01

विश्वास-प्रस्तुतिः

वन्दे बृन्दावनचरं वल्लवीजनवल्लभम् ।
जयन्तीसंभवं धाम वैजयन्तीविभूषणम् ॥

मूलम्

वन्दे बृन्दावनचरं वल्लवीजनवल्लभम् ।
जयन्तीसंभवं धाम वैजयन्तीविभूषणम् ॥

विश्वास-प्रस्तुतिः

यदेकैकगुणप्रान्ते श्रान्ता निगमवन्दिनः ।
यथावत् वर्णने तस्य किमुतान्ये मितम्पचाः ॥

मूलम्

यदेकैकगुणप्रान्ते श्रान्ता निगमवन्दिनः ।
यथावत् वर्णने तस्य किमुतान्ये मितम्पचाः ॥

विश्वास-प्रस्तुतिः

शक्त्या शौरिकथास्वादः स्थाने मन्दधियामपि ।
अमृतं यदि लभ्येत किं न गृह्येत मानवैः ॥

मूलम्

शक्त्या शौरिकथास्वादः स्थाने मन्दधियामपि ।
अमृतं यदि लभ्येत किं न गृह्येत मानवैः ॥

विश्वास-प्रस्तुतिः

वसुधाश्रोत्रजे तस्मिन् व्यासे च हृदयस्थिते ।
अन्येऽपि कवयः कामं बभूवुरनपत्रपाः ॥

मूलम्

वसुधाश्रोत्रजे तस्मिन् व्यासे च हृदयस्थिते ।
अन्येऽपि कवयः कामं बभूवुरनपत्रपाः ॥

विश्वास-प्रस्तुतिः

स कविः कथ्यते स्रष्टा रमते यत्र भारती ।
रसभावगुणीभूतैरलङ्कारैर्गुणोदयैः ॥

मूलम्

स कविः कथ्यते स्रष्टा रमते यत्र भारती ।
रसभावगुणीभूतैरलङ्कारैर्गुणोदयैः ॥

विश्वास-प्रस्तुतिः

तदात्वे नूतनं सर्वमायत्याञ्च पुरातनम् ।
न दोषायैतदुभयं न गुणाय च कल्पते ॥

मूलम्

तदात्वे नूतनं सर्वमायत्याञ्च पुरातनम् ।
न दोषायैतदुभयं न गुणाय च कल्पते ॥

विश्वास-प्रस्तुतिः

प्रवृत्तामनघे मार्गे प्रमाद्यन्तीमपि क्वचित् ।
न वाचमवमन्यन्ते नर्तकीमिव भावुकाः ॥

मूलम्

प्रवृत्तामनघे मार्गे प्रमाद्यन्तीमपि क्वचित् ।
न वाचमवमन्यन्ते नर्तकीमिव भावुकाः ॥

विश्वास-प्रस्तुतिः

विहाय तदहं व्रीळां(डां) व्यासवेदार्णवामृतम् ।
वक्ष्ये विबुधजीवातुं वसुदेवसुतोदयम् ॥

मूलम्

विहाय तदहं व्रीळां(डां) व्यासवेदार्णवामृतम् ।
वक्ष्ये विबुधजीवातुं वसुदेवसुतोदयम् ॥

विश्वास-प्रस्तुतिः

क्रीडातूलिकया स्वस्मिन् कृपारूषितया स्वयम् ।
एको विश्वमिदं चित्रं विभुः श्रीमानजीजनत् ॥

मूलम्

क्रीडातूलिकया स्वस्मिन् कृपारूषितया स्वयम् ।
एको विश्वमिदं चित्रं विभुः श्रीमानजीजनत् ॥

विश्वास-प्रस्तुतिः

जगदाह्लादनो जज्ञे मनसस्तस्य चन्द्रमाः ।
परिपालयितव्येषु प्रसाद इव मूर्तिमान् ॥

मूलम्

जगदाह्लादनो जज्ञे मनसस्तस्य चन्द्रमाः ।
परिपालयितव्येषु प्रसाद इव मूर्तिमान् ॥

विश्वास-प्रस्तुतिः

यदपत्यसमुद्भूतः पुण्यकीर्तिः पुरूरवाः ।
सतामाहितवह्नीनां विहारस्थेयतां ययौ ॥

मूलम्

यदपत्यसमुद्भूतः पुण्यकीर्तिः पुरूरवाः ।
सतामाहितवह्नीनां विहारस्थेयतां ययौ ॥

विश्वास-प्रस्तुतिः

समवर्धत तद्वंशः उपर्युपरि पर्वभिः ।
यशोमुक्ताफलैर्यस्य दिशो दश विभूषिताः ॥

मूलम्

समवर्धत तद्वंशः उपर्युपरि पर्वभिः ।
यशोमुक्ताफलैर्यस्य दिशो दश विभूषिताः ॥

विश्वास-प्रस्तुतिः

बभूव नहुषस्तस्मिन् ऐरावत इवाम्बुधौ ।
यमिन्द्रविगमे देवाः पदे तस्य न्यवीविशन् ॥

मूलम्

बभूव नहुषस्तस्मिन् ऐरावत इवाम्बुधौ ।
यमिन्द्रविगमे देवाः पदे तस्य न्यवीविशन् ॥

विश्वास-प्रस्तुतिः

नरेन्द्राः पृथिवीचक्रे नामचिह्नैरलंकृताः ।
जङ्गमास्तस्य वीरस्य जयस्तम्भा इवाभवन् ॥

