विश्वास-प्रस्तुतिः
तदद्भुतं क्रीडितकं क्रमेण श्रुत्वा हरेरप्रतिमानशक्तेः।
महाबलान् कंसवधादिजन्मा मन्युः प्रपेदे मगधेन्द्रमुख्यान् ॥
मूलम्

गोपालडिम्भो नरपालहन्ता कुले यदोरञ्चितमातपत्रम्।
अन्यच्च भूम्यामधरोत्तरत्वं हन्तेति वादान् प्रभूरभ्यनन्दत् ॥

हलादिभिर्हेतिवरैर्यथार्हं रथाङ्गमुख्यैरपि रामकृष्णौ ।
स्ववृत्तियोग्यावसरोपयातैः प्राचीं श्रियं प्रदुरभावयेताम्॥

स दैत्यजित् वध्यवरूथिनीनां संप्रापकं सारथिमात्रश्षम् ।
पुनः प्रवृत्तानुशयं पुरीं स्वां निन्ये जरासंधम् अहार्यसंधः॥

समाहृतैः सैन्यमहासमुद्रैरायातमष्टादश सांपरायान् ।
देहावशेषं प्रजिघाय दीनं देहेन भीमेन विभेत्तुमिच्छन् ॥

स्वदत्तशक्तया मुचुकुन्ददृष्ट्या भस्मावशेषो भविता द्रुतं यः।
कलेरिवात्मानमनन्तदोषं यं कालपुर्वं यवनं प्रचख्युः॥

बलस्य च स्वस्य च बाहुभूम्ना यदाहृतम्लेच्छमृगाधिपानाम् ।
सहस्रकोटीगुणितं सहस्रं पञ्चत्वमायास्यति पञ्चसंख्यम् ॥

तदागमे यादवपुंगवानां विप्रावमानोपनतं विषादम् ।
निवारमास न वासुदेवः प्रख्यापयन् ब्राह्ममृषेः प्रभावम् ॥

निसर्गनिध्येयपरावरः स संमन्त्र्य सार्धं यदुवंशवृद्धैः।
विहातुमिच्छन् मधुरां शुभंयुः संकल्पयामास पुरीं तदन्याम् ॥

स्वयं प्रवृत्तैरपि वृष्णिवीरैस्त्रातुं क्षमां त्रासितदैत्यलोकः।
अनन्यसाधारणशक्तिरन्यां संकल्पयामास पुरीमपूर्वाम् ॥

जहौ धरित्रीमिव जामदग्न्यः कौलीमयोध्यामिव कोसलेन्द्रः।
अचिन्त्यवृत्तिर्मधुरामनिन्द्यां तज्जन्मजातो महिमा तु नैनाम् ॥

परित्यजन्नप्यभिमत्य तिष्ठन् व्याप्तः शुभं व्यक्तिपदं तदग्र्यम् ।
अनन्यभाजामभजत् स देवस्तस्मिन् सतां प्रगिव संनिधानम् ॥

अहंसपद्मामिव वाहिनीं तां वीतेन्दुतारामिव वासतेयीम् ।
समाप्तकार्यामिव सत्रशालां शून्यां पुरीं प्रेक्ष्य जगाम शौरिः॥

चित्रावशेषद्विरदाश्वयोधा शुकादिसंभाषणशेषसूक्ता ।
मणिप्रभाशेषितदीपिका सा नाम्नैव माधुर्यवती तदासीत् ॥

प्राचीमनादृत्य निवासभूमिं प्रत्यङ्मुखीं पद्धतिमाददाना ।
स्थिरं पदं प्राप्तुनियेष सेवा सत्त्वाधिका धीरिव सात्त्वतानाम् ॥

उत्सारयन् धूलिमिवाग्रयायी विनिर्दिशन् वासमिवातिदूरात् ।
प्रत्युद्गमाय त्वरयन्निवाब्धिं मरुद्ववौ मन्दविधूतकेतुः॥

