05

विश्वास-प्रस्तुतिः

ततः समानीतरसालपाकः संवीजयन् पाटलगन्धवाहैः।
निरूढमल्लीविभवो निदाघः सीरायुधं शौरिसखं सिषेवे ॥

मूलम्

अबिभ्रतीनां कुचकुम्भकक्ष्यामालिप्तकर्पूरहिमोदकानाम् ।
स सुभ्रुवां देहगुणेन यूनामासीत् वसन्तादपि माननीयः ॥

विहारयूना भजता स्वयं तत् व्रजाङ्गनाविभ्रमकिंकरत्वम् ।
नितान्तधन्याः स्वगुणैरभूवन् निर्विश्यमाना ऋतवः क्रमेण ॥

कृतावसेका इव कृष्णगीतैर्वनद्रुमा वर्धिततुङ्गशृङ्गाः ।
अयत्नलब्धानि गवां बभूवुः स्थायीनि वर्षातपवारणानि ॥

बभञ्ज वातः प्रबलो न वृक्षान् न तिग्मरश्मिः सलिलं तताप ।
ददाह वन्यां न च तत्र दावः संरक्षिता यत्र गवां स देवः॥

गावो महिष्यश्च गभीरनादाः संचारिताः शार्ङ्गभृता यथार्हम् ।
कलिन्दकन्यामवगाह्य काले घर्मापदा संपदमेव भेजुः ॥

गतेपि भूयिष्ठगुणे वसन्ते गोपाः सुखं चारितगोधनास्ते ।
कलिन्दजानूपसमीपभाजः कालं कठोरातपमत्यनैषुः ॥

वितेनिरे जङ्गमधामकल्पैरनोभिरध्यासितचत्वराणि ।
निदाघवर्षानुगुणानि गोपा स्थानानि गोवत्सगुणोचितानि ॥

अकालकाल्येन परेण पुंसा साम्यं गतानामिव वल्लवीनाम् ।
सुखाय सर्वे समया बभूवुः स्वैः स्वैरविच्छिन्नगुणैर्विशेषैः ॥

सुधाप्लवस्वैरसखीमभिख्यां वनाश्रिते वर्षति कृष्णनेघे ।
मध्यन्दिनेप्याददिरे विहारान् गावः प्रकामं गतघर्मतापाः ॥

तापापहन्तुः स्वपदाश्रितानां तत्तादृशा तस्य समीक्षणेन ।
न तस्य गोपाध्युषितस्य जज्ञे वनस्य वातातपवह्निपीडा ॥

प्रसाधिताः पाटलपुष्पजालैः प्रच्छायनिद्राशमितोपतापाः।
दिनावसानस्नपनेन शीता गोप्यः प्रियैर्निर्विविशुर्निशीथान् ॥

निदाघतैक्ष्ण्यादिह दुष्टसत्त्वाः क्षोभं गवां कुर्युरतिक्षुधार्ताः ।
इतीक्षमाणः सहजेन सार्धं व्यधत्त नाथो मृगयाविहारम् ॥

प्रसक्तगङ्गायमुनानुषक्तया भासा तयोराहितगाढमोहाः।
अयत्नलभ्योपगमास्तदासन् व्यालाः क्षणादर्भकवेधयोग्यः॥

अनुप्रयातैरिव देवमायामच्छेदनीयैरपि दिग्गजानाम् ।
वनं तदन्तर्गतसत्त्वजातं पाशैरवारुन्धत वत्सपालाः ॥

अनन्तलीलोचितभूमिकाप्तैपरावेदितान् वेदवनेचरेन्द्रैः ।
पथः समास्थाय गृहीतचापा गुप्तस्थितिं गोपसुता वितेनुः ॥

क्षणादनिर्धार्य निदानभेदं दत्तापहासैर्वनदेवताभिः ।
मृगायितं तत्र मृगेन्द्रमुख्यैः सिंहायितं गोकुलसारमेयैः ॥

