04

विश्वास-प्रस्तुतिः

मनीषितं कैतवमानुषस्य श्रुत्वा भयक्रोधपरिप्लुतात्मा ।
कंसश्चिरं प्राग्भवकालनेमिः चिन्तार्णवे मग्न इवावतस्थे ॥

मूलम्

सदुर्दमानासुरसत्त्वभेदान्नेता समाहूय नृशंसचेताः ।
प्रस्थापयामास परैरधृष्यं नन्दास्पदं नाथविहारगुप्तम् ॥

कदिचिदन्तर्हितपूतनात्मा कंसप्रयुक्ता किल कापि माया ।
निद्रापराधीनजने निशीथे व्रजं यशोदाकृतिराविवेश ॥

स्तन्येन कृष्णः सह पूतनायाः प्राणान्पपौ लुप्तपुनर्भवायाः।
यदद्भुतं भावयतां जनानां स्तनंधयत्वं न पुनर्बभूव ॥

निशम्य तस्याः परुषं निनादं रूक्षं यशोदा रुदितं च सूनोः ।
ससंभ्रमावेगमुपेत्य भीता तमग्रहीद्दुर्ग्रहमागमानाम् ॥

नन्दश्च तीव्रेण भयेन सद्यः समेत्य पश्यन्ननघं कुमारम् ।
तेनैव तस्य त्रिजगन्नियन्तुः प्रायुङ्क्त रक्षां परमार्थवेदी ॥

गोपाश्च संभूय गुहोपमाक्षीं स्वघोषनिर्ह्रादितविश्वघोषाम् ।
गतासुमैक्षन्त निशाचरीं तां भीमाकृतिं भीमरथीमिवान्याम् ॥

परश्वधैस्तत्क्षणशातितैस्तां विच्छिद्य विन्ध्याचलसानुकल्पाम् ।
अनःप्रवृत्या बहिराशु निन्युः क्रव्याद्बलिं प्राज्यमिव क्षिपन्तः ॥

ग्रहादिदोषानपहन्तुकामा गोप्तुः सतां गोपतयः समेताः
सुवर्णसूत्रग्रथिताभिरामां पञ्चायुधीमाभरणं बबन्धुः ॥

विश्वास-प्रस्तुतिः

रम्याणि रत्नानि रथाङ्गपाणेराकल्पतां नूनमवाप्नुवन्ति ।
तदङ्गसंस्पर्शरसात्प्रकामं रोमाञ्चितान्यंशुगणैरभूवन् ॥

स शायिनः क्षेमविदाजनन्या पर्यङ्किकायां प्ररुदन्कुमारः ।
चिक्षेप तुङ्गं शकटं पदाभ्यां गाढाभिघातेन गिरीन्द्रसारम् ॥

विदारितस्तस्य पदाग्रयोगाद्विकीर्यमाणो बहुधा पृथिव्याम् ।
शब्दायमानः शकटाख्यदैत्यः संक्षोभयामाय जगन्त्यभीक्ष्णम् ॥

यदृच्छयोत्क्षिप्तपदे कुमारे शैलोपलक्ष्ये शकटे निरस्ते ।
सरोजगर्भोपमसौकुमार्यं पस्पर्श तत्पादतलं यशोदा ॥

अथाङ्गणे जानुपदाग्रहस्तैश्चक्रायुधे चङ्क्रमणप्रवृत्ते ।
प्रायो धरित्री परिषस्वजे तं सापत्रपा सान्द्ररजश्छलेन ॥

निर्व्याजमन्दस्मितदर्शनीयं नीराजितं कुण्डलरत्नभासा ।
नन्दस्तदानीं न जगाम तृप्तिं मुग्धाक्षरं प्रेक्ष्य मुखं तदीयम् ॥