मूलम्

नरेन्द्राः पृथिवीचक्रे नामचिह्नैरलंकृताः ।
जङ्गमास्तस्य वीरस्य जयस्तम्भा इवाभवन् ॥

विश्वास-प्रस्तुतिः

शक्तिरप्रतिघा तस्य शात्रवैरपि तुष्टवे ।
यथावत् साधकस्येव यावदर्था सरस्वती ॥

मूलम्

शक्तिरप्रतिघा तस्य शात्रवैरपि तुष्टवे ।
यथावत् साधकस्येव यावदर्था सरस्वती ॥

विश्वास-प्रस्तुतिः

वीरो रस इवोत्साहान्नहुषादभ्यजायत ।
ययातिर्नाम येनैन्द्रमर्धासनमधिष्ठितम् ॥

मूलम्

वीरो रस इवोत्साहान्नहुषादभ्यजायत ।
ययातिर्नाम येनैन्द्रमर्धासनमधिष्ठितम् ॥

विश्वास-प्रस्तुतिः

विशालविपुलोत्तुङ्गे यद्बाहुशिखरान्तरे ।
आसीद्वीरश्रिया सार्धं भूमिरर्धासने स्थिता ॥

मूलम्

विशालविपुलोत्तुङ्गे यद्बाहुशिखरान्तरे ।
आसीद्वीरश्रिया सार्धं भूमिरर्धासने स्थिता ॥

विश्वास-प्रस्तुतिः

निदेशं तस्य राजानो न शेकुरतिवर्तितुम् ।
प्राप्तस्वपरनिर्वाहं प्रमाणमिव वादिनः ॥

मूलम्

निदेशं तस्य राजानो न शेकुरतिवर्तितुम् ।
प्राप्तस्वपरनिर्वाहं प्रमाणमिव वादिनः ॥

विश्वास-प्रस्तुतिः

तटाकमिव तापार्तास्तमिन्द्रमिव निर्जराः ।
भावा इव रसं भव्याः पार्थिवाः पर्युपासत ॥

मूलम्

तटाकमिव तापार्तास्तमिन्द्रमिव निर्जराः ।
भावा इव रसं भव्याः पार्थिवाः पर्युपासत ॥

विश्वास-प्रस्तुतिः

यदुर्नाम ततो जज्ञे यत्सन्ततिसमुद्भवैः ।
समानगणनालेख्ये निस्समानैर्निषद्यते ॥

मूलम्

यदुर्नाम ततो जज्ञे यत्सन्ततिसमुद्भवैः ।
समानगणनालेख्ये निस्समानैर्निषद्यते ॥

विश्वास-प्रस्तुतिः

देहीति वदतां प्रायः प्रसीदन् प्रत्युवाच सः ।
ललितध्वनिभिर्लक्ष्मीलीलाकमलषट्पदैः ॥

मूलम्

देहीति वदतां प्रायः प्रसीदन् प्रत्युवाच सः ।
ललितध्वनिभिर्लक्ष्मीलीलाकमलषट्पदैः ॥

विश्वास-प्रस्तुतिः

स च वृत्तविहीनस्य न विद्यां बह्वमन्यत ।
न हि शुद्धेति गृह्येत चतुर्थीचन्द्रचन्द्रिका ॥

मूलम्

स च वृत्तविहीनस्य न विद्यां बह्वमन्यत ।
न हि शुद्धेति गृह्येत चतुर्थीचन्द्रचन्द्रिका ॥

विश्वास-प्रस्तुतिः

अपुनःप्रार्थनीयस्य प्रार्थिताधिकदायिनः ।
अर्थिनः प्रथमे तस्य चरमान् पर्यपूरयन् ॥

मूलम्

अपुनःप्रार्थनीयस्य प्रार्थिताधिकदायिनः ।
अर्थिनः प्रथमे तस्य चरमान् पर्यपूरयन् ॥

विश्वास-प्रस्तुतिः

शराणां शात्रवाणां च सन्धानेन महौजसः ।
तस्य निर्धूतलक्षेण द्विः क्वचिन्नाप्यभूयत ॥

मूलम्

शराणां शात्रवाणां च सन्धानेन महौजसः ।
तस्य निर्धूतलक्षेण द्विः क्वचिन्नाप्यभूयत ॥

विश्वास-प्रस्तुतिः

युक्तदण्डममित्राणां कृतान्तं समवर्तिनम् ।
दक्षिणं लोकपालं तममन्यन्त दिवौकसः ॥

मूलम्

युक्तदण्डममित्राणां कृतान्तं समवर्तिनम् ।
दक्षिणं लोकपालं तममन्यन्त दिवौकसः ॥

विश्वास-प्रस्तुतिः

यशःप्रसूनसुरभिर्यदुसन्तानपादपः ।
बभूव विबुधप्रीत्यै बहुशाखः क्षमातले ॥

मूलम्

यशःप्रसूनसुरभिर्यदुसन्तानपादपः ।
बभूव विबुधप्रीत्यै बहुशाखः क्षमातले ॥

विश्वास-प्रस्तुतिः

वंशे समभवत् तस्य वसुदेवः क्षितीश्वरः ।
जनकः प्राग्भवे योऽभूत् देवदानवयूथयोः ॥

मूलम्

वंशे समभवत् तस्य वसुदेवः क्षितीश्वरः ।
जनकः प्राग्भवे योऽभूत् देवदानवयूथयोः ॥

विश्वास-प्रस्तुतिः

आनकानाञ्च दिव्यानां दुन्दुभीनाञ्च निस्वनैः ।
सह जातं यमाचख्युराख्ययाऽऽनकदुन्दुभिम् ॥

