विश्वास-प्रस्तुतिः
अथ प्रसूनायुधभागधेयान्यारब्धमन्दानिलसौतिकानि ।
मधुप्रसङ्गान्मधुराणि यूनामनुष्णशीतान्यभवन् दिनानि ॥
मूलम्

अनेकरूपैः स्वयमेकरूपः कालात्मकं रूपमकालकाल्यः।
ऋतुप्रभेदैरनुभूय रेमे रामासखो राममनुप्रयातः॥

हेमन्तपूर्वः शिशिरान्तिमश्च शरच्च संभूय वसन्तवृत्त्या ।
शनैश्शनैः शान्तिमुपेयिवांसस्तद्वैभवातं तन्मयतामिवा पुः॥

प्रायेण पञ्चायुधपञ्चवक्त्रः पलाशकोशाकृतिमाददानैः।
मनस्विनीमानगजेन्द्रभेदात् सशोणितैः पाणिरुहैश्चकाशे ॥

जगन्ति पुण्ड्रेक्षुशरासनेन प्रसूनबाणैरपि जेतुमिच्छोः।
असूचयन् आत्मभुवः स्वनादैरव्याहतामाशिषमन्यपुष्टाः ॥

वराङ्गनावक्त्रपदाम्बुजानां स्वाभाविकीं सौरभरागलक्ष्मीम् ।
प्रपित्समानौ प्रसवैस्तदर्हं द्वेधा द्रुमौ दोहदमन्वभूताम् ॥

तीक्ष्णारुणाग्राण्यचिरप्ररोहाच्चकाशिरे चम्पककुड्मलानि ।
दत्तानि कामोत्सवमङ्गलार्थं दीपाङ्कुराणीव वसन्तलक्ष्म्या ॥

मुक्तापगामग्नसमुत्थितात्मा भूयो भजन् पुष्परजोभिषेकम् ।
चचार मन्दं मलयाद्रिवातश्चेतोभुवो दृप्त इवौपवाह्यः॥

पुष्पेषु संयोगवियोगवृत्त्या क्रमाद्भजन्ती नतिमुन्नतिं च ।
वनान्तरे षट्पदपङ्क्तिरासीन्मञ्जुस्वना मन्मथचापमौर्वी ॥

वसन्तक्लृप्तान् मदनस्य बाणान् आन्दोलयन् नूनमनोकहेषु।
दिनेदिने दक्षिणमातरिश्वा गतागताभ्यां गणयांचकार ॥

आघूर्ण्यमानैरभितो नभस्वान् कान्तैः प्रदीपैरिव कर्णिकारैः।
वनश्रियो माधवसंगमार्हं मङ्गल्यनीराजनमाचचार ॥

प्रसूनहासाधरपल्लवानां किञ्जल्करोमाञ्चजुषामभुङ्क्त ।
मन्दानिलैराहितवेपथूनां कान्तिं वसन्तो वनवल्लरीणाम् ॥

विहारयोग्यामथ वीक्ष्य वन्यां रमापतिं रामसखं विशन्तम् ।
नभश्चरैः साकमनोकहास्तं नाथं प्रसूनोर्मिभिरभ्यषिञ्चन् ॥

पुष्करेण प्रतिपन्नशोभं बृन्दावनं नन्दितगोपवृन्दम् ।
प्रदर्शयन् प्रापितधेनुवत्सं रामानुजो राममिदं बभाषे ॥

मनोभुवो मूर्तमिवावलेपं मान्यं मनस्कारम्व त्वदीयम् ।
चिरं त्वया सेव्यमिहार्य मन्ये चित्रं वनं चैत्ररथाभिनन्द्यम् ॥

अमानुषप्राप्यमरण्यमेतत् प्राप्तस्य ते पादरजःप्रभावात् ।
सत्त्वोपपन्ना न भजन्ति सत्त्वाः शान्ताशयाः शाश्वतिकं विरोधम् ॥

अचिन्त्यभूम्नस्तव संनिधानादन्योन्यजातीयदशां दधानाः ।
सिंहीवशास्तन्यविदो भजन्ते सुभ्रातृतां केसरिदन्तिपोताः॥

