विश्वास-प्रस्तुतिः
अथ भोजपतिर्जगत्पतेरवतारं भुवि नारदान्मुनेः।
श्रुतवान् अतिदेवदानवं व्यथया पीतविषोपमोभवत् ॥
मूलम्

निहता पृथुकेन पूतना शकटं तत् परिवर्तितं महत् ।
ककुभद्वितयं निपातितं प्रहितः क्वापि निपीड्य कालियः॥

स च गोमुखवर्धनो दधे गमितः क्षोदमरिष्टपर्वतः।
प्रथितश्च बलः प्रलम्बजित् निधनं धेनुकदानवो गतः॥

दवहव्यवहश्च जग्रसे विषधृत् विन्ध्यसमो विदारितः।
इति वाम विजृम्भणो रिपोरलमेकैकमलङ्घ्यतास्थिते ॥

बहुभिः किमिह प्रतर्कितैर्बलिनः स्रोतसि धावतो विधेः।
यदतीतमतीतमेव तत् करणीयं पुनरायतिक्षमम् ॥

इति विप्रतिसारविह्वलः स्वयमुत्थापितमृत्युचोदितः।
प्रतिहन्तुमियेष चक्रिणं शलभो दीप्तमिवाशुशुक्षणिम् ॥

दिवसान्तदिवाकरोपमः श्वसितान्दोलितजीवितस्थितिः।
भयविस्मयरोषकर्बुरः स शिरःकम्पमवर्तयत् क्षणम् ॥

स च दानपतिं समादिशत् भवतो जीवतु भद्र सौहृदम् ।
अजितेन जिघांसितस्य मे भज साहायकमात्मरक्षणे ॥

अतिमानुषचेष्टितः स्वयं मधुजिन्मानुषभूमिकां वहन् ।
असुरानभिहन्तुमीहते दमनीयोयमरूढयौवनः॥

अविचारितमाशु गम्यतामधिनन्दावसथं विहारिणौ ।
बलदेवजनार्दनौ बलादुपनेयौ भवता छलेन वा ॥

सह नन्दमुखैरशङ्कितं करदानव्यपदेशवञ्चितैः।
अपरेद्युरिहोपसर्प्यतामसुरध्वंसकृदग्रजान्वितः॥

इति वायमुदीर्य दुर्मतिः स्ववधोपात्तकृपाणिकोपमाम् ।
सपदि प्रजिघाय केशिनं मधुजित्पीडनलोभमोहितः॥

स च वाजिमहासुरश्चरन् अनुबृन्दावनमद्रिसंनिभः।
समहेषत संमुखं प्रभोरशनिध्वानभयानकध्वनिः॥

कुलिशोपमदन्तपङ्क्तिकं कुटिलप्रेक्षितजातविद्युतम् ।
खुरखण्डितभूमिमण्डलं ज्वलदङ्गस्फुटविष्फुलिङ्गकम् ॥

वडवामुखवह्निदारुणं विपुलावर्तविशेषचित्रितम् ।
धृतसिन्धुतरङ्गताण्डवं मुखनिष्कासितफेनसंप्लवम् ॥

क्षितिभेदकृतक्षणैः खुरैः पटुधीरध्वनिनिर्जिताम्बुदैः।
विदधानमशेषघातिनः शमनस्येव मृदङ्गवादनम् ॥

धृतवालधिधुमसंहतिं चटुलोल्काशतचण्डकेसरम् ।
ग्रसितुं क्षममम्बुधीन् क्षणात् अनुकल्पाश्रितकल्प(चण्ड)पावकम् ॥

गरुडानिलचित्तरंहसं गतदूरान्तिकमक्रमैः क्रमैः।
मुहुरुत्प्लुतिभिन्नभास्करं निबिडास्यूतपयोदकेसरम् ॥

भ्रमणे कृतसालमण्डलं क्रमणे दिक्षु विदिक्षु च स्थितम् ।
नटवृत्तिमिवाशुनर्तने कलिताकाशमिवाङ्गधूनने ॥

मधुजिद्वहनक्षमात्मना दरनिर्भुग्नफणेन भोगिना ।
मुहुरुन्नमितामयत्नतो नमयन्तं निजभारतः क्षितिम् ॥

