विश्वास-प्रस्तुतिः
ततस्तौ ददृशुस्तत्र विशन्तौ राजवीथिकाम् ।
पूर्णदृष्टिफलाः पौराः पुण्यैरेकमुखैरिव ॥
मूलम्
ततस्तौ ददृशुस्तत्र विशन्तौ राजवीथिकाम् ।
पूर्णदृष्टिफलाः पौराः पुण्यैरेकमुखैरिव ॥
विश्वास-प्रस्तुतिः
चक्षुषामिव भाग्येन संप्रवृत्तौ महोत्सवौ ।
युक्तौ मदनशक्त्येव युगपन्मधुमाधवौ ॥
मूलम्
चक्षुषामिव भाग्येन संप्रवृत्तौ महोत्सवौ ।
युक्तौ मदनशक्त्येव युगपन्मधुमाधवौ ॥
विश्वास-प्रस्तुतिः
अभिख्यावीचिविक्षेपैरपृथग्भावचित्रितैः।
समेतैरनुभावाद्यैः सक्ताविव रसोत्तमौ ॥
मूलम्
अभिख्यावीचिविक्षेपैरपृथग्भावचित्रितैः।
समेतैरनुभावाद्यैः सक्ताविव रसोत्तमौ ॥
विश्वास-प्रस्तुतिः
क्रममुल्लङ्घ्यभूतानां भोगमोक्षाविवोद्गतौ ।
तयोरेव विनिष्पत्त्यै धर्माविव च तादृशौ ॥
मूलम्
क्रममुल्लङ्घ्यभूतानां भोगमोक्षाविवोद्गतौ ।
तयोरेव विनिष्पत्त्यै धर्माविव च तादृशौ ॥
विश्वास-प्रस्तुतिः
पुनन्तौ भुवनं पादैः पुष्पवन्ताविवापरौ ।
सिञ्चन्तौ कान्तिवर्षेण सितकृष्णाविवाम्बुदौ ॥
मूलम्
पुनन्तौ भुवनं पादैः पुष्पवन्ताविवापरौ ।
सिञ्चन्तौ कान्तिवर्षेण सितकृष्णाविवाम्बुदौ ॥
मदोपक्रमदुर्दान्तौ मधुरोद्धतविभ्रमौ
कलभाविव संनद्धौ कंसादिनलमर्दने ॥
विश्वास-प्रस्तुतिः
शुभानामिव सीमन्तैः श्रुतिसीमन्तसेवितैः।
पुनन्तौ राजविशिखां पुण्यैश्चरणपङ्कजैः॥
मूलम्
शुभानामिव सीमन्तैः श्रुतिसीमन्तसेवितैः।
पुनन्तौ राजविशिखां पुण्यैश्चरणपङ्कजैः॥
विश्वास-प्रस्तुतिः
शीलसंवृतपारभ्यैः शृङ्गारपरिकर्मितैः।
दृषदोपि द्रवीभावं नयन्तौ दिव्यचेष्टितैः॥
मूलम्
शीलसंवृतपारभ्यैः शृङ्गारपरिकर्मितैः।
दृषदोपि द्रवीभावं नयन्तौ दिव्यचेष्टितैः॥
विश्वास-प्रस्तुतिः
दिदृक्षादत्तदृष्टीनां मनस्कारमनीषयोः।
सपीतिरससंतोषं दिशन्तौ देहकान्तितः॥
मूलम्
दिदृक्षादत्तदृष्टीनां मनस्कारमनीषयोः।
सपीतिरससंतोषं दिशन्तौ देहकान्तितः॥
विश्वास-प्रस्तुतिः
मन्मथायुतसौन्दर्यौ वसन्तायुतसौरभौ ।
शशाङ्कायुतलावण्यौ चण्डरश्म्ययुतद्युती ॥
मूलम्
मन्मथायुतसौन्दर्यौ वसन्तायुतसौरभौ ।
शशाङ्कायुतलावण्यौ चण्डरश्म्ययुतद्युती ॥
विश्वास-प्रस्तुतिः
चित्रतामिव नीतानां चित्तचेष्टापहारतः ।
प्रतिसौधं पुरस्त्रीणां निर्विशन्तौ निरीक्षणम् ॥
मूलम्
चित्रतामिव नीतानां चित्तचेष्टापहारतः ।
प्रतिसौधं पुरस्त्रीणां निर्विशन्तौ निरीक्षणम् ॥
विश्वास-प्रस्तुतिः
सुप्रभातमिह प्राप्तं सूषा च सुदिनं च नः ।
इति वादिभिरन्योन्यं द्रुतचित्तैरनुद्रुतौ ॥
मूलम्
सुप्रभातमिह प्राप्तं सूषा च सुदिनं च नः ।
इति वादिभिरन्योन्यं द्रुतचित्तैरनुद्रुतौ ॥
विश्वास-प्रस्तुतिः
बलादपहृतैस्तत्र रजकात् राजसंमतात् ।
परभागश्रियं प्राप्तौ वासोभिरसितारुणैः॥
मूलम्
बलादपहृतैस्तत्र रजकात् राजसंमतात् ।
परभागश्रियं प्राप्तौ वासोभिरसितारुणैः॥
विश्वास-प्रस्तुतिः
लब्धपुण्यविपाकेन मालाकारेण लम्भितैः।
शबलौ दामभिश्चित्रैः संदिग्धवनमालिकैः॥
मूलम्
लब्धपुण्यविपाकेन मालाकारेण लम्भितैः।
शबलौ दामभिश्चित्रैः संदिग्धवनमालिकैः॥
विश्वास-प्रस्तुतिः
कान्तिनिर्जितया कामात् प्रदिष्टैः कंसकुब्जया ।
दधतौ वर्णकैर्भूयो दिव्यगन्धौ सुगन्धिताम् ॥
मूलम्
कान्तिनिर्जितया कामात् प्रदिष्टैः कंसकुब्जया ।
दधतौ वर्णकैर्भूयो दिव्यगन्धौ सुगन्धिताम् ॥
विश्वास-प्रस्तुतिः