परिस्फुरत्कृत्रिमसत्त्वजातैः प्रसारितैः श्यामपटैर्वनान्ते ।
स्वयं तिरोधाय तदर्हशब्दा गोपा मृगान् गूढचराश्चकर्षुः ॥

शतावरीदामनिबद्धमूर्ध्नः शार्ङ्गध्वनित्रासितसिंहयूथान् ।
अनीकनाथप्रमुखानकार्षीदग्रेसरान् व्याधतनूननन्तः ॥

विमुक्तपाशा मधुवैरिभृत्यैर्जिह्वालदुर्दर्शकरालवक्त्राः ।
निपेतुरन्योन्यविमुक्तरोषाः श्वानो वराहेषु निशातदंष्ट्राः ॥

संभृत्य गोपाः प्रसभं प्रयुक्तैः सत्त्वानि वन्यानि समग्रसत्त्वाः ।
गुहामुखाम्रेडिततीव्रघोषैः कोलाहलाराकुलयांबभूवुः ॥

अमृष्यतो मानुषसिंहनादं गिरीन्द्ररौधैरपि दुर्निरोधान् ।
बभ़ञ्ज दृप्तो बलभद्रसिंहः सिंहान् द्विपेन्द्रानिव दुर्निवारः ॥

गुञ्जाकलापप्रतिनद्धकेशैरागुल्फमालम्बितपिञ्छजालैः।
निषङ्गिभिश्चारुपृषत्कचापैर्गुप्तो बभौ गोपसुतैर्मुकुन्दः ॥

आक्रान्त्यकम्पेषु नगेषु धैर्यं शौर्यक्रमं श्वापदविक्रमेषु ।
अशिक्षयत् क्षेमविदात्मभृत्यान् विहारगोपो मृगयापदेशात् ॥

आदाय लूनानि मुकुन्दबाणैः शृङ्गाणि शीघ्रं वनकासराणाम् ।
शार्ङ्गप्रमाणानि शनैरकार्षुः तैरेव चारूणि धनूंषि बालाः॥

मनुष्यमांसस्पृहया सरोषं गुहान्तरादुत्पतितुं प्रवृत्तान् ।
शिलीमुखैः कीलितशैलकण्ठान् कृष्णस्तदा केसरिणश्चकार ॥

नवाहृतैर्नाथपरिष्क्रियार्हां गुञ्जास्रजं गोपकुमारवीराः।
विभिन्नवन्यद्विपकुम्भमुक्तैर्मुक्ताफलैरन्तरयांबभूवुः ॥

शराहतानां विपिने मृगाणामार्द्राहृतैश्चर्मभिरात्तहर्षाः ।
अकल्पयन् आस्तरणानि गोपाः संवेशयोग्यानि सहायिनीनाम् ॥

अभिन्नपार्श्वेष्ववकाशभेदात् भिन्नस्थतीन् भीतिमपोह्य वत्सान् ।
निरस्तसिंहेषु गुहागृहेषु न्यवीविशन् नाथनियोगभाजः ॥

अयातयामैरचिरप्रतापात् सुमृष्टपाकैरधिशल्यशृङ्गम् ।
मांसैर्मृगाणां मधुनावसिक्तैर्नन्दस्य भृत्या विपिने ननन्दुः ॥

निवेद्यमानान् वनदेवताभिः संगृह्य वन्यान् उपदाविशेषान् ।
समं सुहृद्भ्यः सहसा विभेजे रामानुरोधेन रमासहायः ॥

त्राणं सतां दुष्कृतिनां विनाशं तन्वन्नभीष्टं मृगयाच्छलेन ।
स्वच्छन्दचर्यानुगुणं गवां तच्चक्रे वनं शान्तमृगावशेषम् ॥

निसर्गकारुण्यतरङ्गवृत्त्या निर्वैरतां नैगमगोपदृष्ट्या ।
संप्रापिताः प्रापुरिवैकजात्यं केचिद्गवां केसरिदन्तिमुख्याः ॥