विश्वानि विश्वाधिकशक्तिरेको नामानि रूपाणि च निर्मिमाणः ॥

नामैकदेशग्रहणेपि मातुर्बभूव कृण्णो बहुमानपात्रम् ॥

विश्वास-प्रस्तुतिः

तरङ्गितानुश्रवगन्धमादौ तस्याद्भुतं संलपितं सखीभिः।
वर्णस्वरादिव्यवसायभूम्ना शिक्षाविदां शिक्षणमग्र्यमासीत् ॥

तमीषदुत्थाय निलीनमारात्संप्रेक्ष्यदन्ताङ्कुरचारुहासम् ।
सनातनीं दृष्टिमनन्यदृष्टिः सानन्दमालोकत नन्दपत्नी ॥

पदैस्त्रिभिः क्रान्तजगत्त्रयं तं भव्याशया भावितबालभावम् ।
करेणसंगृह्य कराम्बुजाग्रं संचारयामास शनैर्यशोदा ॥

स्खलद्गतिं द्वित्रपदप्रचाराज्जानुक्रमे जातरुचिं कुमारम् ।
भुग्ने समावेश्य वलग्नभागे स्तन्यं मुदा पाययते स्म धन्या ॥

क्रमेण भूयोपि विहारकाङ्क्षी नन्दस्य दारैरभिनन्द्यमानः।
नित्यानुभूतं निगमान्तभृङ्गैर्निजं पदाब्जं निदधे पृथिव्याम् ॥

स संचरन्साधुजनप्रतीपैर्मा भुज्यतां सेयमितीव मत्वा ।
चक्रादिभिः पादसरोजचिह्नैरामुद्रयामास महीमनन्यैः ॥

आलम्ब्य मातुः करपल्लवाग्रं शनैः शनैः संचरतो मुरारेः ।
बभार चित्रामिव पत्ररेखां धन्या पदन्यासमयीं धरित्री ॥

अकर्मनिघ्नो भुवनान्यजस्रं संकल्पलेशेन नियम्य दीव्यन् ।
प्रचारितः प्रस्नुतया जनन्या पदे पदे विश्रममाचकाङ्क्ष ॥

सुरप्रसूनैः सुरभीकृतानामारोहणान्यङ्गणवेदिकानाम् ।
तमारुरुक्षुं तरलाङ्घ्रिपद्मं धातारमारोहयदाशु धात्री ॥

तलेषु तस्याङ्गणपादपानां तालानुकूलेषु गतागतेषु ।
व्रजस्थिताः स्वर्गसदामशृण्वन्दूरोदितान्दुन्दुभितूर्यनादान् ॥

य एष लोकत्रयसूत्रधारः पर्यायपात्राणि चराचराणि ।
आनर्तयत्यद्भुतचेष्टितोसौ ननर्त खेलं नवनीतकाङ्क्षी ॥

गृहेषु दध्नो मथनप्रवृत्तौ पृषत्कणैरुत्पतितैः प्रकीर्णः।
निदर्शयामास निजामवस्थां प्राचीं सुधाशीकरचोगचित्राम् ॥

त्रस्यन्मुकुन्दो नवनीतचौर्यान्निर्भुग्नगात्रो निभृतं शयानः।
निजानि निःशब्ददशां ययाचे बद्धा़ञ्जलिं बालविभूषणानि ॥

आरण्यकानां प्रभवः फलानामरण्यजातानि फलान्यभीप्सन् ।
विस्रंसिधान्याञ्जलिना करेण व्याधात्मजां विश्वपतिः सिषेवे ॥

सुजातरेखात्मकशङ्खचक्रं ताम्रोदरं तस्य करारविन्दम् ।
विलोकयन्त्याः फलविक्रयिण्या विक्रेतुमात्मानमभूद्विमर्शः ॥अपूरयत्स्वादुफलार्पणेन क्रीडाशिशोर्हस्तपुटं किराती ।

