03

विश्वास-प्रस्तुतिः

अथ जगन्ति बभूवुरनाविलान्यतिमिरा हरितः प्रचकाशिरे।
अभजदेव निशा दिवसश्रियं जननभाजिनि देवदिवाकरे ॥

मूलम्

ननृतुरप्सरसो दिवि नन्दिताः किमपि गीतमगीयत किन्नरैः ।
श्रुतिसुखैः समतोषयत स्वनैरमरदुन्दुभिरानकदुन्दुभिम् ॥

दशसु तत्र दिशास्वशरीरिणी जयजयेति बभूव सरस्वती ।
अजितमेकमगोचरयत् स्वयं स्वरसवृत्तिरसावसुरान्तकम् ॥

अनतिवेलसमीरणचोदितैः शिशिरशीकरशीभरिताम्बरैः।
जलधरैरभितो दिवि दध्वने सुरगजैरिव सूचितमङ्गलैः ॥

ववुरथो मरुतस्त्रिदशाङ्गनावदनसौरभसारभृतः शुभाः ।
मुदितनिर्जरमुक्तसुरद्रुमप्रसववृष्टिमधुद्रवमेदुराः ॥

मधुरिपोरवतारमहोत्सवे मुमुदिरे मधुरापुरदेवताः।
यदभिगन्तरि भक्तजने वरं ददुरशेषमतन्द्रितचेतसः॥

अवदधीनधियो मुनयस्तदा यदनधीतमधीतवदञ्जसा।
निगमजातमशेषमवेक्ष्य तन्निरविशन्निव मुक्तिमयीं दशाम् ॥

प्रसदनं शरदागमसंभवं नभसि मासि मदीभिरुपाददे ।
महितयोगविदां मतिभिः समं श्रुतिभिरग्यनुपप्लवनीतिभिः ॥

निखिलचेतनमानसनिःसृताः कलुषताः समुदे (पे) त्य किल क्षणात्।
विविशुरम्भ इव स्वयमापगाः जलनिधेरिव भोजपतेर्मनः ॥

असुरवीरगृहाणि पृथग्विधैरशुभशंसिभिरानशिरे मुहुः।
अमरराजपुरेषु जजृम्भिरे शुभनिमित्तशतानि पुनः पुनः ॥

चरमतश्च ऋणादिव देवकीपतिरमुच्यत शृङ्खलतः स्थिरात् ।
निखिलबन्धनिवर्तकसंनिधौ विगलनं निगलस्य किमद्भुतम् ॥

उदितमात्मनि देवकसंभवा दनुजभेदनमङ्कगतं दधौ ।
कमपि काञ्चनभूभृदधित्यका हरिहयोपलशृङ्गमिवाद्भुतम् ॥

विधृतशङ्खरथाङ्गगदाम्बुजः शबलितः शुभया वनमालया ।
पितुरसूत मुदं पृथुकस्तदा जलधिडिम्भनिभो जननीधृतः ॥

पितरमब्जभुवामनपायिनं प्रियतमाङ्कगतं परिपश्यता ।
स विभुरानकदुन्दुभिना महान् अवितथैः स्वगुणैरभितुष्टुवे ॥

प्रणिपतामि भवन्तमनन्यधीरखिलकारणमाश्रिततारणम् ।
अनुगमादनिदम्प्रथमा गिरः किमपि यत्पदमेकमधीयते ॥

विषमकर्मविपाकपरम्पराविवशवृत्तिषु देहिषु दुस्तरम्।
करुणया तव देव कटाक्षिताः कतिचिदेव तरन्ति भवार्णवम् ॥

त्वदनुभावमहोदधिशीकरैरवशपातिभिराहितशक्तयः।
अवधिभेदवतीमुपभुञ्जते स्वपदसंपदमब्जभवादयः ॥

श्रुतिकिरीटशुभाश्रयविग्रहः परमसत्त्वनिधिः प्रतिपद्यसे ।
जगदनुग्रहमारुतचोदितो विविधरूपतरङ्गविकल्पनाम् ॥

त्वयि न देव यदायतते न तज्जगति जङ्गममन्यदथापि वा ।
इति महिम्नि तव प्रमिते परं विभजने विविधैः स्थितमागमैः॥

अखिललोकपितुस्तव पुत्रतामहमयाचमनन्यमनोरथः ।
वरद वाञ्छितदानधृतव्रते त्वयि तदेवमयत्नमपच्यत ॥

अवनिभारनिराकरणार्थिनां क्रतुभुजामभिलाषमवन्ध्ययन् ।
जितरिपूणि बहूनि दयानिधे विहरणानि विधातुमिहार्हसि ॥

दनुजमोहनदोहलिना त्वया सहजलाञ्छनसंवरणं क्षमम् ।
तदधुना शमयन्मम साध्वसं यवमिकामधिगच्छ यथेप्सितम्॥

इति स भीतमवेक्ष्य दयानिधिः स्मितमुखो वसुदेवमभाषत।
त्वमसि मे जनकः किमिहान्यथा किमपि तात मुधा कथितं त्वया ॥

