विश्वास-प्रस्तुतिः
मानातीत-प्रथित-विभवां मङ्गलं मङ्गलानां
वक्षः-पीठीं मधु-विजयिनो भूषयन्तीं स्वकान्त्या ।
प्रत्यक्षानुश्रविक-महिम-प्रार्थिनीनां प्रजानां
श्रेयो-मूर्तिं श्रियम् अशरणस् त्वां शरण्यां प्रपद्ये ॥
मूलम्
मानातीतप्रथितविभवां मङ्गलं मङ्गलानां
वक्षःपीठीं मधुविजयिनो भूषयन्तीं स्वकान्त्या ।
प्रत्यक्षानुश्रविकमहिमप्रार्थिनीनां प्रजानां
श्रेयोमूर्तिं श्रियमशरणस्त्वां शरण्यां प्रपद्ये ॥
विश्वास-प्रस्तुतिः
आविर्भावः कलशजलधावध्वरे वापि यस्याः
स्थानं यस्याः सरसिजवनं विष्णुवक्षःस्थलं वा ।
भूमा यस्या भूवनमखिलं देवि दिव्यं पदं वा
स्तोकप्रज्ञैरनवधिगुणा स्तूयसे सा कथं त्वम् ॥
मूलम्
आविर्भावः कलशजलधावध्वरे वापि यस्याः
स्थानं यस्याः सरसिजवनं विष्णुवक्षःस्थलं वा ।
भूमा यस्या भूवनमखिलं देवि दिव्यं पदं वा
स्तोकप्रज्ञैरनवधिगुणा स्तूयसे सा कथं त्वम् ॥
विश्वास-प्रस्तुतिः
स्तोतव्यत्वं दिशति भवती देहिभिः स्तूयमाना
तामेव त्वामनितरगतिः स्तोतुमाशंसमानः ।
सिद्धारम्भः सकलभुवनश्लाघनीयो भवेयं
सेवापक्षो तव चरणयोः श्रेयसे कस्य न स्यात् ॥
मूलम्
स्तोतव्यत्वं दिशति भवती देहिभिः स्तूयमाना
तामेव त्वामनितरगतिः स्तोतुमाशंसमानः ।
सिद्धारम्भः सकलभुवनश्लाघनीयो भवेयं
सेवापक्षो तव चरणयोः श्रेयसे कस्य न स्यात् ॥
विश्वास-प्रस्तुतिः
यत्सङ्कल्पाद्भवति कमले यत्र देहिन्यमीषां
जन्मस्थेमप्रलयरचना जङ्गमाजङ्गमानाम् ।
तत् कल्याणं किमपि यमिनामेकलक्ष्यं समाधौ
पूर्णं तेजः स्फुरति भवतीपादलाक्षारसाङ्कम् ॥
मूलम्
यत्सङ्कल्पाद्भवति कमले यत्र देहिन्यमीषां
जन्मस्थेमप्रलयरचना जङ्गमाजङ्गमानाम् ।
तत् कल्याणं किमपि यमिनामेकलक्ष्यं समाधौ
पूर्णं तेजः स्फुरति भवतीपादलाक्षारसाङ्कम् ॥
विश्वास-प्रस्तुतिः
निष्प्रत्यूहप्रणयघटितं देवि नित्यानपायं
विष्णुस्त्वं चेत्यनवधिगुणं द्वन्द्वमन्योन्यलक्ष्यम् ।
शेषश्चित्तं विमलमनसां मौलयश्च श्रुतीनां
सम्पद्यन्ते विहरणविधौ यस्य शय्याविशेषाः ॥
मूलम्
निष्प्रत्यूहप्रणयघटितं देवि नित्यानपायं
विष्णुस्त्वं चेत्यनवधिगुणं द्वन्द्वमन्योन्यलक्ष्यम् ।
शेषश्चित्तं विमलमनसां मौलयश्च श्रुतीनां