ऋजूकृतसुजाताङ्ग्या ऋजुबुद्ध्याथ कुब्जया ।
प्रणयन्त्या स्वगेहाप्तिं प्राप्तमन्दस्मितौ मिथः॥
मूलम्
ऋजूकृतसुजाताङ्ग्या ऋजुबुद्ध्याथ कुब्जया ।
प्रणयन्त्या स्वगेहाप्तिं प्राप्तमन्दस्मितौ मिथः॥
विश्वास-प्रस्तुतिः
ततो विविशतुः शालां बलिसद्मगुहामिव।
प्रथितां पृथुभिश्चापैः पन्नगैरिव भीषणैः॥
मूलम्
ततो विविशतुः शालां बलिसद्मगुहामिव।
प्रथितां पृथुभिश्चापैः पन्नगैरिव भीषणैः॥
विश्वास-प्रस्तुतिः
तत्र शैलनिभं शौरिस्त्रिदशैरपि दुर्दमम् ।
ददर्शाजगवप्रख्यं दम्भोलिकठिनं धनुः॥
मूलम्
तत्र शैलनिभं शौरिस्त्रिदशैरपि दुर्दमम् ।
ददर्शाजगवप्रख्यं दम्भोलिकठिनं धनुः॥
विश्वास-प्रस्तुतिः
स्वपूर्वप्रभवोदन्तमिदानीन्तनयन्निव।
तदानम्य धनुर्भीमं बभञ्ज भुजलीलया ॥
मूलम्
स्वपूर्वप्रभवोदन्तमिदानीन्तनयन्निव।
तदानम्य धनुर्भीमं बभञ्ज भुजलीलया ॥
विश्वास-प्रस्तुतिः
महता तस्य घोषेण विदद्रे द्विषतां मनः।
सौधिनि मधुरायाश्च शुष्काशनिविडम्बिना ॥
मूलम्
महता तस्य घोषेण विदद्रे द्विषतां मनः।
सौधिनि मधुरायाश्च शुष्काशनिविडम्बिना ॥
विश्वास-प्रस्तुतिः
चापगोपचमूं हत्वा तौ जगद्धितमानुषौ ।
अतिलङ्घ्य धनुःशालां रङ्गद्वारमवापतुः॥
मूलम्
चापगोपचमूं हत्वा तौ जगद्धितमानुषौ ।
अतिलङ्घ्य धनुःशालां रङ्गद्वारमवापतुः॥
विश्वास-प्रस्तुतिः
तत्र मृत्युमिव क्रुद्धं निदध्यतुररिंदमौ।
नागं कुवलयापीडं निह्नुवानमिवाम्बरम् ॥
मूलम्
तत्र मृत्युमिव क्रुद्धं निदध्यतुररिंदमौ।
नागं कुवलयापीडं निह्नुवानमिवाम्बरम् ॥
विश्वास-प्रस्तुतिः
तमासाद्य द्रुतं शौरिस्त्रासितत्रिदशद्विपम् ।
पञ्चवक्त्र इवाक्रम्य पातयामास भूतले॥
मूलम्
तमासाद्य द्रुतं शौरिस्त्रासितत्रिदशद्विपम् ।
पञ्चवक्त्र इवाक्रम्य पातयामास भूतले॥
विश्वास-प्रस्तुतिः
तस्य दन्तौ समुद्धृत्य श्वेताद्रिशिखरोपमौ ।
विदधाते यदुश्रेष्ठौ मल्लयुद्धमहायुधे ॥
मूलम्
तस्य दन्तौ समुद्धृत्य श्वेताद्रिशिखरोपमौ ।
विदधाते यदुश्रेष्ठौ मल्लयुद्धमहायुधे ॥
विश्वास-प्रस्तुतिः
सह गोपैरधिष्ठाय रङ्गमध्यमरिंदमौ ।
बलिजित् बलभद्रश्च बालवृत्तैरदीव्यताम् ॥
मूलम्
सह गोपैरधिष्ठाय रङ्गमध्यमरिंदमौ ।
बलिजित् बलभद्रश्च बालवृत्तैरदीव्यताम् ॥
विश्वास-प्रस्तुतिः
नृपोपहूतैरथ तौ विहारैक्यमवापतुः।
नर्मकारकजल्पाकनटनर्तकगायकैः॥
मूलम्
नृपोपहूतैरथ तौ विहारैक्यमवापतुः।
नर्मकारकजल्पाकनटनर्तकगायकैः॥
विश्वास-प्रस्तुतिः
जनस्य महतस्तत्र जनयामासतुस्तदा ।
महता कान्तिवर्षेण दिदृक्षां देवमातृकाम् ॥
मूलम्
जनस्य महतस्तत्र जनयामासतुस्तदा ।
महता कान्तिवर्षेण दिदृक्षां देवमातृकाम् ॥
विश्वास-प्रस्तुतिः
उपवेदमधीयुर्ये रणार्थं रङ्गदर्शिनः ।
तमेव ते द्विधाभूतं तावुभावभिमेनिरे ॥
मूलम्
उपवेदमधीयुर्ये रणार्थं रङ्गदर्शिनः ।
तमेव ते द्विधाभूतं तावुभावभिमेनिरे ॥
विश्वास-प्रस्तुतिः
तदालोकनलाभेन सामाजिकजनस्तदा।
अनिदंपूर्वमाह्लादमपवृक्त इवान्वभूत् ॥
मूलम्
तदालोकनलाभेन सामाजिकजनस्तदा।
अनिदंपूर्वमाह्लादमपवृक्त इवान्वभूत् ॥
विश्वास-प्रस्तुतिः
बिम्बिताकृतयो नार्यस्तद्देहमणिदर्पणे ।
तत्परिष्वङ्गनिर्वेशमयत्नादिव लेभिरे ॥
मूलम्
बिम्बिताकृतयो नार्यस्तद्देहमणिदर्पणे ।
तत्परिष्वङ्गनिर्वेशमयत्नादिव लेभिरे ॥
विश्वास-प्रस्तुतिः
गीतमञ्जुगिरस्तत्र नृत्तसंवादिविभ्रमाः।
मञ्चेषु हरिरद्राक्षीत् वरस्त्रीर्मदिरेक्षणाः॥