त्वदर्पितस्वादुतृणादिनीनां त्वद्वंशनादामृतपायिनीनाम् ।
मन्ये गवां वत्सगणावृतानां विष्वग्वनं विश्रमयोग्यमेतत् ॥

वसन्तलक्ष्म्या इव वासभूमिं संकल्पयोनेरिव शिल्पशालाम् ।
रतेरिवारामविभूतिमन्यां वन्यामिमां वेद्मि तवोपका(क)र्याम् ॥

वनस्थलीयं मकरन्दवर्षैरतोयकर्मान्तिकमात्तसेका ।
प्रस्तौति पर्याप्तपरागजाला समीहितं संचरणोत्सवं ते ॥

नभःस्पृशामत्र महीरुहाणां नीडादमी निष्पतिताः सलीलम् ।
प्रयुञ्जते स्वागतमञ्जसा ते प्रायः शुभालापजुषः शकुन्ताः॥

वातावधूतास्तरवः स्वमूर्ध्ना संतानसांतानिकसंपदस्ते ।
प्राज्यैरमी पुष्पफलैश्च नूनं वितन्वते वन्दनमर्हणां च ॥

आस्वाद्य चूताङ्कुरमन्यपुष्टाः प्रायः स्वनैः पञचममुद्गिरन्तः।
आकारयन्तीव वनं गतं त्वां दिव्यानमी दर्शयितुं प्रदेशान् ॥

त्वत्पादविन्यासविशेषधन्यामापादयिष्यन्त इवात्मधात्रीम्.।
एनां स्वशाखाग्रकरप्रयुक्तैः प्रचिन्वते भूमिरुहाः प्रसूनैः॥

निशामयन्त्यो वनदेवतास्त्वां चकोरसंमोहनचारुदीप्तिम् ।
प्रीतिं प्रभूतां परिवाह्य गीतैः शीताश्रुणा शेषमिवाद्वमन्ति ॥

रसालरम्भादिभवैरिहैताः फलद्रवैः पिच्छिलपार्श्वभागाः।
वत्सावगाह्या वनराजिमध्ये पूर्णाः सुधाया इव भान्ति कुल्याः॥

08.27
विश्वास-प्रस्तुतिः
कल्हारपद्मोत्पलकान्तिभिस्ते कटाक्षविक्षेपगुणं भजन्त्यः।
अरण्यभागान् अभितः प्रवाहैराप्याययत्याप इमाः प्रसन्नाः॥

त्वद्वक्त्रपद्मप्रतिमासहस्रैः संसृज्यमानेव सपुष्करासौ ।
प्रभावतः ख्यापितपुष्करश्रीः पुण्योदका पुष्करिणी विभाति ॥

संचारजातैः श्रमवारिलेशैरालक्ष्यमुक्तागुणमण्डनं त्वाम् ।
व्यक्तं नदी वीजयतीयमारादम्भोरुहैराश्रितवीचिहस्तैः॥

सहन्ति वाता(शीता)तपवर्षवातांस्तोयेषु तिष्ठन्ति रविप्रतीक्षाः।
तपस्यतस्त्वन्मुखकान्तिलोभात् पद्मानिमान् पश्चिमराम मन्ये ॥

तरङ्गिणीभिः परिरभ्य मुक्तः संलापवान् भृङ्गरवैरधीरैः।
आपृच्छते नूनमतः प्रयान्तं मन्दीभवन् कुन्दसमीरणस्त्वाम् ॥

मनः प्रसादं तव दर्शयन्ती प्रालेयसंघातनिभैः पयोभिः।
शुद्धा नवेन्दीवरनीलवासाश्छायेव ते शैवलिनी विभाति ॥

सह प्रयच्छन्ति तव प्रियाभिश्चञ्चूर्यमाणा इह चक्रवाकाः।
आहूय दातार इवातिथेयाः कालोचितां कस्त्वमितीव वाचम् ॥

विधूतविलव्यजनाः स्वपक्षैश्चारुस्वनापादितचाटुवादाः ।
अभिन्नवर्णाः प्रतियन्त्यमी त्वां राजोपचारैरिव राजहंसाः ॥