विधून्वता धूलिकदम्बरेणून् धाराकदम्बांकुरकारणेन ।
निन्युः श्रमं निर्झरबिन्दुभाजा नभस्वता नन्दसुतानुयाताः ॥

अमर्त्ययक्षेश्वरधामभाजोः आरामयोरेकमिवावतारम् ।
प्रशान्तघर्मातिशयं प्रभावात् बृन्दावनं नन्दसुतो वितेने ॥

दिशं समाक्रम्य करैरुदीचीं देवे रवौ दक्षिणतः प्रवृत्ते ।
निदाघक्लृप्त्या निगृहीतदेहां वृष्टिं पुनः स्रष्टुमियेष शौरिः ॥

अथाविरासीदपसारयन्ती तापं गवां चण्डकरप्रसूतम् ।
विचित्रसस्योदयमेचकाङ्क्षी मेघाविला माधवयोगवेला ॥

महीभृतः संभृततीर्थतोयारम्भोधरैराचरिताभिषेकाः।
प्रयुक्तविद्युद्वलयैः पुनस्तैः प्रायेण नीराजनमन्वभूवन् ॥

धौतावदातैः क्रकचच्छदानां पत्रैरविश्रान्तषडङ्घ्रिनादैः।
व्यदारयत् पुष्पशरः प्रतूर्णं मानग्रहं मानवतीजनानाम् ॥

पयोमुचा सेकवतां स्थलानां वीरुत्प्ररोहा विविधा बभूवुः ।
समीक्षितानां मधुसूदनेन श्रद्धादयाद्या इव सद्गुणौघाः॥

शितेन पञ्चेषुशरेण भिन्नात् वियोगिनीमानसतो विकीर्णाः ।
तदेन्द्रको(गो)पत्वमिवाधिजग्मुः शोणाः क्षितौ शोणितबिन्दुभेदाः ॥

मधुद्रुतेरुल्बणदन्तवीणा मेघानिले मेदुरबिन्दुजाले ।
प्रभूतकम्पाः प्रथयाम्बभूवुः शीतालुतां कण्टकिनः कदम्बाः ॥

शतह्रदाशस्त्रविलासदीप्ता धीरप्रणादा धृतचित्रचापा ।
कनद्बलाकाध्वजपङ्क्तिरासीत् कादम्बिनी कामचमूरपूर्वा ॥

मृदङ्गधीरस्तनितो विहायाः सौदामनीसंभृतचारुलास्यः।
बभौ नवानां प्रभवो रसानां रतिप्रियस्येव नटस्य रङ्गः ॥

अचिन्तितोपस्थितजीवनानामासेदुषामभ्यधिकां समृद्धिम् ।
तोयाशयानां परिवाहजन्या स्वगुप्तिरन्योपचयप्रदाभूत् ॥

गुहासु गोवर्धनसंभवासु प्रकामविस्तीर्णसमस्थलीषु ।
गुणाधिको विशवसृजा प्रवर्षे वासः समाधीयत वल्लवानाम् ॥

दरीषु गोप्यः प्रसमीक्ष्य कृष्णं दिशासु जीमूतगणं मयूर्यः ।
अग्रे पतीनामधिगीतिनादं वितेनिरे चारु विहारलास्यम् ॥

पयोदलक्ष्य(क्ष) प्रहिताग्रहस्तां कृष्णः स्वनेत्रे इव चन्द्रसूर्यौ ।
तिरोदधानां प्रतिरोद्धुमैच्छत् स्वैरी स्वलीलामिव वर्षवेलाम् (जातलीलाम्)॥

अथाञ्जनस्निग्धनभः प्रकाशाः क्षणत्विषां कल्पितलास्यभङ्गाः।
दिशामूखोल्लासनदृष्टदाक्ष्या दीनाम्बुवाहा दिवसा बभूवुः॥

अलक्ष्यतीव्रातपमन्तरिक्षं सितासितैरम्बुधरैश्चकाशे ।
विवेकमासादयतामिवादौ चित्तं वितर्कैरनिवर्तमानैः ॥