मूलम्
गीतमञ्जुगिरस्तत्र नृत्तसंवादिविभ्रमाः।
मञ्चेषु हरिरद्राक्षीत् वरस्त्रीर्मदिरेक्षणाः॥
विश्वास-प्रस्तुतिः
धृतहेतिपरिष्कारान् धीरोद्धतविलोकितान् ।
ददर्श पृथिवीपालान् देवानिव दिवश्च्युतान् ॥
मूलम्
धृतहेतिपरिष्कारान् धीरोद्धतविलोकितान् ।
ददर्श पृथिवीपालान् देवानिव दिवश्च्युतान् ॥
विश्वास-प्रस्तुतिः
तमसामिव संघातं समाहारमिवैनसाम् ।
तुङ्गमञ्चगतं कंसं तुष्टो हरिरवैक्षत ॥
मूलम्
तमसामिव संघातं समाहारमिवैनसाम् ।
तुङ्गमञ्चगतं कंसं तुष्टो हरिरवैक्षत ॥
विश्वास-प्रस्तुतिः
ललितारम्भया वृत्त्या रङ्गभाजां रसावहा ।
नरवृत्तान्तविहृतिर्ववृधे रामकृष्णयोः॥
मूलम्
ललितारम्भया वृत्त्या रङ्गभाजां रसावहा ।
नरवृत्तान्तविहृतिर्ववृधे रामकृष्णयोः॥
विश्वास-प्रस्तुतिः
विदधे सिंहनादेन तारेण यदुसिंहयोः।
गर्जितं दैत्यमल्लानां गोमायुगणवाशितम् ॥
मूलम्
विदधे सिंहनादेन तारेण यदुसिंहयोः।
गर्जितं दैत्यमल्लानां गोमायुगणवाशितम् ॥
विश्वास-प्रस्तुतिः
तावुभौ डिम्भवपुषौ ख्यातवीर्यपराक्रमौ ।
चाणूरो मुष्टिकश्च द्वौ नियोद्धुमभिजग्मतुः॥
मूलम्
तावुभौ डिम्भवपुषौ ख्यातवीर्यपराक्रमौ ।
चाणूरो मुष्टिकश्च द्वौ नियोद्धुमभिजग्मतुः॥
विश्वास-प्रस्तुतिः
अहो महदुपक्रान्तमत्याहितमिदं यतः।
अशिक्षितरणौ बालौ मल्लयुद्धे नियोजितौ ॥
मूलम्
अहो महदुपक्रान्तमत्याहितमिदं यतः।
अशिक्षितरणौ बालौ मल्लयुद्धे नियोजितौ ॥
विश्वास-प्रस्तुतिः
शिरीषललितैरङ्गैश्चेष्टितैरपि पेशलैः।
अद्रिसारकठोराभ्यां कथं योद्धुमिमौ स्थितौ ॥
मूलम्
शिरीषललितैरङ्गैश्चेष्टितैरपि पेशलैः।
अद्रिसारकठोराभ्यां कथं योद्धुमिमौ स्थितौ ॥
विश्वास-प्रस्तुतिः
पश्यद्भिरवशैर्नूनं पौरजानपदैर्जनैः।
पापमेतदनुज्ञातं परपिण्डपरायणैः॥
मूलम्
पश्यद्भिरवशैर्नूनं पौरजानपदैर्जनैः।
पापमेतदनुज्ञातं परपिण्डपरायणैः॥
विश्वास-प्रस्तुतिः
मधुकैटभदुर्दान्तौ मल्लबृन्दारकाविमौ ।
यदि जेष्यति यः कश्चित् स किं न पुरुषोत्तमः॥
मूलम्
मधुकैटभदुर्दान्तौ मल्लबृन्दारकाविमौ ।
यदि जेष्यति यः कश्चित् स किं न पुरुषोत्तमः॥
विश्वास-प्रस्तुतिः
अथ वा पूतनादीनामप्रयत्नेन घातुकौ।
नि(न)युद्धे मल्लमुख्येभ्यो नालमेतौ न वा कथम् ॥
मूलम्
अथ वा पूतनादीनामप्रयत्नेन घातुकौ।
नि(न)युद्धे मल्लमुख्येभ्यो नालमेतौ न वा कथम् ॥
विश्वास-प्रस्तुतिः
जनवादमिमं शृण्वन् जातहासो जनार्दनः।
भुजमास्फोटयामास भूभारहरणे क्षमम् ॥
मूलम्
जनवादमिमं शृण्वन् जातहासो जनार्दनः।
भुजमास्फोटयामास भूभारहरणे क्षमम् ॥
विश्वास-प्रस्तुतिः
तदास्फोटितशब्देन स्फुटत्कर्णस्य भूयसा।
कंसमल्लगणस्यासीत् कथा गोपालकाश्रया ॥
मूलम्
तदास्फोटितशब्देन स्फुटत्कर्णस्य भूयसा।
कंसमल्लगणस्यासीत् कथा गोपालकाश्रया ॥
विश्वास-प्रस्तुतिः
गोपयुद्धधिया जिह्रच्चाणूरः कूणितेक्षणः।
पुष्पपेषमिवोत्पश्यन् आद्रवत् पुष्करेक्षणम् ॥
मूलम्
गोपयुद्धधिया जिह्रच्चाणूरः कूणितेक्षणः।
पुष्पपेषमिवोत्पश्यन् आद्रवत् पुष्करेक्षणम् ॥
विश्वास-प्रस्तुतिः
यथोचे विषमं तत्र नियुद्धं स्थूलदृष्टभिः।
तत्त्वदृष्टिभिरप्येवं विश्वाधिकबले हरौ ॥
मूलम्
यथोचे विषमं तत्र नियुद्धं स्थूलदृष्टभिः।
तत्त्वदृष्टिभिरप्येवं विश्वाधिकबले हरौ ॥
विश्वास-प्रस्तुतिः
न्यूनाधिकसमारम्भो विभुस्तत्र विहारतः।
विषादप्रीतिसंदेहान् सभ्यानां समतानयत् ॥