अचलक्षितिसंधिभेदनैरनिलस्कन्धविभागभञ्जकैः।
बधिरीकृतनिर्जरश्रुतिं बहुभिः संभ्रमहेषितोर्मिभिः॥

द्विरदायुतसारदुर्दमं द्रुतविद्रावितदिङ्मतङ्गजम् ।
असुरादिभिरप्यनास्थितं सुरसेनापरभागदर्शिनम् ॥

प्रतिकायमिवासुरश्रियः प्रथमाकल्पमिवान्तकभ्रुवः।
परिवर्तमिवामरश्रियः प्रतिघस्येव महोत्सवं नवम् ॥

उपमानमिवात्मनः स्वयं प्रतिमानेपि समे समत्सरम् ।
अवलेपमिवात्तविग्रहं द्विषदुत्पातमिव द्रुतोदितम् ॥

अचमत्कृतपञ्चवक्त्रकं कृतमन्यैरिह दुष्टसत्त्वकैः।
अपसर्पितगोकुलं भयात् अभिलीनस्थलगोपयूथपम् ॥

अवमत्य तुरङ्गदानवं शमयन् गोपगणस्य साध्वसम् ।
प्रजहास हरिः प्रतिद्रवन् प्रसभास्फोटितभावितोद्यमः॥

विवृतायतवक्त्रकन्दरं प्रतिधावन्तमिवान्तकं प्रभुः ।
भुजसानुमतः प्रवेशनादगमं वज्र इव व्यदारयत् ॥

क्रकचक्षतदारुभेदवत् समपादाक्षिललाटनासिके ।
ददतुः क्षितिकम्पमाघ्नती शकले सैन्धवदानवस्य ते ॥

विशरारुभिरस्य विश्वतः कलधौताचलखण्डपाण्डरैः।
वितता पृथिवी विदिद्युते विबुधप्रीतिलताङ्कुरैरिव ॥

तदनाधि विभूतिबन्धुरं विगतव्याधि कुलं व्रजौकसाम् ।
दमितारिगणेन दीव्यता यदुनाथेन सनाथतां ययौ ॥

त्वरितं च तदा श्वफल्कजः स्वहितं कंसनियोगमास्थितः।
दनुजान्तकदर्शनोत्सवस्थिरसंप्रीतिरिति व्यचिन्तयत् ॥

09.32
विश्वास-प्रस्तुतिः
अपि नाम निशामयिष्यते निगमान्तैरिव निर्मिता स्थली ।
रमयिष्यामि चत्र मे दृशौ रसभूमा रमणीयमातृका ॥

भवदुर्गतदिव्यभेषजैः प्रचितां तत्पदपद्मरेणुभिः।
प्रणिपत्य शुभां वनस्थलीं परिपूतो भविताह(य)मप्युत ॥

रसमप्रतिमं रसायनं रमया च क्षमया च सेवितम् ।
नयने मम किं नु पास्यतो नरकातङ्कनिदानभेदनम् ॥

अपि शङ्खरथाङ्गतोरणध्वजवज्राङ्कुशमत्स्यलाञ्छनम् ।
विनिवेशयताद्विभुः स मे विनते मूर्धनि पादपङ्कजम् ॥

यदुवंशमसौ सभाजयन् बहुमानेन विहारजेन माम् ।
भुजपञ्जरमध्ययन्त्रितः पुलकोद्भासितनुं विधास्यति ॥

श्रुतिसौरभसौम्यया गिरा सुधयेवैष मुखेन्दुसूतया ।
शमयेदपि नाम संज्वरं पुरुषः पुष्करलोचनो मम ॥

अहमस्मि तवेति वादिनं प्रणयस्मेरमुखः प्रसन्नधीः।
विदितेतरवर्जितोप्यसौ विभुरक्रूर वदेति वक्ष्यति ॥

चिरशीलितसंयमक्रमैर्यतिभिर्योगदृशा दिदृक्षितम् ।
निधिमद्भुतमुज्झितावधिं परिपश्येयमहं प्रसङ्गतः॥

स दृशा सदृशान्तरोज्झितः सुमुखः स्वागतवाक्यगर्भया ।
कलुषं किमपह्नुवीत मे करुणासिन्धुसुधोर्मिकल्पया ॥