विहाय सद्यः कुटजार्जुनादीन् विप्लावितान् कालविपर्ययेण ।
पुनर्बबन्धुः प्रणयं द्विरेफाः कोशोपपन्नेषु कुशेशयेषु ॥

तरङ्गलोलाम्बुजतालवृन्ता बर्हातपत्रायितभृङ्गयूथाः।
विधूतहंसावलिचामरौघा नद्यः समातन्वत नाथसेवाम् ॥

तापानुबन्धप्रशमाय पुंसां शय्यार्थिना शार्ङ्गभृतोपहूता ।
पयोदमालाव्यपदेशदृश्या प्रायस्तिरोधीयत योगनिद्रा ॥

इतस्ततः प्राप्तशरद्विहारं गोपीसखं द्रष्टुमतीव हर्षात् ।
अशोभि नेत्रैरिव जृम्भमाणैः शीणैर्धरित्री शिखिनां कलापैः ॥

चराचरेष्वाहितजीवनानामनुज्झतां सत्पथमम्बुदानाम् ।
शुचित्वमन्तर्बहिरप्ययत्नादभ्यागतैर्हंसगणैः शशंसे ॥

संस्कारभेदैः कलमादिकानां क्रमेण लब्धोपचयस्थितीनाम् ।
धर्मं निजं साधयितुं क्षमाणां समुन्नतिः सन्नतिहेतुरासीत् ॥

विहारगोपस्य गुणान् गृणद्भिः क्षीबाशया गीतपदैरुदारैः
चकासुरासादि(शिरे सधि)तभक्तिभेदाः सामोपशाखा इव शालिगोप्यः॥

सामोपशाखा इव शालिगोप्यो चकासुरासादितभक्तिभेदाः ॥

विश्वास-प्रस्तुतिः

विकस्वरेन्द्रायुधबर्हदाम्नः श्यामीकृतं कृष्णघनस्य धाम्ना ।
शरत्प्रसङ्गेपि तदा तदासीत् बृन्दावनं बद्धमयूरलास्यम् ॥

समग्रबन्धूकरजःसमेतं स्मेरातसीमेचकमन्तरिक्षम् ।
पीताम्बरेण प्रभुणा तदानीमयत्नसंभूतमवाप साम्यम् ॥

समग्रसप्तच्छदरेणुकीर्णैः स्रोतोभिरुन्नीतमदप्रवाहः।
स्वकानने स्वैरजुषां गजानां गोवर्धनो यूथपतिर्बभूव ॥

अधोमुखैश्च प्रतिबिम्बरूपैरभ्युन्नतैरात्मभिरप्यशंसन् ।
त्रिविक्रमस्य स्थितमुन्नतं च पदद्वयं पाथसि रक्तपद्माः ॥

पङ्कक्षये प्राक्तनवर्तनीनां वक्रेतरा व्यक्तिरभूत् पृथिव्याम् ।
बहिर्मतप्रत्ययिनां व्यपोहे वेदोदितानामिव सत्क्रियाणाम् ॥

मदप्रभूतध्वनयो महोक्षा रोधोविभेदोल्बणतुङ्गशृङ्गाः

विश्वास-प्रस्तुतिः

दर्पस्य देहा इव योगसिद्धाः दन्तावलान् अन्तरयांबभूवुःसरोरुहां रक्तसितासितानां श्रिया बभौ शारदवासरश्रीः।
विहारभाजा गुणभेदयोगात् व्यक्तीकृता विश्वनृजेव माया ।

आरक्तकल्हारविलोचनश्रीः क्लान्ता भृशं केलगतिः स्खलन्ती।
उन्नालनालीकमधूपभोगात् मत्तेव मार्ता(र्त)ण्डसुता बभासे ॥

वलग्नलग्नोर्मिवलीविभङ्गां काले यथास्थानगृहीतकार्श्याम् ।
अरंस्त पश्यन् अनघोनुरूपां श्यामां सुदृष्टामपि सूर्यकन्याम् ॥

