विश्वास-प्रस्तुतिः
शमयता पुरुहूतमहोत्सवं व्रजपतिः सह वल्लवयूथपैः।
निभृतमञ्जुगिरा निजसूनुना निजगदे जगदेककुटुम्बिना ॥
मूलम्
शमयता पुरुहूतमहोत्सवं व्रजपतिः सह वल्लवयूथपैः।
निभृतमञ्जुगिरा निजसूनुना निजगदे जगदेककुटुम्बिना ॥
विश्वास-प्रस्तुतिः
विदितवानिव विज्ञपयाम्यहं शृणुत मे शकुनेरिव भाषितम् ।
पृथुकबुद्धिरहं पृथुचेतसः प्रभवतो भवतो न हि शिक्षये ॥
मूलम्
विदितवानिव विज्ञपयाम्यहं शृणुत मे शकुनेरिव भाषितम् ।
पृथुकबुद्धिरहं पृथुचेतसः प्रभवतो भवतो न हि शिक्षये ॥
विश्वास-प्रस्तुतिः
निगमदृष्टमिदं निखिलेन वः क्वचन विश्वतनौ पुरुषे स्थिते ।
य इह यामुपजीवति तत्तनुं स हि तया हितया भुवि नाथवान् ॥
मूलम्
निगमदृष्टमिदं निखिलेन वः क्वचन विश्वतनौ पुरुषे स्थिते ।
य इह यामुपजीवति तत्तनुं स हि तया हितया भुवि नाथवान् ॥
विश्वास-प्रस्तुतिः
अतियजेत निजां यदि देवतामुभयतश्च्यवते जुषतेप्यघम् ।
क्षितिभृतैव सदैवतका वयं वनवतानवता किमहिद्रुहा ॥
मूलम्
अतियजेत निजां यदि देवतामुभयतश्च्यवते जुषतेप्यघम् ।
क्षितिभृतैव सदैवतका वयं वनवतानवता किमहिद्रुहा ॥
विश्वास-प्रस्तुतिः
अनघशाद्वलकाननसंपदा नदनदीह्रदनिर्झरशालिना ।
बहुपशुः पशुपालकसंततिर्महिभृता हि भृता न मरुत्वता ॥
मूलम्
अनघशाद्वलकाननसंपदा नदनदीह्रदनिर्झरशालिना ।
बहुपशुः पशुपालकसंततिर्महिभृता हि भृता न मरुत्वता ॥
विश्वास-प्रस्तुतिः
अचलमर्चत किं विबुधैश्चलैः शुभवनं भवनं च दिवौकसाम् ।
क्षममनेन वन् परिरक्षिते न हरिणा हरिणानपि बाधितुम् ॥
मूलम्
अचलमर्चत किं विबुधैश्चलैः शुभवनं भवनं च दिवौकसाम् ।
क्षममनेन वन् परिरक्षिते न हरिणा हरिणानपि बाधितुम् ॥
विश्वास-प्रस्तुतिः
गिरिषु विष्णुविभूतिषु युज्यते निखिलदेवमयीषु च गोषु नः ।
तदुभयाश्रितवृत्त्युपजीविनां गुरु चिरं रुचिरं च समर्चनम् ॥
मूलम्
गिरिषु विष्णुविभूतिषु युज्यते निखिलदेवमयीषु च गोषु नः ।
तदुभयाश्रितवृत्त्युपजीविनां गुरु चिरं रुचिरं च समर्चनम् ॥
विश्वास-प्रस्तुतिः
अभिमतं गिरयः कृतसत्क्रिया ददति दर्शितदैवतभूमिकाः ।
हरि तरक्षु मुखैरपि विग्रहैरहितमाहित मान विपर्ययाः ॥
मूलम्
अभिमतं गिरयः कृतसत्क्रिया ददति दर्शितदैवतभूमिकाः ।
हरि तरक्षु मुखैरपि विग्रहैरहितमाहित मान विपर्ययाः ॥
विश्वास-प्रस्तुतिः
पशुभिरद्रिचरैरुपकल्पिते व्रजनये जनयेम न विप्लवम् ।
क्षितिभृदेष समीहितसिद्धये जनमितं न मितंपचतां नयेत् ॥
मूलम्
पशुभिरद्रिचरैरुपकल्पिते व्रजनये जनयेम न विप्लवम् ।
क्षितिभृदेष समीहितसिद्धये जनमितं न मितंपचतां नयेत् ॥
विश्वास-प्रस्तुतिः
अपि च साधु गवामभिवर्धनादनृतहानि जया निजयाख्यया ।
भजति गोपगणैरभिराध्यतां वनमयं नमयन् फलसंपदा ॥
मूलम्
अपि च साधु गवामभिवर्धनादनृतहानि जया निजयाख्यया ।
भजति गोपगणैरभिराध्यतां वनमयं नमयन् फलसंपदा ॥
विश्वास-प्रस्तुतिः
हरति तापमसावुपसेदुषां महिमवान् हिमवानिव दक्षिणः ।