व्यथितं वृजिनेन धन्वना विषयाशीविषमोहितं च माम् ।
अपि जीवयिता पतिः सताममृतासारनिभैरवेक्षणैः॥

अलमत्र पृथग्विधैः फलैरवशादध्वनि विन्दतो मम ।
वसुधावसुदेवदेवकीतपसामेकमिदं महत् फलम् ॥

मदखेलगती महाबलौ मधुरालंकरणं विधित्सतः।
व्रजयूथपती वशानुगौ भवितारौ मम भागधेयतः॥
मूलम्
मदखेलगती महाबलौ मधुरालंकरणं विधित्सतः।
व्रजयूथपती वशानुगौ भवितारौ मम भागधेयतः॥
विश्वास-प्रस्तुतिः
किमकुर्वत पुण्यमग्रियं महितास्ते मधुरानिवासिनः।
कृपयोपगतौ निरीक्षितुं कृतिनः कृष्णहलायुधावुभौ ॥

रमया क्षमया च माधवो रममाणः प्रतिगम्य तां पुरीम् ।
अपि चर्मदृशोपि मादृशान् अविसंवादयिता स्ववैभवे ॥

अवरुद्धभुजान्तरः श्रिया विदधानो वसुधाकरग्रहम् ।
अभिषेकमुपेयिवानसौ किमु नाथो भविता कुलस्य नः॥

असहिष्णुरसह्यविक्रमस्त्रिजगत्क्षोभकृदुग्रसेनजः।
बलवान् बलभद्रकृष्णयोर्हतधीर्हन्त किमाचरिष्यति ॥

अकठोरशिरीषकोमलैः कथमङ्गैः प्रतियोत्स्यते हरिः।
कुलशैलकुलीनमुष्टिभिः कुटिलैः संयति मुष्टिकादिभिः॥

उदयास्तमहीधरस्तनीं चतुरम्भोनिधिमेखलां भुवम् ।
उपभोक्ष्यत एष कंसजिन्न हि दुःसाधमचिन्त्यतेजसः॥

इति संमतसत्त्वसारथौ महितस्थेम्नि मनोरथे स्थितः।
हरिपादरजः पवित्रितं व्रजमासाद्य रथादवातरत् ॥

नवनीतमुखैरुपायनैरथ नन्दप्रमुखप्रकल्पितैः।
उचितामभिनन्द्य सत्क्रियामभितस्तान् अगवेषयत् प्रभुम् ॥

स ददर्श गवामनुप्लवं मुदितं केशिवधेन केशवम् ।
गतिमप्रतिघाध्वयायिनां गरुडच्छत्रनिवारितातपम् ॥

घनसंवृतनारदस्तुतं निगमाघ्रातनिजाङ्घ्रिसौरभम् ।
तरुणारुणताम्रवाससं शुभतापिञ्छतुलाधरद्युतिम् ॥

अभिलक्ष्यमनुश्रवेक्षणैरविपर्यस्तहिताहितक्रमैः।
परिभूषितबर्हभूषणं कमलाकौस्तुभनित्यभूषितम् ॥

अतिसूर्यसुधांशुतेजसं समहानेरुपनेयमात्मना ।
निबिडाद्भुतराशिमक्षयं निगमानामपि नित्यनूतनम् ॥

उपवीणयतस्तमर्भकान् उपगातृन् उपनृत्यतश्च सः।
तदवस्थतदर्हभूमिकान् यमिनोनन्यमतीन् अमन्यत ॥

शुभतर्णकशोभितान्तिकाः सविधे तस्य च घेनुविग्रहाः।
अनघाङ्गवतीरमन्यत श्वसितैरस्य समुत्थिताः श्रुतीः।

प्रणुनाव च भक्तिसंनतः प्रणिधानेन विना समीक्षितम् ।
हरिमद्भुतगोपखेलनं श्रि(शृ)तसर्वातिथिमागतोतिथिः॥

दुरितग्रहयोगदुःखितं त्रिगुणग्रन्थिनिबन्धनिघ्नितम् ।
पतितं निजपादपङ्कजे परिगृह्णीष्व घृणानिधान माम् ॥

