02

विश्वास-प्रस्तुतिः

€अथागमानामनघेन भूम्ना धर्मस्य पूर्णेन धनागमेन।
दिवौकसां दर्शयता विभूतिं देवी बभौ दौहृदलक्षणेन ॥

मूलम्

शृङ्गारवीराद्बुतचित्ररूपं गर्भे त्रिलोकैकनिधिं वहन्त्याः।
परावरक्रीडितकर्बुराणि द्वेधाभवन् दौहृतलक्षणानि ॥

अशेषवेदैरधिगम्य भूम्ना सिद्धेन सिद्धैश्च निषेवितेन ।
अमानुषी नूनमभूदयत्नात् कृष्णेन केनापि रसायनेन ॥

शतह्रदाबन्धुरया स्वकान्त्या सञ्चारिजाम्बूनदबिम्बकल्पा।
त्रय्यन्तसिद्धेन रसायनेन कालेन भेजे कलधौतलक्ष्मीम्॥

मयूरपिञ्छद्युतिभिर्मयूखैस्तत्कान्तिरन्तर्वसतस्त्रिधाम्नः।
श्यामा बहिः मूलसिता बभासे मङ्गल्यरत्नाङ्कुरपालिकेव ॥

काले बभासे वसुदेवपत्न्याः कर्पूरलिप्तेव कपोलशोभा ।
शशिप्रभा सप्तमगर्भकान्तिः च्युतावसिष्टेव शनैरुदीर्णा ॥

नवेन्दुनिष्यन्दनिभश्चकाशे वर्णः प्रतीकेषु मधुद्रवाङ्ग्याः.।
अन्तः स्थितेन प्रथमेन पुंसा प्रवर्तितं सत्त्वमिवावदातम् ॥

करम्बिता किञ्चिदिव प्रसृप्तस्तेजोभिरन्तर्वसतस्त्रिधाम्नः।
मरीचिभिः स्वैरभवत् प्रजानां मङ्गल्यरत्नाङ्कुरपालिकेव ॥

तस्याः सुधोल्लासजुषः कटाक्षाः संक्षुब्धदुग्धोदधिसौम्यभासः।
जगत्त्रयीसौधविलेपनार्हा वितेनिरे वर्णसुधामपूर्वाम् ॥

रक्षाविधौ राक्षसदानवानां कारागृहे कंसनियोगभाजाम् ।
संपश्यमाना सकृदीक्षिता वा सङ्क्षोभयामास मनांसि सैषा ॥

भुक्ता पुरा येन वसुन्धरा सा स विश्वभोक्ता मम गर्भभूतः।
इति ध्रुवं सूचनमाचरन्ती तत्तादृशं नाटितकं ततान ॥

समाधिसुक्षेत्रकृषीवलानां सन्तोषसस्योदयमेघकान्त्या ।
चकास तस्याः स्तनचूचुकाभा गर्भत्विषा गाढमिवानुलिप्ता ॥

कस्तूरिकाकाम्यरुचिस्तदीया रम्या बभौ चूचुकरत्नकान्तिः।
तद्गर्भसन्दर्शनलोलुपानामन्तर्दृशामञ्जनकल्पनेव ॥

परावराणां प्रभवस्य पुंसः प्रकाशकत्वं प्रतिपद्यमानाम् ।
अभावयन् भावितचेतसस्तां विद्यामयीं विश्वपितामहीञ्च ॥

लिलेख विश्वानि जगन्त्यभिज्ञा लीलाहृते चित्रपटे यथार्हम् ।
प्रायः प्रजानां पतयः प्रतीताः यन्मातृकाः स्वेषु विधिष्वभूवन् ॥

निराशिषां पद्धतिमाददाना नैःश्रेयसीं नीतिमुपघ्नयम्ती ।
पुण्याशया पूर्वयुगप्ररोहमियेष देवी भुवने विधातुम् ॥

अनाप्तपूर्वं किमपेक्षितं ते (किं भुक्तपूर्वेष्वधुनोपदद्याम् ।
)