मूलम्

आनकानाञ्च दिव्यानां दुन्दुभीनाञ्च निस्वनैः ।
सह जातं यमाचख्युराख्ययाऽऽनकदुन्दुभिम् ॥

विश्वास-प्रस्तुतिः

तेन निर्मलसत्त्वेन विनिवृत्तरजस्तमाः ।
जगती शान्तमोहेव धर्मोच्छ्वासवती बभौ ॥

मूलम्

तेन निर्मलसत्त्वेन विनिवृत्तरजस्तमाः ।
जगती शान्तमोहेव धर्मोच्छ्वासवती बभौ ॥

विश्वास-प्रस्तुतिः

स विष्णुरिव लोकानां तपनस्तेजसामिव ।
समुद्र इव रत्नानां सतामेकाश्रयोऽभवत् ॥

मूलम्

स विष्णुरिव लोकानां तपनस्तेजसामिव ।
समुद्र इव रत्नानां सतामेकाश्रयोऽभवत् ॥

विश्वास-प्रस्तुतिः

प्रख्यातविभवे पत्न्यौ तस्य पूर्वं प्रजापतेः ।
रोहिणीदेवकीरूपे मनुष्यत्वे बभूवतुः ॥

मूलम्

प्रख्यातविभवे पत्न्यौ तस्य पूर्वं प्रजापतेः ।
रोहिणीदेवकीरूपे मनुष्यत्वे बभूवतुः ॥

विश्वास-प्रस्तुतिः

अक्षुद्रगतिशालिन्योस्तयोरन्योन्यसक्तयोः ।
ऐकरस्यमभूत् पत्या गङ्गायमुनयोरिव ॥

मूलम्

अक्षुद्रगतिशालिन्योस्तयोरन्योन्यसक्तयोः ।
ऐकरस्यमभूत् पत्या गङ्गायमुनयोरिव ॥

विश्वास-प्रस्तुतिः

स ताभ्यामनुरूपाभ्यां समतुष्यत् समेयिवान् ।
व्यक्तिहेतुरभूत् येन सपर्यङ्कस्य शार्ङ्गिणः ॥

मूलम्

स ताभ्यामनुरूपाभ्यां समतुष्यत् समेयिवान् ।
व्यक्तिहेतुरभूत् येन सपर्यङ्कस्य शार्ङ्गिणः ॥

विश्वास-प्रस्तुतिः

अलिप्सत न साम्राज्यं सोऽर्थकामपराङ्मुखः ।
यदृच्छागतमैश्वर्यमानृण्यरुचिरन्वभूत् ॥

मूलम्

अलिप्सत न साम्राज्यं सोऽर्थकामपराङ्मुखः ।
यदृच्छागतमैश्वर्यमानृण्यरुचिरन्वभूत् ॥

विश्वास-प्रस्तुतिः

कयाचिदशरीरिण्या वाचा व्यवसितायतिः ।
देवकीं वसुदेवञ्च कंसः कारामयोजयत् ॥

मूलम्

कयाचिदशरीरिण्या वाचा व्यवसितायतिः ।
देवकीं वसुदेवञ्च कंसः कारामयोजयत् ॥

विश्वास-प्रस्तुतिः

स कालातिबलः कंसः कालनेमिरनेहसा ।
सर्वदैतेयसत्त्वानां समाहार इवोदितः ॥

मूलम्

स कालातिबलः कंसः कालनेमिरनेहसा ।
सर्वदैतेयसत्त्वानां समाहार इवोदितः ॥

विश्वास-प्रस्तुतिः

एतस्मिन्नन्तरे देवी मेरुमध्यमुपेयुषः ।
प्रजापतिमुखान् देवान् प्राह सागरमेखला ॥

मूलम्

एतस्मिन्नन्तरे देवी मेरुमध्यमुपेयुषः ।
प्रजापतिमुखान् देवान् प्राह सागरमेखला ॥

विश्वास-प्रस्तुतिः

विदितं भवतां देवाः! विश्वरूपेण विष्णुना ।
महीयान् धर्मशीलेषु भारो यत्तन्निवेशितः ॥

मूलम्

विदितं भवतां देवाः! विश्वरूपेण विष्णुना ।
महीयान् धर्मशीलेषु भारो यत्तन्निवेशितः ॥

विश्वास-प्रस्तुतिः

अधर्मनिघ्नैरधुना धर्मसेतुविभेदकैः ।
असङ्ख्यैरद्भुतैस्तुङ्गैः क्रम्ये राक्षसपर्वतैः ॥

मूलम्

अधर्मनिघ्नैरधुना धर्मसेतुविभेदकैः ।
असङ्ख्यैरद्भुतैस्तुङ्गैः क्रम्ये राक्षसपर्वतैः ॥

