द्विरद शिखरि सीम्ना सद्मवान् पद्म योनेः
तुरग सवन वेद्यां श्यामलो हव्यवाहः ।
कलश जलधि कन्या वल्लरी कल्पशाखी
कलयतु कुशलं नः कोऽपि कारुण्य राशिः ॥ 1 ॥
यस्यानुभावमधिगन्तुमशक्नुवन्तो
मुह्मन्त्यभङ्गुरधियो मुनि सार्वभौमाः ।
तस्यैव ते स्तुतिषु साहसमश्नुवानः
क्षन्तव्य एष भवता करि शैल नाथ ॥ 2 ॥
जानन्ननादिविहितान् अपराध वर्गान्
स्वामिन् भयात् किमपि वक्तुमहं न शक्तः ।
अव्याज वत्सल तथापि निरङ्कुशं मां
वात्सल्यमेव भवतो मुखरी करोति ॥ 3 ॥
किं व्याहरामि वरद स्तुतये कथं वा
खद्योतवत् प्रलघु सङ्कुचित प्रकाशः ।
तन्मे समर्पय मतिं च सरस्वतीं च
त्वामञ्जसा स्तुति पदैर्यदहं धिनोमि ॥ 4 ॥
मच्छक्ति मात्र गणने किमिहास्ति शक्यं
शक्येन वा तव करीश किमस्ति साध्यम् ।
यद्यस्ति साधय मया तदपि त्वया वा
किं वा भवेद् भवति किञ्चिदनीहमाने ॥ 5 ॥
स्तोत्रं मया विरचितं त्वदधीन वाचा
त्वत्प्रीतये वरद यत् तदिदं न चित्रम् ।
आवर्जयन्ति हृदयं खलु शिक्षकाणां
मञ्जूनि पञ्जर शकुन्त विजल्पितानि ॥ 6 ॥
यं चक्षुषामविषयं हयमेध यज्वा
द्राघीयसा सुचरितेन ददर्श वेधाः ।
तं त्वां करीश करुणा परिणामतस्ते
भूतानि हन्त निखिलानि निशामयन्ति ॥ 7 ॥
तत्तत्पदैरुपहितेऽपि तुरङ्ग मेधे
शक्रादयो वरद पूर्वमलब्ध भागाः ।
अध्यक्षिते मखपतौ त्वयि चक्षुषैव
हैरण्य गर्भ हविषां रसमन्वभूवन् ॥ 8 ॥
सर्ग स्थिति प्रलय विभ्रम नाटिकायां
शैलूषवद् विविध वेष परिग्रहं त्वाम् ।
सं भावयन्ति हृदयेन करीश धन्याः
सं सार वारिनिधि सन्तरणैक पोतम् ॥ 9 ॥
प्राप्तोदयेषु वरद त्वदनुप्रवेशात्
पद्मासनादिषु शिवादिषु कञ्चुकेषु ।
तन्मात्र दर्शन विलोभित शेमुषीकाः
तादात्म्य मूढ मतयो निपतन्त्यधीराः ॥ 10 ॥
मध्ये विरिञ्चि शिवयोर्विहितावतारः
ख्यातोऽसि तत्समतया तदिदं न चित्रम् ।
माया वशेन मकरादि शरीरिणं त्वां
तानेव पश्यति करीश यदेष लोकः ॥ 11 ॥
ब्रह्मेति शङ्कर इतीन्द्र इति स्वराडिति
आत्मेति सर्वमिति सर्व चराचरात्मन् ।
हस्तीश सर्व वचसामवसान सीमां
त्वां सर्वकारणमुशन्त्यनपाय वाचः ॥ 12 ॥
आशाधिपेषु गिरिशेषु चतुर्मुखेष्वपि
अव्याहता विधि निषेध मयी तवाज्ञा ।
हस्तीश नित्यमनुपालन लङ्घनाभ्यां