सम्पद्यन्ते विहरणविधौ यस्य शय्याविशेषाः ॥
विश्वास-प्रस्तुतिः
उद्देश्यत्वं जननि भजतोरुज्ज्ञितोपाधिगन्धं
प्रत्यग्रूपे हविषि युवयोरेकशेषित्वयोगात् ।
पद्मे पत्युस्तव च निगमैर्नित्यमन्विष्यमाणो
नावच्छेदं भजति महिमा नर्तयन् मानसं नः ॥
मूलम्
उद्देश्यत्वं जननि भजतोरुज्ज्ञितोपाधिगन्धं
प्रत्यग्रूपे हविषि युवयोरेकशेषित्वयोगात् ।
पद्मे पत्युस्तव च निगमैर्नित्यमन्विष्यमाणो
नावच्छेदं भजति महिमा नर्तयन् मानसं नः ॥
विश्वास-प्रस्तुतिः
पश्यन्तीषु श्रुतिषु परितः सूरिबृन्देन सार्धं
मध्येकृत्य त्रिगुणफलकं निर्मितस्थानभेदम् ।
विश्वाधीशप्रणयिनि सदा विभ्रमद्यूतवृत्तौ
ब्रह्मेशाद्या दधति युवयोरक्षशारप्रचारम् ॥
मूलम्
पश्यन्तीषु श्रुतिषु परितः सूरिबृन्देन सार्धं
मध्येकृत्य त्रिगुणफलकं निर्मितस्थानभेदम् ।
विश्वाधीशप्रणयिनि सदा विभ्रमद्यूतवृत्तौ
ब्रह्मेशाद्या दधति युवयोरक्षशारप्रचारम् ॥
विश्वास-प्रस्तुतिः
अस्येशाना त्वम् असि जगतः संश्रयन्ती मुकुन्दं
लक्ष्मीः पद्मा जल-धि-तनया विष्णु-पत्नीन्दिरेति ।
यन्-नामानि श्रुति-परिपणान्य् एवम् आवर्तयन्तो
नावर्तन्ते दुरित-पवन-प्रेरिते जन्म-चक्रे ॥
मूलम्
अस्येशाना त्वमसि जगतः संश्रयन्ती मुकुन्दं
लक्ष्मीः पद्मा जलधितनया विष्णुपत्नीन्दिरेति ।
यन्नामानि श्रुतिपरिपणान्येवमावर्तयन्तो
नावर्तन्ते दुरितपवनप्रेरिते जन्मचक्रे ॥
विश्वास-प्रस्तुतिः
त्वामेवाहुः कतिचिदपरे त्वत्प्रियं लोकनाथं
किं तैरन्तःकलहमलिनैः किञ्चिदुत्तीर्य मग्नैः ।
त्वत्सम्प्रीत्यै विहरति हरौ सम्मुखीनां श्रुतीनां
भावारूढौ भगवति युवां दम्पती दैवतं नः ॥
मूलम्
त्वामेवाहुः कतिचिदपरे त्वत्प्रियं लोकनाथं
किं तैरन्तःकलहमलिनैः किञ्चिदुत्तीर्य मग्नैः ।
त्वत्सम्प्रीत्यै विहरति हरौ सम्मुखीनां श्रुतीनां
भावारूढौ भगवति युवां दम्पती दैवतं नः ॥
विश्वास-प्रस्तुतिः
आपन्नार्तिप्रशमनविधौ बद्धदीक्षस्य विष्णोः
आचख्युस्त्वां प्रियसहचरीमैकमत्योपपन्नाम् ।
प्रादुर्भावैरपि समतनुः प्राध्वमन्वीयसे त्वं
दूरोत्क्षिप्तैरिव मधुरता दुग्धराशेस्तरङ्गैः ॥
मूलम्
आपन्नार्तिप्रशमनविधौ बद्धदीक्षस्य विष्णोः
आचख्युस्त्वां प्रियसहचरीमैकमत्योपपन्नाम् ।