विश्वास-प्रस्तुतिः

अत आलोचितजगद्धितैः सुरगणैः स्वयम् ।
न पतामि न भिद्ये च यथाऽहं क्रियतां तथा ॥

मूलम्

अत आलोचितजगद्धितैः सुरगणैः स्वयम् ।
न पतामि न भिद्ये च यथाऽहं क्रियतां तथा ॥

विश्वास-प्रस्तुतिः

इति ते भूतधारिण्या निसृष्टार्था दिवौकसः ।
अविदुस्तत्प्रियस्यैव तद्भारहरणं क्षमम् ॥

मूलम्

इति ते भूतधारिण्या निसृष्टार्था दिवौकसः ।
अविदुस्तत्प्रियस्यैव तद्भारहरणं क्षमम् ॥

विश्वास-प्रस्तुतिः

पुरस्कृत्य जगद्धात्रीं मनसोऽपि पुरस्सराः ।
दुग्धोदधिशयं देवं दूरमेत्याभितुष्टुवुः ॥

मूलम्

पुरस्कृत्य जगद्धात्रीं मनसोऽपि पुरस्सराः ।
दुग्धोदधिशयं देवं दूरमेत्याभितुष्टुवुः ॥

विश्वास-प्रस्तुतिः

त्रिवेदीमध्यदीप्ताय त्रिधाम्ने पञ्चहेतये ।
वरदाय नमस्तुभ्यं बाह्यान्तरहविर्भुजे ॥

मूलम्

त्रिवेदीमध्यदीप्ताय त्रिधाम्ने पञ्चहेतये ।
वरदाय नमस्तुभ्यं बाह्यान्तरहविर्भुजे ॥

विश्वास-प्रस्तुतिः

अनन्याधीनमहिमा स्वाधीनपरवैभवः ।
दयाधीनविहारस्त्वं प्रणतान् परिपाहि नः ॥

मूलम्

अनन्याधीनमहिमा स्वाधीनपरवैभवः ।
दयाधीनविहारस्त्वं प्रणतान् परिपाहि नः ॥

विश्वास-प्रस्तुतिः

स भवान् गुणरत्नौघैर्दीप्यमानो दयांबुधिः ।
तनोति व्यूहनिवहैस्तरङ्गैरिव ताण्डवम् ॥

मूलम्

स भवान् गुणरत्नौघैर्दीप्यमानो दयांबुधिः ।
तनोति व्यूहनिवहैस्तरङ्गैरिव ताण्डवम् ॥

विश्वास-प्रस्तुतिः

त्वदेकव्यञ्जितैरादौ त्वदन्येष्वनिदंपरैः ।
निगमैरनिगम्यं त्वां कः परिच्छेत्तुमर्हति ॥

मूलम्

त्वदेकव्यञ्जितैरादौ त्वदन्येष्वनिदंपरैः ।
निगमैरनिगम्यं त्वां कः परिच्छेत्तुमर्हति ॥

विश्वास-प्रस्तुतिः

अमितस्य महिम्नस्ते प्रयातुं पारमिच्छताम् ।
वितथा वेदपान्थानां यत्रसायंगृहा गतिः ॥

मूलम्

अमितस्य महिम्नस्ते प्रयातुं पारमिच्छताम् ।
वितथा वेदपान्थानां यत्रसायंगृहा गतिः ॥

विश्वास-प्रस्तुतिः

नम्यस्य नमतः क्षुद्रान् वरदस्य वरार्थिनः ।
पुत्रैः पितृमतः क्रीडा कथं ते केन वर्ण्यते ॥

मूलम्

नम्यस्य नमतः क्षुद्रान् वरदस्य वरार्थिनः ।
पुत्रैः पितृमतः क्रीडा कथं ते केन वर्ण्यते ॥

विश्वास-प्रस्तुतिः

नटवद् भूमिकाभेदैर्नाथ दीव्यन् पृथग्विधैः ।
पुंसामनन्यभावानां पुष्णासि रसमद्भुतम् ॥

मूलम्

नटवद् भूमिकाभेदैर्नाथ दीव्यन् पृथग्विधैः ।
पुंसामनन्यभावानां पुष्णासि रसमद्भुतम् ॥

विश्वास-प्रस्तुतिः

ब्रह्मादिस्तम्बपर्यन्तविचित्राङ्कुरशालिनाम् ।
सलिलं कर्मकन्दानां क्रीडैव तव केवलम् ॥

मूलम्

ब्रह्मादिस्तम्बपर्यन्तविचित्राङ्कुरशालिनाम् ।
सलिलं कर्मकन्दानां क्रीडैव तव केवलम् ॥

