विश्वास-प्रस्तुतिः
व्रजौकसो विस्मयमन्थराक्षा बालार्कवर्णं वसनं वसानम् ।
श्यामं युवानं शतपत्रनेत्रं शैलोदितं देवमथोपसेदुः ॥
मूलम्

यमाहुरन्तर्बहिरप्यलक्ष्यं योगेश्वरं योगिभिरेव दृश्यम् ।
तमद्रिशृङ्गे समुदीक्षमाणा गोपं सतां गोपगणाः प्रणेमुः॥

स तान् अशेषान् सुधयेव दृष्ट्या प्रहर्षयन् प्रत्ययितप्रसादः।
सरामकृष्णान् सनकादिगम्यः स्वामी सतां स्वागतमन्वयुङ्क्त ॥

शरत्प्रवृत्त्येव शशाङ्कभासो वाचा हरेर्गोपधियः प्रसन्नाः ।
मिथोविमर्शेः कुमुदैरिवासन् मिषद्भिरासादितनिर्मलाशाः॥

विधानदक्षा विपिनाश्रयास्ते तदन्यसंराधनवीतसङ्गाः।
तमर्चयामासुरदीनसत्त्वाः संप्रीणनैः शक्रमखोपनीतैः ॥

अनन्ययोगादयजन्त चैनं कृष्णेन तेनैव कृतानुचाराः।
समेघकैलासनिभैरसंख्यैः सव्यञ्जनैः सादरमन्नकूटैः ॥

निर्धारितार्थेषु निजोपदेशात् न्यस्तोपहारेषु महीधरार्थम् ।
अर्च्यत्वमाचार्यकमप्ययासीत् गोपेषु कृष्णो भुवनेषु गोप्ता ॥

उपाहरन् यानि सभाजनार्थं बलद्विषो वल्लववंशवृद्धाः।
परेण पुंसा परिगृह्यमाणैः प्राप्तं फलं पुष्पफलादिभिस्तैः॥

मृत्युपसिक्तैर्भुवनैरशेषैरनन्यदत्तैरपि हव्यकव्यैः ।
अलब्धपूर्वामभजत् तदानीं गोपाहृतैः प्रीतिमशेषगोप्ता॥

विधिप्रयुक्ते हविषि प्रभूते संभुज्यमाने हरिणा समक्षम् ।
अनागमश्रान्तधियोपि तत्र श्रद्धामविन्दन्त समग्रतोषाः॥

अमृष्यमाणो विहतां स्वपूजामक्ष्णां सहस्रेण तदा महेन्द्रः।
अनेहसं रक्तशिलीन्ध्रजालैराकालिकैरञ्चितमन्वकार्षीत् ॥

अवञ्चितान्यूनपयः प्रदानान् आराधकान् कालमियन्तमिन्द्रः।
आहारकर्षादभिहन्तुमैच्छत्कृतानभिज्ञेषु किमानृशंस्यम् ॥

अथाजुहाव प्रतिघानुषङ्गात् घोराशयो घोषविमर्दकाङ्क्षी ।
समेष्यतां संभवमर्णवानां संवर्तकं नाम गणं घनानाम् ॥

प्रदीपितान् कोपहुताशभूम्ना पीतोदधान् वारिधरायुधौघान् ।
मरुद्भुजेन त्वरितं मरुत्वान् प्रायुङ्क्त घोषाभिमुखं सघोषान् ॥

प्रकल्पयन्तः परिवेषचक्रं बृन्दावने विह्वलगोपबृन्दे ।
समीरनुन्नाः सहसा पयोदाः शक्रस्य ते शासनमन्वतिष्ठन् ॥

तटित्सहस्रेण विदीप्तनेत्रः समेतवज्रो धृतचित्रचापः।
अतर्क्यतेन्द्रः स्वयमभ्रवाहः कालात्मना भूमिकयेव खेलन् ॥

असूयता वज्रभृता प्रयुक्तामाकालिकीं प्रावृषमादिदेवः।
आशानिरोधं जगतां दिशन्तीं निरोद्धुमैच्छन्निजया न शक्त्या ॥

वियत्पयोधिं परितः पयोदैर्वेलातमालैरिव वर्धमानैः।
जिघांसता गोपगणान् मघोना च्छन्नेन तस्थे मृगयार्थिनेव ॥

अदृशयरूपः स तदा मरुत्वान् अम्भोमुचामन्तरतोवतस्थे ।
अपारयन् द्रष्टुमिव त्रिधाम्नो दीप्तिं दिवाभीत इवातिसुर्याम् ॥