विश्वास-प्रस्तुतिः

किं वोपदद्यामथवाधुनेति ।
वयस्यया(अ)भावविदानुयुक्ता न किञ्चिदित्येव जगाद नाथा ॥

अनादरे देवि सखीजनानां कथं न दूयेत दया तवेति ।
उपह्वरे संल्लपिता मनोज्ञैरालोकनैरुत्तरमाचचक्षे ॥

अशेत सा काममजातनिद्रा मातुं प्रवृत्तेव पदानि चक्रे ।
अध्यास्त लोकानवधीरयन्ती भद्रासनं भावितपारमेष्ठ्या ॥

परिक्रमप्रेक्षितभाषिताद्यैरन्यादृशैराप्तविभावनीयैः ।
मदोपपन्ना मदलालसा वा जि (जा) तश्रमा वेति जनैः शशङ्के ॥

शेषे शयानां गरुडेन यान्तीं पद्मे निषण्णामधिरत्नपीठम् ।
हयाननैराश्रितवन्दिकृत्यां स्वामाकृतिं स्वप्नदृशा ददर्श ॥

अन्तःस्थितं यस्य विभोरशेषं जगन्निवासं दधती तमन्तः।
तदात्मनो विश्वमपश्यदन्तस्तर्कातिगं तूदृशमद्भुता नः ॥

सुरासुराधीश्वरमौलिघातात् विशीर्णजाम्बूनदवेत्रशृङ्गम् ।
आलक्ष्यसंतोषमलक्ष्यमन्यैरनीकनेतारमवैक्षतारात् ॥

त्रिलोकम(मा)ङ्गल्यनिधेस्त्रिवेद्याः स्जीवनीं वाचमुदीरयन्ती ।
नियोगयोग्यान् अनघप्रसादा नाकौकसां नामभिराजुहाव ॥

यदृच्छया यादवधर्मपत्नी यामाह धर्मेषु परावपेषु ।
अदृष्टपूर्वापरयापि वाचा प्रतिश्रुता नूनमभावि तस्याः॥

क्रियानुपादित्सत विश्वगुप्त्या कृतापराधेपि कृपामकार्षीत् ।
मुनीन्द्रवृत्त्या मुखरीभवन्ती मुक्तिक्षमां वक्तुमियेष विद्याम् ॥

सतां चतुर्वर्गफलप्रसूतौ नारायणे गर्भगते नताङ्गी ।
अभङ्गुरामुन्नतिमाश्रयन्ती सर्वस्य सादित्सत सर्वमेका ॥

कृशोदरी कार्श्यमतीत्य काले केनापि धाम्ना कृतवृद्धियोगा
परामभिख्यां क्रमशः प्रपेदे ताराभिनन्द्या तनुरैन्दवीव ॥

विश्वास-प्रस्तुतिः

निगूढमन्तर्दधता निविष्टं पद्मापरिष्कारमणिं प्रभूतम् ।
मध्येन तस्याः प्रचितेन काले मञ्जूषया रूप्यभुवा बभूवे ॥

शनैश्शनैस्तामुपचीयमानां दर्शान्तदीप्तामिव चन्द्रलेखाम् ।
अन्तःस्थकृष्णामवलोकयन्तः चक्रुश्चकोरायितमात्मनेत्रैः॥

मयि स्थिते विश्वगुरौ महीयान् मा भूत् भुवो भार इतीव मत्वा ।
सखीजनानामवलम्ब्य हस्तान् संचारलीलां शनकैश्चकार ॥

मुकुन्दगर्भा मुकुरेषु देवी नापश्यदात्मानमवाप्तभूषा ।
नाथत्विषा नन्दकदर्पणेनादिदृक्षतात्मानमदृश्यमन्यैःस्रजः प्रभूता न शशाक वोढुं दूरे कथा रत्नविभूषणानाम् ।