पुं सां शुभाशुभ मयानि फलानि सूते ॥ 13 ॥
त्रातापदि स्थिति पदं भरणं प्ररोहः
छाया करीश सरसानि फलानि च त्वम् ।
शाखागत त्रिदश बृन्द शकुन्तकानां
किं नाम नासि महतां निगम द्रुमाणाम् ॥ 14 ॥
सामान्य बुद्धि जनकाश्च सदादि शब्दाः
तत्त्वान्तर भ्रम कृतश्च शिवादि वाचः ।
नारायणे त्वयि करीश वहन्त्यनन्यम्
अन्वर्थ वृत्ति परिकल्पितमैक कण्ठ्यम् ॥ 15 ॥
सञ्चिन्तयन्त्यखिल हेय विपक्ष भूतं
शान्तोदितं शमवता हृदयेन धन्याः ।
नित्यं परं वरद सर्वगतं सुसूक्ष्मं
निष्पन्द नन्दथु मयं भवतः स्वरूपम् ॥ 16 ॥
विश्वातिशायि सुखरूप यदात्मकस्त्वं
व्यक्तिं करीश कथयन्ति तदात्मिकां ते ।
येनाधिरोहति मतिस्त्वदुपासकानां
सा किं त्वमेव तव वेति वितर्क डोलाम् ॥ 17 ॥
मोहान्धकार विनिवर्तन जागरूके
दोषा दिवापि निरवग्रहमेधमाने ।
त्वत्तेजसि द्विरद शैलपते विमृष्टे
श्लाघ्येत सन्तमस पर्व सहस्र भानोः ॥ 18 ॥
रूढस्य चिन्मयतया हृदये करीश
स्तम्बानुकारि परिणाम विशेष भाजः ।
स्थानेषु जाग्रति चतुर्ष्वपि सत्त्ववन्तः
शाखा विभाग चतुरे तव चातुरात्म्ये ॥ 19 ॥
नागाचलेश निखिलोपनिषन्मनीषा-
मञ्जूषिका मरकतं परिचिन्वतां त्वाम् ।
तन्वी हृदि स्फुरति काऽपि शिखा मुनीनां
सौदामनीव निभृता नव मेघ गर्भा ॥ 20 ॥
औदन्वते महति सद्मनि भासमाने
श्लाघ्ये च दिव्य सदने तमसः परस्मिन् ।
अन्तः कलेबरमिदं सुषिरं सुसूक्ष्मं
जातं करीश कथमादरणास्पदं ते ॥ 21 ॥
बालाकृतेर्वटपलाशमितस्य यस्य
ब्रह्माण्ड मण्डलमभूदुदरैकदेशे ।
तस्यैव तद् वरद हन्त कथं प्रभूतं
वाराहमास्थितवतो वपुरद्भुतं ते ॥ 22 ॥
भक्तस्य दानव शिशोः परिपालनाय
भद्रां नृसिं ह कुहनामधिजग्मुषस्ते ।
स्तम्भैक वर्जमधुनाऽपि करीश नूनं
त्रैलोक्यमेतदखिलं नरसिं ह गर्भम् ॥ 23 ॥
क्रामन् जगत् कपट वामनतामुपेतः
त्रेधा करीश स भवान् निदधे पदानि ।
अद्यापि जन्तव इमे विमलेन यस्य
पादोदकेन विधृतेन शिवा भवन्ति ॥ 24 ॥
येनाचल प्रकृतिना रिपु सं क्षयार्थी
वारां निधिं वरद पूर्वमलङ्घयस्त्वम् ।
तं वीक्ष्य सेतुमधुनापि शरीरवन्तः
सर्वे षडूर्मि बहुलं जलधिं तरन्ति ॥ 25 ॥
इत्थं करीश दुरपह्नव दिव्य भव्य-
रूपान्वितस्य विबुधादि विभूति साम्यात् ।
केचिद् विचित्र चरितान् भवतोऽवतारान्