मूलम्
न्यूनाधिकसमारम्भो विभुस्तत्र विहारतः।
विषादप्रीतिसंदेहान् सभ्यानां समतानयत् ॥
विश्वास-प्रस्तुतिः
स बालः प्रचयं प्राप बालातप इव क्रमात्।
नीहार इव चाणूरः शनैरपचयं ययौ॥
मूलम्
स बालः प्रचयं प्राप बालातप इव क्रमात्।
नीहार इव चाणूरः शनैरपचयं ययौ॥
विश्वास-प्रस्तुतिः
वारितेष्वथ वाद्येषु विषण्णेन महीभृता ।
दिव्यदुन्दुभयो नेदुर्निगमध्वाननिर्भराः॥
मूलम्
वारितेष्वथ वाद्येषु विषण्णेन महीभृता ।
दिव्यदुन्दुभयो नेदुर्निगमध्वाननिर्भराः॥
विश्वास-प्रस्तुतिः
वल्गता बलभद्रेण कृष्णेन च वसुन्धरा ।
वादित्रमिव दघ्वान मधुरान्द्रभयानकम् ॥
मूलम्
वल्गता बलभद्रेण कृष्णेन च वसुन्धरा ।
वादित्रमिव दघ्वान मधुरान्द्रभयानकम् ॥
विश्वास-प्रस्तुतिः
भीमकालियभोगीन्द्रस्फटारङ्गमहानटः।
मल्लरङ्गनटं दैत्यं मधुमाथं ममाथ(न्थ)सः॥
मूलम्
भीमकालियभोगीन्द्रस्फटारङ्गमहानटः।
मल्लरङ्गनटं दैत्यं मधुमाथं ममाथ(न्थ)सः॥
विश्वास-प्रस्तुतिः
मुष्टिघातेन रामस्य मुष्टिकश्च निपातितः।
भोजाधिपमहोत्पातं भूमिकम्पमवर्तयत् ॥
मूलम्
मुष्टिघातेन रामस्य मुष्टिकश्च निपातितः।
भोजाधिपमहोत्पातं भूमिकम्पमवर्तयत् ॥
विश्वास-प्रस्तुतिः
रामरामानुजाभ्यां तौ रावणेन्द्रजिताविव।
नमयामासतुः पृथ्वीं नगपातं निपातितौ ॥
मूलम्
रामरामानुजाभ्यां तौ रावणेन्द्रजिताविव।
नमयामासतुः पृथ्वीं नगपातं निपातितौ ॥
विश्वास-प्रस्तुतिः
शायितौ वीरशयने दृष्ट्वा चाणुरमुष्टिकौ।
द्रुतमभ्यद्रवन् कृष्णं तत्र तोसकला(तोसलका)दयः॥
मूलम्
शायितौ वीरशयने दृष्ट्वा चाणुरमुष्टिकौ।
द्रुतमभ्यद्रवन् कृष्णं तत्र तोसकला(तोसलका)दयः॥
विश्वास-प्रस्तुतिः
स तानपि नियुद्धेन वसुधायां न्यपातयत् ।
कालो युगपदुद्भूतान् कल्पान्तमिहिरानिव ॥
मूलम्
स तानपि नियुद्धेन वसुधायां न्यपातयत् ।
कालो युगपदुद्भूतान् कल्पान्तमिहिरानिव ॥
विश्वास-प्रस्तुतिः
गरुत्मानिव भूभागात् गगनाभोगमायतम् ।
कंसमञ्चमपद्वारादुदप्लवत केशवः॥
मूलम्
गरुत्मानिव भूभागात् गगनाभोगमायतम् ।
कंसमञ्चमपद्वारादुदप्लवत केशवः॥
विश्वास-प्रस्तुतिः
कचग्रहेण विवशं कंसमाकृष्य पातयन्।
पतन् वक्षःस्थले तस्य तत्सत्त्वमुदपाटयत् ॥
मूलम्
कचग्रहेण विवशं कंसमाकृष्य पातयन्।
पतन् वक्षःस्थले तस्य तत्सत्त्वमुदपाटयत् ॥
विश्वास-प्रस्तुतिः
महामोहमिवाक्रम्य मातुलं मधुसूदनः।
विवेक इव वृत्तस्थमुग्रसेनममोचयत् ॥
मूलम्
महामोहमिवाक्रम्य मातुलं मधुसूदनः।
विवेक इव वृत्तस्थमुग्रसेनममोचयत् ॥
विश्वास-प्रस्तुतिः
ददौ च कंसभृत्यानां ददतां तत्र जीवितम् ।
उन्मुखत्रिदशप्रेक्ष्यामूर्ध्वां गतिमनुत्तमाम् ॥
मूलम्
ददौ च कंसभृत्यानां ददतां तत्र जीवितम् ।
उन्मुखत्रिदशप्रेक्ष्यामूर्ध्वां गतिमनुत्तमाम् ॥
विश्वास-प्रस्तुतिः
कंसकर्षणमण्डल्यो गम्भीरास्तत्र चिक्यिरे ।
रणलक्ष्मीनिवासस्य रङ्गस्य परिखा इव ॥
मूलम्
कंसकर्षणमण्डल्यो गम्भीरास्तत्र चिक्यिरे ।
रणलक्ष्मीनिवासस्य रङ्गस्य परिखा इव ॥
विश्वास-प्रस्तुतिः
सुदामनामा कंसस्य सोदरस्त्वरितः क्रुधा।
बलेन गमितः क्षिप्रमग्रजेन गतां गतिम् ॥
मूलम्
सुदामनामा कंसस्य सोदरस्त्वरितः क्रुधा।
बलेन गमितः क्षिप्रमग्रजेन गतां गतिम् ॥
विश्वास-प्रस्तुतिः
अनायुधमहायुद्धं दृष्ट्वा हृषितरोमभिः।
प्रवातकदलप्रख्यैः प्राश्निकैरभितः स्थितम् ॥
मूलम्