अमर्षवेगादचमत्क्रियोत्थात् जिघृक्षता वज्रमकुण्ठवीर्यम् ।
अलक्षि जीमूतरथे मघोना मोघक्रियो मुक्त इवेन्द्रचापः॥

सुतीव्रहुंकारभृतो निनादैः सौदामनीदर्शिततर्जनीकाः।
मरुत्वदाज्ञाविमुखान् अभीक्ष्णं निर्भर्त्सयामासुरिवाम्बुवाहाः॥

क्षणप्रभास्तत्क्षणमन्तरिक्षे प्रायेण गोपान् ग्रसितुं प्रवृत्ताः।
बभासिरे वासवरोषवह्नेर्ज्वालाग्रजिह्वा इव जातलौल्याः ॥

किमन्तरिक्षेण घनीबभूवे किमुत्थितं ध्वान्तमहीन्द्रलोकात्।
मूलं किमेतत् प्रलयार्णवानामितीव मेने मलिनाभ्रमाला ॥

व्रजोपमर्दं समयो विधास्यन् बभार नम्रेण पयोदमूर्ध्ना।
महीयसीं वासवचापलेखां मायाप्रदिष्टामिव माल्यशेषाम् ॥

कठोरगरिजापटहप्रणादः करप्रसूनैरवकीर्य पृथ्वीम् ।
क्षणप्रभाभिर्घटिताङ्गहारः कालः प्रतुष्टाव युगान्तनृत्तम् ॥

प्रणुद्यमानाः प्रबलैः समीरैराप्लावयामासुरमन्दघोषाः।
महीमपर्यायनिपीतमुक्तैचौदन्वतैरम्बुभिरम्बुवाहाः॥

अङ्गाररूक्षस्तनयित्नुपूर्णात् ऐरम्मदे तेजसि तप्यमानात् ।
विहायसो नूनमभूद्विलीनात् विष्वङ्मुखी वृष्टिरवारणीया ॥

07.28
विश्वास-प्रस्तुतिः
प्रदीप्तविद्युद्गणदुर्निरीक्षान् सोढुं व्रजाः श्रोत्रविघातिघोषान् ।
न शेकुरावर्जितशक्रचापान् धाराशरश्रेणिमुचः पयोदान् ॥

संहुंकृता सामिनिमीलिताक्षा दीर्घोरुशृङ्गा दरभुग्नवक्त्राः।
प्रत्यग्रहीषुः प्रतिपन्नरोषा धाराः क्षणं धैर्यभृतो महोक्षाः॥

स्तनाहितस्वस्तिकबाहुबन्धाः स्त्यानालकाः संनतवक्त्रपद्माः।
विलग्नदेहा वसनैर्न्यषीदन् व्रजस्त्रियो वादितदन्तवीणाः ॥

चलद्धलाकोल्बणशङ्खमाला पयोधरव्यक्तिधरोर्मिहारा ।
प्रावृट्पुनः संववृते तिघोरा संवर्तसिन्धोरिव धर्मपत्नी ॥

गम्भीरगर्जापटहप्रणादं प्रारब्धझञ्झानिलनादगीतम् ।
तडिद्भिरापादितताण्डवं तत् कालस्य संगीतमपूर्वमासीत् ॥

विद्युद्गुणैः संदितया समन्तात् व्रजे मरुत्वान् मृगयामिवेच्छन्।
समावृणोत् सान्द्रतमिस्रधाम्ना मेघात्मना वागुरया वनाद्रीन्।

आसारधाराच्छुरितेन्द्रचापैर्मेघैर्दिशा माघवती चकाशे ।
आमुक्तमुक्तागुणरत्नदामैः सिन्धोरपत्यैरिव धीरनादैः॥

हुंकारवन्तः स्तनितैरुदारैः क्षणप्रभाकाञ्चनवेत्रभाजः।
पुरन्दरस्येव पुरःसरास्ते प्रचेरुरुत्सारितगोपवर्गाः॥

07.36
विश्वास-प्रस्तुतिः
प्रकृष्टवज्रायुघचापचिह्नां पौरस्त्यवातेन कृतप्रकम्पाम् ।
कालस्य कृष्णामिव केतुमालां कादम्बिनीं प्रेक्ष्य जनश्चकम्पे ॥

पयोमुचां पङ्क्तिरसह्यधारा भूभृद्गणान् भेत्तुमिव प्रवृत्ता ।
विडम्बयामास निशेषभीमां कृतान्तकोपोल्लसितां कृपाणीम् ॥