स्वपदप्लवमाश्रितान् जनान् नयसे पारमपारवैभवः।
अतिवेलमहोर्मिसंकुले कलुषोदन्वति कर्णधारितः।

रमया सह राजहंसवत् परमं धाम विभूषयन् भवान् ।
प्रणिधानवतामपङ्किले पदमेतन्निदधाति मानसे ॥

अतिरोधिरसौ निधिः श्रुतेरनिमेषव्रतदेशिनी दृशोः।
तनुते तनुरीश तावकी स्मरणं विस्मरणं च दुःशकम् ॥

व्यपदिश्य मुकुन्द देवकीं विहरन्त्या वसुदेवमन्दिरे।
जनितोसि निजानुकम्पया जगतीरक्षणजागरूकधीः॥

भवतो भवनाटिकां विदन् विभवाडम्बरिणां विडम्बिनीम् ।
अनपायपदाधिरोप(ह)णादपवृत्तो(क्तो) न पुनर्निवर्तते ॥

सुधियस्तव गोपभूमिकां सुभगां कौतुकसूतिकां धियाम् ।
अनुविद्य गताग्र्यभूमिकामधिविन्देयुरनश्वरीं श्रियम् ॥

दुरितानि भजन्ति संक्षयं तपनेनेव तमांसि दीव्यता ।
हृदयानि च योगिनां त्वया कुमुदानीव विकासमिन्दुना ॥

गुणतश्च विभूतितश्च ते क्वचिदंशेपि समाधिकत्यजः।
उषमानकलाविकल्पितैरुपलक्ष्येत जगत्प्रधानता ॥

महिमार्णववर्णनोद्यताः परिमातुं गुणमेकमक्षमाः।
त्रपयेव भजन्त्यसीमनि त्वयि वाचंयमतामनुश्रवाः॥

तव विश्वविदो वदामि किं जगदेकाधिपतेर्दिशामि किम् ।
कृपणः परिपूर्णसंपदः कमिवांशं परिपूरयाम्यहम् ॥

प्रकृते किमनेन तत् प्रभो भवदाविर्भवनस्थलीं पुनः।
पदपद्मरजः पवित्रितां विदधानो जहि नात विद्विषः॥

बहुशाखविजृम्भणो महान् अवदातेन सुगन्धिनाद्य नः।
यशसा भवतु प्रसूनवान् यदुसंतानमहीरुहस्तव ॥

त्वरते रिपुरागतौ तव स्वयमेवावसरं समर्पयन् ।
नतरक्षणकिंवदन्त्यसौ न विलोपं भुवि यातु तावकी ॥

स्वयमेव समेयुषां वधे विमतानां क्षितिभारजन्मनाम् ।
मृगयामिव भावयन्त्यसौ महती संपदुपस्थिताद्य ते ॥

शतकोटिसहस्रसारवान् मथनं प्राप्स्यति मातुलस्त्वया।
व्यसनं विपदप्यनेहसा विनिपातश्च न कस्य कर्मिणः॥

अभिसंहितमौग्रसेनिना कथितं च क्रमशो व्यजिज्ञपत्।
कुलजः कुटिलाशयोज्झितः कुशलं पृष्टवते मधुद्विषे ॥

अपरेद्युरशेषतो नयन् सहसा गोपगणान् स यादवः।
स्थितमध्वनि रामकेशवौ रथमारोपयदग्र्यरंहसम् ॥

व्रजतोरथ वल्लवस्त्रियो बलभद्रस्य जनार्दनस्य च ।
अनुदुद्रुवुराशु वर्तनीं कुररीकूजितसूचकस्वनाः॥

व्यलपन्निति बाष्पगद्गदं विरहारम्भविषादविह्वलाः।
वलयैः प्रियवर्त्मपातिभिः क्षतपुष्पा इव घर्मवीरुधः॥

अपयाति सहाग्रजन्मना सहसा नन्दसुतो विहाय नः।
अनुयाम निवारयाम वा कथमस्माभिरुदास्यते मुधा ॥

श्रुतिषु ज्वलनं वमत्यसावदवीयोरथचक्रचीत्कृतिः।
द्रुतमेत्य पताम तत्पदे गुरुभर्त्रादिषु मुक्तगौरवाः॥