रत्नैस्तदा कौस्तुभनिर्विशेषैरापूरितं तत्फलभाण्डमासीत् ॥
विश्वास-प्रस्तुतिः

मुहुः प्रवृत्तं नवनीतचौर्ये वत्सान्विमुञ्चन्तमदोहकाले ।
उलूखले कुत्रचिदात्तपुण्ये बन्धुं सतां बन्धुमियेष माता ॥

आनीतमग्रे निजबन्धनार्थं दामाखिलं संहितमप्यपूर्णम् ।
निरीक्ष्य निर्विण्णधियो जनन्याः संकोचशक्त्या च बभूव बन्ध्यः ॥बद्धं तथा भावयतां मुकुन्दमयत्नविच्छेदिनि कर्मबन्धे ।

तपस्विनी तत्क्रतुनीतिराद्या सव्रीडमारण्यकथासु तस्थौ ॥उलूखलप्रग्रथितेन दाम्ना निबद्धमास्राविललोलनेत्रम् ।
सहासमैक्षन्त जनाः समन्तादालानितं नागमिवानभिज्ञाः ॥

अनादराकृष्टमुलूखलं तद्यावर्जुनौ शैलनिभौ बभञ्ज ।
बभूवतुर्ब्रह्मसुतस्य शापान्मुक्तौ मुनेर्यक्षवरौ तदा तौ ॥

शापावधिं ब्रह्मसुतेन दत्तं संप्राप्य तौ शौरिसमागमेन।
देहेन दिव्येन विदीप्यमानौ स्तुत्वा हरिं धाम समीयतुः स्वम् ॥

अदृष्टपूर्वं भुवि पूतनादेरुदन्तमुत्पातमुदीक्षमाणाः ।
समेत्य गोपाः सह माधवेन बृन्दावनं सत्वरमभ्यगच्छन् ॥

येनौषधीनामधिपं पुरस्तादाह्लादहेतुं जगतामकार्षीत् ।
तेनैव दध्यौ मनसा वनं तत्कृष्णो गवां क्षेमसमृद्धिमिच्छन् ॥

अनुग्रहाब्धेरिव वीचिभेदैराप्याययामास शुभैरपाङ्गैः ।
वनं पृथिव्या इव यौवनं तद्गोप्ता सतां गोधनवंशचन्द्रः ॥

आसीन्निषेव्या पृथिवी पशूनां पुण्ड्रेक्षुरम्याणि तृणान्यभूवन् ।
तस्मिन्नरण्ये तरुभिः प्रपेदे कल्पद्रुमाणामनुकल्पभावः॥

अदृष्टपूर्वैरधिकां विशेषैरालक्ष्य वन्याममरेन्द्रमान्याम् ।
नन्दोपनन्दप्रमुखैर्ननन्दे नाकाधिरूढैरिव नाथभूम्ना ॥

दैत्यैस्तृणावर्तमुखैरयत्नान्मुहुर्निरस्तैर्मुदितो मुकुन्दः।
अभुङ्क्त रामेण सहाद्भुतं तत्पुण्यं वनं पुण्यजनेन्द्रमान्यम् ॥

सपक्षकैलासनिभस्य गोपा बकस्य पक्षानभिता बबन्धुः ।
वने तदन्यानपि घोरवृत्तीन्क्षेप्तुं प्रवृत्ता इव केतुमालाः ॥

पुरस्कृतं मंगलगीतवाद्यैः पुंसः प्रसत्त्यै जगतां प्रसूतेः।
कयापि तत्र स्पृहयान्वतिष्ठन्कन्याव्रतं किंचन गोपकन्याः॥

निशात्ययस्नानसमुद्यतानां निक्षिप्तमाभीरकिशोरिकाणाम् ।
कूलादुपादाय दुकूलजालं कुन्दाधिरूढो मुमुदे मुकुन्दः॥

सचैकहस्तप्रणतिं विधून्वन्क्षौमार्थिनीनां हरिरङ्गनानां ।
अन्योन्यहस्तार्पणसंप्रवृत्तमासां जहासाञ्जलिमप्यपूर्वम् ॥