दिवापि गोवर्धननिर्झराणां संछादिते व्योम्नि तुषारजालैः ।
इहातपश्चान्द्रमसेन धाम्ना विकल्प्यते बोधितपङ्कजोपि ॥

अतर्कितप्राप्तमवेक्ष्य कान्त्या मेघंकरं मेचकमम्बरं ते ।
निनादनिष्पादितषड्जगीता नृत्यन्त्यमी सानुषु नीलकण्ठाः ॥

नदीभिरारब्धतरङ्गलास्यं नादैर्युतं निर्झरदुन्दुभीनाम् ।
गायद्विरेफं गिरिणा त्वदर्थं प्रायेण संगीतमिह प्रयुक्तम् ॥

कलिन्दजाकच्छभुवां सखीभिः प्रच्छायवन्याभिरधित्यकाभिः ।
सूते गिरिः सूचि(दि)तनन्दनोसौ स्वर्गौकसां स्वैरविहारवाञ्छाम् ॥

अभ्यागतं वीक्ष्य भवन्तमारात् साला इमे सामिनताग्रशाखाः।
सुधारसस्वादुतमानि भक्त्या स्वयं प्रयच्छन्ति फलानि धन्याः॥

पात्रीभवन्तस्तव वीक्षणानां पद्मालयावासविकल्पितानाम् ।
चराचराः कानि कियन्ति वैते तपांस्यतप्यन्त भवान्तरेषु ॥

विजानतां सत्पुरुषप्रभावम पुंसाममी पुण्यतमीभवन्तः।
प्रायस्त्वदङ्गीकरणात् प्रयास्यन्त्याराध्यतामद्रिवनावकाशाः॥

संस्कारपूताभिरितीव वाग्भिः संमोदयन्नग्रजमादिदेवः।
विजातलीलो विजहार हृष्यन् वन्द्यः सतां वत्सगणानुयायी ॥

स्वयंवृतः स्वैरविहारलक्ष्म्या मुहुर्वितेने विपिने मुकुन्दः।
स्थानान्तरप्राप्तिविभावितानि स्थितेरभिन्नानि गतागतानि ॥

प्रभूतया पुष्पफलप्रसूत्या वदान्यवृत्तीनि वनानि दृष्ट्वा ।
सस्मार चिन्तावशवर्तिनीनां व्रजस्थतानां वरवर्णिनीनाम् ॥

प्रायस्तदाह्वानविधौ नियोक्तुं प्रगृह्य वेणुं प्रतिपन्नदूत्यम् ।
न्यवेशयत् कुड्मलिते सलीलं बिम्बाधरे सूचितचित्तरागे ॥

सामोपपन्नान् क्रमशः स्वरन्ध्रैः सप्त स्वराम् सप्तभिरुद्वमन्तम् ।
प्रचक्रमे वादयितुं वनान्ते वंशं प्रियो वल्लववंशजानाम् ॥

मुकुन्दवक्त्रानिलवाद्यमानो वेणुर्बभौ वेद इव द्वितीयः।
रागावधीनां रहसां यदेकं गीतात्मनां तस्य निदानमासात् ॥

तद्वंशनादः सुभगोनुगच्छन् अग्रेसरं सौरभभागमानाम् ।
अयत्ननिष्पन्नमनस्समाधीन् आब्रह्मकान् आतनुतेव जन्तून् ॥

शृण्वद्भिरुद्धान्तमधुप्रवाहं वंशस्वनं तस्य सुधैकवंशम् ।
सयूथ्यतां नूनमवाप्य सर्वैः सत्त्वैः स्थितं सामिनिमीलीताक्षैः ॥

मधुद्रवैरुल्बणसंमदाश्रूण्यालेख्यनिष्पन्दमृगद्विजानि ।
उदग्रकोशोत्पुलकानि कृष्णो वंशीनिनादेन वनान्यकार्षीत् ॥

आस्वाद्य तद्वंशनिनादमाध्वीमाघ्राय तत्संचरसौरभं च ।
भुक्तामृतानां भुवि सौरभेय्यः क्षिप्तेतरां क्षीबदशामवापुः॥