प्रादुर्भावैरपि समतनुः प्राध्वमन्वीयसे त्वं
दूरोत्क्षिप्तैरिव मधुरता दुग्धराशेस्तरङ्गैः ॥
विश्वास-प्रस्तुतिः
धत्ते शोभां हरिमरकते तावकी मूर्तिराद्या
तन्वी तुङ्गस्तनभरनता तप्तजाम्बूनदाभा ।
यस्यां गच्छन्त्युदयविलयैर्नित्यमानन्दसिन्धौ
इच्छावेगोल्लसितलहरीविभ्रमं व्यक्तयस्ते ॥
मूलम्
धत्ते शोभां हरिमरकते तावकी मूर्तिराद्या
तन्वी तुङ्गस्तनभरनता तप्तजाम्बूनदाभा ।
यस्यां गच्छन्त्युदयविलयैर्नित्यमानन्दसिन्धौ
इच्छावेगोल्लसितलहरीविभ्रमं व्यक्तयस्ते ॥
विश्वास-प्रस्तुतिः
आसंसारं विततमखिलं वाङ्मयं यद्विभूतिः
यद्भ्रूभङ्गात् कुसुमधनुषः किङ्करो मेरुधन्वा ।
यस्यां नित्यं नयनशतकैरेकलक्ष्यो महेन्द्रः
पद्मे तासां परिणतिरसौ भावलेशैस्त्वदीयैः ॥
मूलम्
आसंसारं विततमखिलं वाङ्मयं यद्विभूतिः
यद्भ्रूभङ्गात् कुसुमधनुषः किङ्करो मेरुधन्वा ।
यस्यां नित्यं नयनशतकैरेकलक्ष्यो महेन्द्रः
पद्मे तासां परिणतिरसौ भावलेशैस्त्वदीयैः ॥
विश्वास-प्रस्तुतिः
अग्रे भर्तुः सरसिजमये भद्रपीठे निषण्णाम्
अम्भोराशेरधिगतसुधासम्प्लवादुत्थितां त्वाम् ।
पुष्पासारस्थगितभुवनैः पुष्कलावर्तकाद्यैः
क्लृप्तारम्भाः कनककलशैरभ्यषिञ्चन् गजेन्द्राः ॥
मूलम्
अग्रे भर्तुः सरसिजमये भद्रपीठे निषण्णाम्
अम्भोराशेरधिगतसुधासम्प्लवादुत्थितां त्वाम् ।
पुष्पासारस्थगितभुवनैः पुष्कलावर्तकाद्यैः
क्लृप्तारम्भाः कनककलशैरभ्यषिञ्चन् गजेन्द्राः ॥
विश्वास-प्रस्तुतिः
आलोक्य त्वाममृतसहजे विष्णुवक्षःस्थलस्थां
शापाक्रान्ताः शरणमगमन् सावरोधाः सुरेन्द्राः ।
लब्ध्वा भूयस्त्रिभुवनमिदं लक्षितं त्वत्कटाक्षैः
सर्वाकारस्थिरसमुदयां सम्पदं निर्विशन्ति ॥
मूलम्
आलोक्य त्वाममृतसहजे विष्णुवक्षःस्थलस्थां
शापाक्रान्ताः शरणमगमन् सावरोधाः सुरेन्द्राः ।
लब्ध्वा भूयस्त्रिभुवनमिदं लक्षितं त्वत्कटाक्षैः
सर्वाकारस्थिरसमुदयां सम्पदं निर्विशन्ति ॥
विश्वास-प्रस्तुतिः
आर्तत्राणव्रतिभिरमृतासारनीलाम्बुवाहैः
अम्भोजानामुषसि मिषतामन्तरङ्गैरपाङ्गैः ।
यस्यां यस्यां दिशि विहरते देवि दृष्टिस्त्वदीया
तस्यां तस्यामहमहमिकां तन्वते सम्पदोघाः ॥
मूलम्
आर्तत्राणव्रतिभिरमृतासारनीलाम्बुवाहैः
अम्भोजानामुषसि मिषतामन्तरङ्गैरपाङ्गैः ।