अनायुधमहायुद्धं दृष्ट्वा हृषितरोमभिः।
प्रवातकदलप्रख्यैः प्राश्निकैरभितः स्थितम् ॥
विश्वास-प्रस्तुतिः
कृतिनस्तादृशं युद्धं किलिकिञ्चितयन्त्रिताः।
लीना इव च पश्यन्तो लिखिता इव चाभवन् ॥
मूलम्
कृतिनस्तादृशं युद्धं किलिकिञ्चितयन्त्रिताः।
लीना इव च पश्यन्तो लिखिता इव चाभवन् ॥
विश्वास-प्रस्तुतिः
सिद्धाश्च दिवि तत्तादृक्तालकल्पितताण्डवाः।
हर्षदुग्धाब्धिकल्लोलं हाहाकारमकल्पयन् ॥
मूलम्
सिद्धाश्च दिवि तत्तादृक्तालकल्पितताण्डवाः।
हर्षदुग्धाब्धिकल्लोलं हाहाकारमकल्पयन् ॥
विश्वास-प्रस्तुतिः
अथ तौ भीमदोर्दण्डकण्डूकर्षणतोषितौ ।
पितृभ्यां दृष्टजन्याभ्यामुपसृत्य प्रणेमतुः॥
मूलम्
अथ तौ भीमदोर्दण्डकण्डूकर्षणतोषितौ ।
पितृभ्यां दृष्टजन्याभ्यामुपसृत्य प्रणेमतुः॥
विश्वास-प्रस्तुतिः
तौ च तौ मृदितारातिरक्तचन्दनरञ्जितौ ।
अश्रुभिः प्रीतिनिष्यन्दैः पितरावभ्यषिञ्चताम् ॥
मूलम्
तौ च तौ मृदितारातिरक्तचन्दनरञ्जितौ ।
अश्रुभिः प्रीतिनिष्यन्दैः पितरावभ्यषिञ्चताम् ॥
विश्वास-प्रस्तुतिः
विबुधत्वमिव प्राप्तो वसुदेवः सुतेक्षणात् ।
सतत्त्वप्रतिबोधेन सात्त्वतां पतिमस्तुत ॥
मूलम्
विबुधत्वमिव प्राप्तो वसुदेवः सुतेक्षणात् ।
सतत्त्वप्रतिबोधेन सात्त्वतां पतिमस्तुत ॥
विश्वास-प्रस्तुतिः
नमस्ते नाभिनालीकरजसा सृष्टवेधसे ।
अजया सर्ववेदानामेकवेद्याय विष्णवे ॥
मूलम्
नमस्ते नाभिनालीकरजसा सृष्टवेधसे ।
अजया सर्ववेदानामेकवेद्याय विष्णवे ॥
विश्वास-प्रस्तुतिः
अनन्याधारमाधारमनन्येश्वरमीश्वरम् ।
अनुशृण्वन्ति सन्तस्त्वामनन्याधिपतिं पतिम् ॥
मूलम्
अनन्याधारमाधारमनन्येश्वरमीश्वरम् ।
अनुशृण्वन्ति सन्तस्त्वामनन्याधिपतिं पतिम् ॥
विश्वास-प्रस्तुतिः
अभङ्गुररसं भोग्यमनपायं रसायनम् ।
अक्षयं धर्मसर्वस्वमविदुस्तव कीर्तनम् ॥
मूलम्
अभङ्गुररसं भोग्यमनपायं रसायनम् ।
अक्षयं धर्मसर्वस्वमविदुस्तव कीर्तनम् ॥
विश्वास-प्रस्तुतिः
अनुग्रहदशादीप्तमशेषार्थप्रकाशकम् ।
दयासंप्लुतमाहुस्त्वां दीपमन्तस्तमोपहम् ॥
मूलम्
अनुग्रहदशादीप्तमशेषार्थप्रकाशकम् ।
दयासंप्लुतमाहुस्त्वां दीपमन्तस्तमोपहम् ॥
विश्वास-प्रस्तुतिः
देवकी दनुजस्थूणा दिव्यं धाम व्रजाङ्गणम् ।
रमा राधादयश्चेति राशिभेदैर्न भिद्यसे ॥
मूलम्
देवकी दनुजस्थूणा दिव्यं धाम व्रजाङ्गणम् ।
रमा राधादयश्चेति राशिभेदैर्न भिद्यसे ॥
विश्वास-प्रस्तुतिः
नियन्ता सर्वभूतानां नियन्तव्यैर्नियम्यसे ।
पितामहमुखैः पुत्री मम पुत्रोसि मायया।
मूलम्
नियन्ता सर्वभूतानां नियन्तव्यैर्नियम्यसे ।
पितामहमुखैः पुत्री मम पुत्रोसि मायया।
विश्वास-प्रस्तुतिः
महता त्वत्पदेनैव मारुतिन्यायमाश्रिताः।
निस्तरन्त्यचिरात् सन्तो दुस्तरं भवसागरम् ॥
मूलम्
महता त्वत्पदेनैव मारुतिन्यायमाश्रिताः।
निस्तरन्त्यचिरात् सन्तो दुस्तरं भवसागरम् ॥
विश्वास-प्रस्तुतिः
अहितोदन्वदौर्वाग्निमशेषोत्कर्षमातरम् ।
भवभैमरथीं भक्तिं भजन्ति त्वयि साधवः॥
मूलम्
अहितोदन्वदौर्वाग्निमशेषोत्कर्षमातरम् ।
भवभैमरथीं भक्तिं भजन्ति त्वयि साधवः॥
विश्वास-प्रस्तुतिः
भरन्यासाश्वयुक्तेन भाववेगप्रधाविना ।
मनोरथेन गन्तव्यः सारथिश्य भवान् सताम् ॥
मूलम्
भरन्यासाश्वयुक्तेन भाववेगप्रधाविना ।
मनोरथेन गन्तव्यः सारथिश्य भवान् सताम् ॥
वयं तु भवता ग्राह्या वासनादुर्गभेदिना
मनागिव समुद्बोध्य मा पुनर्मूमुहद्भवान् ॥