विश्वास-प्रस्तुतिः

निराधारनिजस्थेम्नो निरुपाधिकशेषिणः ।
निरपेक्षनियन्तुस्ते निस्समाभ्यधिका गुणाः ॥

मूलम्

निराधारनिजस्थेम्नो निरुपाधिकशेषिणः ।
निरपेक्षनियन्तुस्ते निस्समाभ्यधिका गुणाः ॥

विश्वास-प्रस्तुतिः

अनाविलधियामन्तः चिन्तामणिरिव स्फुरन् ।
दिशस्यभिमतं सर्वमतिरस्कार्यदीधितिः ॥

मूलम्

अनाविलधियामन्तः चिन्तामणिरिव स्फुरन् ।
दिशस्यभिमतं सर्वमतिरस्कार्यदीधितिः ॥

विश्वास-प्रस्तुतिः

संसारमरुकान्तारे परिश्रान्तस्य देहिनः ।
त्वद्भक्त्यमृतवाहिन्यामादिष्टमवगाहनम् ॥

मूलम्

संसारमरुकान्तारे परिश्रान्तस्य देहिनः ।
त्वद्भक्त्यमृतवाहिन्यामादिष्टमवगाहनम् ॥

विश्वास-प्रस्तुतिः

दुरितोदन्वद्-आवर्ते
घूर्णमानस्य दुःख्यतः ।
समग्र-गुण-संपन्नस्
तारकस् त्वं प्लवो महान् ॥

मूलम्

दुरितोदन्वदावर्ते घूर्णमानस्य दुःख्यतः ।
समग्रगुणसंपन्नः तारकस्त्वं प्लवो महान् ॥

अप्पय्यः

** दुरितेति॥** दुरितमेव उदन्वान् समुद्रः
तस्य आवर्ते जलभ्रमे
आवर्त इत्य् उपचाराद् दुरित-परिपाकः
तस्मिन् घूर्णमानस्य परिभ्राम्यतः
दुःख्यतः क्लिश्यतः देहिनः शरणागतस्य
इति भावः।
समग्राः अपरिच्छिन्नाः गुणाः ज्ञानशक्त्यादय एव गुणास् सूत्राणि
तैस् सम्पन्नः समृद्धः
त्वमेव महान् प्लवः उडुपं तारकस् तारयिता।
पूर्वत्र भक्तेः मुक्त्युपायत्वम् उक्तं
इह तु प्रपत्तेरिति भेदः॥५४॥

विश्वास-प्रस्तुतिः

अपरिच्छिद्यमानस्य देशकालादिभिस्तव ।
निदर्शनं त्वमेवैकस्त्वदन्यद्व्यतिरेकतः ॥

मूलम्

अपरिच्छिद्यमानस्य देशकालादिभिस्तव ।
निदर्शनं त्वमेवैकस्त्वदन्यद्व्यतिरेकतः ॥

विश्वास-प्रस्तुतिः

अकर्तुमखिलं कर्तुमन्यथाकर्तुमप्यलम् ।
सङ्कल्पसचिवः काले(लः) शक्तिलेशः स तावकः ॥

मूलम्

अकर्तुमखिलं कर्तुमन्यथाकर्तुमप्यलम् ।
सङ्कल्पसचिवः काले(लः) शक्तिलेशः स तावकः ॥

विश्वास-प्रस्तुतिः

यन्मूलमखिलं कार्यं यदमूलमधीमहे(यते) ।
लक्ष्यं तदसि योगानां लक्ष्मीकौस्तुभलक्षणम् ॥

मूलम्

यन्मूलमखिलं कार्यं यदमूलमधीमहे(यते) ।
लक्ष्यं तदसि योगानां लक्ष्मीकौस्तुभलक्षणम् ॥

विश्वास-प्रस्तुतिः

त्रिवर्गमपवर्गं वा प्रतिलब्धुं प्रयस्यताम् ।
प्रलयेष्वपि दीर्घायुः प्रतिभूस्त्वदनुग्रहः ॥

मूलम्

त्रिवर्गमपवर्गं वा प्रतिलब्धुं प्रयस्यताम् ।
प्रलयेष्वपि दीर्घायुः प्रतिभूस्त्वदनुग्रहः ॥

विश्वास-प्रस्तुतिः

यदेकमक्षरं ब्रह्म सर्वाम्नायसमन्वितम् ।
तारकं सर्वजन्तूनां तत् त्वं तव च वाचकम् ॥

मूलम्

यदेकमक्षरं ब्रह्म सर्वाम्नायसमन्वितम् ।
तारकं सर्वजन्तूनां तत् त्वं तव च वाचकम् ॥

विश्वास-प्रस्तुतिः

त्वदालम्बितहस्तानां भवादुन्मज्जतां सताम् ।
मज्जतः पापजातस्य नास्ति हस्तावलम्बनम् ॥

मूलम्

त्वदालम्बितहस्तानां भवादुन्मज्जतां सताम् ।
मज्जतः पापजातस्य नास्ति हस्तावलम्बनम् ॥

विश्वास-प्रस्तुतिः

अनन्यरक्षाव्रतिनं चातकव्रतचारिणः ।
भवन्तमवलम्बन्ते निरालम्बनभावनम् ॥

मूलम्

अनन्यरक्षाव्रतिनं चातकव्रतचारिणः ।
भवन्तमवलम्बन्ते निरालम्बनभावनम् ॥

विश्वास-प्रस्तुतिः

अनिदंपूर्वनिद्राणामनस्तमयभानुमान् ।
आपादयसि पुंसां त्वमपुनस्स्वापजागरम् ॥

मूलम्

अनिदंपूर्वनिद्राणामनस्तमयभानुमान् ।
आपादयसि पुंसां त्वमपुनस्स्वापजागरम् ॥

विश्वास-प्रस्तुतिः

त्वदेकशरणानां त्वं शरणागतजीवनः ।
विपदं नः क्षिप क्षिप्रं तमिस्रामिव भास्करः ॥

मूलम्

त्वदेकशरणानां त्वं शरणागतजीवनः ।
विपदं नः क्षिप क्षिप्रं तमिस्रामिव भास्करः ॥

विश्वास-प्रस्तुतिः

सति सूर्ये समुद्यन्तः प्रतिसूर्या इवासुराः ।
जगद्बाधाय जायन्ते जहि तान् स्वेन तेजसा ॥