इयममर्त्यपितुस्तव गेहिनी दिविषदां जननी मम चानघा ।
अभिमतं युवयोरनवग्रहं समयभावि मयैव समर्थ्यते ॥

यदि बिभेषि भजामि मनुष्यतामथ च मां नय नन्दगृहं क्षणात् ।
दुहितरं च समानय तस्य तां गतभयो भव दूरगते मयि ॥

अथ निशम्य नियोगमभङ्गुरं मधुजितो मधुराक्षरमन्थरम् ।
हितमिदं प्रतिपद्य तमाददे गुरुतरं कृपया लघुतां गतम् ॥

श्रुतिसुगन्धितदाननचन्द्रिका मुषितमोहतमा मुनिसंनिभः ।
अधिजगाम स तन्मयतां क्षणादनिमिषत्वमुत प्रतिसंदधे ॥

तुहिनभानुदिनाकरलोचनं निगमनिःश्वसितं स्वसुतस्य तत् ।
अनुबभूव मुहुर्मुहुरादरादनघमाननमानकदुन्दुभिः ॥

जिगमिषुः स दिशो दश यादवः सकृदवैक्षत साध्वसविह्वलः ।
अनघवैभवमर्भकमुद्वहन्नमितगुप्तिनिरुद्धगतौ गृहे ॥

विजघटे सहसैव कवाटिका व्रजमथ व्रजतो यदुभूभृतः ।
उपकल्पमशेरत रक्षकाः सरणिमादिदिशुर्गृहदेवताः ॥

क्षरदसूनिव यामिकरक्षकान्मुषितमञ्जुगिरः शुकशारिकाः ।
यदुकुलेन्दुरपश्यदमीलितान्परिजनानपि चित्रगतानिव ॥

उपयतो विशिखां सदनान्तरात्कुवलयाभकुमारतनुत्विषा ।
शतमखोपलमेचकया द्रुतं शमितसंतमसा हरितो बभुः ॥

श्रुतिमयो विहगः परितः प्रभुं
व्यचरद् आशु विधूत-निशाचरः ।
अनुजगाम च भू-धर-पन्नगः
स्फुट-फणा-मणि-दीप-गणोद्वहः +++(मार्ग-प्रकाशनाय, छत्त्र-वृत्त्यै च)+++॥

मूलम्

श्रुतिमयो विहगः परितः प्रभुं व्यचरदाशु विधूतनिशाचरः ।
अनुजगाम च भूधरपन्नगः स्फुटफणामणिदीपगणोद्वहः ॥

विश्वास-प्रस्तुतिः

दिनकरोपमदीधितिभिस्तदा दनुजदेहविदारणदारुणैः।
परिगतः किल पञ्चभिरायुधैर्यदुपतिः प्रजहावसहायताम् ॥

प्रगुणमिन्दुनिवेदितपद्धतिर्यदुकुलेन्दुरथो यमुनानदीम् ।
परमपूरुषमक्षतपौरुषः पतगराज इवाशु वहन्ययौ ॥

तनुतरङ्गपृषत्कणशीतलः सुरभिकैरवसौहृदवासितः।
अभिसमेतमसेवत मारुतो यमुनया प्रहितो यदुपुंगवम्॥

पवनकम्पितपल्लवपाणिका प्रहितपुष्पभरा पदवीमुखे ।
उपजुहाव किल भ्रमरस्वनैर्यदुपतिं यमुनोपवनस्थली ॥

निमिषितासितनीरजलोचना मुकुलिताब्जमुखी सवितुः सुता ।
ललितदीनरथाङ्गयुगस्वना कुहकदैन्यमशोचदिव प्रभोः ॥

विकचकैरवतारकिताकृतिं तनुमतीमिव शारदयामिनीम् ।
त्वरितमम्बुनिधेरभिसारिकां तरितुमैहत सत्यसमीहितः॥

भवति किं नु भविष्यति वा किमित्यनवधरितशौरिविहारया ।
चकितयेव विरोचनकन्यया विधुतवीचिकरं किल विव्यथे ॥

घनतमःपरिपाकमलीमसैर्गुरुभिरूर्मिगणैरनुपप्लुतः ।
अतिततार दिनाधिपतेः सुतामनघयोगमना इव संसृतिम् ॥

यदुपतेर्यमुना त्वरितं यतः प्रतियतश्च समर्पितपद्धतिः।
स्वयममर्त्यमदावलमज्जनी चरणलङ्घ्यजला समजायत ॥

अजनि पश्चिमतो भृशमुन्नता रविसुता पुरतः स्थलशेषिता ।
अधिरुरोह पदं किमसौ हरेः प्रतिययौ यदि वा पितरं गिरिम् ॥

अकृतसेतुमनाकलितप्लवां जननसिन्धुदृढप्लवमुद्वहन् ।
रविसुतामतिलङ्घ्य रमापतिं सपदि घोषसमीपमुपानयत् ॥

अथ कयाचन कारणनिद्रया विवशसुप्तजनं व्रजमाविशत् ।
धनदपत्तनसंपदि यत्र सा स्वसितमग्र्यमसूयत रोहिणी ॥