यस्यां यस्यां दिशि विहरते देवि दृष्टिस्त्वदीया
तस्यां तस्यामहमहमिकां तन्वते सम्पदोघाः ॥
विश्वास-प्रस्तुतिः
योगारम्भत्वरितमनसो युष्मदैकान्त्ययुक्तं
धर्मं प्राप्तुं प्रथममिह ये धारयन्ते धनायाम् ।
तेषां भूमेर्धनपतिगृहादम्बरादम्बुधेर्वा
धारा निर्यान्त्यधिकमधिकं वाञ्छितानां वसूनाम् ॥
मूलम्
योगारम्भत्वरितमनसो युष्मदैकान्त्ययुक्तं
धर्मं प्राप्तुं प्रथममिह ये धारयन्ते धनायाम् ।
तेषां भूमेर्धनपतिगृहादम्बरादम्बुधेर्वा
धारा निर्यान्त्यधिकमधिकं वाञ्छितानां वसूनाम् ॥
विश्वास-प्रस्तुतिः
श्रेयस्कामाः कमलनिलये चित्रमाम्नायवाचां
चूडापीडं तव पदयुगं चेतसा धारयन्तः ।
छत्रच्छायासुभगशिरसश्चामरस्मेरपार्श्वाः
श्लाघाशब्दश्रवणमुदिताः स्रग्विणः सञ्चरन्ति ॥
मूलम्
श्रेयस्कामाः कमलनिलये चित्रमाम्नायवाचां
चूडापीडं तव पदयुगं चेतसा धारयन्तः ।
छत्रच्छायासुभगशिरसश्चामरस्मेरपार्श्वाः
श्लाघाशब्दश्रवणमुदिताः स्रग्विणः सञ्चरन्ति ॥
विश्वास-प्रस्तुतिः
ऊरीकर्तुं कुशलमखिलं जेतुमादीनरातीन्
दूरीकर्तुं दुरितनिवहं त्यक्तुमाद्यामविद्याम् ।
अम्ब स्तम्बावधिकजननग्रामसीमान्तरेखाम्
आलम्बन्ते विमलमनसो विष्णुकान्ते दयां ते ॥
मूलम्
ऊरीकर्तुं कुशलमखिलं जेतुमादीनरातीन्
दूरीकर्तुं दुरितनिवहं त्यक्तुमाद्यामविद्याम् ।
अम्ब स्तम्बावधिकजननग्रामसीमान्तरेखाम्
आलम्बन्ते विमलमनसो विष्णुकान्ते दयां ते ॥
विश्वास-प्रस्तुतिः
जाताकाङ्क्षा जननि युवयोरेकसेवाधिकारे
मायालीढं विभवमखिलं मन्यमानास्तृणाय ।
प्रीत्यै विष्णोस्तव च कृतिनः प्रीतिमन्तो भजन्ते
वेलाभङ्गप्रशमनफलं वैदिकं धर्मसेतुम् ॥
मूलम्
जाताकाङ्क्षा जननि युवयोरेकसेवाधिकारे
मायालीढं विभवमखिलं मन्यमानास्तृणाय ।
प्रीत्यै विष्णोस्तव च कृतिनः प्रीतिमन्तो भजन्ते
वेलाभङ्गप्रशमनफलं वैदिकं धर्मसेतुम् ॥
विश्वास-प्रस्तुतिः
सेवे देवि त्रिदशमहिलामौलिमालार्चितं ते
सिद्धिक्षेत्रं शमितविपदां सम्पदां पादपद्मम् ।
यस्मिन्नीषन्नमितशिरसो यापयित्वा शरीरं
वर्तिष्यन्ते वितमसि पदे वासुदेवस्य धन्याः ॥
मूलम्
सेवे देवि त्रिदशमहिलामौलिमालार्चितं ते
सिद्धिक्षेत्रं शमितविपदां सम्पदां पादपद्मम् ।