प्रभूतभीमोन्नतनागनक्रा पारिप्लवैरूर्मिमती तुरंगैः।
अपूर्ववारांनिधिमाव्रजन्ती स्वयं तथा शौरिचमूरभूत् सा ॥

समेति मां सात्त्वतवाहिनीयं सिष्णासया हन्त जिगीषया वा ।
इति प्रभूताद्भुतवैभवां तामुपेन्द्रनाथामुदधिः शशङ्के ॥

गतागतैर्योद्धुमिव प्रवृत्तैरासीदतामद्भुतभीमवेगौ ।
मिथःप्रतिच्छन्दतया प्रतीक्ष्यौ वेलावने सैन्यमहासमुद्रौ ॥

महीयसा सैन्यरवेण सद्यः पयोधिरन्तर्हिततीव्रघोषः।
प्रकम्पमानो भृशमाबभासे भयेन तूष्णीमिव भाव्यमानः॥

प्रतीक्ष्य सेनामुपधावमानां पत्या नदीनां प्रणिधीयमानः।
प्रकाशयन् सर्वजनानुकूल्यं समीरणो मन्दतरं चचार ॥

वदन्निव स्वागतमागतेभ्यः प्रभूतसंतोषभवैः प्रणादैः।
तरङ्गहस्तप्रहितैः सरस्वान् अभ्यर्चयामास यदून् पयोभिः॥

चिरप्रयातं परिहृत्य शय्यामभ्यागतं वारिधिरादरेण ।
मिथः समायोजितवीचिहस्तः प्रायः प्रभुं प्रार्थयत प्रसादम् ।

निवेश्य सेनामुदधेः समीपे तालाङ्कसंभावितराजताले ।
दयार्द्रमेघोपमदेहभूमा विश्वंभरो विश्रमयांचकार ॥

कदाचिदात्मानमवाप्तरत्नं कपालिनं चन्द्रकलावतंसम् ।
क्षमं सुभिक्षां च दिवं विधातुं ध्यातागतं सिन्धुमथादिदेश॥

अनारतप्राप्तजयोद्यमानां धर्मं निजं धारयतां यदूनाम् ।
अपत्यरक्षोचितमन्तरीपं दिव्योपमं देयमिह त्वयेति ॥

स तस्य दिक्पालनिवासकल्पां विधित्सतो वृष्णिपुरीं विशालाम् ।
अगाधपाथःपरिखाभिगुप्तं द्वीपं ददौ दुर्गविधानयोग्यम् ॥

बलोत्तराणामपि बह्वमित्रं स्फीतं यदूनां कुलमीक्षमाणः।
अवन्ध्ययन् विश्ववित् अर्थशास्त्रं दुराक्रमं दुर्गमियेष कर्तुम् ॥

स शासिता शास्त्रमनुप्रतस्थे कर्माददे कर्मफलप्रदाता ।
प्रभुः स्वबुद्ध्यैव जगन्ति गोप्तुं कुर्वीत बाह्यैरपि किं न गुप्तिम् ॥

प्रभूतरत्नद्युतिकेसरं तत् प्रवालपत्रौघपरीतपार्श्वम् ।
स्थानं हरेरिष्टतमं तदासीत् संभूतिराजीवमिवेन्दिरायाः॥

प्रचोदितस्तत्र च विश्वकर्मा नाथप्रसत्त्यै नलिनासनाद्यैः।
रथ्यादिवैचित्र्यवतीं वितेने रिशिं गुणानामिव राजधानीम् ॥

स शिल्पविद्यां विधिनोपदिष्टामशेषतो नूनमधीत्य दाक्ष्यात् ।
शुभानि तस्यां भवनानि कर्तुं सौधेषु दिव्येषु चकार योग्याम् ॥

गतागतार्थं हरिवाहिनीनां सेतुं च योगेन बबन्ध सिन्धौ ।
चकार दिग्भागविमूढतां यः प्रत्यर्थिनां चक्रधरप्रभावात् ॥