उपगते वसुदेवसुतेन्तिकं नरकवैरिणि नन्दकुटुम्बिनी ।
अरणिसंभवपावकसंगमादभजताध्वरवेदिरिव श्रियम् ॥

न्यधित नन्दवधूसविधे सुतं द्रुतमुपादित गोपकुमारिकाम् ।
अथ निनाय च देवकनन्दनीशयनमानकदुन्दुभिराशु ताम् ॥

अनवबुद्धजनार्दनकन्यकाविनिमयस्त्वथ भोजगणेश्वरः ।
दृषदि तामभिहन्तुमपातयत्प्रतिजघान च सा चरणेन तम् ॥

नृपतिराशु पदा निहतस्तया निपतितोदितकन्तुकवद्भवन् ।
दवसमावृतशैलनिभः क्रुधा दरनिमीलितदृष्टिरदूयत ॥

उदपतद्दिवमुग्रघनस्वना युवतिरूपयुगात्ययशर्वरी ।
असुरघातिभिरष्टभिरायुधैरलघुभिश्चपलाभिरिवाश्रिता ॥

अथ च भोजनियन्तुरयन्त्रिता दनुजहन्तुरुदन्तमुदैरिरत् ।
पटुगभीरमुदारमनाकुलं हितमविस्तरमर्थ्यमविप्लवम् ॥

अहमशेषसुरासुरमोहनी यवनिका मधुकैटभमर्दिनः ।
प्रबलशुम्भनिशुम्भनिषूदने प्रणिहिता हतया तव किं मया ॥

वसति नन्दगृहे विबुधद्विषां दमयिता वसुदेवसमुद्भवः ।
अयमसौ तव नाशयितेति सा दरमुदीर्य जगाम यथेप्सितम् ॥

मधुहिरण्यनिभो मधुरापतिर्दिनहुताशनदीनदशां गतः ।
श्वसितजल्पितवेपितहुंकृतैररतिमायतभीतिरसूचयत् ॥

जडमतिः स जनार्दनमायया विहसितस्त्रपया जनितव्यथः ।
अपकृतं वसुद्वममोचयद्दयितया सह दीनविलापया ॥

किमपि चिन्तितमागतमन्यथा किमिदमित्यवशादुपजातया।
विषविदूषितयेव मनीषया मुहुरदूयत मोहविचेष्टितः ॥

अविषये विपदामसुरान्तके पुनरियेष निकारपरम्पराम् ।
नियतिरेकमुखी दुरतिक्रमा कृतधिया किमुतानिलचेतसा ॥

परिबभूव चुकोप विसिष्मिये परिजहास हरिं प्रजगर्ज च ।
परिणतेन भवान्तरवासनाग्रहगुणेन भजन्भवितव्यताम् ॥

क्वचन धामनि कंसनिवेदिते सभयमानकदुन्दुभिरावसत् ।
स्मृतिगतेन सुतेन सजीविता दिनशतानि निनाय च देवकी ॥

विगतकन्यकया च यशोदया नियतिसंभृतनिर्भरनिद्रया ।
चिरसमागतजागरयान्तिके हरिरपत्यमदृश्यत धन्यया ॥

यदवबुद्धनिराकुलनीतिभिर्मुनिगणैरधुनापि विमृग्यते ।
तदिदमागममौलिविभूषणं विधिवशादभवद्व्रजभूषणम् ॥

अनघवत्समनाकुलधेनुकं प्रचुरदुग्धमचोरभयोद्भवम् ।
व्रजमनामयविश्वजनं विभुः कृतयुगास्पदकल्पमकल्पयत् ॥

अजनि गोपगृहेषु मनोरमैरमितकान्तिभिरप्सरसां गणैः ।
यदनुभूतिरसेन समेष्यतः शरणयादवशैशवयौवने ॥

सुरमहीसुरतोषणमादरान्नवमुपादित नन्द उदारधीः ।
तरलगोपगणागमसंकुलं तनयजन्ममहोत्सवमद्भुतम् ॥

अधिचकार वदान्यमणेः श्रियं व्यधित कल्पतरोरनुकल्पताम् ।
अजनयच्च सुतप्रसवोत्सवे महति मेघविकत्थनमोघताम् ॥

निधिमनन्तमिव स्वयमुत्थितं निरवधिं निजभागमिवोदितम् ।
व्रजभुवः प्रतिलभ्य रमापतिं जहसुरैन्द्रमसारतरं पदम् ॥

पुत्रं प्रसूय तपसा पुरुषं पुराणं कालं चिरं विधिवशात्कृतविप्रकर्षौ ।
शङ्काकलङ्कितधियावपि दम्पती तौ तद्वैभवस्मरणशान्तरुजावभूताम् ॥

नन्दसद्मनि नवेम्दुसंनिभौ वासमेत्य वसुदेवनन्दनौ ।
वृद्धिमापतुरनेहसा स्वयं स्वादुभोगजननीं सुपर्वणाम् ॥