स चात्मचण्डातकमात्रभाजां क्षौमार्थिनीनां स्वयमर्थ्यमानैः।
अनन्यहस्तार्पणसंप्रवृत्तैस्तासां जहासाञ्जलिभिस्तदीयैः॥

प्रसुप्तमुद्बोधयता परत्वं वीरश्रियो विभ्रममण्डनेन ।
नीलादिनिर्वेशनिधानधाम्ना नाथो बभासे नवयौवनेन ॥

प्रसुप्तमुद्बैधयता परत्वं वीरश्रियो विभ्रममण्डनेन ।
नीलादिलुर्वेशनिधानधाम्ना नाथो बभासे नवयौवनेन ॥

विहारपर्वक्रमचारु शौरेः कल्यं वयः कामदृहीतियोग्यम् ।
मनोभिरास्वाद्यतमं प्रपेदे माधुर्यमिक्षोरिव मध्यभागः॥

स चात्मचणडातकमात्रभाजां क्षौमार्थिनीनां स्वयमर्थ्यमानैः।
अनन्यहस्तार्पणसंप्रवृत्तैस्तासां जहासाञ्जलिभूस्तदीयैः ॥

वंशस्वनो वत्सविहारपांसुः संध्यागमस्तस्य च वन्यवेषः।
आयाति कृष्णे व्रजसुन्दरीणामासीच्चतुःस्कन्धमनङ्गसैन्यम् ॥

समाश्रितां विभ्रमसैन्यभेदैः कान्त्या स्वया कल्पितचारुवप्राम्।
व्रजस्त्रियः कृष्णमयीं व्यजानन्क्रीडार्गलां क्षेमपुरीमपुर्वाम् ॥

अनुश्रवाणामवतंसभूतं बर्हावतंसेन विभूषयन्ती ।
अदिव्यया चर्मदृशैव गोपी समाधिभाजामभजत्समाधिम् ॥

कलापिना कल्पितमाल्यभावैः पत्रैस्तदा पत्रलदेहकान्तिम् ।
अवाप्य संचारितमालमाद्यं छायात्मतां प्रापुरिवास्य गावः॥

वितन्वता मान्मथमिन्द्रजालं पिञ्छेन तापिञ्छनिभो बभासे ।
अनेकरत्नप्रभवेन धाम्ना शारात्मना शैल इवैन्द्रनीलः ॥

मुहुः स्पृशन्ती मुमुदा यशोदा मुग्धाङ्गनामोहनवांशिकेन ।
मनीषिणां माङ्गलिकेन यूना मौलौ धृतां मण्डनबर्हमालाम् ॥

कृतास्पदा कृष्णभुजान्तराले प्रालम्बबर्हावलिराबभासे ।
विशुद्धहेमद्युतिरब्धिकन्या श्यामायमानेव तदङ्गकान्त्या ॥

साचीकृतानि प्रणयत्रपाभ्यां व्यावृत्तराजीवनिभानि शौरिः ।
सभ्रूविलासानि ददर्श तासां वक्त्राणि वाचालविलोचनानि ॥

निरङ्कुशस्नेहरसानुविद्धान्निष्पन्दमन्दालसनिर्मिमेषान् ।
वंेन कृष्णः प्रतिसंबभाषे वार्ताहरान्वामदृशां कटाक्षान् ॥

अशिक्षितं तुम्बुरुनारदाद्यैराभीरनाट्यं नवमास्थितेन ।
जगे सलीलं जगदेकधाम्ना रागाब्धिना रञ्जयतेव विश्वम् ॥

अपत्रपासैकतमास्थितानां रागोदधौ कृष्णमुखेन्दुनुन्ने ।
हस्तावलम्बो न बभूव तासामुत्पक्ष्मणामुत्कलिकाप्लुतानाम् ॥

अयन्त्रितस्वैरगतिः स तासां संभावितानां करपुष्करेण ।
प्रस्विन्नगण्डः प्रणयी चकाशे मध्ये वशानामिव वारणेन्द्रः ॥