नलेन पूर्वं स्वसुतेन सृष्टात् नवीनमन्यूनतरं स्वक्लृप्तम् ।
समीक्ष्य तुष्यन्नपि विश्वकर्मा नाथाय रोचेत न वेत्यताम्यत्॥

स सेतुरास्कन्दितकूलयुग्मः संकल्पितो वासवलोकतक्ष्णा।
महापुरीं तां च महीं च मातुं मध्ये तुलादण्ड इवार्पितोभूत् ॥

निवेदितां निर्जरशिल्पिनैव स्वयं चमत्कारवता सुक्लृप्ताम् ।
अदृष्टपूर्वामिव विश्वदर्शी दृष्टिः सतां द्रष्टुमियेष नाथः॥

निजप्रतिच्छन्दनिदर्शनीयां मृग्योपमानान्तरमृष्टकान्तिम् ।
उदन्वता दत्तकरेण देवः प्रदर्शितां पूर्वमवैक्षतैनाम् ॥

अनन्यदृष्टिं नगरी नवीना विस्मेरतां विश्वपतिं निनाय ।
स्वयंप्रभैः सौधभरैरुदारैस्तुङ्गैः सुमेरोरिव रत्नशृङ्गैः॥

तामद्भुतां तारकिताग्रसौधां धर्मस्य पूर्णामिव योगसिद्धिम् ।
सपौरभृत्यः समयान्ववेक्षी विवेश वृष्ण्यन्धकयूथनाथः॥

परेण नाकं प्रलयानभिज्ञामधीयते यस्य पुरीमचिन्त्याम् ।
स लोकनाथो विदधे सनाथां दूराधिकां द्वारवतीं दिवोपि ॥

विधाय तस्यां विदितैः स्वचिह्मैर्यदून् यथास्थाननिवेशतुष्टान् ।
तामेव नाथस्त्रिदशाभिनन्द्यां त्यक्तामयोध्यां मधुरां च मेने ॥

उदन्वति व्योमतले च लग्नां दृष्टोभयाः दर्पणदर्शनीये ।
यामद्भुतामात्मपुरीं च देवाश्छायाममन्यन्त मिथः समीक्ष्याम् ॥

प्राकारचक्रं पृथुभिस्तरङ्गैरास्फालयन् अम्बुधिरात्तवेगः।
अमर्त्यमुख्यैरपि जातकोपैरक्षोभ्यतां व्याकुरुतेव यस्याः॥

यत्सौधपर्यङ्कजुषां वधूनां संगृह्य निःश्वासगुणं समीरः।
पद्मेषु नूनं प्रदिशन् प्रभाते गतागतं याति गवाक्षवर्त्मा ।

जालानि यत्रागुरुधूमजालैः संदिग्धपारावतसंनिधानैः।
अवासयन् नूनमहार्यगन्धान् आसेदुषां नाकसदां विमानान्॥

परार्थ्यरत्नप्रचितात्मभिर्या प्रासादमालाभिरलंकृताङ्गी ।
नाथोपभोगानुगुणां पयोधौ ननन्द दृष्ट्वैव निजामभिख्याम् ॥

मणिप्रदीपप्रशमप्रयुक्ते विहारचूर्णे विफले वधूनाम् ।
अपत्रपायाः समयेपि यस्यामभूदनास्था परमार्थदीपे ॥

प्रायेण यत्र प्रमदाजनानां नित्यं गुणैरप्रतिमैर्निरुद्धाः।
संस्कारयोगादपि लब्धसत्त्वाश्चित्रार्पिता नाकसदो न चेरुः॥

यदन्तरे यामिकवारणानामासेदुषामम्बुनिधेरभिख्याम् ।
कराभिमर्शेषु पुनश्चकासुः कल्लोललग्ना इव कर्णशङ्काः॥

सौधेषु यस्यांं युवसेवितेषु त्रिविष्टपादप्यधिकोन्नतेषु ।
व्रीलातिभारान्नमिता इवासन् वैमानिकैरध्युषिता विमानाः॥