वंशस्वनास्वादवशीकृतानां व्यक्तोदयानां वनदेवतानाम् ।
स कर्बुरः स्निग्धतमैः कटाक्षैः सेन्द्रायुधो मेघ इवावभासे ॥

आध्मापयामास स शृङ्गमग्र्यं शङ्खं तथाभूतमिवात्मयोगात् ॥
जगौ च गेयानि बहूनि येषां गान्धर्ववेदोपि न पारदृश्वा ॥
विश्वास-प्रस्तुतिः
त्रिस्थानयुक्तस्वरभूषितं तत् त्रिधा स्थितं ग्रामविश्षयोगात् ।
अरञ्जयत् सप्त जगन्त्ययत्नात् गीतं हरेराहृतकिंनरौघम् ॥

विलासवाक्यैरिव वेणुनादैर्दिव्येव गीतेन च दैत्यहन्तुः।
निवेदितार्थाः सुदृशः स्ववासादाजग्मुराकर्षणमन्त्रतीक्ष्णैः॥

अनिष्टशब्दैर्वलयैरपोढाः काञ्च्याप्यवज्ञातपदोपगत्या ।
गुणावकृष्टाः प्रियमाप्तुमीषुः कामोपदिष्टेन महापथेन ॥

आदिश्यमानां प्रियवंशनादैराशां निजाशामिव निर्विघाताम् ।
तदास्थितां प्रास्थिषताशु धन्यामासन्नसंध्याधिकरागभाजः ॥

मधुव्रताघिज्यशरासनेन पुष्पात्मकं संदधता पृषत्कम् ।
अनुप्लवेन व्रजता बभूवे तासामनङ्गेन तदोद्यतानाम् ॥

आदेशयोगैरथ तत्र गोप्यो निवार्यमाणा अपि दुर्निवाराः।
आनिन्यिरे रागमयैर्महौघैः क्लेशापहं कृष्णसुधापयोधिम् ॥

त्वरासखीनां पुरतः प्रचेले तरस्विना निःश्वसितेन तासाम् ।
सदागतिप्रार्थनया समेतं दूरस्थितं कृष्णमिवोपनेतुम् ॥

प्रायेण वेगात् सुदृशां विभिन्नः प्रकीर्णमुक्ताफलपुष्पजालः।
प्रस्तावयन् कामविहारनाट्यं हारः समालक्ष्यत सूत्रधारः॥

अवस्थितं क्वापि कदम्बमूले वल्गुस्मितं वादितमञ्जुवेणुम् ।
साचीकृताक्षं ददृशुस्तरुण्यः स्वाद्यं सतां स्वस्तिकचारुजङ्घम् ॥

तदङ्गशोभामवलोक्य दिव्यां विस्मेरभावं व्रजतेव दूरात् ।
अमोहयत् यौवतमादिधूर्तः संतोषदिग्धेन समीक्षणेन ॥

द्रुतागतिव्याकुलभूषणास्ताः किंचित्समुच्छ्वासितनीविबन्धाः।
पर्याकुलाक्ष्यः परिवार्य तस्थुः कृष्णं कृपाधीनदृशं कृशाङ्ग्यः॥

स वल्लभः संसदि वल्लवीनां बर्हस्रजा दर्शितदानराजिः।
उदग्रशृङ्गध्वनिराबभासे दृप्तो वशानामिव वारणेन्द्रः॥

अवृद्धिसंकोचमिवेन्दुमन्यमकार्मुकं काममिवात्तवेणुम् ।
तमद्भुतानामिव राशिमेकं गोप्यस्तदात्मान इवान्वभूवन् ॥

सुराङ्गनाभिः समये धृतायां स्वेनैव गोपाकृतिभूमिकायाम् ।
अकर्मवश्यस्य विभोस्तदासीदर्चाफलस्पर्शनमात्रलीला ॥

न खल्वमुष्य प्रमदामदान्ध्यं न कुत्सनं तत्तदभीष्टदातुः।
न धर्मसंस्थापनबाधगन्धः शुद्धानुचिन्त्या हि शुभस्य लीला ॥

अनागमप्रत्ययसंभवानां गुरुत्यजां गोपकुमारिकाणाम् ।
अनन्यसंगात् स दयालुरासीदसङ्गघण्टापथसार्थवाही ॥