विमोहने वल्लवगेहिनीनां न ब्रह्मचर्यं बिभिदे तदीयम् ।
संपत्स्यते बालकजीवनं तत्सत्येन येनैव सतां समक्षम् ॥

स्वसंभवं कृष्णमवेक्षमाणो बन्धुप्रसूतं च बलं व्रजेशः ।
निसर्गमैत्र्या नियतैकभावौ न्ययुङ्क्त तौ वत्यकुलानि गोप्तुम् ॥

अनन्यतन्त्रः स्वयमेव देवान्पद्मासनादीन्प्रजनय्य रक्षन् ।
स रक्षकः सीरभृता सहासीन्नेता गवां नन्दनियोगवर्ती ॥

कथं व्रजेच्छर्करिलान्प्रदेशान्पद्भ्यामसौ पल्लवकोमलाभ्याम् ।
इति स्नुतस्तन्यरसा यशोदा चिन्तार्णवे न प्लवमन्वविन्दत् ॥

विहारवित्रासितदुष्टसत्त्वौ मृगेन्द्रपोताविव धीरचेष्टौ ।
बभुवतुः शाश्वतिकेन भूम्ना बालौ युवानाविव तौ बलाढ्यौ ॥

सिन्दूरितौ वत्सपरागजालैः सितासितौ बालगजाविव द्वौ ।
उदारलीलावुपलक्ष्य गोप्यः सर्वास्तदानन्यवशा बभूवुः ॥

गोपायमाने पुरुषे परस्मिन्गोरूपतां वेदगिरो भजन्त्यः ।
भव्यैरसेवन्त पदं तदीयं स्तोभप्रतिच्छन्दनिभैः स्वशब्दैः ॥

अबालिशो बालिशवत्प्रजानां प्रख्यापयन्नात्मनि पारतन्त्र्यम् ।
न्यदर्शयद्विश्वपतिः पशूनां बन्धे च मोक्षे च निजं प्रभुत्वम् ॥

आत्मोपमर्देप्यनुमोदमानादात्माधिकं पालयतश्च वत्सान् ।
गावस्तदानीमनघामविन्दन्वात्सल्यशिक्षामिव वासुदेवात् ॥

योसावनन्तप्रमुखैरनन्तैर्निर्विश्यते नित्यमनन्तभूमा ।
वैमानिकानां प्रथमः स देवो वत्सैरलेलिह्यत वत्सलात्मा ॥

महीयसा मण्डितपाणिपद्मं दध्यन्नसारेण मधुप्लुतेन ।
दृष्ट्वा ननन्दुः क्षुधयान्वितास्तं वत्सानुचर्यासु वयस्यगोपाः॥

स्वादूनि वन्यानि फलानि तैस्तैः स्निग्धैरुपानीय निदर्शितानि ।
रामाय पूर्वं प्रतिपाद्य शेषैः स पिप्रिये सादरभुज्यमानैः ॥

ताभ्यां तदा नन्दनिदेशिताभ्यां रक्षावतीं रामजनार्दनाभ्याम् ।
विशेषभोग्यामभजद्विभूतिं बृन्दावनं व्यापृतधेनुबृन्दम् ॥

अगाधकासारमहीनशष्पमतीक्ष्णसूर्यं तदचण्डवातम् ।
प्रच्छायनिद्रायितधेनुवत्सं प्रौढे निदाघेपि बभूव भोग्यम् ॥

न व्याधिपीडा न च दैत्यशङ्का नासीद्गवां व्याघ्रभयं च तस्मिन् ।
स्वबाहुकल्पेन बलेन सार्धं नारायणे रक्षति नन्दलक्ष्मीम् ॥

निरीतयस्ते निरपायवाञ्छा निःश्रेयसादप्यधिकप्रमोदाः।
प्रपेदिरे पूर्वयुगानुभूतिँ गोपास्तदा गोप्तरि वासुदेवे ॥