वितनुते मणिरश्मिभिरप्यसौ सुरपतेरपतेज इवास्पदम् ॥
मूलम्
हरति तापमसावुपसेदुषां महिमवान् हिमवानिव दक्षिणः ।
वितनुते मणिरश्मिभिरप्यसौ सुरपतेरपतेज इवास्पदम् ॥
विश्वास-प्रस्तुतिः
प्रदिशता मधुमूलफलानि नः सतरुणातरुणाद्भुतवीरुधा ।
उपकृतं गिरिणा तदिहार्प्यतां रस ततं सततं हविराहृतम् ॥
मूलम्
प्रदिशता मधुमूलफलानि नः सतरुणातरुणाद्भुतवीरुधा ।
उपकृतं गिरिणा तदिहार्प्यतां रस ततं सततं हविराहृतम् ॥
विश्वास-प्रस्तुतिः
समरुता मरु ताप जितामुना नदवता दव तान्ति दवीयसा ।
श्रम हता महता कृतविश्रमा वयमितो यमितोल्बणशाक्वराः॥
मूलम्
समरुता मरु ताप जितामुना नदवता दव तान्ति दवीयसा ।
श्रम हता महता कृतविश्रमा वयमितो यमितोल्बणशाक्वराः॥
(तत्तत्पादभागावृत्तियमकमिति यमकचतुष्टयसंसृष्टिः)बहुमतो मनुजा दधते धृतिं बहुमतो यमनन्यधृतिः सताम् ।
गिरि शतोन्नतिमान् अधिको ह्यसौ गिरिश तोष कृतोपि महीभृतः ॥
(अत्र पूर्वोत्तरार्धयोः पादद्वयादियमकमिति यमकद्वयसंसृष्टिः)सनगरा नग राजिमतामुना कुहरिणा हरिणा समसंपदा ।
सततमातत मान महीयसी वसुमती सुमतीश्वर धार्यते ॥
विश्वास-प्रस्तुतिः
सुरसगन्धविभूतिनिधे हितं परिगृहाण निजे पशुपालने ।
सुरसगन्धविभूति निधेहि तं हरिमवेत्य गिरिं हविरुत्तमम् ॥
मूलम्
सुरसगन्धविभूतिनिधे हितं परिगृहाण निजे पशुपालने ।
सुरसगन्धविभूति निधेहि तं हरिमवेत्य गिरिं हविरुत्तमम् ॥
(इदं प्रथमतृतीयपादयोरौकरूप्यात् संदंशनामकं पूर्णयमकम् ।
यत्पादेर्धके वा भवति तत् पूर्णयमकम् ।
ततोन्यत् खण्डयमकम् )
विश्वास-प्रस्तुतिः
विशुद्धतोयौघपरीतपार्श्वे सुद्धाशयाः श्वेत इवान्तरीपे ।
निराशिषो नित्यमिहाश्रयन्ते नैःश्रेयसं तात निवृत्तिधर्मम् ॥
मूलम्
विशुद्धतोयौघपरीतपार्श्वे सुद्धाशयाः श्वेत इवान्तरीपे ।
निराशिषो नित्यमिहाश्रयन्ते नैःश्रेयसं तात निवृत्तिधर्मम् ॥
विश्वास-प्रस्तुतिः
इह वासमही समहीनगुणे स्थिरकुञ्जगृहे जगृहे विबुधैः ।
अयमानमतां न मतां न तनुं क्षितिभृत् भजते भज तेन धृतिम् ॥
मूलम्
इह वासमही समहीनगुणे स्थिरकुञ्जगृहे जगृहे विबुधैः ।
अयमानमतां न मतां न तनुं क्षितिभृत् भजते भज तेन धृतिम् ॥
विश्वास-प्रस्तुतिः
तटभूमिरसौ जयति त्रिदिवं पवनागत ताप वनाग तता ।
इह देवगणैरनिशाध्युषिता युतकोकनदायुतकोकनदा ॥
मूलम्
तटभूमिरसौ जयति त्रिदिवं पवनागत ताप वनाग तता ।
इह देवगणैरनिशाध्युषिता युतकोकनदायुतकोकनदा ॥
विश्वास-प्रस्तुतिः
प्रकृष्टवंशेदयमाननीयः प्रभूततोयप्रथितानुरुप्यः ।
प्रवालमुक्तामणिचित्रिताङ्गीः पत्नीरयं प्रापयते पयोधिम् ॥
मूलम्
प्रकृष्टवंशेदयमाननीयः प्रभूततोयप्रथितानुरुप्यः ।
प्रवालमुक्तामणिचित्रिताङ्गीः पत्नीरयं प्रापयते पयोधिम् ॥
विश्वास-प्रस्तुतिः
नन्द नीतिधन सर्वनन्दनी तत्त्व यात मतिभूष तत्त्वया ।
साधुना क्षितिभृतो रसाधुना सेव्यतामिह गतेन सेव्यताम् ॥
मूलम्
नन्द नीतिधन सर्वनन्दनी तत्त्व यात मतिभूष तत्त्वया ।