पुष्पावचायप्रवणेन गोप्यः प्रसाधितास्तेन स च प्रियाभिः ।
अभिन्नबाह्यान्तरमैकरस्यादामोदमन्योन्यसगन्धमापुः॥

स्वलालनादापतितं स तासां सौभाग्यदुर्मानमदं विनेष्यन् ।
पुष्पावचायव्यपदेशलौल्यादासीत् दवीयानबहिःस्थितोपि ॥

अविप्रकर्षेपि तिरस्करण्या क्लृप्तावृतिं कृष्णमनीक्षमाणाः।
भीमैरदूयन्त भृशं तरुण्यः क्षणैः स्वनिःश्वाससमीरदीर्घैः॥

पुष्पावकीर्णेषु वनद्रुमाणां मूलेषु मोहालसचेतसस्ताः।
कृतासिकाः कृष्णवियोगखेदात् कामास्त्रपर्यङ्कगताः इवासन् ॥

विलीनचित्ता विषमास्त्रतापात् विलापयन्त्यो वसुधां विलापैः।
अदृश्यरुपस्य हरेरगायन् गुणांश्चरित्राणि च गोपकन्याः।

मुकुन्दविश्लेषविमोहितानां संश्रूयमाणानि मुहुर्वनान्ते ।
शमप्रदान्यात्मविदामभूवंस्त्रय्यन्तगन्धीनि वचांसि तासाम् ॥

स माययात्मानमसौ परेषां प्रच्छाद्य संदर्शयति प्रसाद्त् ।
इतीममर्थं प्रथयन् प्रयाणां दृष्टिं शुभां दातुमियेष तासाम् ॥

तासामथ स्मेरमुखाम्बुजेन श्यामेन पीताम्बरचित्रितेन ।
आविर्बभूवे सहसा पुरस्तात् मधुद्विषा मन्मथमन्मथेन ॥

तमेकचित्ताः प्रतिसंनिवृत्तं यातेन नृत्यन्तमिवाद्भुतेन ।
गोप्यः पुनर्जातमिवात्मनैव प्रैक्षन्त संमोदपयोधिमग्नाः॥

नवेन्दुरेखाकृशपाण्डुराङ्गीस्तापाश्रुसंदर्शितवह्नितोयाः।
ददर्श गोपीरवतारगोपः श्वासैस्त्रिलोकीमिव(मुप)शोषयन्तीः॥

अविध्यतैकः प्रणयापराधी योगैरलक्ष्यो युगपत् प्रयुक्तैः।
आवर्जितभ्रूधनुषाममोघैरेणीदृशामीक्षणचित्रपुङ्खैः॥

प्रसादजीवातुभिरङ्गनानां प्रत्येकमन्याभिरलक्षणीयैः।
विलासचाटूक्तिविलोकनाद्यैरानन्दयन् सान्त्वनमाचचार॥

तासां तदङ्गव्यतिषङ्गलोभात् सैरन्ध्रिकावृत्तिमुपेयुषीणाम् ।
विरक्तनिध्येयपदः स रागी रागधिकां प्रास्तुत रासलीलाम् ॥

तदग्रहस्तग्रहणार्थिनीनां स सव्यतो दक्षिणतश्च तिष्ठन् ।
बभार विद्युद्व्यवधानभाजां वात्याजुषां वारिमुचामभिख्याम् ॥

द्वयोर्द्वयोरेकतया स तासां मध्ये स्थितो मण्डलरासनृत्ते ।
करद्वयस्पर्शरसेन कान्ताः प्रत्येकमानन्द्य भृशं ननन्द ॥

अपारमावर्तयता रसाब्धिं रामानुजो रासजवेन दीव्यन् ।
पदाश्रितानां भ्रमशान्तिहेतुः प्रियासहस्रं भ्रमयाञ्चकार ॥

स्वमायया घूर्णयतो महत्या विश्वानि भूतानि विभोरजस्रम् ।
रामाजनं रासवशं विधाय स्वस्य स्वयं प्राप निदर्शनत्वम् ॥