वत्सानुचर्याचतुरस्य काले वंशस्वनैः श्रोत्रसुधां विधातुः।
गतागतप्राणदशामविन्दन्गोपीजनास्तस्य गतागतेषु ॥

आघ्रातवर्त्मानमरण्यभागेष्वारण्यकैराश्रितधेनुभावैः।
केनापि तस्यापहृतं किरीटं प्रत्याहरन्प्रैक्षत पत्रिनाथः॥

देवस्य दुग्धोदशयस्य दैत्याद्वैरोचनाद्व्यालभुजोपनीतः।
कृष्णस्य मौलौ कृतबर्हचूडे न्यस्तः किरीटो निबिडीबभूव ॥

समीहितैरग्निषु यायजूकैराधीयमानानि हवींषि भोक्ता ।
भक्तैकलभ्यो भगवान्कदाचित्पत्नीभिरानीतमभुङ्क्त भोज्यम् ॥

कराम्बुजस्पर्शनिमीलिताक्षानामर्शमैराकलितार्धनिद्रान् ।
वत्साननन्याभिमुखान्स मेने प्रह्वाकृतीन्भक्तिभरावनम्रान् ॥

रोमन्थफेनाञ्चितसृक्विभागैरस्पन्दनैरर्धनिमीलिताक्षैः।
अनादृतस्तन्यरसैर्मुकुन्दः कण्डूयितैर्निर्वृतिमाप वत्सैः॥

सिषेविरे शाद्वलितान्प्रदेशान्कृष्णस्य धाम्ना मणिमेचकेन ।
वसुन्धरायामपि केवसायां व्यापारयन्तो वदनानि वत्साः ॥

नवप्रसूताः स तदा वनान्ते पयस्वनीरप्रतिमानदोहाः।
परिभ्रमश्रान्तपदानदूरात्प्रत्यागतान्पाययते स्म वत्सान् ॥

निविश्य मूलेषु वनद्रुमाणां निद्रायितानां निजतर्णकानाम् ।
अङ्गानि गाः सादरमालिहन्तीरमंस्त संभाव्यगुणाः स्वमातुः॥

स नैचिकीः प्रत्यहमातपान्ते प्रत्युक्तघोषा इव वत्सनादैः ।
मधूनि वंशध्वनिभिः प्रयच्छन्निनाय भूयोपि निवासभूमिम् ॥

समाव्रजन्विश्वपतिर्व्रजान्तं गोभिः समं गोपविलासिनीनाम् ।
उल्लासहेतुः स बभुव दूरादुद्यन्विवस्वानिव पद्मिनीनाम् ॥

निवर्तयन्गोकुलमात्तवंशो मन्दायमाने दिवसे मुकुन्दः।
प्रियादृशां पारणया स्वकान्त्या बर्हावृतं व्यातनुतेव विश्वम् ॥

बालं तरुण्यस्तरुणं च बालास्तमन्वरज्यन्त समानभावाः ।
तदद्भुतं तस्य विलोभनं वा तस्यैव सर्वार्हरसात्मता वाअवेदिषातां पृथुकौ पितृभ्यां तारुण्यपूर्णौ तरुणीजनेन ।

वृद्धौ पुरावृत्तविशेषविद्भिः क्लृप्तेन्द्रजालाविव रामकृष्णौ ॥
विश्वास-प्रस्तुतिः

अथापदानं मदनस्य दातुमादातुमालोकयतां मनांसि ।
नवं वयो नाथसमं प्रपेदे गुणोत्तरं गोपकुमारिकाभिः ॥

अनङ्गसिन्धोरमृतप्रथिम्ना रसस्य दिव्येन रसायनेन ।
महीयसीं प्रीतिमवाप तासां योगी महान्यौवनसंभवेन ॥