मूलम्

सति सूर्ये समुद्यन्तः प्रतिसूर्या इवासुराः ।
जगद्बाधाय जायन्ते जहि तान् स्वेन तेजसा ॥

विश्वास-प्रस्तुतिः

स दैत्यहत्यामिच्छद्भिः सुरैरेवमभिष्टुतः ।
अनन्यदृश्यः सहसा दयया दर्शनं ददौ ॥

मूलम्

स दैत्यहत्यामिच्छद्भिः सुरैरेवमभिष्टुतः ।
अनन्यदृश्यः सहसा दयया दर्शनं ददौ ॥

विश्वास-प्रस्तुतिः

ततस्तं ददृशुर्देवाः शेषपर्यङ्कमास्थितम् ।
अधिरूढशरन्मेघमन्यादृशमिवाम्बुदम् ॥

मूलम्

ततस्तं ददृशुर्देवाः शेषपर्यङ्कमास्थितम् ।
अधिरूढशरन्मेघमन्यादृशमिवाम्बुदम् ॥

विश्वास-प्रस्तुतिः

पत्न्या सह निषेदुष्या पद्मलक्षणलक्ष्यया ।
स्वेच्छयैव शरीरिण्या सूचितैश्वर्यसंपदम् ॥

मूलम्

पत्न्या सह निषेदुष्या पद्मलक्षणलक्ष्यया ।
स्वेच्छयैव शरीरिण्या सूचितैश्वर्यसंपदम् ॥

विश्वास-प्रस्तुतिः

सुकुमारसुखस्पर्शसुगन्धिभिरलङ्कृतम् ।
स्वविग्रहगुणारामप्रसूनैरिव भूषणैः ॥

मूलम्

सुकुमारसुखस्पर्शसुगन्धिभिरलङ्कृतम् ।
स्वविग्रहगुणारामप्रसूनैरिव भूषणैः ॥

विश्वास-प्रस्तुतिः

आरञ्जितजगन्नेत्रैरन्योन्यपरिकर्मितैः ।
अङ्गैरमितसौन्दर्यैरनुकल्पितभूषणम् ॥

मूलम्

आरञ्जितजगन्नेत्रैरन्योन्यपरिकर्मितैः ।
अङ्गैरमितसौन्दर्यैरनुकल्पितभूषणम् ॥

विश्वास-प्रस्तुतिः

उत्तेजितजयोत्साहमायुधैरनघोद्यमैः ।
शौर्यविक्रमशक्त्याद्यैः सहजैः स्वगुणैरिव ॥

मूलम्

उत्तेजितजयोत्साहमायुधैरनघोद्यमैः ।
शौर्यविक्रमशक्त्याद्यैः सहजैः स्वगुणैरिव ॥

विश्वास-प्रस्तुतिः

स्वकान्तिजलधेरन्तस्सिद्धसंहननं स्वतः ।
महिम्ना जातवैचित्र्यं महानीलमिवोदितम् ॥

मूलम्

स्वकान्तिजलधेरन्तस्सिद्धसंहननं स्वतः ।
महिम्ना जातवैचित्र्यं महानीलमिवोदितम् ॥

विश्वास-प्रस्तुतिः

श्रुतिरूपेण वाहेन शेषकङ्कणशोभिना ।
स्वाङ्घ्रिसौरभदिग्धेन दत्तसङ्ग्रामदोहलम् ॥

मूलम्

श्रुतिरूपेण वाहेन शेषकङ्कणशोभिना ।
स्वाङ्घ्रिसौरभदिग्धेन दत्तसङ्ग्रामदोहलम् ॥

विश्वास-प्रस्तुतिः

स्ववेत्रस्पन्दनिःस्पन्दनेतव्येन निवेदितम् ।
भक्तिनम्रेण सेनान्या प्रतिशृण्वन्तमिङ्गितैः ॥

मूलम्

स्ववेत्रस्पन्दनिःस्पन्दनेतव्येन निवेदितम् ।
भक्तिनम्रेण सेनान्या प्रतिशृण्वन्तमिङ्गितैः ॥

विश्वास-प्रस्तुतिः

अनपायं तमादित्यमक्षयं तारकाधिपम् ।
अपारममृताम्भोधिममन्यन्त दिवौकसः ॥

मूलम्

अनपायं तमादित्यमक्षयं तारकाधिपम् ।
अपारममृताम्भोधिममन्यन्त दिवौकसः ॥

विश्वास-प्रस्तुतिः

अभयोदारहस्ताग्रमनघस्वागतस्मितम् ।
अवेक्ष्य विबुधा देवमलभन्त दृशोः फलम् ॥

मूलम्

अभयोदारहस्ताग्रमनघस्वागतस्मितम् ।
अवेक्ष्य विबुधा देवमलभन्त दृशोः फलम् ॥

विश्वास-प्रस्तुतिः

तस्मै विज्ञापयामासुर्विदितार्थाय नाकिनः ।
निहताशेषदैत्याय निदानं स्वागतेः पुनः ॥

मूलम्

तस्मै विज्ञापयामासुर्विदितार्थाय नाकिनः ।
निहताशेषदैत्याय निदानं स्वागतेः पुनः ॥

विश्वास-प्रस्तुतिः

त इमे क्षत्रिया भूत्वा क्षोभयन्ति क्षमामिमाम् ।
तव तेजसि यैर्नाथ दनुजैश्शलभायितम् ॥