न षड्भिरासन् व्यसनानि पुंसां यद्वासिनामीतिभिरूर्मिभिर्वा ।
अयोगयत्नेन विनैव चान्ते जज्ञे जगद्धातरि बुद्धिरेका ॥

अदेशकालप्रविभागभाजा भूम्ना जगद्धातुरचिन्त्यभूम्नः।
यस्यां विहारोपवनान्यभूवन् समाधियोग्यानि तपोवनानि ॥

अनंहसामध्वरदीक्षितानामाह्वानतः प्रागपि संनिधानात्।
अभूङ्क्त कृत्स्नानि हवींषि नित्यं यत्र स्वयं यज्ञतनुः स देवः॥

रतिप्रसूता इव राजकन्या रसोदधेरूर्मिपदं भजन्त्यः।
विरक्तभाव्यं तमवाप्य यस्यां रागोपपन्ना रमयांबभूवुः॥

प्रवालचित्रीकृतजालकश्रीः सालावृता संभृतपत्रजाला ।
परिष्कृता भद्र मृगादिभिर्या बभौ स्मरस्येव विहारवन्या ॥

ध्वजाग्रभिन्नाति तुहिनांशुबिंम्बादनुक्षरन्त्या सुधयानुलिप्तैः।
चिरप्रक्लृप्तैरपि यत्र सौधैर्नित्यं नवीनैरिव निर्बभासे ॥

स्ववैभवैरप्रतिरूपशोभैः व्यक्तश्रियो वाङ्मनसानिवृत्तैः।
तिरोदधुर्यत्र नरेन्द्रवासाः स्वयंप्रभां देवसभां सुधर्माम् ॥

विभूतिभेदैरनुपप्लवैर्या भोगार्थिनां भूमिगताप्यभौमैः।
निवारयामास तपोधनानां वासादरं वासवराजधान्याम् ॥

यत्सौघरत्नप्रकरेषु विष्वक् प्रसारितैरन्वहमैकमुख्यात् ।
करैः सहस्रेँण गृहीतदीप्तिः प्रद्योतते नूनमतीव भास्वान् ॥

यच्चन्द्रशालसु निषेदुषीणां मृगीदृशां हारमणिप्रकाशैः।
तिरस्क्रियां प्राप्य विलज्जमानास्तारागणा नूनमधश्चरन्ति ॥

गृहेषु यस्यां मणिभित्तिभागे प्रतिक्षणं दृष्टमुखेन्दुबिम्बः।
वधूजनः केवलमग्रहस्तैरादत्त मङ्गल्यतयात्मदर्शम् ॥

अनन्तचित्रप्रतिमाभिरामैरजस्रमाक्रान्तदिशावकाशैः।
अभावयत् गोपुरवैभवैर्या विश्वप्रसूतेरिव वैश्वरूप्यम् ॥

सरोभिरुल्लासितपुष्करश्रीः सङ्गोज्झितैः संगमितप्रयागा ।
प्रभासिता रत्नगणांशुभिर्या धर्माश्रयाणामिव संसदासीत् ॥

हसद्भिरुच्चैःश्रवसं हयाग्र्यैरैरावतं दन्तिवरैश्च दृप्तैः।
नरोत्तमैर्नाकसदश्य याभूत् सुभ्रूभिरप्यप्सरसः स्वयं द्यौः॥

वप्रेषु यस्याः स्फटितप्रदेशान् द्वाराभिमानात् द्रुतमापतन्तः।
अवापुरागन्तुजनाः सलीलैरन्तःस्मितैर्नागरकैर्निरोधम् ।

पयोभिरच्छस्फटिकद्रवाभैः दवीयसां दर्शनमादधानैः।
सुधाधिकस्वादुरसैरविन्दन् स्वान्तोपमां यत्र सतां सरस्यः॥

यामेकचित्तः प्रसमीक्ष्य तुष्यन् यादोनिधेराहितदिष्टिवृद्धिम् ।
लज्जामयासीदिव विश्वकर्मा लङ्कादिनिर्माणकथाप्रसङ्गे ॥