भविष्यति क्षोणिभरापनोदे प्रत्यायनं प्राथमिकं तदासीत् ॥
विश्वास-प्रस्तुतिः

दिवौकसो दवकवंशलक्ष्मीं विलोक्य तां लोकनिधानगर्भाम् ।
विभूतिमग्रेसरवेदवादाः व्याचख्युरस्या विविधप्रकाराम् ॥

पतिः ससत्त्वामपि तत्प्रभावाददुःखशीलां समये भवित्रीम् ।
(आलोक्य देवीम्)
सुखैकतानाम् अवलोक्य देवीं(समये भवित्रीं) स्वसंपदं सूचयतीति मेने ॥

विश्वास-प्रस्तुतिः

पितृत्वमासाद्य सुरासुराणां पितामहत्वं प्रतिपत्स्यमानः ।
अनन्तगर्भामवलोक्य देवीमतुष्यदन्येषु गताभिलाषः ॥

तापोपशान्तिं जगतां दिशन्ती सन्ध्यापरा साधुजनप्रतीक्ष्या ।
तामीदृशीं विश्वपितुः प्रसूतिं संवेदयन्तीव समाजगाम ॥

सुवर्णपीतांबरवासिनी सा स्वधामसंछादितसूर्यदीप्तिः।
उपासनीया जगतां बभासे मुरद्विषो मूर्तिरिव द्वितीया ॥

प्रसक्तपातश्चरमाम्बुराशौ रक्तोरुबिम्बो रविरस्तशैलात् ।
दिनान्तनागेव दृढप्रणुन्नं मनश्शिलाशृङ्गमिवाबभासे ॥

निमज्जता वारिनिधौ सवित्रा को नाम जायेत करग्रहीता ।
तदेति संभावनयैव नूनं (इतीव संभावनयान्तरिक्षे) दूरादुदक्षेपि कराग्रमुच्चैः॥

स्फुरत्प्रभाकेसरमर्कबिम्बं ममज्ज सिन्धौ मकरन्दताम्रम् ।
सन्ध्याकुमार्या गगनाम्बुराशेः क्रीडाहृतं क्षिप्तमिवारविम्दम् ॥

फणामणिप्रेक्ष्यखरांशुबिम्बः सन्ध्यासुपर्णीमवलोक्य भीतः ।
तापाधिको वासरपन्नगेन्द्रः प्रायेण पातालबिलं विवेश ॥

प्रदोषरागारुणसूर्यलक्षात् दिशागजो दृप्त इवातिघोरः।
कालोपनीतं मधुना समेतं अभुङ्क्त मन्ये कबलं पयोधिः ॥

तदा तमः प्रोषितचन्द्रमूर्ये दोषामुखे दूषितसर्वनेत्रम् ।
वियोगिनां शेकमयस्य वह्नेरासागतो धूम इवान्वभावि ॥

सतारपुष्पा धृतपल्लवश्रीः प्रच्छायनीरन्ध्रतमःप्रताना ।
विश्वाभिनन्द्या ववृधे तदानीं वैहायसी कापि वसन्तवन्या ॥

अलक्ष्यत श्यामलमन्तरिक्षं ताराभिरादर्शितमौक्तिकौघम् ।
निवत्स्यतो विश्वपतेरवन्यां कालेन भृत्येन कृतं वितानम् ॥

अभृङ्गनादप्रतिपन्नमौना निमाषभाजो नियतं (ता) वनस्थाः।
दूरं गते स्वामिनि पुष्करिण्यस्तत्प्राप्तिलाभाय तपो वितेनुः ॥

निमीलितानां कमलोत्पलानां निष्पन्नसख्यैरिव चक्रवाकैः ।
विमुक्तभोगैर्विदधे विषण्णैर्विबोधवेलावधिको विलापः ॥

तमिस्रनीलाम्बरसंवृताङ्गी श्यामा बभौ किञ्चिदतीत्य सन्ध्याम्।
प्राचामशैले समयान्निगूढं समुद्यता चन्द्रमिवाभिसर्तुम् ॥