प्रगुणत्वमिव व्रजस्त्रियश्चलसंबन्धिनि नन्दनन्दने ।
मुदिरध्वनितां विजानते शिखिनस्तद्रथनेमिनिःस्वने ॥

अयमुद्दृतगोकुलेक्षणः कथमक्रूर इति प्रजल्प्यते ।
अथ वा भुवनेषु दारुणाः प्रथिताः पुण्यजना निशाचराः॥

बडिशामिषवत्प्रयुक्तया रिपुरक्रूरसमाख्ययान्वितः।
विभवं हरति व्रजौकसां किमिहोच्येत वदेम कस्य वा ॥

अवतारवराहरूपिणा हरिणा भूमिरुदञ्चितोदधेः।
विरहव्यसनोदधेरितः क इवोदञ्चयितुं क्षमेत नः॥

चिरसंघटितोपि नः क्षणादनुरागो बलभद्रकृष्णयोः।
अपयातमहानदीद्वयो भविता शोण इवैष निष्फलः॥

अविकल्पितबाल्ययौवनः प्रणयोस्मासु बलानुजन्मनः।
विधिना विषमप्रवाहिणा सिकतासेतुरिवैष भिद्यता ॥

अमुना शशिनेव कल्पितश्चितमस्मासु शरन्नदीष्विव ।
प्रणयः प्रतिभासजीवितः प्रतिमाचन्द्र इव प्रलीयते ॥

अहमस्मि तव त्वमेव वा मम दृष्टिस्त्वमिति प्रलोभयन् ।
विजहाति स एव वल्लवीरलमेतावदतः परेण किम् ॥

अयमेवमशुल्कदासिकाः स्वपदोपघ्नलताः स्वयं प्रभुः।
बहुमत्य जहाति निःस्पृहः कथमालेख्यगता इवाद्य नः॥

निरपेक्ष इवैष नीलया रसिकः पालिकया सराधया ।
पृथगत्र किमेतदुच्यते कुहकः कश्चिदसौ कुलस्य नः॥

अमृतस्य विषस्य च स्वयं प्रभवस्थानमभूत् पयोनिधिः।
नियतं तदनेन दर्शितं निजसंयोगवियोगदायिना ॥

मुखचन्द्रिकया मुखानि नः कुमुदानीव विकासमानयन् ।
कितवो यदुवाच सत्यवत् क्व गतं तत् क्व च तेन गम्यते ॥

यमुनापुलिनेषु दीव्यता यदुतानेन वशीकृता वयम् ।
विफलप्रणयप्रदायिना विधिना हन्त विलोभितास्ततः॥

सहजं हरता महानिधिं विवशानामिव वैरिणेव नः।
विहितः सुकृतेन कीदृशा मथुरायोषिदनुग्रहो महान् ॥

सहपांसुविहारसंभृतं जहता स्नेहमनङ्गवर्धितम् ।
अपि नागरयौवतं क्षणादमुना हन्त विलोभयिष्यते॥

नटवत् परिगृह्य मायया नतचिन्तामणिरेष नस्त्यजन् ।
अनुरूपतमास्वपि ध्रुवं नगरस्त्रीषु न सङ्गमेष्यति ॥

निजवंशनिनादतोपि यत् स्वदते श्रोत्ररसायनं वचः।
निदधीत नृशंसधीरसौ पुरयोषित्स्वपि वागुरामिमाम् ॥

इह तावदुपेक्षिता वयं वशिना लेख्यप(व)राङ्गना इव ।
विहरन् विरसेन चेतसा कितवस्तत्र किमाचरिष्यति ॥

युवतीरयमिन्दुकान्तयेत् नगरे नन्दकुमारचन्द्रमाः।
स्मितचन्द्रिकया यदीयया द्रवतामेति मनःशिलापि नः॥

अपि जह्नुरमुष्य दर्शने नवलुब्धा नगरस्त्रियः प्रियान् ।
सुलभे सुमणौ कथं मतिः क्रमते काचन काचसंग्रहे ॥

ललिताद्भुतलास्यगन्धिषु ध्रुवमङ्गेषु बलानुजन्मनः।
नवयौवनरामणीयकं नयनैः पास्यति नागरीजनः॥