विजृम्भमाणस्तनकुड्मलानां व्यक्तोन्मिषद्विभ्रमसौरभाणाम् ।
मधुव्रतत्वं मधुराकृतीनां लेभे लतानामिव वल्लवीनाम् ॥

अतिप्रसङ्गादवधीरयन्त्या प्राचीनया संयमितो नियत्या ।
पाञ्चालकन्यामिव पञ्चभुक्तां धर्मः सतीरादृत तादृशीस्ताः ॥

दिशागजानामिव शाक्कराणां शृङ्गाग्रनिर्भिन्नशिलोच्चयानाम् ।
स तादृशा बाहुबलेन कण्ठान्निपीड्य लेभे पणितेन नीलाम् ॥

करेण दम्भोलिकठोरतुङ्गान्देहान्पृथून्दानवदुर्वृषाणाम् ।
विमृद्य नूनं विदधे मुकुन्दः प्रियास्तनस्पर्शविहारयोग्याम् ॥

आत्मीयपर्यङ्कभुजङ्गकल्पावक्षेप्यरक्षापरिघौ पृथिव्याः।
नीलोपधानीकरणात्स मेने भूयिष्ठधन्यौ भुजपारिजातौ ॥

रागादिरोगप्रतिकारभूतं रसायनं सर्वदशानुभाव्यम् ।
आसादनुध्येयतमं मुनीनां दिव्यस्य पुंसो दयितोपभागः ॥

अनुद्रुता नूनमनङ्गबाणैः सुलोचना लोचनभागधेयम् ।
प्रत्यग्रहीषुः प्रतिसंनिवृत्तं त्यक्तेतरैरक्षिभिरात्मना च ॥

व्रजोपकण्ठे विबुधानुभाव्यो गोपीजनैरात्मगुणावदातैः।
समावृतो नन्दसुतश्चकाशे तारागणैरिन्दुरिवान्तरिक्षे ॥

हत्वा सयूथं तृणराजषण्डे रामाच्युतौ रासभदैत्यमुग्रम् ।
अतोषयेतां भृशमात्मभृत्यान्स्वाद्यैः सुधापिण्डनिभैः फलौघैः ॥

कदाचिदासादितगोपवेषः क्रीडाकुले गोपकुमारबृन्दे ।
स्कन्धेन संगृह्य बलं बलीयान्दैत्यः प्रलम्बो दिवमुत्पपात ॥

पपात भूमौ सहसा स दैत्यस्तन्मुष्टिना ताडितशीर्णमौलिः।
महेन्द्रहस्तप्रहितेन पूर्वं वज्रेण निर्भिन्न इवाचलेन्द्रः ॥

स्ववाससा क्लृप्तकलङ्कलक्ष्मीः कान्त्या दिशश्चन्द्रिकयेव लिम्पन् ।
रराज रामो दनुजे निरस्ते स्वर्भानुना मुक्त इवोडुराजः॥

विनैव रामेण विभुः कदाचित्संचारयन्धेनुगणं सवत्सम् ।
वनश्रिया दूरविलोभिताक्षः कंचिद्ययौ कच्छमदृष्टपूर्वम् ॥

यदृच्छया चारितधेनुचक्रः कूलान्तिके विश्वजनानुकूलः।
कलिन्दजां कालियपन्नकस्य क्ष्वेसोद्गमैः कज्जलितां ददर्श ॥

विषाग्निना मुर्मुरितप्रताने वैरोचनीतीरवनावकाशे ।
अहीन्द्रमास्कन्दितुमध्यरुक्षत्काष्ठाकृतिं कंचन नीपवृक्षम् ॥

मधुद्रवारुल्बणहर्षबाष्पारोमाञ्चिता केसरजालकेन ।
पत्राङ्कुरैश्चित्रतनुश्चकाशे कृष्णाश्रिता शुष्ककदम्बशाखा ॥

निपत्य संक्षिप्तपयोधिकल्पे महाह्रदे मन्दरपोतरम्यः।
विषव्यपोहादमृतं विधातुं स्वादूदयं क्षोभयति स्म सिन्धुम् ॥