साधुना क्षितिभृतो रसाधुना सेव्यतामिह गतेन सेव्यताम् ॥
विश्वास-प्रस्तुतिः
नम्यतेह नियता विभूतये भूतयेश्वरतया विराजते ।
राजतेदृशतटीमहीयसे हीयसे न यदि नाम नम्यते ॥
मूलम्
नम्यतेह नियता विभूतये भूतयेश्वरतया विराजते ।
राजतेदृशतटीमहीयसे हीयसे न यदि नाम नम्यते ॥
विश्वास-प्रस्तुतिः
अयोगनिद्रस्य हरेरिदानीं मान्ये पदे मानसतः प्रवृत्ताः।
त्वदाशयस्वच्छसरित्प्रवाहे हंसैः समं वासमिहाश्रयेम ।
मूलम्
अयोगनिद्रस्य हरेरिदानीं मान्ये पदे मानसतः प्रवृत्ताः।
त्वदाशयस्वच्छसरित्प्रवाहे हंसैः समं वासमिहाश्रयेम ।
विश्वास-प्रस्तुतिः
निशाकरस्य स्फटिकेष्विहाधिकं सुजातरूपा श्रयतो विभा सिता ।
रविप्रभा च स्पृशतीव सांध्यतां सु जातरूपाश्रयतो विभासिता ॥
मूलम्
निशाकरस्य स्फटिकेष्विहाधिकं सुजातरूपा श्रयतो विभा सिता ।
रविप्रभा च स्पृशतीव सांध्यतां सु जातरूपाश्रयतो विभासिता ॥
विश्वास-प्रस्तुतिः
न दन्तिनोस्मिन् मुदिता नदन्ति नो वनस्थलीलास्त्विह देवनस्थली ।
व्रजाधिपाघोन्नति तीव्रजाधि पा प्रभात ताम्राश्मगणप्रभा तता ॥
मूलम्
न दन्तिनोस्मिन् मुदिता नदन्ति नो वनस्थलीलास्त्विह देवनस्थली ।
व्रजाधिपाघोन्नति तीव्रजाधि पा प्रभात ताम्राश्मगणप्रभा तता ॥
विश्वास-प्रस्तुतिः
महीयसी गोपगणाश्रिता मही वनैरुपेता फलपुष्पभावनैः ।
रसौघरम्यैरपि निर्झरैरसौ चकास्त्यमुष्मिन् यवसैश्च मेचका ॥
मूलम्
महीयसी गोपगणाश्रिता मही वनैरुपेता फलपुष्पभावनैः ।
रसौघरम्यैरपि निर्झरैरसौ चकास्त्यमुष्मिन् यवसैश्च मेचका ॥
विश्वास-प्रस्तुतिः
सदोन्नताय प्रणमत्यमुष्मै सतां कनिष्ठा प्रथमाङ्कनिष्ठा ।
निशामयास्मिन् सरितश्च रत्न प्रभा समानाः प्रतिभासमानाः ॥
मूलम्
सदोन्नताय प्रणमत्यमुष्मै सतां कनिष्ठा प्रथमाङ्कनिष्ठा ।
निशामयास्मिन् सरितश्च रत्न प्रभा समानाः प्रतिभासमानाः ॥
विश्वास-प्रस्तुतिः
इह वंशलताविलग्नवालाः प्रियवाला नतकंधराश्चमर्यः ।
शबरीकबरीनिरीक्षणेन त्रपमाणा इव निश्चला भवन्ति ॥
मूलम्
इह वंशलताविलग्नवालाः प्रियवाला नतकंधराश्चमर्यः ।
शबरीकबरीनिरीक्षणेन त्रपमाणा इव निश्चला भवन्ति ॥
विश्वास-प्रस्तुतिः
हरिनीलरुचा लसत्तमिस्रो दिवसेपि स्फुरदोषधिप्रदीपः .।
निशि चैष तपोधनाङ्गदीप्त्या दिनमोहादविभक्तकोकयुग्मः ॥
मूलम्
हरिनीलरुचा लसत्तमिस्रो दिवसेपि स्फुरदोषधिप्रदीपः .।
निशि चैष तपोधनाङ्गदीप्त्या दिनमोहादविभक्तकोकयुग्मः ॥
विश्वास-प्रस्तुतिः
व्रजवैरवतीषु वल्लवानां वृष सेनानु सदानवासु देवः।
अचलाकृतिराशु नैष गोप्ता वृषसेनासु सदा न वासुदेवः॥
मूलम्
व्रजवैरवतीषु वल्लवानां वृष सेनानु सदानवासु देवः।
अचलाकृतिराशु नैष गोप्ता वृषसेनासु सदा न वासुदेवः॥
विश्वास-प्रस्तुतिः
मधुना सविभव सन्तं मदनधनं यं वदन्ति शुभदिवसं तम् ।
नियतमिहैव वसन्तं निष्कामधियोपि निर्विशन्ति वसन्तम् ॥
मूलम्
मधुना सविभव सन्तं मदनधनं यं वदन्ति शुभदिवसं तम् ।