निशाकरेण प्रतिपन्नसत्त्वा निक्षिप्तदेहेव पयोधितल्पे ।
जगत्समीक्ष्या जहती च कार्श्यं प्राची दिशा पाण्डरतामयासीत् ॥

तमः प्रसङ्गेन विमुच्यमाना गौरप्रभा गोत्रभिदाभिनन्द्या ।
विधूदयारम्भविशेषदृश्या प्राची दिशाभासत देवकीव ॥

अपत्यलाभं यदुवीरपत्न्या महोदधौ मग्नसमुत्थितेन ।
तद्वंशमान्येन समीक्ष्य पूर्वं प्राप्तं प्रतीतेन पुरोधसेव ॥

क्ष्वेलोपमे संतमसे निरस्ता सोमं सुधास्तोममिवोद्वमन्ती ।
दुग्धोदवेलेव दुदोह लक्ष्मीमाशामनोज्ञाममरेन्द्रमान्या ॥

तमस्समाक्रान्तिवशेन पूर्वं जज्ञे निमग्नैरिव भतधात्र्याम् ।
ततस्तुषारांशुकरावगूढैरुत्तभ्यमानैरिव शैलशृङ्गैः ॥

दिशस्तदानीमवनीधराणां सगैरिकैः पारदपङ्कलेपैः ।
चकाशिरे चन्द्रमसो मयूखैः पञ्चायुधस्येव शरैः प्रदीप्तैः ॥

समुन्नमन्ती कुटिलायतात्मा शशाङ्कलेखोदयदृश्यकोटिः।
वियोगिचेतोलवने प्रवीणा कामोद्यता काञ्चनशङ्कुलेव ॥

तमांसि दुर्वारबलः स कालः प्रायो विलोप्तुं सहसा दिशां च ।
मनांसि कामश्च मनस्वनीनां प्रायुङ्क्त शैत्याधिकमर्धचन्द्रम् ॥

करेण संकोचितपुष्करेण मदप्रतिच्छन्दकलङ्कभूमा ।
क्षिप्त्वा तमश्शैवलमुन्ममज्ज मग्नो दिशानाग इवेन्दुरब्धेः ॥

मदेदयाताम्रकपोलभासा शक्रस्य काष्ठा शशिना चकाशे ।
उदेयुषा व्यञ्जयितुं त्रिलोकीं नाथस्य सा नाभिरिवाम्बुजेन ॥

समीपतः सन्तमसाम्बुराशेः बभार शङ्खाकृतिरिन्दुबिम्बः ।
पित्तोपरागादिव पीतिमानं दोषाविलप्रोषितदृष्टिदत्तात् ॥

कृशोदरीलोचनकृष्णलक्ष्मा रात्र्याः समिद्धोदयराग इन्दुः।
कस्तूरिकाकुङ्कुमचित्रितात्मा कर्पूरविन्यास इवान्वभावि ॥

प्रसादमन्तःकरणस्य दाता प्रत्यक्षयन् विश्वमिदं प्रकाशैः ।
तमश्च रागं च विधूय चन्द्रः संमो (सन्मो) दनं सत्त्वमिवोल्ललास॥

निशाकरो वारिधिनिःस्वनानां निष्पादकः कुन्दरुचिश्चकाशे ।
उदेष्यतश्चक्रभृतो नियोगात् प्रादुर्भवन् प्रागिव पाञ्चजन्यः ॥

मृगेण निष्पन्नमृगाजिनश्रीः स्वपादविक्षेपमितान्तरिक्षः ।
मुरद्विषो वामनमूर्तिभाजः पर्यायतामन्वगमच्छशाङ्कः ॥

जिगाय शङ्खाश्रितशैवलाभश्चारुद्युतेश्चन्द्रमसः कलङ्कः ।
उदीयमानस्य महोर्मियोगात् सामिच्युतं सागरमूलपङ्कम्॥