पयोदभारैर्नमितं नभः किं शेषाहिना भूमिरुत प्रणुन्ना ।
अदूरतः संपुटभावभाजोरासीत् तयोरन्तरमल्पशेषम् ॥

प्रायः प्रकीर्णाशनिविष्फुलिङ्गैर्लोकास्तदा लोचनरोधमापुः ।
पयोदरूपेण विवर्तमानैः पर्जन्यकोपानलधूमजालैः ॥

अलातकल्पाः करकास्त्रिलोकामापूरयन् अद्भुतभीमरूपाः।
युगान्तवात्यारभसावधूताः संभूय तारा इव संपतन्त्यः॥

चकासचञ्चत्करकास्थिमाला कादम्बिनीकण्टकभीषणा द्यौः।
वज्रौघनिष्पेषमहाट्टहासा मूर्तिस्तदा मोहकरीव रौद्री ॥

शतह्रदाभिर्धृतहेमकक्ष्या धाराधराः सेन्द्रधनुष्पताकाः ।
अदभ्रघोषध्वनयोनुचक्रुः सप्तस्रुतां शक्रमतङ्गजानाम् ॥

अहीन्द्रभोगप्रतिमाः पतन्त्यो धारास्तदा घोरमरुत्प्रणुन्नाः।
अभावयन् भीमपयोदनक्रं व्योमार्णवं वीचिगणावकीर्णम् ॥

आसारदुर्लक्षतडित्प्रकाशमन्योन्यसंकीर्णहरिद्विभागम् ।
आसीदसह्यस्तनितं प्रजानामभिन्ननक्तंदिवमन्तरिक्षम् ॥

तडित्स्वभावेन तमःप्रकृत्या निर्ह्रादरूपेण जलात्मना च ।
विवर्तते विश्वमितीव गोपाः प्रायो न चिन्तार्णवपारमापुः॥

प्रवर्तमानान् प्रतिसर्गक्लृप्तौ पश्यन् घनान् पाशभृताप्यवार्यान् ।
अभीतिमुद्रामधुरेण गोपान् आश्वासयामास करेण शौरिः ॥

यदर्चनादापदियं प्रसक्ता तेनैव गोपालगणस्य गुप्तिम् ।
अरोचयत् कर्तुमशेषगोप्ता रामेण संमन्त्र्य रथाङ्गपाणिः ॥

स लीलया मेरुमिव द्वितीयं गोवर्धनं गोपकुलप्रदीपः।
नवप्ररूढं निहितैकहस्तो नागो नलस्तम्बमिवोज्जहार ॥

अधोमुखावस्थितमेरुकल्पं शैलं तमुत्खाय शरण्यगोपः।
उदञ्चयन् सत्वरमूर्ध्वमूलं चक्रे महेन्द्रं शमितार्धगर्वम् ॥

फणाभिरामप्रसृताङ्गुलीकः प्रियाङ्गरागव्यतिषङ्गपाण्डुः।
भुजस्तदीये गिरिणा बभासे भूमण्डलेनेव भुजङ्गराजः॥

आ(अ)भुग्नरक्ताङ्गुलिपञ्जरं तत् रत्नोर्मिकारश्मिशलाकमन्तः।
नवोदकक्षौमवृतं व्यभासीच्छत्रप्रकाण्डं हरिबाहुदण्डे ॥

विहारपद्मस्पृहयेव कृष्णो भुजाद्रिणा भूमिधरं दधानः।
स्वशेषभूतस्य हलायुधस्य प्राचीमवस्थां प्रथयांबभुव ॥

निवासभूते निखिलस्य तस्मिन् बालाकृतौ बिभ्रति शैलमेकम् ।
सविस्मयान् वीक्ष्य जहास गोपान् संप्रीतिलक्ष्येण तदग्रजन्मा ॥

स कालिकाकालकृपाणिकानां धाराशतैराहतसंधिबन्धः।
अवासृजत् क्षिप्रतरं क्षरद्भिर्धातुद्रवैर्नूनमसृञ्जि शैलः ॥

सगैरिकस्तस्य गिरेः समन्तात् विलम्बितो वर्षपयःप्रवाहः ।
वितानपर्तन्तजुषो वितेने विडम्बनां वर्णतिरस्करिण्याः॥

इरंमदार्चिर्व्यतिषङ्गदीप्तः पाणौ हरेरद्रिपतिश्चकाशे ।
प्रत्यस्त्रमिन्द्रेण मुमुक्षितानां प्रयुक्तमुत्खात इवाशनीनाम् ॥