विधिना विषमप्रवृत्तिना व्यपनीतोपि कदाचिदागतः।
अपि नः पुनरार्द्रयिष्यते मदनप्राणसुहृद्भिरीक्षितैः॥

इह तत्पदकांक्षिभिः स्तनैर्नयनैस्तन्मुखपद्मषट्पदैः।
श्रवणैश्च तदुक्तिजीवितैरपि जीवेम पुनस्तदादृताः॥

करुणाभरितैः कदा पुनः स्वयमुल्लाघयिता स एव नः।
अपरस्परपातिभिः शनैरगदंकारनिभैरवेक्षणैः॥

विविधारुणराजिरञ्जिते विशदस्मेरविशालशीतले ।
किमपि ब्रुवती कृतार्थतां नयने तस्य कदानुनेष्यतः॥

बधिरत्वमिवागतान्यसौ श्रवणान्यद्य पुनः समेत्य नः।
रमयिष्यति चाटुभिः कदा रतिसिन्धोरिव वीचिपङ्क्तिभिः॥

मदयन् हृदयानि विभ्रमैरवि(पि)संवादमिवाचरन् दृशा ।
अविभागमिवावहन् गुणैरपि नः प्रत्यवपत्स्यते पुनः॥

परिवर्तयिता जगत्त्रयीमपरावृत्तिरनेहसः क्रमः।
यदतीतमतीतमेव तत् पुनरेष्यत्यपि पुष्करेक्षणः॥

अथवा पुरसुन्दरीजनैः सुभगम्भाविकसौम्यवृत्तिभिः।
अवशादवरुद्धचेतसः कृतिनः कैव कथा व्रजागमे ॥

मथुरापुरमत्तकाशिनीमधुरालापविलोभिताशयः।
पुनरेष्यति नन्दनन्दनः किमिवास्मासु विचिन्त्य कारणम् ॥

बहुविभ्रमपाशबन्धुरां गुणगृह्यः स्वयमेष दुस्तराम् ।
अतिलङ्घयितुं न शक्नुयात् नगरस्त्रीजननेत्रवागुराम् ॥

न रथः परिदृश्यते महान् न च नेमिस्तनितं निशम्यते ।
न च रेणुरितो विजृम्भते तदपि भ्रश्यति जीवितं न नः॥

इति वादिनि वल्लवीजने यमुनां सत्वरसूतचोदितः।
घटयन् वसुधामनोरथं वशिनस्तस्य रथः क्षणात् ययौ ॥

स्वगुणानुभवेन सुभ्रुवां भवभोगोचितपुण्यसंचयम् ।
विरहव्यथया तु तीव्रया वृजिनाम्भोधिमशोषयत् प्रभुः॥

परवन्ति जगन्ति बाधितुं नियतिः किं न करोति निष्ठुरा।
विजहौ करुणानिधिः प्रियाः विरहे तस्य च ताभिरास्यत।

विनिवेश्य रथे सितासितौ वसुदेवस्य सुतौ स यादवः।
मणिभङ्गरुचं महापगां दिवमुष्णांशुरिव व्यगाहत ॥

अघमर्षणलीनकिल्बिषः सलिले मग्नतनुर्ददर्श तौ ।
भुजगेन्द्रभुजङ्गशायिनौ पुरुषौ किंचिदिवान्यलक्षणौ ॥

उपसृत्य च तीरमादरात् तदवस्थौ निरवर्णयत् रथे ।
स्मयमानदृशोस्तयोरसौ निभृतः स्वानुभवं न्यवीविदत् ॥

प्रणिधानबहिर्विलोचनैः प्रतिलब्धानुभवः प्रसादयन् ।
अनिनीषत तावुभौ तदा पुरमारब्धशरासनोत्सवाम् ॥

गजसिंहगती ततश्य तौ गिरितुङ्गेन रथेन तेरतुः।
गगनद्रवसंनिभां नदीमपुनःप्राप्तिभयादिवाकुलाम् ॥

अथ वियति समेतैः सिद्धगन्धर्वमुख्यैर्भुवि च भुवनगोपः संस्तुतो गोपवृद्धैः।
ललितगतिविहारो रामचन्द्रेण सार्धं रणपरिणतिकाङ्क्षी राजधानीं जगाहे ॥

॥
इति नवमः सर्गः ॥