कृताहतिः कृष्णनिपातवेगादानद्धरूपा विततैस्तरङ्गैः।
सर्पापसारौषधिसंप्रयुक्ता भेरीव सा भीमतरं ररास ॥

प्रसक्तकृष्णद्युतिभिस्तदीयैः पृषत्कणैरुत्पतितैः प्रतूर्णम् ।
अदृश्यताद्योतितमन्तरिक्षं पीतान्धकारैरिव तारकौघैः ॥

उदग्रसंरम्भमुदीक्ष्य भीतास्तार्क्ष्यध्वजं तार्क्ष्यमिवापतन्तम् ।
प्रपेदिरे सागरमाश्रितौघाः काकोदराः कालियमात्रशेषाः॥

अथाम्भसः कालियनागमुग्रं व्यात्ताननं मृत्युमिवोज्जिहानम् ।
भोगेन बध्नन्तमपोह्य शौरिः प्रह्वीकृतं तत्फणमारुरोह ॥

सद्यो महानीलमयीं मुकुन्दः सपद्मरागामिव पादपीठीम् ।
क्रामन्फणां कालियपन्नगस्य ग्रस्तोदितो भानुरिवावभासे ॥

फणामणीनां प्रभयोपरक्ते खेलन्प्रभौ चक्रिणि चक्रपाणिः ।
प्रदोषसिन्दूरितमम्बुवाहं प्राचेतसो नाग इवोपमृद्गन् ॥

प्रणेमुषां प्राणभृतामुदीर्णं मनो विनेष्यन्विषमाक्षवक्त्रम् ।
अकल्पयत्पन्नगमर्दनेन प्रायेण योग्यां पतगेन्द्रवाहः ॥

तद्भोगबृन्दे युगपन्मुकुन्दश्चारीविशेषेण समैक्षि नृत्यन् ।
पर्याकुले वीचिगणे पयोधेः संक्रान्तबिम्बो बहुधेव चन्द्रः ॥

तदुत्तमाङ्गं परिकल्प्य रङ्गं तरङ्गनिष्पन्नमृदङ्गनादम् ।
प्रशस्यमानस्त्रिदशैरकार्षीदव्याहतामारभटीमनन्तः॥

एकेन हस्तेन निपीड्य वालं पादेन चैकेन फणामुदग्राम् ।
हरिस्तदा हन्तुमियेष नागं स एव संसारमिवाश्रितानाम् ॥

स पन्नगीनां प्रणिपातभाजां द्रवीभवन्दीनविलापभेदैः।
प्रसादितः प्रादित भर्तृभिक्षां किमस्य नः स्यादपदं दयायाः ॥

लोलापतच्चरणलीलाहतिक्षरितहालाहले निजफणे
नृत्यन्तमप्रतिघकृत्यं तमप्रतिममत्यन्तचारुवपुषम् ।
देवादिभिः समयसेवादरत्वरितहेवाकघोषमुखरै
र्दृष्टावधानमथ तुष्टाव शौरिमहिरिष्टावरोधसहितः ॥

विश्वास-प्रस्तुतिः

हरिचरणसरोजन्यासधन्योत्तमाङ्गः शमितगरुडभीतिः सानुबन्धः स नागः।
युगविरतिदशायां योगनिद्रानुरूपां शरणमशरणः सन्प्राप शय्यां तदीयाम् ॥

विविधमुनिगणोपजीव्यतीर्था विगमितसर्पगणा परेण पुंसा ।
अभजत यमुना विशुद्धिमग्र्यां शमितबहिर्मतसंप्लवा त्रयीव ॥

अवधूतभुजङ्गसङ्गदोषा हरिणा सूर्यसुता पवित्रिता च ।
अपि तत्पदजन्मनः सपत्न्या बहुमन्तव्यतरा भृशं बभूव ॥