स बाहुदण्डेन वहन् सलीलं प्रवालकल्पाङ्गुलिपञ्जरेण ।
महीधरच्छत्रमनन्यवाह्यं मायामयीं व्याकुरुतेव लीलाम् ॥

करालरूक्षाकृतिवर्णभेदान् कालाग्निनिर्वापणकल्यवृत्तीन् ।
रुरोध शैलीकृतया स्वशक्त्या प्रायो घनान् पर्वतकूटकल्पान् ॥

पृथ्व्या यथावद्भरितं गिरेस्तन्मूलं निवासाय गवां बभूव ।
ग्रासानुभावाग्रहणार्हमासीदग्रं च तस्यानतिविप्रकृष्टम् ॥

उदञ्चितस्याद्रिपतेरुपान्ते पयः प्रवाहा निबिडं पतन्तः ।
अतन्वत स्फाटिकवप्रशोभामन्तर्गतैरस्तभयैरवेक्ष्याम् ॥

अलब्धसूर्येन्दुकरप्रवेशे मूले गिरेरावसतां जनानाम् ।
स्वलोचनद्वंद्वविहारभेदात् नक्तंदिनान्यातनुते स्म नाथः॥

मुकुन्दगात्रं मणिदर्पणाभं छायापदेशेन विगाहमानैः।
सगोधनैस्तत्र सुरेन्द्रभीत्या गोपैस्तदा गूढमिवावतस्थे ॥

बिभर्ति कृष्णः सुकुमारगात्रः क्षमाधरं तेन विभावयामः।
तदग्रजोसौ बिभृयादशेषां बलः क्षमामित्यवदन् व्रजस्थाः ।

बभुः स्वशाखाग्रथिताग्रपादैस्तपोधनैः साकमधःशिरोभिः।
कृताभिमुख्याः कृतिनो मुकुन्दे तपःप्रवृत्ता इव तत्र वृक्षाः॥

अधोमुखस्याद्रिपतेस्तृणानि स्पृष्ट्वा मुकुन्देन निदर्शितानि ।
जातस्पृहा जग्रसिरे सहर्षं गावस्तदा किंचिदिवोन्नमन्त्यः॥

मणिप्रदीपैरतमांसि गोप्यः प्रविश्य रम्याणि गुहागृहाणि ।
अस्पृष्टशीतोष्णमयत्नलब्धं स्वस्थाशयाः स्वर्गमिवान्वभूवन् ॥

यथापुरं तत्र सपुत्रदारैरच्छिन्नगोदोहनमन्थनाद्यैः।
स्वप्नावबोधप्रभृतीनि गोपैः सिषेविरे विस्मृतपूर्ववासैः॥

अस्पृष्टधाराजलबिन्दुसेकैरकम्पमानैरपदन्तवीणैः।
गोपीजनैरादधिरे विहारा गिरीन्द्रमूले गृहनिर्विशेषम् ॥

वनेचरा गोपगणैः समेता विमुक्तपर्जन्यभया विचेरुः।
महीधरच्छत्रधरे मुकुन्दे वन्यानि सत्त्वानि च तत्र गोभिः॥

प्रभूतधाराप्रतिपन्नशैत्यं प्राप्तारमद्रिं प्रभुरद्भुतानाम् ।
सुदर्शनादप्यधिकामनैषीत् पवित्रतां पाणिसरोजयोगात् ॥

मुकुन्दहस्ताम्बुरुहाधिरोहात् प्राप्तः श्रियं मेरुमुखैरलभ्याम् ।
वर्षापदेशेन गिरिः स लेभे नगाधिपत्यार्हमिवाभिषेकम् ॥

मदोल्बणानामिव वल्लवीनां गीतं गणैः शौरिगुणानुबन्धम् ।
गुहाविशेषैर्ध्रुवमन्ववादीत् गोवर्धनो गोपगणाभिनन्द्यः ॥

कराग्रयन्त्रे घटितेन कृष्णः सवारिणा सानुमताभिगुप्तान् ।
अलम्भयत् गोपगणान् सदारान् धारागृहाभ्यन्तरवाससौख्यम् ॥

अचिन्त्यशक्तेरकुमारयूनः कौमारलीलाकवचेन गुप्तम् ।
बलं तदग्राङ्गुलिसंश्रिताद्रेस्तावत्परिच्छिन्नमबोधि गोपैः ॥