शोणाकृतिं कोकनदैरुदारैरिन्दीवरैराकलितात्मकान्तिम् ।
सिताम्बुजैः सूचितजाह्नवीतामेकामनेकामिव तामभुङ्क्त ॥

कुमुद्वतीं प्रेक्ष्य कलिन्दकन्यां तारापरिष्कारवतीं त्रियामाम्।
नभःस्थलीं च स्फुटहंसमालां नाथस्त्रिधाभूतममन्यतैकम् ॥

बन्धूकजालैः परिधानशोभामिन्दीवरैरप्रतिमामभिख्याम् ।
मुखश्रियं तामरसैर्मुरारेः संभृत्य लेभे शरदानुरूप्यम् ॥

पयोधराणां पलितंकरण्या दिवश्च तारुण्यमिवार्पयन्त्या ।
विचित्रभूम्ना शरदा स्वशक्तिं विख्यापयामास विहारगोपः॥

कुमुद्वतीकल्पितभृङ्गगीतः संदर्शयन् दर्पणमिन्दुबिम्बम् ।
सचामरश्चन्द्रिकया सिषेवे तमीश्वरं तत्र शरत्प्रदोषः।

सरोरुहां रक्तसितासितानां स्थानेषु भृङ्गध्वनिभिः प्रतेने ।
जिगीषतः पञ्चशरस्य विश्वं तूर्णं प्रवृत्तैरिव तूर्यघोषैः ॥

निर्मुक्तभोगीन्द्रनिभैः पयोदैर्नभःस्थली व्याप्ततनुर्बभासे ।
अनङ्गयोग्यैर्हरिनीलभूमिर्धौतप्रकीर्णैरिव चामरौघैः॥

विभाव्य बन्धूकविभातसंध्यां कालोचितं कल्पयितुं विहारम् ।
द्विजारुपाधिविनिसर्गशुद्धैरङ्गीकृतानाविलतीर्थतोयैः ॥

अनिन्दितां ग्लानिमिवोद्वहन्त्यो वितेनिरे मन्दतरान् प्रचारान् ।
वर्षानिशीथे दयितेन भुक्ताः श्रान्तिं प्रयाता इव शैवलिन्यः ॥

श्रिया समं भावितपद्मभूम्ना घनागमादुल्लसितः पयोधेः ।
रराज नीले रविरन्तरिक्षे मणीश्वरो माधववक्षसीव ॥

अवाप्य संकोचमतीव भूयः कालागमादुन्मिषतो नभस्तः ।
विभागमापुर्विदिशो दिशश्च प्रजाः प्रसन्नादिव विश्वधाम्नः ॥

समुद्यतस्तिग्मरुचो घनाब्देरुन्निद्रतां पूर्वमुपाजगाम ।
रथाङ्गपाणेरिव सिन्धुजन्मा सरोजिनी चारुसरोजलक्ष्या ॥

उत्सारयन् जीर्णसिलिन्ध्र(शिलीन्ध्र)जालं प्रयो मदैः पेचकिनां प्रसिञ्चन् ।
चकार सप्तच्छदरेणुजालैः कालो महीं कामविहारयोग्याम् ॥

कृतादयाः कृष्णवलाहकेन स्रोतोवहाः स्वैरविहारभाजः ।
त्रपामिव स्थानगतिप्रतीक्ष्याः स्वाभाविकीं स्वच्छदशामवापुः ॥

सुखावगाह्यैः सुदृशामतुष्यत् स्वादोत्तराः शौरिरपेतपङ्कैः ।
प्रसन्नशीतैरनघैः पयोभिः स्वभक्तचित्तैरिव यामुनीयैः ॥

अनुल्बणैरन्वहमूर्मिभेदैः संपन्नरेखाः सरितामधोधः ।
श्रियो दधुः पद्मवनावतारे सोपानतां सैकतसंनिवेशाः॥

प्रसादभाजा समयेन दत्तास्त्रैलोक्यलक्ष्म्यास्तरलस्वभावाः ।
पयोधरस्थानगता विरेजुर्हाराः प्रभूता इव हंसमालाः॥