यस्मिन्नीषन्नमितशिरसो यापयित्वा शरीरं
वर्तिष्यन्ते वितमसि पदे वासुदेवस्य धन्याः ॥
विश्वास-प्रस्तुतिः
सानुप्रासप्रकटितदयैः सान्द्रवात्सल्यदिग्धैः
अम्ब स्निग्धैरमृतलहरीलब्धसब्रह्मचर्यैः ।
घर्मे तापत्रयविरचिते गाढतप्तं क्षणं माम्
आकिञ्चन्यग्लपितमनघैरार्द्रयेथाः कटाक्षैः ॥
मूलम्
सानुप्रासप्रकटितदयैः सान्द्रवात्सल्यदिग्धैः
अम्ब स्निग्धैरमृतलहरीलब्धसब्रह्मचर्यैः ।
घर्मे तापत्रयविरचिते गाढतप्तं क्षणं माम्
आकिञ्चन्यग्लपितमनघैरार्द्रयेथाः कटाक्षैः ॥
विश्वास-प्रस्तुतिः
सम्पद्यन्ते भवभयतमीभानवस्त्वत्प्रसादात्
भावाः सर्वे भगवति हरौ भक्तिमुद्वेलयन्तः ।
याचे किं त्वामहमिह यतः शीतलोदारशीला
भूयो भूयो दिशसि महतां मङ्गलानां प्रबन्धान् ॥
मूलम्
सम्पद्यन्ते भवभयतमीभानवस्त्वत्प्रसादात्
भावाः सर्वे भगवति हरौ भक्तिमुद्वेलयन्तः ।
याचे किं त्वामहमिह यतः शीतलोदारशीला
भूयो भूयो दिशसि महतां मङ्गलानां प्रबन्धान् ॥
विश्वास-प्रस्तुतिः
माता देवि त्वमसि भगवान् वासुदेवः पिता मे
जातः सोऽहं जननि युवयोरेकलक्ष्यं दयायाः ।
दत्तो युष्मत्परिजनतया देशिकैरप्यतस्त्वं
किं ते भूयः प्रियमिति किल स्मेरवक्त्रा विभासि ॥
मूलम्
माता देवि त्वमसि भगवान् वासुदेवः पिता मे
जातः सोऽहं जननि युवयोरेकलक्ष्यं दयायाः ।
दत्तो युष्मत्परिजनतया देशिकैरप्यतस्त्वं
किं ते भूयः प्रियमिति किल स्मेरवक्त्रा विभासि ॥
विश्वास-प्रस्तुतिः
कल्याणानामविकलनिधिः काऽपि कारुण्यसीमा
नित्यामोदा निगमवचसां मौलिमन्दारमाला ।
सम्पद्दिव्या मधुविजयिनः सन्निधत्तां सदा मे
सैषा देवी सकलभुवनप्रार्थनाकामधेनुः ॥
मूलम्
कल्याणानामविकलनिधिः काऽपि कारुण्यसीमा
नित्यामोदा निगमवचसां मौलिमन्दारमाला ।
सम्पद्दिव्या मधुविजयिनः सन्निधत्तां सदा मे
सैषा देवी सकलभुवनप्रार्थनाकामधेनुः ॥
विश्वास-प्रस्तुतिः
उपचितगुरुभक्तेरुत्थितं वेङ्कटेशात्
कलिकलुषनिवृत्त्यै कल्पमानं प्रजानाम् ।
सरसिजनिलयायाः स्तोत्रमतेत् पठन्तः
सकलकुशलसीमाः सार्वभौमा भवन्ति ॥
मूलम्
उपचितगुरुभक्तेरुत्थितं वेङ्कटेशात्
कलिकलुषनिवृत्त्यै कल्पमानं प्रजानाम् ।
सरसिजनिलयायाः स्तोत्रमतेत् पठन्तः
सकलकुशलसीमाः सार्वभौमा भवन्ति ॥