निमेषनिष्ठ्यूतयुगानि यासां येभ्यो निरोधव्यसनान्यभूवन् ।
तासां स तैः सार्धमभूत् समीक्ष्यो वामभ्रुवां वल्लवयूथनाथः॥

कृतार्थभावं भृशमादधाने कृष्णाङ्गसंस्पर्शविलोकनादौ ।
अयन्त्रिताभिश्चिरमाशशंसे वर्षानुवृत्तिर्व्रजसुन्दरीभिः ॥

धारानिपातैः स्तनतां घनानामक्षप्रमाणैरभिहन्यमानः।
आकस्मिकीमन्वभवत् स शैलो वज्रव्यथां वासवरोषजाताम् ॥

तमेकहस्ताङ्गुलियन्त्रलग्नं धाराहतं धारयतस्त्रिधाम्नः ।
अमुक्तबाल्यस्य समग्रशक्तेः क्षणार्धवत् सप्त दिनान्यतीयुः ॥

स तादृशांस्तोयभृतो युगान्ते श्वासानिलैः शोषयितुं क्षमोपि ।
महेन्द्रदर्पात्ययमात्रकाङ्क्षी प्रख्यापयामास गिरेः प्रभावम् ॥

एकत्र संरक्षति कृष्णमेघे गोत्रेण चैकेन गवां कुलानि ।
अशेषगोत्रौघभिदा नियुक्तैर्मेघायुतैर्मोघतमैर्बभूवे ॥

व्रजोपमर्दे वितथे सुरेन्द्रः स्वयंवृतोपत्रपया भिया च ।
दुनोति मामिन्द्रपदं दुरन्तं किंपौरुषं केवलमित्यदुःख्यत् ॥

निवृत्तरोषे निभृतेपि शक्रे संदर्शितस्वामिनिदेशसङ्गाः।
ववर्षुरुग्रां मुहुरश्मवृष्टिं वैरोपपन्ना इव वारिवाहाः॥

निवार्य दुर्वारजवान् पयोदान् नाथं सतां नन्दसुतं प्रपित्सुः।
करम्बितप्रीतिभयः क्षणार्धं व्यक्तिं भजन् व्योमतलेवतस्थे ॥

क्रमेण पृथ्वीमभिगन्तुकामः श्वेताभ्रपर्यायगजाधिरूढः ।
विलोचनव्यञ्जितपद्मसंपत् वर्षात्ययो मूर्त इवावभासे ॥

पुनः प्रसन्नां पुरुहूतदान्त्या पश्यन् दिवं प्राणभृतामधीशः।
तमद्रिमव्याहतदिव्यलीलः संतोलयामाय निवेशयिष्यन् ॥

विलक्षवृत्त्यै(त्ये)व तिरोहितेषु मेघेषु विश्रान्तविकत्थनेषु ।
स्थाने निवेशादचलीचकार च्छत्राचलं शौरिरखिन्नबाहुः॥

उत्क्षिप्यमाणः परिवर्त्यमानः संस्थाप्यमानोपि तथैव भूयः।
स तस्य संकल्पवशेन भेजे शैलो न शैथिल्यकथाप्रसङ्गम् ॥

व्यपेतशैलव्यवधानदृश्यो विभूषितः स्वेदकणैः स बालः।
दिशद्भिरामोदमभौमभोग्यं दिव्यैरवाकीर्यत पुष्पवर्षैः॥

निवेश्य कृष्णं शकटीरथाग्रे नाथोपचारैरुपसेदिवांसः।
सगोधनाः स्वं व्रजमाव्रजन्तः संगीतलीलामभजन्त गोपाः॥

कच्चिन्न खिन्नोसि वहन् गिरीन्द्रं कच्चिन्न विम्लायति पाणिपद्मम्।
इति ब्रुवाणाः सुहृदो मुकुन्दं पर्याकुलाः पस्पृशुरङ्गमङ्गम् ॥

अथावतीर्य स्वयमन्तरिक्षादनुज्झितैरावतदानवर्षात् ।
विलक्षचित्तो वसुदेवसूनुं वल्गुस्मितं वज्रभृदाससाद ॥

पुरोदधानः सुरभिं प्रतीक्ष्यामाजग्मुषीमात्मभुवो नियोगात् ।
अपत्रपागद्गदमाबभाषे बद्ध्वाञ्जलिं बालमुपेन्द्रमिन्द्रः॥