नियतमिहैव वसन्तं निष्कामधियोपि निर्विशन्ति वसन्तम् ॥
विश्वास-प्रस्तुतिः
काननं दधदसौ सदोन्नमत्काञ्चनारककुभं सदृक्षकः ।
मन्दरस्य महता स्ववर्ष्मणा कां च नार ककुभं सदृक्षकः॥
मूलम्
काननं दधदसौ सदोन्नमत्काञ्चनारककुभं सदृक्षकः ।
मन्दरस्य महता स्ववर्ष्मणा कां च नार ककुभं सदृक्षकः॥
विश्वास-प्रस्तुतिः
अनेहसा हानिरुपैति नेह सा न कंदरस्थस्य दिशत्यकं दरः।
अपास्य तां भीतिमसावुपास्यतां सता नवा भूमिरियं सदानवा ॥
मूलम्
अनेहसा हानिरुपैति नेह सा न कंदरस्थस्य दिशत्यकं दरः।
अपास्य तां भीतिमसावुपास्यतां सता नवा भूमिरियं सदानवा ॥
विश्वास-प्रस्तुतिः
समिन्धतेस्मिन् अजहत्समाधिकाः समाधिकातीतधियः स्थिराशया ।
स्थिराशयाश्च व्रतिनः सदारसाः सदारसाध्येषु तपस्स्ववस्थिताः ॥
मूलम्
समिन्धतेस्मिन् अजहत्समाधिकाः समाधिकातीतधियः स्थिराशया ।
स्थिराशयाश्च व्रतिनः सदारसाः सदारसाध्येषु तपस्स्ववस्थिताः ॥
विश्वास-प्रस्तुतिः
वसत्यमुष्मिन् वनदेवताद्भुता विभातिभास्वत्तिलकालिकानना ।
विचित्ररत्ना महती च मेखला विभाति भास्वत्तिलकालिकानना ॥
मूलम्
वसत्यमुष्मिन् वनदेवताद्भुता विभातिभास्वत्तिलकालिकानना ।
विचित्ररत्ना महती च मेखला विभाति भास्वत्तिलकालिकानना ॥
विश्वास-प्रस्तुतिः
तपस्विनामात्मविदां निवासैः समानभूमावसमानभूमा ।
इहाटवी काञ्चनकर्णिकारः परागताम्राप्यपरागताम्रा ॥
मूलम्
तपस्विनामात्मविदां निवासैः समानभूमावसमानभूमा ।
इहाटवी काञ्चनकर्णिकारः परागताम्राप्यपरागताम्रा ॥
विश्वास-प्रस्तुतिः
सरस्सु जातैर्नलिलैः सुजातैरपां तरङ्गैश्च सुधान्तरङ्गैः।
इहासमेतिव्रततौ समेति मरुत् तुषारः श्रमरुत्तुषारः ॥
मूलम्
सरस्सु जातैर्नलिलैः सुजातैरपां तरङ्गैश्च सुधान्तरङ्गैः।
इहासमेतिव्रततौ समेति मरुत् तुषारः श्रमरुत्तुषारः ॥
विश्वास-प्रस्तुतिः
यमभिप्लुतमम्बुधरैरभितः सरसा स रसा स रसासरसा ।
स्थरधर्म तया गिरिराद्रियते स मया समयासम या समया ॥
मूलम्
यमभिप्लुतमम्बुधरैरभितः सरसा स रसा स रसासरसा ।
स्थरधर्म तया गिरिराद्रियते स मया समयासम या समया ॥
विश्वास-प्रस्तुतिः
प्रणम तमिममचलम् अमरमहितमहितमहितमहित ।
भजनमलघु विफलमिह न सदयसदय सदय सदय ॥
मूलम्
प्रणम तमिममचलम् अमरमहितमहितमहितमहित ।
भजनमलघु विफलमिह न सदयसदय सदय सदय ॥
विश्वास-प्रस्तुतिः
रत्नोपसंघटितशृङ्गफणासहस्रः स्पारोदितस्फटिकरश्मिविशुद्धकायः।
नित्यं वहन् निजबलेन महीमहीनः पुष्यत्यसौ मधुरिपोरपि भोगयोगम् ॥
मूलम्
रत्नोपसंघटितशृङ्गफणासहस्रः स्पारोदितस्फटिकरश्मिविशुद्धकायः।
नित्यं वहन् निजबलेन महीमहीनः पुष्यत्यसौ मधुरिपोरपि भोगयोगम् ॥
मरुद्गणसमाश्रितो मघवरत्ननीलद्युति
र्विभाति वनमालया विततनित्यतुङ्गाकृतिः।
कनत्यभिगतः श्रिया कनकरश्मिपीताम्बरः
करोति विधृतिं भुवः कथमसौ न विश्वम्भरः ॥
मुहुरवधीरितोपि भजतीह युवा गणयन्
हितमतिभूरि तान वसुधे वनितां तरसा ।