सत्यान् दया परवशस्य विदन्ति सन्तः ॥ 26 ॥
सौशील्य भावित धिया भवता कथञ्चित्
सञ्छादितानपि गुणान् वरद त्वदीयान् ।
प्रत्यक्षयन्त्यविकलं तव सन्निकृष्टाः
पत्युस्त्विषामिव पयोद वृतान् मयूखान् ॥ 27 ॥
नित्यं करीश तिमिराविल दृष्टयोऽपि
सिद्धाञ्जनेन भवतैव विभूषिताक्षाः ।
पश्यन्त्युपर्युपरि सञ्चरतामदृश्यं
माया निगूढमनपाय महानिधिं त्वाम् ॥ 28 ॥
सद्यस्त्यजन्ति वरद त्वयि बद्ध भावाः
पैतामहादिषु पदेष्वपि भाव बन्धम् ।
कस्मै स्वदेत सुख सञ्चरणोत्सुकाय
कारागृहे कनक शृङ्खलयाऽपि बन्धः ॥ 29 ॥
हस्तीश दुः ख विष दिग्ध फलानुबन्धिनि
आब्रह्म कीट मपराहत सं प्रयोगे ।
दुष्कर्म सञ्चयवशाद् दुरतिक्रमे नः
प्रत्यस्त्रमञ्जलिरसौ तव निग्रहास्त्रे ॥ 30 ॥
त्वद्भक्ति पोत मवलम्बितु मक्षमाणां
पारं परं वरद गन्तु मनीश्वराणाम् ।
स्वैरं लिलङ्घयिषतां भव वारि राशिं
त्वामेव गन्तुमसि सेतुरभङ्गुरस्त्वम् ॥ 31 ॥
अश्रान्त सं सरण घर्म निपीडितस्य
भ्रान्तस्य मे वरद भोग मरीचिकासु ।
जीवातुरस्तु निरवग्रह मेधमानः
देव त्वदीय करुणामृत दृष्टि पातः ॥ 32 ॥
अन्तः प्रविश्य भगवन्नखिलस्य जन्तोः
आसेदुषस्तव करीश भृशं दवीयान् ।
सत्यं भवेयमधुनापि स एव भूयः
स्वाभाविकी तव दया यदि नान्तरायः ॥ 33 ॥
अज्ञात निर्गम मनागम वेदिनं माम्
अन्धं न किञ्चि दवलम्बन मश्नुवानम् ।
एतावतीं गमयितुः पदवीं दयालोः
शेषाध्वलेश नयने क इवातिभारः ॥ 34 ॥
भूयोऽपि हन्त वसतिर्यदि मे भवित्री
याम्यासु दुर्विषह वृत्तिषु यातनासु ।
सम्यग् भविष्यति ततः शरणागतानां
सं रक्षितेति बिरुदं वरद त्वदीयम् ॥ 35 ॥
पर्याकुलं महति दुः ख पयोनिधौ मां
पश्यन् करीश यदि जोषमवस्थितस्त्वम् ।
स्फारेक्षणेऽपि मिषति त्वयि निर्निमेषं
पारे करिष्यति दया तव दुर्निवारा ॥ 36 ॥
किं वा करीश कृपणे मयि रक्षणीये
धर्मादि बाह्य सहकारि गवेषणेन ।
नन्वस्ति विश्व परिपालन जागरूकः
सङ्कल्प एव भवतो निपुणः सहायः ॥ 37 ॥
निर्यन्त्रणं परिणमन्ति न यावदेते
नीरन्ध्र दुष्कृत भवा दुरित प्ररोहाः ।
तावन्न चेत् त्वमुपगच्छसि शार्ङ्गधन्वा
शक्यं त्वयापि न हि वारयितुं करीश ॥ 38 ॥
यावन्न पश्यति निकामममर्षणो मां
भ्रू भङ्ग भीषण कराल मुखः कृतान्तः ।