नाथ त्वया नर्मविहारभाजा विमोहितो विप्रतिसारितश्च।
अकिंचनस्त्वामहमाश्रितः सन् क्षिप्तापकारो न बहिष्क्रियार्हः॥

कृतापराधेष्वपि सानुकम्पं क्षेमं करं क्षेत्रविवेचकानाम् ।
विश्वोपकाराध्वरबद्धदीक्षं वेद्यं परं वेदविदो विदुस्त्वाम् (वदन्ति)॥

निगृह्णतस्ते सृजतश्च वर्षं निमित्तभावे निहितैस्त्वयैव ।
प्रवर्त(र्त्य)ते निष्प्रतिघो विहारः स्वयं प्रयुक्तैरिव यन्त्रभेदैः॥

अनन्यसाधारणपारमेष्ठ्यात् अन्यान् अशेषान् अतिसंदधानात् ।
गोपायितुं पारयति त्रिलोकीं गोपायमानादपि न त्वदन्यः ॥

व्रजौकसां नाथ दिवौकसां वा विपत्प्रसङ्गे विहितावतारः।
एकस्त्वमेव स्वयमीप्सितानां दयासहायो नियमेन दाता ॥

स्वरूपतो विग्रहतश्च विश्वं नित्यं त्वयैकेन धृतं यदेतत् ।
तदेकदेशोद्वहनादमुष्मात् न विस्मयं तत्त्वविदो भजन्ति ॥

प्रयोजितोहं त्वयि भक्तिबन्धात् गोभिः स्वलोकादुपसेदुषीभिः।
इच्छामि संरक्षितगोव्रजं त्वां स्थाने गवामिन्द्रतयाभिषेक्तुम् ॥

तिरोहितामम्भसि विन्दता गां पूर्वं त्वया पोत्रिवरेण लब्धा ।
निरुक्तनिष्णातकृताभ्यनुज्ञा व्यक्तिं पुनर्यातु शुभा त्वदाख्या ॥

उपेन्द्रभूताद्भवतोपि भूम्ना मान्यो मनुष्याभिनयं मया त्वम् ।
अभ्यर्थनामादरतस्तदेनां प्रतीच्छ विश्वंभर विश्वभूत्यै ॥

इति ब्रुवाणो मघवान् धृताद्रेः श्रान्तिं जगद्धातुरिवापनेष्यन् ।
ध्यातोपयातां त्रिदशप्रणेता दिव्यापगां दर्शयति स्म देवीम् ॥

अभौमगङ्गापयसा प्रपूर्णामावर्जयन् वारणराजघण्टाम् ।
अशेषसाम्राज्यपदाभिषिक्तं गुप्त्यै गवां गोत्रभिदभ्यषिञ्चत् ॥

तदङ्गसंस्पर्शवशेन धन्यैराप्लाव्यमानामभिषेकतोयैः।
अपेतभारामिव भूतधात्रीमुल्लाघितां प्रैक्षत नाकनाथः॥

कृताभिषेकः कृतिना मघोना गुप्तेन गोविन्द इति स्वनाम्ना ।
कृतप्रसादः प्रजिघाय कृष्णः स्वर्गाधिरोहाय पुनः सुरेन्द्रम् ॥

प्रतिगतवति यूथे पुष्कलावर्तकानां
दिवि भुवि च नियत्या दीर्घनिद्रोज्झितानाम् ।
गुणगरिमसमृद्धं गोकुलं वीक्ष्य तुष्यन्
गुरुभिरभिनियुक्तामाशिषं प्रत्यगृह्णात् ॥
मुकुलितरविधाम्ना देहदीप्त्यैव मुष्णन्
जलदकदनजातं जीवलोकस्य जाड्यम् ।
व्यचरदचलभा(भो)गे चारयन् धेनुचक्रं
पिशुनितनिजमायां भूषयन् पिञ्छमालाम् ॥
प्रणिहितमधिरोहन् प्रागिवाद्रिं पृथिव्याम्
अवमतपुरुहूतैरर्चितो गोपवृन्दैः।
व्रजपतिरुपसीदन् बालयोग्यान् विहारान्
वनचर(भव)परिबर्हो वत्सपालैः सिषेवे ॥
नाथः सोयं शिशुरपि सतां नन्दगोपस्य सूनुः
प्रायः शैलः प्रतिनिधिरसौ पद्मनाभस्य पुंसः।
किं नः साध्यं सुरपतिमुखैः किंपचानैस्तदन्यैः
साकं दारैरिति किल जगुस्तत्र संभूय गोपाः ॥
॥
इति सप्तमः सर्गः ॥