विश्वास-प्रस्तुतिः
महतामपि निष्कम्पा मनुष्यत्वमतिस्त्वयि ।
दृढलक्षितचिह्नानां दिङ्मोह इव दुर्दमः॥
मूलम्
महतामपि निष्कम्पा मनुष्यत्वमतिस्त्वयि ।
दृढलक्षितचिह्नानां दिङ्मोह इव दुर्दमः॥
विश्वास-प्रस्तुतिः
दुरन्तसुखखद्योतं दुःखान्धतमसावृतम् ।
निजेनैव प्रकाशेन निशीथमुपरुन्द्धि नः॥
मूलम्
दुरन्तसुखखद्योतं दुःखान्धतमसावृतम् ।
निजेनैव प्रकाशेन निशीथमुपरुन्द्धि नः॥
विश्वास-प्रस्तुतिः
मशकानिव मातङ्गः कंसमुख्यान् इमान् क्षिपन्।
यदि विस्मयनीयस्त्वं विस्मये किं न विस्मयः॥
मूलम्
मशकानिव मातङ्गः कंसमुख्यान् इमान् क्षिपन्।
यदि विस्मयनीयस्त्वं विस्मये किं न विस्मयः॥
विश्वास-प्रस्तुतिः
नखलीलाविदार्येषु नाथेषु विबुधद्विषाम् ।
परिष्करणपर्यायाः पञ्चापि तव हेतयः॥
मूलम्
नखलीलाविदार्येषु नाथेषु विबुधद्विषाम् ।
परिष्करणपर्यायाः पञ्चापि तव हेतयः॥
विश्वास-प्रस्तुतिः
कालनेमिविकारेस्मिन् कंसे विमथिते त्वया ।
ईदृशामितरेषां च दत्त एव जलाञ्जलिः॥
मूलम्
कालनेमिविकारेस्मिन् कंसे विमथिते त्वया ।
ईदृशामितरेषां च दत्त एव जलाञ्जलिः॥
विश्वास-प्रस्तुतिः
नमितायतविष्कम्भा दानवप्रभवैः क्षमा।
किंचिदुत्तम्भितेवाद्य कंसभारापहारतः॥
मूलम्
नमितायतविष्कम्भा दानवप्रभवैः क्षमा।
किंचिदुत्तम्भितेवाद्य कंसभारापहारतः॥
विश्वास-प्रस्तुतिः
न खल्वतिशयं कंचिदियमाधातुमर्हति ।
सुमणावज्ञक्लृप्तेव स्तुतिरस्मत्कृता त्वयि ॥
मूलम्
न खल्वतिशयं कंचिदियमाधातुमर्हति ।
सुमणावज्ञक्लृप्तेव स्तुतिरस्मत्कृता त्वयि ॥
विश्वास-प्रस्तुतिः
इति विज्ञापितस्तेन व्रीडादिव नतो विभुः।
बालोपलालनमिदं भव्यवृत्तिरभावयत् ॥
मूलम्
इति विज्ञापितस्तेन व्रीडादिव नतो विभुः।
बालोपलालनमिदं भव्यवृत्तिरभावयत् ॥
विश्वास-प्रस्तुतिः
स वाचा सान्त्वयामास पितरं दीनचेतसम् ।
स्ववक्त्रेन्दुविनिष्यन्दिसुधापूरितकुल्यया ॥
मूलम्
स वाचा सान्त्वयामास पितरं दीनचेतसम् ।
स्ववक्त्रेन्दुविनिष्यन्दिसुधापूरितकुल्यया ॥
विश्वास-प्रस्तुतिः
गम्भीरमधुरां तस्य गिरं निगमगन्धिनीम् ।
श्रुत्वा मुक्तिसखीं प्राप मुदमानकदुन्दुभिः॥
मूलम्
गम्भीरमधुरां तस्य गिरं निगमगन्धिनीम् ।
श्रुत्वा मुक्तिसखीं प्राप मुदमानकदुन्दुभिः॥
विश्वास-प्रस्तुतिः
देवकी च परिष्वज्य सुतं वात्सल्यनिर्भरा ।
नन्दगोपवधूलब्धं नवमानन्दमन्वभूत् ॥
मूलम्
देवकी च परिष्वज्य सुतं वात्सल्यनिर्भरा ।
नन्दगोपवधूलब्धं नवमानन्दमन्वभूत् ॥
विश्वास-प्रस्तुतिः
भूयः प्रादुरभूत् तस्य भुजयुग्मं तिरोहितम् ।
तथापि तादृशं मर्त्यं तममन्यन्त तामसाः॥
मूलम्
भूयः प्रादुरभूत् तस्य भुजयुग्मं तिरोहितम् ।
तथापि तादृशं मर्त्यं तममन्यन्त तामसाः॥
विश्वास-प्रस्तुतिः
बभूव बलभद्रस्य तेन विश्वातिशायिना।
शिरसा विधृतस्यापि किरीटस्येव शेषया ॥
मूलम्
बभूव बलभद्रस्य तेन विश्वातिशायिना।
शिरसा विधृतस्यापि किरीटस्येव शेषया ॥
विश्वास-प्रस्तुतिः
क्रियमाणपरिष्कारः किरीटाद्यैः स बन्धुरैः।
तानि तान्येव दिव्यानि तत्तदङ्गैरभूषयत् ॥
मूलम्
क्रियमाणपरिष्कारः किरीटाद्यैः स बन्धुरैः।
तानि तान्येव दिव्यानि तत्तदङ्गैरभूषयत् ॥
विश्वास-प्रस्तुतिः
अशोभत शुभं छत्रं तस्य राजन्यलक्षणम् ।
तन्नाभिपुण्डरीकस्य रूपान्तरमिवोदितम् ॥
मूलम्
अशोभत शुभं छत्रं तस्य राजन्यलक्षणम् ।