सपदि विहाय मानमियमृच्थति तं प्रतिसं-
हित-मति-भूरिता नव-सुधेव नितान्त-रसा ॥
विश्वास-प्रस्तुतिः
इह मरुतो वहन्ति सुरसिन्धुसगन्धसरिद्विकसितहेमकोकनदसौरभसारभृतः।
मधुकरमौलिदघ्नमददन्तुरदन्तिघटाकरटकटाहवाहिघनशीकरशीभरिताः॥
मूलम्
इह मरुतो वहन्ति सुरसिन्धुसगन्धसरिद्विकसितहेमकोकनदसौरभसारभृतः।
मधुकरमौलिदघ्नमददन्तुरदन्तिघटाकरटकटाहवाहिघनशीकरशीभरिताः॥
मनः प्रियमिह प्रभो मधुरसादरं सादरं
विधत्स्व हविरर्पयन् व्रतशुभावनां भावनाम् ।
कुरुष्व च गुरुष्वघक्षपणदक्षिणां दक्षिणां
प्रयच्छति तवेप्सितं प्रणयपर्वतः पर्वतः॥
गिरिभजनोदितप्रियविकासमये समये
जनितनभःप्रचारजलपत्रिदशैस्त्रिदशैः।
सह यदि नः समेत हरिरप्रतिघप्रतिघः
प्रतिहतिमेतु दुष्टवधदोहलिना हलिना ॥
विश्वास-प्रस्तुतिः
प्रत्यक्षं गोत्रमासन्नं किमनादृत्य गोधनैः।
अदृश्यो गोत्रभित् कश्चित् गतः स्वर्गे गवेष्यते ॥
मूलम्
प्रत्यक्षं गोत्रमासन्नं किमनादृत्य गोधनैः।
अदृश्यो गोत्रभित् कश्चित् गतः स्वर्गे गवेष्यते ॥
विश्वास-प्रस्तुतिः
अहार्यो विविधैर्भोगैराकर्षन् विबुधानपि।
अपरिच्छिन्नमूलोसौ ससारः सर्वदुःखकृत् ॥
मूलम्
अहार्यो विविधैर्भोगैराकर्षन् विबुधानपि।
अपरिच्छिन्नमूलोसौ ससारः सर्वदुःखकृत् ॥
(बिन्दुमती)नन्द गोपप्रभो धर्मैर्व्रज वृद्धार्य सद्गतिम् ।
भज तामेव बुध्वाद्रिं तनु त्राणे रतिं गवाम् ॥
(प्रहेलिका)नानाफलवनालीके नालीकेद्धामितोदके।
तोदके च क्षुधामत्र धाम त्रस्तहितं विदुः॥
विश्वास-प्रस्तुतिः
सहसा सह सार्थैर्मा तरसेतरसेवनम् ।
तनु तात नुताद्वज्री नगतो न गतोर्च्यताम् ॥
मूलम्
सहसा सह सार्थैर्मा तरसेतरसेवनम् ।
तनु तात नुताद्वज्री नगतो न गतोर्च्यताम् ॥
विश्वास-प्रस्तुतिः
जुषतामिह धीः सूर्यसमा हि तव सुन्दरीम् ।
रक्षार्थमिह यक्षेण समाहितवसुं दरीम् ॥
मूलम्
जुषतामिह धीः सूर्यसमा हि तव सुन्दरीम् ।
रक्षार्थमिह यक्षेण समाहितवसुं दरीम् ॥
विश्वास-प्रस्तुतिः
सभाजनं वदाम्येतत् गव्यैः सरसभाजनम् ।
सभाजनं गिरेरर्थ्यं स्ववृत्त्युल्लास भाजनम् ॥
मूलम्
सभाजनं वदाम्येतत् गव्यैः सरसभाजनम् ।
सभाजनं गिरेरर्थ्यं स्ववृत्त्युल्लास भाजनम् ॥
विश्वास-प्रस्तुतिः
भवता भव तापघ्ने भाविते भावि तेजसा ।
सुतरा सुतरामस्मिन् सुरभीस्सुरभीस्वर ॥
मूलम्
भवता भव तापघ्ने भाविते भावि तेजसा ।
सुतरा सुतरामस्मिन् सुरभीस्सुरभीस्वर ॥
विश्वास-प्रस्तुतिः
बहुविद्भ्यः समग्राहि समग्रा हि मतिस्त्वया ।
अतान्यजनसंदिग्धे न संदिग्धे हिताहिते ॥
मूलम्
बहुविद्भ्यः समग्राहि समग्रा हि मतिस्त्वया ।
अतान्यजनसंदिग्धे न संदिग्धे हिताहिते ॥
विश्वास-प्रस्तुतिः
गोवर्धनप्रकाशिन्या गोवर्धनसमाख्यया ।
समक्षेपि गिरेरस्य समक्षेपि क्षमा स्तुतिः ॥
मूलम्
गोवर्धनप्रकाशिन्या गोवर्धनसमाख्यया ।
समक्षेपि गिरेरस्य समक्षेपि क्षमा स्तुतिः ॥
विश्वास-प्रस्तुतिः
वयं धेनुशतैः सार्धमत्रासंकटकान्वयाः ।