तावत् पतन्तु मयि ते भगवन् दयालोः
उन्निद्र पद्म कलिका मधुराः कटाक्षाः ॥ 39 ॥
स त्वं स एव रभसो भवदौपवाह्यः
चक्रं तदेव शित धार महं च पाल्यः ।
साधारणे त्वयि करीश समस्त जन्तोः
मातङ्ग मानुष भिदा न विशेष हेतुः ॥ 40 ॥
निर्वापयिष्यति कदा करिशैल धामन्
दुर्वार कर्म परिपाक महादवाग्निम् ।
प्राचीन दुः खमपि मे सुखयन्निव त्वत्-
पादारविन्द परिचार रस प्रवाहः ॥ 41 ॥
मुक्तः स्वयं सुकृत दुष्कृत शृङ्खलाभ्याम्
अर्चिर्मुखै रधिकृतै रतिवाहिताध्वा ।
स्वच्छन्द किङ्करतया भवतः करीश
स्वाभाविकं प्रतिलभेय महाधिकारम् ॥ 42 ॥
त्वं चेत् प्रसीदसि तवास्मि समीपतश्चेत्
त्वय्यस्ति भक्तिरनघा करिशैल नाथ ।
सं सृज्यते यदि च दास जनस्त्वदीयः
सं सार एष भगवन्नपवर्ग एव ॥ 43 ॥
आहूयमानमनपाय विभूति कामैः
आलोक लुप्त जगदान्ध्यं अनुस्मरेयम् ।
आलोहितां शुकमनाकुल हेतिजालं
हैरण्यगर्भ हयमेध हविर्भुजं त्वाम् ॥ 44 ॥
भूयो भूयः पुलक निचितै रङ्गकै रेधमानाः
स्थूल स्थूलान् नयन मुकुलैर्बिभ्रतो बाष्प बिन्दून् ।
धन्याः केचिद् वरद भवतः सं सदं भूषयन्तः
स्वान्तै रन्तर्विनय निभृतैः स्वादयन्ते पदं ते ॥ 45 ॥
वरद तव विलोकयन्ति धन्याः
मरकत भूधर मातृकायमाणम् ।
व्यपगत परिकर्म वारवाणं
मृगमद पङ्क विशेष नीलमङ्गम् ॥ 46 ॥
अनिभृत परिरम्भै राहिता मिन्दिरायाः
कनक वलय मुद्रां कण्ठदेशे दधानः ।
फणिपति शयनीया दुत्थितस्त्वं प्रभाते
वरद सतत मन्तर्मानसं सन्निधेयाः ॥ 47 ॥
तुरग विहगराज स्यन्दनान्दोलिकादिषु
अधिक मधिक मन्या मात्म शोभां दधानम् ।
अनवधिक विभूतिं हस्तिशैलेश्वरं त्वाम्
अनुदिन मनिमेषैर्लोचनैर्निर्विशेयम् ॥ 48 ॥
निरन्तरं निर्विशतस्त्वदीयम्
अस्पृष्ट चिन्तापदमाभिरूप्यम् ।
सत्यं शपे वारण शैलनाथ
वैकुण्ठ वासेऽपि न मेऽभिलाषः ॥ 49 ॥
व्यातन्वाना तरुण तुलसी दामभिः स्वामभिख्यां
मातङ्गाद्रौ मरकत रुचिं पुष्णती मानसे नः ।
भोगैश्वर्य प्रिय सहचरैः कापि लक्ष्मी कटाक्षैः
भूयः श्यामा भुवन जननी देवता सन्निधत्ताम् ॥ 50 ॥
इति विहितमुदारं वेङ्कटेशेन भक्त्या
श्रुति सुभगमिदं यः स्तोत्रमङ्गीकरोति ।
करिशिखरि विटङ्क स्थायिनः कल्पवृक्षात्
भवति फलमेशषं तस्य हस्तापचेयम् ॥ 51 ॥