मूलम्

त इमे क्षत्रिया भूत्वा क्षोभयन्ति क्षमामिमाम् ।
तव तेजसि यैर्नाथ दनुजैश्शलभायितम् ॥

विश्वास-प्रस्तुतिः

चतुर्णां पुरुषार्थानां प्रसवो यत्समाश्रयात् ।
हव्यकव्यप्रसूरेषा दीर्यते दैत्यभारतः ॥

मूलम्

चतुर्णां पुरुषार्थानां प्रसवो यत्समाश्रयात् ।
हव्यकव्यप्रसूरेषा दीर्यते दैत्यभारतः ॥

विश्वास-प्रस्तुतिः

जाता निखिलवेदानामुत्तमाङ्गोपधानतः ।
त्वत्पादकमलादेषा त्वदेकाधीनधारणा ॥

मूलम्

जाता निखिलवेदानामुत्तमाङ्गोपधानतः ।
त्वत्पादकमलादेषा त्वदेकाधीनधारणा ॥

विश्वास-प्रस्तुतिः

यदि न त्वरते नाथ! भारव्यपनये भवान् ।
प्लावयिष्यन्त्युदन्वन्तः पृथिवीं पृथुवीचयः ॥

मूलम्

यदि न त्वरते नाथ! भारव्यपनये भवान् ।
प्लावयिष्यन्त्युदन्वन्तः पृथिवीं पृथुवीचयः ॥

विश्वास-प्रस्तुतिः

करुणाधीनचित्तेन कर्णधारवती त्वया ।
माऽवसीदतु पृथ्वीयं महती नौरिवाम्भसि ॥

मूलम्

करुणाधीनचित्तेन कर्णधारवती त्वया ।
माऽवसीदतु पृथ्वीयं महती नौरिवाम्भसि ॥

विश्वास-प्रस्तुतिः

रशनारत्नरूपेण पयोधिरशना त्वया ।
प्रशान्तदनुजक्लेशा परिष्करणमर्हति ॥

मूलम्

रशनारत्नरूपेण पयोधिरशना त्वया ।
प्रशान्तदनुजक्लेशा परिष्करणमर्हति ॥

विश्वास-प्रस्तुतिः

कंसप्रभृतिभिः सेयं शल्यैरिव समुद्धृतैः ।
चिरं भवतु ते पृथ्वी शेषमूर्तेश्शिखण्डकः ॥

मूलम्

कंसप्रभृतिभिः सेयं शल्यैरिव समुद्धृतैः ।
चिरं भवतु ते पृथ्वी शेषमूर्तेश्शिखण्डकः ॥

विश्वास-प्रस्तुतिः

प्रबोधसुभगैः स्मेरैः प्रसन्नैः शीतलैश्च नः ।
कटाक्षैः प्लावय क्षिप्रं कृपैकोदन्वदूर्मिभिः ॥

मूलम्

प्रबोधसुभगैः स्मेरैः प्रसन्नैः शीतलैश्च नः ।
कटाक्षैः प्लावय क्षिप्रं कृपैकोदन्वदूर्मिभिः ॥

विश्वास-प्रस्तुतिः

त्वयि न्यस्तभराणां नस्त्वमेतां क्षन्तुमर्हसि ।
विदिताशेषवेद्यस्य विज्ञापनविडम्बनाम् ॥

मूलम्

त्वयि न्यस्तभराणां नस्त्वमेतां क्षन्तुमर्हसि ।
विदिताशेषवेद्यस्य विज्ञापनविडम्बनाम् ॥

विश्वास-प्रस्तुतिः

इत्थं वदति देवानां समाजे वेधसा सह ।
ववन्दे पृथिवी देवं विनतत्राणदीक्षितम् ॥

मूलम्

इत्थं वदति देवानां समाजे वेधसा सह ।
ववन्दे पृथिवी देवं विनतत्राणदीक्षितम् ॥

विश्वास-प्रस्तुतिः

तनुमध्या विशालाक्षी तन्वी पीनपयोघरा ।
मायेव महती तस्य वनितारत्नरूपिणी ॥

मूलम्

तनुमध्या विशालाक्षी तन्वी पीनपयोघरा ।
मायेव महती तस्य वनितारत्नरूपिणी ॥

विश्वास-प्रस्तुतिः

आबद्धमण्डलैर्भृङ्गैरलकामोदमोहितैः ।
अयत्नलब्धां बिभ्राणा मायूरच्छत्रसम्पदम् ॥

मूलम्

आबद्धमण्डलैर्भृङ्गैरलकामोदमोहितैः ।
अयत्नलब्धां बिभ्राणा मायूरच्छत्रसम्पदम् ॥

विश्वास-प्रस्तुतिः

प्रियसंदर्शनानन्दजनितैरश्रुबिन्दुभिः ।
न्यस्तमौक्तिकनैपथ्यैः परिष्कृतपयोधरा ॥

मूलम्

प्रियसंदर्शनानन्दजनितैरश्रुबिन्दुभिः ।
न्यस्तमौक्तिकनैपथ्यैः परिष्कृतपयोधरा ॥

विश्वास-प्रस्तुतिः

प्रस्फुरन्तं प्रियस्येव परिरम्भाभिलाषिणम् ।
दक्षिणादितरं बाहुं दक्षिणा बह्वमन्यत ॥