अन्वभूम निराबाधमत्रासं कटकान्वयाः ॥
मूलम्
वयं धेनुशतैः सार्धमत्रासंकटकान्वयाः ।
अन्वभूम निराबाधमत्रासं कटकान्वयाः ॥
विश्वास-प्रस्तुतिः
अनन्तमहिमा सोयं समस्तवसुधाधरः।
मौलिमण्डनमस्येन्दुः समस्तव सुधाधरः ॥
मूलम्
अनन्तमहिमा सोयं समस्तवसुधाधरः।
मौलिमण्डनमस्येन्दुः समस्तव सुधाधरः ॥
विश्वास-प्रस्तुतिः
तपोधनैरयं शैलो महाभाग महीयते ।
गोधनैरपि न त्वत्र महाभागम हीयते ॥
मूलम्
तपोधनैरयं शैलो महाभाग महीयते ।
गोधनैरपि न त्वत्र महाभागम हीयते ॥
विश्वास-प्रस्तुतिः
रोधोरोधोज्झितैरेतैरुत्सैस्त्सैकतैरसौ ।
महीमहीनां तनुते ग्रावाग्रावाप्ततारकः ॥
मूलम्
रोधोरोधोज्झितैरेतैरुत्सैस्त्सैकतैरसौ ।
महीमहीनां तनुते ग्रावाग्रावाप्ततारकः ॥
विश्वास-प्रस्तुतिः
धिषणातीत धिषणा लोकनीत्यास्तु लोकनी ।
सुधरेस्मिन् वसु धरे तात तेजस्विता तते ॥
मूलम्
धिषणातीत धिषणा लोकनीत्यास्तु लोकनी ।
सुधरेस्मिन् वसु धरे तात तेजस्विता तते ॥
विश्वास-प्रस्तुतिः
पादपादभ्रपर्यन्ता दीनादीनामसौ गतिः।
गोप गोपन योग्यास्मिन् कान्ता कान्तारभूरपि ॥
मूलम्
पादपादभ्रपर्यन्ता दीनादीनामसौ गतिः।
गोप गोपन योग्यास्मिन् कान्ता कान्तारभूरपि ॥
विश्वास-प्रस्तुतिः
इह पुष्पौघनिष्पन्नव्रजामोदे वने हिते ।
भृशमुत्सवसंतोषं व्रजामो देवनेहिते ॥
मूलम्
इह पुष्पौघनिष्पन्नव्रजामोदे वने हिते ।
भृशमुत्सवसंतोषं व्रजामो देवनेहिते ॥
विश्वास-प्रस्तुतिः
प्रयतस्व गिरेरस्य व्रजदेव सभाजने ।
स्वपुष्पकल्पे मा भक्तिं व्रज देव सभा जने ॥
मूलम्
प्रयतस्व गिरेरस्य व्रजदेव सभाजने ।
स्वपुष्पकल्पे मा भक्तिं व्रज देव सभा जने ॥
विश्वास-प्रस्तुतिः
देवस्थानमिवेन्धानं परायणमवारितम् ।
गोवर्धनमवेह्येनं नारायणमिवागतम् ॥
मूलम्
देवस्थानमिवेन्धानं परायणमवारितम् ।
गोवर्धनमवेह्येनं नारायणमिवागतम् ॥
(गौमूत्रिकाबन्धः)मोघाशो मघवान् देवः स्यादत्रत्यत्य सादने ।
मेघानामपि वा भावः सादमेत्यद्रिसादने ॥
(गौमूत्रिकाबन्धः)अचञ्चलाङ्गसत्ताकश्चलाचलघनाततः।
अचलः कस्य नाकल्पः साध्यानन्दस्य सिद्धिकृत् ॥
(त्रिस्थानचित्रम्)अगः सनग आसन्नः सालताललताततः।
सततं संहतघनः संगतानन्दसाधकः॥
(द्विस्खानचित्रम्)अहहाङ्ग खगङ्गाकगाहकाङ्गाङ्कगागकः।
अघाकागाङ्गकागाङ्कगाङ्गकागखगाङ्गकः॥
(एकस्थानचित्रम्)रजतगैरिकरत्नगणैरयं कनति कान्तलताञ्चितकाननः ।
त्रिजगदेकनिधानतयाधिकस्त्रिदशराजधराधरतल्लजात् ।
.।
(अनोष्ठ्यचित्रम्)सहेत पर्वतोयं वो गोप्तुं क्वचन कन्दरे ।
अदरिद्रा वसामोत्र सर्वहेतोरिवोदरे ॥
(गूढचतुर्थचित्रम्)घनाघना घनाघनाद्भुतेह शाखिसंततिः।
वनावनावनावनानुरूपसत्फलावृता ॥
विश्वास-प्रस्तुतिः
वृतेह भाति हेमभूर्नमेरुणा समन्ततः ।
प्रतीहि नैनमद्भुतं न मेरुणा समं ततः॥
मूलम्
वृतेह भाति हेमभूर्नमेरुणा समन्ततः ।
प्रतीहि नैनमद्भुतं न मेरुणा समं ततः॥
विश्वास-प्रस्तुतिः
इह प्रभूतवाहिनीवने वने वने वने ।