उदेत्य तुङ्गादुदयात्रिशृङ्गात् तमोगजान् अग्रकरेण निघ्नन् ।
निशाकरस्तन्मदलेपलक्ष्मा सिताभिशुः सिंहदशामयासीत् ॥

निशीथलक्ष्म्या इव पुण्डरीकं निर्वेशसिन्धोरिव फेनचक्रम् ।
तमन्ववैक्षन्त विलासतन्त्राः तारामणीनामिव सूतिशुक्तिम् ॥

उदारतारागणबुद्बुदौघश्चन्द्रेण संपन्नसुधाप्रसूतिः ।
अशेषदृश्यामधिगम्य लक्ष्मीमालोकदुग्धोदधिराबभासे ॥

प्रकाशयन् विश्वमिदं यथावत् चन्द्रोदयोद्दीपितसौम्यतारः।
आसीन्निशीथो जगतः प्रभूतादन्धस्य दैवादिव दृष्टिलाभः॥

विशोधिताद्विष्णुपदात् क्षरन्ती विष्वङ्मुखी सागरवृद्धिहेतोः(तुः)।
तमोमयीं सूर्यसुतां निगीर्य ज्योत्स्नानदी शोणमपि व्यमुञ्चत् ॥

प्रियामुखैस्तोयमधु प्रदिष्टं पीत्वा नवं प्रीत इवाम्बुराशिः।
समेत्य चन्द्रद्युतिनर्तकीभिस्तरङ्गितं ताण्डवमाततान ॥

कलङ्कचित्रीकृतमिन्दुखण्डं तमःसमध्यासितसत्त्वकल्पम् ।
अशुष्कशैवालमिवाबभासे सिद्धापगासैकतमर्धदृश्यम् ॥

स्वमध्यसंपन्नविशुद्धधामा शयामा च सा देवकनन्दनी च ।
तमः क्षिपन्त्यौ जगतां त्रयाणामन्योन्यसंवादमिवान्वभूताम् ॥

शाखावकाशेषु कृतप्रवेशैश्चन्द्रातपैराश्रितचारकृत्यः।
हतावशिष्टानि तमांसि हन्तुं स्थानं तदाक्रान्तममृग्यतेव ॥

पराकृतध्वान्तनिकायपङ्कैः पर्याप्ततारागणफेनपुञ्जैः।
अशोभत द्यौरसमायुधस्य यशःप्रवाहैरिव चन्द्रपादैः ॥

ददानया दिक्सरितां प्रसादं प्रसक्तहंसागमया स्वकान्त्या ।
अपाकृतध्वान्तघनप्रवृत्त्या शरत्त्विषा चन्द्रिकया चकाशे ॥

कलावता कामविहारनाट्ये कालोचितं कल्पयतेव नर्म ।
अमोघसायापलितंकरण्यः प्रायो दिशां दीधितयः प्रयुक्ताः॥

कदम्बमालाभिरधीतलास्यः कल्याणसंभूतिरभूतं प्रजानाम् ।
प्रियोदयस्फीतरुचो रजन्याः संतोषनिःश्वासनिभः समीरः ॥

प्रायेण हंसैरवधूतसंगा चारुस्मिता संभृतभृङ्गनादा ।
सर्वोपभोग्ये समये प्रसुप्तं कुमुद्वती कोकनदं जहास ॥

कलङ्कलक्षेण समैक्षि काचित् कस्तूरिकापत्रविशेषकान्तिः।
सुधांशुबिंबव्यपदेशदृश्ये मुग्धे रजन्या मुखपुण्डरीके ॥

तलेष्ववेपन्त महीरुहाणां छायास्तदा मारुतकम्पितानाम्।
शशाङ्कसिंहेन तमोगजानां लूनाकृतीनामिव गात्रखण्डाः ॥

तमस्तरङ्दानवसादयन्त्या समेयुषी चन्द्रिकया महत्या ।
शयामा बभौ चान्त्रनवोत्पलश्रीः सुरस्रवन्त्येव कलिन्दकन्या ॥