मूलम्

प्रस्फुरन्तं प्रियस्येव परिरम्भाभिलाषिणम् ।
दक्षिणादितरं बाहुं दक्षिणा बह्वमन्यत ॥

विश्वास-प्रस्तुतिः

विपदञ्च जगादैषा विपञ्चीमधुरस्वना ।
विलक्षस्मितसम्भिन्नमौक्तिकाधरविद्रुमा ॥

मूलम्

विपदञ्च जगादैषा विपञ्चीमधुरस्वना ।
विलक्षस्मितसम्भिन्नमौक्तिकाधरविद्रुमा ॥

विश्वास-प्रस्तुतिः

अथ तान् भव्यया वाचा भगवान् प्रत्यभाषत ।
प्रतिश्रुत्प्राप्तनिर्ह्रादपाञ्चजन्याभिनन्द्यया ॥

मूलम्

अथ तान् भव्यया वाचा भगवान् प्रत्यभाषत ।
प्रतिश्रुत्प्राप्तनिर्ह्रादपाञ्चजन्याभिनन्द्यया ॥

विश्वास-प्रस्तुतिः

मा भैषुरसुरानीकात् भवन्तो मदुपाश्रयाः ।
मदाज्ञामनवज्ञातुः परिभूत्या न भूयते ॥

मूलम्

मा भैषुरसुरानीकात् भवन्तो मदुपाश्रयाः ।
मदाज्ञामनवज्ञातुः परिभूत्या न भूयते ॥

विश्वास-प्रस्तुतिः

अवतार्य भुवो भारमवतारो ममामराः ।
अनादिनिधनं धर्ममक्षतं स्थापयिष्यति ॥

मूलम्

अवतार्य भुवो भारमवतारो ममामराः ।
अनादिनिधनं धर्ममक्षतं स्थापयिष्यति ॥

विश्वास-प्रस्तुतिः

यावदिष्टभुजो यावदधिकारमवस्थिताः ।
परिपालयत स्वानि पदानि विगतापदः ॥

मूलम्

यावदिष्टभुजो यावदधिकारमवस्थिताः ।
परिपालयत स्वानि पदानि विगतापदः ॥

विश्वास-प्रस्तुतिः

दमनाद्दनुजेन्द्राणां द्रक्ष्यथ त्रिदशाधिपाः ।
भूयोऽपि लघुतां प्राप्तां भुवमुल्लाघितामिव ॥

मूलम्

दमनाद्दनुजेन्द्राणां द्रक्ष्यथ त्रिदशाधिपाः ।
भूयोऽपि लघुतां प्राप्तां भुवमुल्लाघितामिव ॥

विश्वास-प्रस्तुतिः

दैतेयमृगसङ्घाते मृगयारसभागिभिः ।
भवद्भिरपि मेदिन्यां भवितव्यं नराधिपैः ॥

मूलम्

दैतेयमृगसङ्घाते मृगयारसभागिभिः ।
भवद्भिरपि मेदिन्यां भवितव्यं नराधिपैः ॥

विश्वास-प्रस्तुतिः

इति ताननघादेशः समादिश्य जनार्दनः ।
अवधीरितदुग्धाब्धिर्मधुरायां मनो दधे ॥

मूलम्

इति ताननघादेशः समादिश्य जनार्दनः ।
अवधीरितदुग्धाब्धिर्मधुरायां मनो दधे ॥

विश्वास-प्रस्तुतिः

आश्वास्य वागमृतवृष्टिभिरादितेयान्दैतेयभारनमितां पृथिवीं च देवीम् ।
प्रादुर्बुभूषुरनघो वसुदेवपत्न्यां पद्मापतिः प्रणिदधे समयं दयायाः ॥

मूलम्

आश्वास्य वागमृतवृष्टिभिरादितेयान्दैतेयभारनमितां पृथिवीं च देवीम् ।
प्रादुर्बुभूषुरनघो वसुदेवपत्न्यां पद्मापतिः प्रणिदधे समयं दयायाः ॥

विश्वास-प्रस्तुतिः

साधूनां स्वपदसरोजषट्पदानां धर्मस्य स्थितिमनघां विधातुकामः ।
यद्गर्भे(र्भो) जगदखिलं स एव गर्भो देवक्याः समजनि देवदेववन्द्यः ॥

मूलम्

साधूनां स्वपदसरोजषट्पदानां धर्मस्य स्थितिमनघां विधातुकामः ।
यद्गर्भे(र्भो) जगदखिलं स एव गर्भो देवक्याः समजनि देवदेववन्द्यः ॥