समग्ररत्नौघशुभाकृतिं यां सनायकां मध्यजुषा त्रिधाम्ना ।
हृद्यामजस्रं हृदयेन भूषां रत्नाकरो नूनमधत्त रम्याम् ॥

(रम्यां हि हृद्यां हृदयेन नूनं रत्नाकरो रत्नमधत्त भूषाम् ॥
विश्वास-प्रस्तुतिः
अभिन्नसत्त्वान्नभसः परस्मात् क्षीरोदधेरंशुमतश्च बिम्बात् ।
रमासखस्य प्रणिधानभाजां याभूत् प्रियं व्यक्तिपदं पृथिव्याम् ॥

यत्सौधभाजो निशि सुन्दरीणां मुखेन्दुभिश्चूषितकान्तिमिन्दुम् ।
सद्यः स्वनिष्यन्दसुधाप्रवाहैराप्याययामासुरिवेन्दुकान्तः॥

उद्वेलचञ्चत्तुरगोर्मिमालामुद्घोषितामुत्सवतूर्यघौषैः।
प्रभूतरत्नौघनिधिं पयोधिर्यामद्भूतां या च तमन्वकार्षीत् ॥

यद्वप्रशैलेषु दिवापि सिन्धोरास्फालनादुत्पतितैः पृषद्भिः।
उत्क्षिप्तमुक्ताफलदर्शनीयैरालक्ष्यतारौघमभूत् विहायः॥

कलत्रपुत्रादिजुषामजस्रं दीर्घायुषां यत्र सतां जनानाम् ।
धर्मैकभाजामितरे पुमर्थाः प्रायः स्वयं संनिदधुः स्वभूत्यै ॥

रराज सा रामजनार्दनाभ्यां प्राप्तप्रकाशापि यद्प्रवीरैः।
सत्येव तारानिकरे त्रिलोकी चक्षुष्मती चन्द्रदिवाकराभ्याम् ॥

प्रभुणा सहस्रवदनेन वर्ण्यतां द्विगुणैरमुष्य नयनैरवेक्ष्यताम् ।
श्रुतिभिश्च तस्य बहुधा निशम्यतामधिकां ततः श्रियामवाप सा पुरी ॥

स्वयमजनि किमत्र श्वेतमेवान्तरीपं परिणतमुत किंचिद्भागधेयं पृथिव्याः।
वरुणनगरमन्यत् वारिधेरुत्थितं वा किमिदमिति पुरं तत् कीर्तयन्ति स्म पौराः॥

रामप्रष्ठैरधिवसति सा राजधानी जगाहे
लोकिधीशे सह बहुमतैर्लोकपालैरिवान्यैः।
आशचर्याणां प्रकृतिरियमित्यद्भुतावेशयोग्याम्
अप्रत्यूहामनितरतुलारोहणीयामभिख्याम् ॥
विश्वास-प्रस्तुतिः
तन्मध्ये विरचितशिल्पमेरुकल्पं वैचित्र्यादपहृतवैजयन्तगर्वम् ।
प्रस्पष्टं निजमिव पारमेष्ठ्यमुर्व्यां प्रासादं प्रभुरधिवासयाञ्चकार ॥

रामः पुनर्व्रजमुपेत्य विहारभेदैराश्वासयन् सहचरैः सुहृदश्च सर्वान् ।
विश्राणितां दुहितरं वरुणेन विन्दन् सीरावकृष्टयमुनास्नपितो विजह्रे ॥

प्रत्यञ्चमब्धिमवधूतवतोतिदूरं दग्धुश्च कूलमिव दक्षिणमस्त्रभूमा ।
आकर्षतश्च सरितं सवितृप्रसूतां रामस्य तस्य शुशुभे रसिकस्य लीला ॥

पद्मयोनिवचनादुपनीतां प्राक्तनीं प्रियतमामिव कान्तिम् ।
रेवतस्य तनयामनुरूपां रेवतीं च परिणीय स रेमे ॥