स्वविप्रयोगव्यसनान्निपीतं भृङ्गापदेशेन कुमुद्वतीभिः ।
सुधाभिराप्लाव्य करस्थिताभिः प्रच्यावयामास विषं सुधांशुः।

चकाशिरे पत्रकलासमृद्ध्या व्योमोपमे वारिणि कैरवाणि ।
कलङ्कदृश्यभ्रमराणि काले स्वनथ (नाथेन) साधर्म्यमुपागतानि ॥

(सरिन्मुखैस्तोयमधु प्रदिष्टं पीत्वा नवं प्रीत इवाम्बुराशिः ।
)

विश्वास-प्रस्तुतिः

सरिन्मुखोपाहृतमम्बुराशिः पीत्वेव तोयं मधु जातहर्षः ।
चकार चन्द्रप्रतिबिम्बितानां करग्रहैः कामपि रासलीलाम् ॥

प्रसादभाजोरुभयोरभूतामुभावनिर्धार्यमिथोविशेषौ ।
नभःस्थले शीतरुचिः सतारे सकैरवे तत्प्रतिमा च तोये ॥

नभस्तुषारांशुमयूखयोगात् तमिस्रया मोक्षमविन्दतेव ।
अतृष्यतः(अविद्यया)तत्त्वविदो निशायामन्तर्मुखं चित्तमिवात्मयोगात् ॥

सहोदिता चन्द्रमसा बभासे ज्योत्स्ना पयोधेरुपजातरागा ।
तदातने संजननेपि शौरेः सहायिनी सागरसंभवेव ॥

प्रबुद्धताराकुमुदाब्धिचन्द्रे निद्राणनिःशेषजने निशीथे ।
स तादृशो देवपतेः प्रसूतिं पुष्यन् बभौ पुण्यतमो मुहूर्तः॥

भागेन पूर्वेण तमोमयेन प्रकाशपूर्णेन च पश्चिमेन ।
तदा निशीथः स सतां प्रसत्त्यै संसारमुक्त्योरिव सन्धिरासीत् ॥

प्रागेव जातेन सितेन धाम्ना मध्योपलक्ष्येण च माधवेन ।
प्रकामपुण्या वसुदेवपत्न्या सम्पन्नसाम्येव निशा बभासे ॥

सह प्रतिच्छन्दशशाङ्कभेदैः सरस्वतां ताण्डविनस्तरङ्गाः।
अवेक्ष्य शौरेरवतारवेलां सन्तोषनिघ्ना इव संप्रणेदुः ॥

अवादितोदीरितवाद्यघोषं (तूर्यमादं ) दिशाभिराम्रेडितदिव्यगीतम् ।
सतामुपस्थापितसत्त्वलास्यं सङ्गीतमङ्गल्यमभूत् तदानीम् ॥

प्रदीपितैः कंसगृहेषु दीपैस्तापैश्च भावेषु तपोधनानाम् ।
अलभ्यत क्षिप्रमलब्धभङ्गैरहेतुनिर्वाणदशानुभूतिः ॥

अजः स्वजन्मार्हतयानुमेने यामष्टमीं यादवभावमिच्छन् ।
द्वितीयया भावितयोगनिद्रा साभूत् तदानीं प्रथमा तिथीनाम् ॥

अथ सितरुचिलग्ने सिद्धपञ्चग्रहोच्चे व्यजनयदघानां वैजयन्त्यां जयन्त्याम् ।
निखिलभुवनपद्मक्लेशनिद्रापनुत्त्यै दिनकरमनपायं देवकीपूर्वसन्ध्या ॥

अवतरति मुकुन्दे संपदामेककन्दे सुरभितहरिदन्तां स्वादुमाध्वीकदिग्धाम् ।
अभजत वसुदेवस्थानमानन्दनिघ्नैरमरमिथुनहस्तैराहितां पुष्पवृष्टिम् ॥