स्वपादपांसुस्नपिताकृतीनां स्विद्यन्मुखीनां व्रजसुन्दरीणाम् ।
लम्बालकानां ललितस्मितानां लाभात् स्वयं लब्धमनोरथोभूत् ॥

सनृत्तगीतेन विहारयूना गोपीजनैरन्तरितेन बद्धम् ।
तदद्भुतप्रस्थिति रासचक्रं जवादलक्ष्यान्तरमावभासे ॥

जगुः सहर्षं दिवि देवकन्याः दिव्यास्तदा दुन्दुभयः प्रणेदुः।
पपात कल्पद्रुमपुष्पवृष्टिः सदर्चिते संश्रितरासलीले ॥

गृहीतहस्तद्वितयाः सलीलं मिथ्याभुजङ्गेन मृगीदृशस्ताः।
परिभ्रमन्त्यो विपरीतवृत्त्या प्रक्रान्तरासां भुवमभ्यजानन् ॥

मनोज्ञमल्लीरसितेन तासां रम्येण कृष्णो रजनीमुखेन ।
अन्यादृशीं प्रीतिमनन्ययोगादापादयिष्यन् विरराम रासात् ॥

उद्भिन्नघर्माम्बुकणं विहारात् तासां करस्पर्शरसेनचैनम् ।
लतागृहे नन्दनगर्भशोभिन्यासीनमन्वासत गोपकन्याः॥

स्वलम्भितैश्चित्रपलाशपुष्पैः संवीज्यमानो विटपैः प्रियाभिः।
निदर्शयामास वनान्तराले नीलाद्रिमुद्भ्रान्तमयूरवृन्दम् ॥

विचित्रलीलाहितवेपथूनां तासामनासादितविश्रमाणाम् ।
तापोपशान्त्यै तपनात्मजासामाह्लादनीमद्भिरियेष लीलाम् ॥

मुखेन तस्य द्विजराजभासा ताराभिरामेण तमोपहेन ।
प्रेमोदधिं वर्धयता प्रियाणां संचिक्षिपे तत्र सरोजकान्तिः॥

संध्याघनाभः स तदा प्रियाणां मध्ये बभौ वारिजरेणुताम्रैः।
शृङ्गारदिग्धैरिव दृष्टिपातैः शृङ्गोदकैराप्लुतचित्रदेहः॥

स पद्मिनीनां सलिलस्थितानां चकार संमीलनमाशु तासाम् ।
तुषारजालैस्तुहिनांशुसौम्यः कामोपनेता करयन्त्रमुक्तैः॥

पटीरपाङ्कैः प्रतिपन्नगङ्गां शेणान्वितां कुङ्कुमसंगमेन ।
कस्तूरिकाभिः प्रचितात्मवर्णां कृष्णप्रियाः कृष्णनदीं वितेनुः ॥

अकालजातप्रतिमेन्दुजालान् आकीर्णमिथ्याशफरांस्तरङ्गान् ।
वक्त्राक्षिवक्षोरुहबिम्बयोगादकल्पयन् कल्पितचक्रवाकान् ॥

सविभ्रमा चारुपयोधराभा ताभिः समं सूर्यसुता प्रपेदे ।
अलब्धपूर्वं तदनन्यलभ्यं कृष्णोपभोगेन कृतार्थभावम् ॥

नितम्बवक्षोजनिरूढवृद्धिर्मध्ये कृशा संश्रितनिम्ननाभिः।
विलोलपद्माग्रतरङ्गहस्ता तासामभूदन्यतमेव सापि ॥

असूययेव प्रमदाजनानां लाक्षाञ्जनादीनि विलोपयन्ती ।
निसर्गशोभातिशयप्रकाशात् कृतोपकारेव नदी बभूव ॥

चिरप्रवृद्धं दयितेनुरागं चित्ते दुरासेधमिवोद्वमन्ती ।
प्रायेण तत्कान्तिमधूपभोगात् दृष्टिस्तदा रागमुवाह तासाम् ॥

अनङ्गरागोज्ज्वलचित्तदेहा विश्वाधिकं विव्यधुरायताक्ष्यः।
कह्ला(ल्हा)रशोभारचितैः कटाक्षैः कामस्य बाणैरिव तापदीप्तैः॥