फलेन भूयते स्वयं नतेन तेन तेन ते॥
मूलम्
इह प्रभूतवाहिनीवने वने वने वने ।
फलेन भूयते स्वयं नतेन तेन तेन ते॥
विश्वास-प्रस्तुतिः
अहार्यमेतिचेतनासितासितानराज ते ।
अहार्यमेति चेतना सितासिता न राजते ॥
मूलम्
अहार्यमेतिचेतनासितासितानराज ते ।
अहार्यमेति चेतना सितासिता न राजते ॥
(अर्धयमकचित्रम्)समग्रगुणभूमासौ सानुमानागमानितः।
समाहितधीयां सेव्यः सानुमानागमानितः ॥
विश्वास-प्रस्तुतिः
याचले जरसानेता ताने सारजले चया।
कलिमानवसायामा माया सा वनमालिका ॥
मूलम्
याचले जरसानेता ताने सारजले चया।
कलिमानवसायामा माया सा वनमालिका ॥
(अनुलोमप्रतिलोमम्-गत
विश्वास-प्रस्तुतिः
प्रत्यागतपादचित्रम्)अभ्रान्तमतिशय्येह विराजिततमागमे।
निशामयालीनघनं सालौघमतिनन्दनम् ॥
मूलम्
प्रत्यागतपादचित्रम्)अभ्रान्तमतिशय्येह विराजिततमागमे।
निशामयालीनघनं सालौघमतिनन्दनम् ॥
विश्वास-प्रस्तुतिः
अभ्रान्तमति शय्येहविराजि ततमागमे।
निशामयालीनघनं सालौघमतिनन्दनम् ॥
मूलम्
अभ्रान्तमति शय्येहविराजि ततमागमे।
निशामयालीनघनं सालौघमतिनन्दनम् ॥
(एकक्रियान्वितश्लोकावृत्तिः)चारुचीरीरुचा रोची रुरुचारैरचर्चरुः।
चिरोच्चरोचिरचरो रुचिरो रुचिराचरः॥
(अदन्त्यद्व्यक्षरः)नीतिनेतृ(त्र)नतानन्त नितान्तोन्नततानतः।
तातेतोतनुतोनी(ती)तं न नुत्तैनोनुतान्ततः॥
(दन्त्यद्व्यक्षरः)सारससारसासारैः सूरोस्रसरुसारसैः।
रससूः सरसस्रंसैः सरःसाररसैरसौ ॥
(द्व्यक्षरः)धीर धीरधुराधारी धाराधरधरोघरे।
रोधोधरारोधरोधिधाराधारो धराधरः॥
(द्व्यक्षरः)भूभून्निभेभभानेनानेन भूनाभिनेनभ ।
भानुभानुभभाभिन्नं नुन्नं नूनं न नो नभः॥
(द्व्यक्षरः)तत्र तत्रातितारेत्र तारातीततरूत्तरे।
तरेत् तातारतीरेतातते त्रातरि ते रतिः॥
(द्व्यक्षरः)विततीतावृतिवृते वीतातीतावृतावृतौ ।
तातावातातिवृत्तेति वातोतीवाततेवति ॥
(द्व्यक्षरः)नुन्नैनसां निनंसूनां सानूनासनसानुना ।
सानसां नः ससेनानां सानेनासन्नसूः सनिः ॥
(द्व्यक्षरः)कल्लोलोल्लोलकीलाले केकाकलकलाकुले ।
कालिकाकलिलालोके काले काले किलैककुः॥
(द्व्यक्षरः)पतती पततोपेतः पतितोत्पतितातपः
पाता पीतोपतापोपि तपःपूतपते पितः॥
(द्व्यक्षरः)भूतभूते भूतभृतो भीतताभीतिभूतिभूः।
भातीतो भूभृतो भाभृद्भाता भाता तु भूतितः ॥
(द्व्यक्षरः)मरुमुर्मुरमर्मारिं मारमारेमरामरे।
रमारामे मुरारौ रुरामाममुरुमेरुमम् ॥
(द्व्यक्षरः)रवीरेरावरावारो वरवैरिविरावर ।
विवराराविविवरो वीर वव्रे वरैरुरुः॥
(द्व्यक्षरः)मानयानन्यनियमो मान्यमेनमनामयः।
यमिनां नाम नम्योयममेयो मौनमानिनाम् ॥
(अमूर्धन्यत्र्यक्षरः)निःसमानेन मानेन सुमनोमानसैः समः।
सोमसीमासमासन्नसानुमान् सानुमानसौ॥
(अमूर्धन्यत्र्यक्षरः)तातेतातीतितातीतः केकाका-कुककेकिकः।
पापोपपापपापापो नानानानान्ननान्ननीः॥
(प्रतिपादभिन्नैकाक्षरः)यये या याय योयोयः स सोसौ सास सासुसूः।
मम मामोममामाम गोगागोगागगोगगुः॥