तन्नाभिपुण्डरीकस्य रूपान्तरमिवोदितम् ॥
विश्वास-प्रस्तुतिः
चामरद्वितयं शौरेः समया मुखपङ्कजम् ।
शुशुभे सप्रतिच्छन्दो हंसमूर्तिरिव स्वयम् ॥
मूलम्
चामरद्वितयं शौरेः समया मुखपङ्कजम् ।
शुशुभे सप्रतिच्छन्दो हंसमूर्तिरिव स्वयम् ॥
विश्वास-प्रस्तुतिः
स चन्द्र इव संपूर्णः प्रथमो यदुभूभृताम् ।
पुनरुन्निद्रयामास कीर्तिं कुमुदिनीमिव ॥
मूलम्
स चन्द्र इव संपूर्णः प्रथमो यदुभूभृताम् ।
पुनरुन्निद्रयामास कीर्तिं कुमुदिनीमिव ॥
विश्वास-प्रस्तुतिः
अभजन्त द्विजेन्द्रास्तमतद्भोगपराङ्मुखाः।
सर्गाधिकारान्निर्विद्य(र्वाप्य)शान्ता इव पितामहाः॥
मूलम्
अभजन्त द्विजेन्द्रास्तमतद्भोगपराङ्मुखाः।
सर्गाधिकारान्निर्विद्य(र्वाप्य)शान्ता इव पितामहाः॥
विश्वास-प्रस्तुतिः
अहार्यान् यदुवंशस्य स भोगान् समकल्पयत् ।
स्वपर्यङ्कभुजंगस्य फणामणिगणानिव ॥
मूलम्
अहार्यान् यदुवंशस्य स भोगान् समकल्पयत् ।
स्वपर्यङ्कभुजंगस्य फणामणिगणानिव ॥
विश्वास-प्रस्तुतिः
अमरत्वाय पर्याप्तं तन्मुखेन्दुसमुद्भवम् ।
सुधेव परिवारेभ्यः सस्वदे सूनृतं वचः॥
मूलम्
अमरत्वाय पर्याप्तं तन्मुखेन्दुसमुद्भवम् ।
सुधेव परिवारेभ्यः सस्वदे सूनृतं वचः॥
विश्वास-प्रस्तुतिः
प्रार्थितोपि स राज्याय प्रभावज्ञैर्यदूत्तमैः।
अरोचयत राजानमुग्रसेनं वयोधिकम् ॥
मूलम्
प्रार्थितोपि स राज्याय प्रभावज्ञैर्यदूत्तमैः।
अरोचयत राजानमुग्रसेनं वयोधिकम् ॥
विश्वास-प्रस्तुतिः
न्यस्तरक्षाभरो राज्ञा यौवराज्यमुपाश्रितः।
शुशुभे पारतन्त्र्येण स्वातन्त्र्यवशवर्तिना ॥
मूलम्
न्यस्तरक्षाभरो राज्ञा यौवराज्यमुपाश्रितः।
शुशुभे पारतन्त्र्येण स्वातन्त्र्यवशवर्तिना ॥
विश्वास-प्रस्तुतिः
तस्य गोपायतः पृथ्वीं गोपालकुहनात्यजः।
पर्युपास्त पदं धन्या पार्थिवश्रीरनुत्तमा ॥
मूलम्
तस्य गोपायतः पृथ्वीं गोपालकुहनात्यजः।
पर्युपास्त पदं धन्या पार्थिवश्रीरनुत्तमा ॥
विश्वास-प्रस्तुतिः
कृतवीराभिषेकं तं क्लृप्तकल्याणकौतुकम् ।
तुष्टुवुः समये वेदाः सौस्नातिकपुरस्कृताः॥
मूलम्
कृतवीराभिषेकं तं क्लृप्तकल्याणकौतुकम् ।
तुष्टुवुः समये वेदाः सौस्नातिकपुरस्कृताः॥
विश्वास-प्रस्तुतिः
शक्तिभिस्तिसृभिर्दीप्तो विवस्वानिव दीप्तिभिः(घृष्टिभिः)।
स्वपदं पृथिवीं चक्रे सुहृद्भिः सूरिभिर्वृतः॥
मूलम्
शक्तिभिस्तिसृभिर्दीप्तो विवस्वानिव दीप्तिभिः(घृष्टिभिः)।
स्वपदं पृथिवीं चक्रे सुहृद्भिः सूरिभिर्वृतः॥
विश्वास-प्रस्तुतिः
विक्लृप्तं तस्य बर्हाद्यं हेमरत्नविभूषणैः।
वैरोचनिहृतानीतः किरीटो न व्यकल्पत ॥
मूलम्
विक्लृप्तं तस्य बर्हाद्यं हेमरत्नविभूषणैः।
वैरोचनिहृतानीतः किरीटो न व्यकल्पत ॥
विश्वास-प्रस्तुतिः
सप्तिभिः सैन्यसुग्रीवमेघपुष्पवलाहकैः।
व्यक्तिमन्तोभवन् वेदास्त्यजन्तो धेनुभूमिकाम् ॥
मूलम्
सप्तिभिः सैन्यसुग्रीवमेघपुष्पवलाहकैः।
व्यक्तिमन्तोभवन् वेदास्त्यजन्तो धेनुभूमिकाम् ॥
विश्वास-प्रस्तुतिः
पद्माकमलदायादं पदं तस्य स्वमौलिभिः।
श्रुतयो धारयामासुः पादपीठीकृतात्मभिः।
मूलम्
पद्माकमलदायादं पदं तस्य स्वमौलिभिः।
श्रुतयो धारयामासुः पादपीठीकृतात्मभिः।
विश्वास-प्रस्तुतिः
स वेणुः शङ्खरूपेण प्राचा परिपचेलिमः।
अगोपीसंविभागार्हं पपौ तस्याधरामृतम् ॥
मूलम्
स वेणुः शङ्खरूपेण प्राचा परिपचेलिमः।
अगोपीसंविभागार्हं पपौ तस्याधरामृतम् ॥
विश्वास-प्रस्तुतिः