विगाहनात् गोपनितम्बिनीनां संवर्धमाने सहसाम्बुपूरे ।
तद्वक्त्रशोभाविजितैः सरोजैरन्तर्हितं नूनमवाप्तलज्जैः॥

कृष्णाम्बुदः कल्पितहस्तयन्त्रश्चकार गोपीनयनोत्पलेषु ।
धाराम्बुसेकादुपसंभवन्त्या रागश्रिया रक्तसिलीन्ध्रशोभाम् ॥

मुहुः प्रयुक्तां मुखपुण्डरीके कदर्थयन्त्या करयन्त्रघाराम् ।
कान्ते कयाचित् दधिरे कराभ्यां गतागतान्युत्पलकाननानाम् ॥

प्रयापिते गोपिकया कयाचित् कृष्णाननं कीचकयन्त्रतोये ।
निमीलनोन्मीलनतस्तदीयात् नक्तंदिवं तत्क्षणदृश्यमासीत् ॥

तमार्द्रभावान्निबिडान्तरीयं लम्बालकं राशिमिवाद्भुतानाम् ।
पश्चादुपेता परिरभ्य तस्थौ काचित् प्रिया कामवधूरिवान्या ॥

अभङ्गुरप्रेमबलेन तस्या बद्धं प्रियं बाहुलताद्वयेन।
समीक्ष्य कामार्पितपाशमन्याः संप्लावयामासुरपेतशङ्काः॥

यदङ्घ्रियोगाज्जगतां त्रयाणां मन्दाकिनी मान्यतमा बभूव ।
तयापि संभाव्यतमा तदसीत् कृष्णेन सा तेन कृतावगाहा ॥

अथोपचारान् उपपादयन्ती दिव्येन देहेन दिनेशकन्या ।
आनर्च पादार्पितरत्नपुष्पा गोपीसखं गोपकुमारमाद्यम् ॥

सरिद्भिरन्याभिरपि प्रभावात् प्रायेण गोपीतनुमाश्रिताभिः।
तोषादुदन्वत्सुतयोपभोग्यस्तोयोपचारेण विभुः सिषेवे ॥

तमुत्तरन्तं सरितः प्रवाहादुत्तारकं पङ्कमयात् पयोधेः।
मरुत्प्रयुक्ता वसनाङ्गरागैराकल्पयन् अप्सरसस्तदर्हैः॥

व्रजाङ्गनाश्च त्रिदशाङ्गनाभिः प्रसाध्यमाना बहुमानपूर्वम् ।
रमासहायप्रणयानुरूपां संमाननां साधुजनेष्वविन्दन् ॥

विहृत्य तस्मिन् व्रजसंमुखीने चक्रं गवां शैलवनान्निवृत्तम् ।
उपाद्रवत् कश्चिदरिष्टनामा कैलासपर्यायतनुः ककुद्मान् ॥

खुराग्रवज्रेण विदारयन् क्ष्मां विषाणनिर्भिन्नविमानमूलः।
दुर्वारवेगो ददृशे स दुरान्मृत्योरुपक्रान्तमहो महोक्षः॥

शृङ्गावरुग्णैः शकटैः प्रकीर्णं वृषान्तरैराशु विमुक्तमार्गम् ।
व्रजं तदा विप्लुतगोपवर्गं त्यक्त्वा स कृष्णाभिमुखं जगाम ॥

तमापतन्तं प्रतिसंजिहानो निर्ह्रादवित्रासितदीनधेनुम् ।
विषाणयुग्मग्रहणेन शोरिश्चक्रे विनिष्पीडितपीनकण्ठम् ॥

अपहत्य दुर्जयमरिष्टदानवं जगतामरिष्टमिव जातविग्रहम् ।
व्रजसद्भिरद्भुतविहारतोषितैः सुरसत्तमैरपि समं स तुष्टुवे ॥

अन्यैरप्यसुरमलिम्लुचैरनेकैरातङ्कान् स्थिरचरसूतिभिः प्रसूतात् ।
गोपानां प्रतिविदधे गवां च काले रामेण स्तुतचरितो रथाङ्गपाणिः॥

इत्यष्टमः सर्गः