(प्रतिपादभिन्नैकाक्षरः)रुरुरूरुरिरारोरं दूदादीं दददादिदः।
लालिलोलालिलीलालो हाहाहूहूहहेह हि ॥
(प्रतिपादभिन्नैकाक्षरः)नानानानानानानाना नानानानानानानाना।
नानानानानानानाना नानानानानानानाना॥
(एकाक्षरः)इति तत्त्वमतत्त्वं च यथावदवगाढया ।
अर्च्यानर्च्यौ धिया भिन्दन् गोधनान्यव गाढया ॥
विश्वास-प्रस्तुतिः
नयानयानयानया नयानयानयानया।
नयानयानयानया नयानयानयानया॥
मूलम्
नयानयानयानया नयानयानयानया।
नयानयानयानया नयानयानयानया॥
(द्व्यज्झल्श्लोकः)यानयानयानयान यानयानयानयान।
यानयानयानयान यानयानयानयान॥
(उक्तश्लोकप्रतिलोमगतिः)मायाभासा साभायामा यासूताया यातासूया ।
भातायायायायाताभा सा यायागे गेयायासा ॥
(सर्वतोभद्रम्)सेवा माननमावासे वासिताहिहितासिवा ।
माता पिता तापितामा नहिताततताहि न ॥
(सर्वतोभद्रम्)गेहा देववदेहागे हासताननतासहा।
देतानयायानतादेव नयात तयानव ॥
(सर्वतोभद्रम्)नदीसारसमेतात्र दीप्ता भासा नरावृता ।
साभानासौ माभिरामे रसा सौम्या सुमानस॥
(अर्धभ्रमकम्)वसुदा त्रसदानन्द धीसुदान्त मुदा नता ।
नानदा मुक्तिदा रम्या सनदात्र सदा रसा ॥
(मुरजबन्धः)सद्दैवेङ्कुरयातवैभवलताशोभ्युच्चनानागभे
भव्यङ्कर्म सदार्चितोद्भव नदीयादस्सनाथीकृते।
चित्राटव्यनुवाहिवातवलनश्रेयःप्रचेयोत्सवे
वेदोक्त्या समये भजेः शुचि गिरौ मेरुन्नतेस्मिन् ध्रुवे ॥
(चक्रबन्धः कविकाव्यनामोद्धारः)वासे नास्मिन् पूजादेवा वादे जातातोद्यारावा।
वाराद्याविर्भूताजीवा वाजीतात्रादीना सेवा ॥
(अष्टदलपद्मबन्धः)सानुमानयमतीततारकः सानुमानयमतीततारकः।
सानुमानय मतीत तारकः सानुमानयमतीततारकः॥
(महायमकम्)विराजमानादसमान भू-मा-विराज मानादसमानभूमा।
वि राजमानादसमानभू मा वि रा ज मानादस मा न भूमा॥
(महायमकम्)अक्लिष्टचित्रमिदमत्र मनागिवोक्तं
चित्रायुतानि सुवचानि पुनस्तथापि ।
कृत्यं विभोर्निगमनीयमनन्यभक्तैः
आराध्यतां हरिरसौ पृथिवीधरात्मा ॥
इति कथयति कृष्णो गोपवृद्धा निदध्युः
शरणमशरणानां शाद्वलश्यामलाङ्गम् ।
पुलकितवनमालं पुष्पकिञ्जल्कजालैः
पुरुषमचलशृङ्गे पुण्डरीकायताक्षम् ॥
शतमखमणिशैलः स्यादसौ देवतात्मा
शरदि समुदितं वा तोयकालस्य तोकम् ।
चिरपरिचितपूर्वं चेतसां किं न (नु) भाग्यं
न किमिदमिति चिन्तां न व्यतीयाय नन्दः॥
विश्वास-प्रस्तुतिः
आद्यं किमेतदधिदैवतमद्भुतानामाकालिकं फलमुतैकमिदं शुभानाम्।
एकीभवन्निधिरसौ किमभीप्सितानामित्यन्वभावि सविधोपगतैः स देवः॥
मूलम्
आद्यं किमेतदधिदैवतमद्भुतानामाकालिकं फलमुतैकमिदं शुभानाम्।
एकीभवन्निधिरसौ किमभीप्सितानामित्यन्वभावि सविधोपगतैः स देवः॥
विश्वास-प्रस्तुतिः
पीतांशुके पृथुलबाहुभुजान्तराले मेघाभिजन्मनि मिथः प्रतिबिम्बबुद्ध्या।
धन्यानि गोपनयनानि तदान्वभूवन् कृष्णे च तत्र च कियन्ति गतागतानि ॥
मूलम्
पीतांशुके पृथुलबाहुभुजान्तराले मेघाभिजन्मनि मिथः प्रतिबिम्बबुद्ध्या।
धन्यानि गोपनयनानि तदान्वभूवन् कृष्णे च तत्र च कियन्ति गतागतानि ॥