जलातपत्यागसमागमाभ्यां प्राचीमवक्त्रां प्रकृतिं भजन्त्यः।
तदन्वयत्यागवशादवाप्तैः पङ्कैरमुच्यन्त शनैः पदव्यः ॥

स्थाने विनिद्राः स्थलपद्मकोशाः प्रायो गतिं पान्थजनस्य रोद्धुम् ।
अरुंतुदान् आमुमुचुः परागान् आश्यानपङ्केषु महापथेषु ॥

पतत्रलीलाहतपुष्करान्तैः पद्मालयानूपुरसौम्यनादैः ।
शुभैरभावि स्वपतस्त्रिधाम्नः प्रत्यूषतूर्यैरिव राजहंसैः ॥

कल्हारपिष्पादितकर्णपूरा वितीर्णबन्धूकविशेषकश्रीः ।
आमुक्तपद्मोत्पलरेणुरासीत् सैरन्ध्रिका कापि शरत् त्रिधाम्नः ॥

सरोजकोशान्मिषतः प्रभुग्नान् शालीन् विपाकानतपिञ्जराग्रान् ।
शुकांश्च तेष्वापततोनुमेने शौरिः सयूथ्यानिव शोणतुण्डान् ॥

स्ववेगसंछन्नगभीरभावं स्रोतस्विनीनामपहाय तोयम् ।
कालुष्यमायोधनकालयोगात् वीराङ्गनानां हृदयं विवेश ॥

नवप्ररूढैर्नसिनीपलाशैः शारिणि वेशन्तजलान्यवापुः ।
स्फुरत्कलङ्कस्य तुषारधाम्नश्छायाभिरन्याभिरिवाविशेषम् ॥

वर्षायसीनामपि पद्मिनीनां सौम्येन वर्षान्तरसायनेन ।
सामोदमन्दस्मितहार्यभृङ्गं युक्तं श्रिया यौवनमाविरासात्॥

शरद्विभूतिं कुमुदावदातां संवीतनीलाम्बरदर्शनीयाम् ।
अमंस्त निर्धूतघनप्रलम्बां मूर्तिं बलस्येव शुभां मुकुन्दः॥

निद्रायितेव प्रथमं पयोदैः प्रशान्तनिद्रेव शरत्प्रसादात् ।
जगत्त्रयी तद्व्रतिनीव भेजे जातोद्यमं जागरणे मुकुन्दम् ॥

निद्रापदेशेन जगद्विभूतिं विभावयन् नित्यविधूतनिद्रः ।
प्रबुद्यमानः स विभुः प्रजानां प्रादात् स्वधर्मानुगुणं प्रबोधम् ॥

अव्यासङ्गं जलधिशयनादुत्थितस्यात्मधाम्नः।
पत्युः पुण्यं प्रथमनयनस्पन्दितं प्राप्तुकामा ।

नित्यापुर्वश्रुतिपरिमलं न्यस्तलीलारविन्दा पादाम्भोजं सह वसुधया धारयामास पद्मा॥
विश्वास-प्रस्तुतिः

अनुचरितविधिज्ञैरादृतां पूर्वपूर्वैर्महद्दमनपायं मङ्गलं मन्यमानाः।
प्रचितविविधभोग्यां प्रारभन्त प्रतीतां वलमथनसपर्यां वल्लवा नन्दमुख्याः॥

वाहेषु गोषु द्विरदेषु चाग्र्यां तज्जन्यया जीविकयोपपन्नाः।
तदर्हसंभारवतीं सपर्या क्षिप्तापदं क्षेमविदो वितेनुः॥

आबालप्रेक्षणीयं प्रणतमनिमिषैरद्भुतानां प्रधानं
धूतत्रैलोक्यदोषं ध्वजममरपतेस्तूर्णमुत्थापयन्तः ।
घृष्टीनामर्चनाभिः स्तुतिगुणनिकया गीतनृत्तोपहारै
रुद्वेलप्रीतिलोला विदधुरविकलैरुत्सवं गोपवृद्धाः॥