दिदेश सांदीपनये धनुर्वेदोपदेशिने ।
स्वपदारूढतनयप्रत्यानयनदक्षिणाम् ॥
मूलम्
दिदेश सांदीपनये धनुर्वेदोपदेशिने ।
स्वपदारूढतनयप्रत्यानयनदक्षिणाम् ॥
विश्वास-प्रस्तुतिः
प्रहितां पुरुहूतेन स्वसंकल्पानुवर्तिना ।
कंसजित् कंसपितरं सुधर्मामध्यवासयत् ॥
मूलम्
प्रहितां पुरुहूतेन स्वसंकल्पानुवर्तिना ।
कंसजित् कंसपितरं सुधर्मामध्यवासयत् ॥
विश्वास-प्रस्तुतिः
अशेषरत्नचित्रां तामतीतस्तुतिगोचराम् ।
अद्वैतमिव सर्वेषामद्भुतानाममन्यत ।
मूलम्
अशेषरत्नचित्रां तामतीतस्तुतिगोचराम् ।
अद्वैतमिव सर्वेषामद्भुतानाममन्यत ।
विश्वास-प्रस्तुतिः
स च तस्यानुभावेन निध्यातनयपद्धतिः।
प्रजापालनधर्मस्य पारदृश्वतमोभवत् ॥
मूलम्
स च तस्यानुभावेन निध्यातनयपद्धतिः।
प्रजापालनधर्मस्य पारदृश्वतमोभवत् ॥
विश्वास-प्रस्तुतिः
कृष्णपक्षमपि प्राप्य स राजा विश्वरञ्जकः।
प्रापद्यत परां वृद्धिं सुमनःस्वादनक्षमाम् ॥
मूलम्
कृष्णपक्षमपि प्राप्य स राजा विश्वरञ्जकः।
प्रापद्यत परां वृद्धिं सुमनःस्वादनक्षमाम् ॥
विश्वास-प्रस्तुतिः
मलिनैः सततासारैर्मन्त्रिभिश्चपलान्वितैः।
विमुक्तः स बभौ भास्वान् मेघैरिव जडा(ला)श्रयैः॥
मूलम्
मलिनैः सततासारैर्मन्त्रिभिश्चपलान्वितैः।
विमुक्तः स बभौ भास्वान् मेघैरिव जडा(ला)श्रयैः॥
विश्वास-प्रस्तुतिः
प्रचितं बहुभिस्तीर्थैस्तस्य गूढं चिकार्षितम् ।
सारस्वतमिव स्रोतः स्थानेस्थाने व्यजृम्भत॥
मूलम्
प्रचितं बहुभिस्तीर्थैस्तस्य गूढं चिकार्षितम् ।
सारस्वतमिव स्रोतः स्थानेस्थाने व्यजृम्भत॥
विश्वास-प्रस्तुतिः
मानसंरक्षकस्तस्य मन्त्रस्तर्क इवानयः(घः)।
अङ्गपञ्चकसंपत्त्या विपक्षे दण्डतां ययौ ॥
मूलम्
मानसंरक्षकस्तस्य मन्त्रस्तर्क इवानयः(घः)।
अङ्गपञ्चकसंपत्त्या विपक्षे दण्डतां ययौ ॥
विश्वास-प्रस्तुतिः
स्वतः शुद्धां यथास्थानं रोषरागवतीं धियम् ।
स दधे यमुनाशोणशबलामिव जाह्नवीम् ॥
मूलम्
स्वतः शुद्धां यथास्थानं रोषरागवतीं धियम् ।
स दधे यमुनाशोणशबलामिव जाह्नवीम् ॥
विश्वास-प्रस्तुतिः
सप्तभिः सामदानाद्यैरुपायैः स्थानपातिभिः।
द्विनवद्वीपसंभूतं रत्नजातमजीहरत् ॥
मूलम्
सप्तभिः सामदानाद्यैरुपायैः स्थानपातिभिः।
द्विनवद्वीपसंभूतं रत्नजातमजीहरत् ॥
विश्वास-प्रस्तुतिः
अनुगन्ता स्वनेतृणामुदये विश्वरञ्जकः।
दूरीकृततमाः साभूत् द्वितीय इव भानुमान् ॥
मूलम्
अनुगन्ता स्वनेतृणामुदये विश्वरञ्जकः।
दूरीकृततमाः साभूत् द्वितीय इव भानुमान् ॥
विश्वास-प्रस्तुतिः
संचितस्य धनौघस्य स्थानसंचारणेन सः।
तटाकस्येव पूर्णस्य परीवाहमकल्पयत् ॥
मूलम्
संचितस्य धनौघस्य स्थानसंचारणेन सः।
तटाकस्येव पूर्णस्य परीवाहमकल्पयत् ॥
विश्वास-प्रस्तुतिः
आसागरान्तमवमत्य महीपतीन्द्रान् भूम्ना निजेन परिहृत्य ययातिशापम् ।
ओजोनिरोधकमिलाश्रयमुग्रसेनं राजानमेकमकरोज्जगदेकनाथः॥
मूलम्
आसागरान्तमवमत्य महीपतीन्द्रान् भूम्ना निजेन परिहृत्य ययातिशापम् ।
ओजोनिरोधकमिलाश्रयमुग्रसेनं राजानमेकमकरोज्जगदेकनाथः॥
विश्वास-प्रस्तुतिः
क्षिप्तावद्यं क्षत्रियवृत्त्या बहुशाखं मग्नं शापोदन्वति मान्यं यदुवंशम् ।
इच्छाधीनस्वेतरसर्वः स्वमहिम्ना रक्षागोपो रामयवीयान् उदहार्षीत् ॥
मूलम्
क्षिप्तावद्यं क्षत्रियवृत्त्या बहुशाखं मग्नं शापोदन्वति मान्यं यदुवंशम् ।
इच्छाधीनस्वेतरसर्वः स्वमहिम्ना रक्षागोपो रामयवीयान् उदहार्षीत् ॥