्झितो यौवनगन्धहस्ती ।
तद्रोमराजिव्यपदेशदृश्यां नूनं दधौ नूतनदानरेखाम् ॥

प्रकाशितावर्तरुचिः प्रभाब्धौ नाभिः सुवृत्ता रुरुचे नताङ्ग्याः।
रोमावलीरत्नलतानुरूपं रुक्मेण निष्पन्नमिवालवालम् ॥

पृथ्वी चकाशे स्तनसंपदस्या लावण्यमम्भो नियतं च तेजः।
श्वासादयो गन्धवहः शुभाङ्ग्याः नाभिश्च मध्यं च नभो विभक्तम् ॥

गजेन्द्रहस्तादिषु तत्समत्वे दूरे सतां दोषगुणावमर्शः।
भविष्यतः शार्ङ्गभृतस्तदूरू लीलोपधाने किमतोधिकेन ॥

मनोज्ञवृत्तं मधुबुद्बुदाभं चक्षुष्मतां सादरदर्शनीयम् ।
स्वदेहकान्तेः सविशेषदृष्टौ जानुद्वयं दर्पणतामयासीत् ॥

उदेष्यतः पञ्चशरस्य तस्यामुत्पादयिष्यन् उचितं निषङ्गम् ।
विधिः स्वयं मातृकया किलार्थी जङ्घायुगं वीक्ष्य जहर्ष तस्याः॥

कलाचिकां काञ्चनसारक्लृप्तां कान्तेः शुभां कामपि काहलीं च।
शशङ्किरेनन्यसमीक्ष्यशोभां जगन्ति जङ्घामलोक्य तस्याः॥

अलक्तकादप्यधिकात्मरागा पदद्वयी पद्मदृशश्चकाशे ।
प्राचीनजन्मप्रणयानुरोधात् संभाव्यमानेव सरोजलक्ष्म्या ॥

पादाम्बुजे दत्तमधुप्रसक्तया निर्णेजयामास नखेन्दुकान्त्या ।
प्रायेण सा सत्पथमाश्रयन्ती पङ्कान् असत्सङ्गभवान् पृथिव्याः॥

तस्याः पदाम्बोजमृणालभासा प्रकाभूम्ना नखमौक्तिकानाम् ।
प्रकीर्णपुष्पाः सुधया वसिक्ताः विहारभूम्यो युगपद्बभूवुः॥

तस्याः श्रुतिश्रेणिशिखामणीनां सकेसरा दीधितिभिर्नखानाम् ।
प्रसाधिकालोचनभृङ्गलौल्यं पद्मद्वयी पादमयी निरास ॥

मुखेन्दुनिष्यन्दनिभैरमुष्याः मन्दस्मितैरिन्दुरवाप्तमान्द्यः।
प्रायः प्रभूताद्भुतकान्तिलोभात् नखात्मना तत्पदमेव भेजे ॥

अलक्षि देवैरवतारलक्ष्म्यास्तस्याः शुभा पादनखेन्दु पङ्क्तिः।
आगामिकल्पेष्वधिकारलोभात् तारावलिस्तत्पदमाश्रितेव ॥

यातेन मञ्जीररवैश्च तस्याः प्रायः पराभूतगतिप्रणादाः।
शिक्षाविशेषार्थमिवाधिचक्रुः पादानुवृत्तिं प्रणयेन हंसाः॥

रराज दिव्यैरधिराजचिह्नैः श्लाघापदं तत्पदमागमानाम् ।
अश्मानमास्थापयता परस्तात् यत् पाणिना विश्वपतेरवाप्यम् ॥

अतीत्य कृच्छ्रात् समुदायशोभां प्रत्यङ्गसौन्दर्यपरा दिदृक्षा ।
पर्यभ्रमत् प्राप्तविहारडोला पुष्पेषु भृङ्गीव मुहुः सखीनाम् ॥

शृङ्गायोनेरिव शिल्पविद्यां दिव्यां त्रिलोक्या इव दिष्टवृद्धिम् ।
सीमान्तरेखामिव संपदस्तां जगुः स्त्रियो जङ्गमरत्नसृष्टिम् ॥

वयस्ययाभीष्टवरानुयोगे सापश्यदात्मानममन्दलज्जा ।
असूचयन्नूनमनेन तस्याः स्वलक्षणं शौरिमनन्यलक्ष्यम् ॥

अलिप्सत श्वेव हविस्तदैनां दैत्यस्वभावो दमघोषजन्मा ।
तस्मै च कृष्णैकमनोरथां तां रूपाधिकां दातुमियेष रुक्मी ॥

परस्परं भूषयतः प्रतीकान् औद्वाहिकं मङ्गलमुद्वहन्त्याः।
प्रायः स्वदीप्तेरतिरोधिमिच्छन्त्यावारयन् आभरणानि तस्याः॥

लावण्यकल्पद्रुममञ्जरीं तां शृङ्गारदिग्वारणवैजयन्तीम् ।
सौन्दर्यदुग्धोदसुधाप्रसूतिं सैरन्ध्रिकाः प्रेक्ष्य मिथः शशंसुः॥

स्वभावजादभ्यधिकं तदङ्गेष्वासादितं सौरभमङ्गरागैः।
स सर्वगन्धोपि यदन्वयेन प्रभूतमामोदविशेषमृच्छेत् ॥

व्यामातिरिक्तस्तनकुम्भभूम्ना व्याप्ताकृतिं यौवनकुञ्चरेण।
प्रसाधयन्त्यः पतिदेवतास्तां नाथोचितां प्रेक्ष्य न तृप्तिमापुः॥

मौलौ सुकेश्याः स्फुटरश्मिजालं मुक्तामयं जालकमाबबन्धुः।
क्रीडोचितं कृष्णमृगं गृहीतुं तेन स्मरो वागुरिकस्तदाभूत् ॥

मुखेन्दुलावण्यसुधाप्रवाहे मुहुः प्रतीपप्लवनोद्यतेन।
तत्कर्णभूषामकरेण मन्ये मन्दीकृता मन्मथलाञ्छनश्रीः॥

अनन्यदृष्टिं विततान तामप्यादर्शसंक्रान्तिविशेषदृश्यम् ।
प्रसाधनैः प्राप्तगुणैः प्रतीक्ष्यं तस्या मुखं तामरसायताक्षम् ॥

मनुष्यताकञ्चुकितात्मभूम्नः काले चकाशे कुचकञ्चुकश्रीः।
रत्नाचले भोगिशयप्रियायाः स्वतल्पनिर्मोक इवावलीनः॥

अंसावलम्बिन्यसितेक्षणायाः कम्पोज्जवला काचन रत्नमाला ।
अलक्ष्यतोल्लासितरम्यरश्मिः कामार्पिता कान्तिविहारडोला ॥

प्रभाप्रविहोदितसैकताभे स्तनद्वये तामरसेक्षणायाः।
तत्कंधराशङ्खमतल्लिकायाः प्रसूतिराशङ्क्यत हारवृत्त्या ॥

तत्कन्धराशङ्खत एव मुक्ताप्रसूतिराशंवयत हारवृत्त्या ॥

विश्वास-प्रस्तुतिः

अभासतात्मस्मितसौम्यभासा हारेण हृद्येन जगत्प्रतीक्ष्या ।
प्रियस्य चन्द्रं हृदयाद्विधातुः प्राप्तानुसारेव निसर्गशुद्धम् ॥

रराज मुक्ताभिरवाप्तफेनं रत्नाङ्गदं प्राप्तगुणं तदङ्गे ।
प्रवाहवृत्तेः परिवृत्तिभेदात् महीयसी मण्डलितेव कान्तिः॥

प्रतिक्रियामात्मतिरस्क्रियायाः प्रायः स्वयं व्यापृतया विधातुम् ।
तदङ्गयोगोज्ज्वलरत्नधाम्ना संछिदितं मेखलयान्तरीयम् ॥

शिखण्डकानि श्रुतिसुन्दरीणां चारूणि पादाभरणानि तस्याः।
पदेषु संघर्षवशादिवासन् मिथः पुरोभागिपदास्पदानि ॥

अनुक्षणं बन्धुजनैरमुष्यामामुच्यमानेषु विभूषणेषु ।
अयत्नतस्तानि तदन्तराले कृतास्पदा केवलतात्यशेत॥

अभिन्नरूपामनुवेलभिन्नात् प्रसाधनादभ्यधिकां प्रसत्तिम् ।
विलोकयन्ती जनता तदीयां व्यावर्तयामास ततो न दृष्टिम्॥

आदर्शबिम्बेन तदङ्गकान्तेरक्षाम्यता निष्प्रतिमत्ववादम् ।
प्रतिप्रवृत्तिं प्रतिमां विधाय प्रख्यापिता वृत्तवतामपीर्ष्या॥

निनीषितां देवगृहं ययैतामाकल्पलक्ष्म्या समयोजयन्त ।
मुकुन्दसंस्पर्शमवाप्तुमर्हा सैव स्थिरा धन्यतमा बभूव ॥

पतिव्रताः पार्थिवयाषितस्तां प्रत्यङ्गसौन्दर्यनिमग्नभावाः।
कृताशिषः कृष्णमनोरथस्थामारोप्य कर्णीरथमन्वगच्छन् ॥

मङ्गल्यसंगीतसमेतयात्रा मनुष्यदेवीभिरनुद्रुता सा ।
निनंसितैषा स्वयमेव देवी नान्येति सद्भिर्निरणायि नाथा ॥

भावान्तरेषु प्रतिपन्नलीला पैतामहादीनि पदानि दातुम् ।
स्वदत्तशक्तेः कुहनामनुष्या कुतश्चिदिष्टं स्वयमाशशंसे ॥

प्रणम्य मूर्ध्ना निहितोपहारामुत्तस्थुषीमुत्सवदेवतैनाम् ।
अवोचगारादशरीरिवाचा परैरजय्यं पतिमाप्नुहीति ॥

पत्या निजेन परिणीतिमवाप्तुकामा लब्ध्वा वरं ललितमुत्सवदेवतायाः।
तेनैव सा समसमीहितसिद्धिरासीत् मानाधिका जगति मन्मथमन्मथेन ॥

ऊरुः सव्यो नयनकमलं भ्रूलता चापि तस्याः
प्रावेपन्त प्रियमुपगतं सूचयन्ति स्ववृत्त्या ।
आरादासीदलघुतुलसीगन्धसौम्यः समीरः
प्रत्यासन्नं मुहुरुदचरत् पाञ्चजन्यप्रणादः॥

रुक्मिण्यभ्युदयो नाम द्वादशः सर्गः॥