TODO: परिष्कार्यम्
Source: TW
॥ श्रीस्तुतिः ॥
श्रीः
श्रीमते निगमान्तमहादेशिकाय नमः
श्रीमान् वेंङ्कटनाथार्यः कवितार्किककेसरी । वेदान्ताचार्यवर्यो मे सन्निधत्ताम् सदा हृदि ॥
॥ श्रीस्तुतिः ॥
मानातीतप्रथितविभवां मङ्गलं मङ्गलानां
वक्षःपीठीं मधुविजयिनो भूषयन्तीं स्वकान्त्या । प्रत्यक्षानुश्रविकमहिमप्रार्थिनीनां प्रजानां श्रेयोमूर्तिं श्रियमशरणस्त्वां शरण्यां प्रपद्ये ॥
आविर्भावः कलशजलधावध्वरे वापि यस्याः
स्थानं यस्याः सरसिजवनं विष्णुवक्षःस्थलं वा । भूमा यस्याः भुवनमखिलं देवि दिव्यं पदं वा स्तोकप्रज्ञैरनवधिगुणा स्तूयसे सा कथं त्वम् ॥
स्तोतव्यत्वं दिशति भवती देहिभिः स्तूयमाना तामेव त्वामनितरगतिः स्तोतुमाशंसमानः । सिद्धारम्भः सकलभुवन श्लाघनीयो भवेयं
सेवापेक्षा तव चरणयोः श्रेयसे कस्य न स्यात् ॥
यत्सङ्कल्पाद्भवति कमले यत्र देहिन्यमीषां
or
जन्मस्थेमप्रलयरचना जङ्गमाजङ्गमानाम् ।
तत्कल्याणं किमपि यमिनामेकलक्ष्यं समाधौ
पूर्णं तेजः स्फुरति भवतीपादलाक्षारसाङ्कम् ॥
[[209]]
॥ श्री देशिकस्तोत्राणि चतुर्थो भागः ॥
निष्प्रत्यूहप्रणयघटितं देवि नित्यानपायं विष्णुस्त्वं चेत्यनवधिगुणं द्वन्द्वमन्योन्यलक्ष्यम् । शेषश्चित्तं विमलमनसां मौलयश्च श्रुतीनां संपद्यन्ते विहरणविधौ यस्य शय्याविशेषाः ॥
उद्देश्यत्वं जननि भजतोरुज्झितोपाधिगन्धं
प्रत्यग्रूपे हविषि युवयोरेकशेषित्वयोगात् ।
पद्मे पत्युस्तव च निगमैर्नित्यमन्विष्यमाणो
नावच्छेदं भजति महिमा नर्तयन्मानसं नः ॥६
पश्यन्तीषु श्रुतिषु परितः सूरि बृन्देन सार्धं
मध्येकृत्य त्रिगुणफलकं निर्मितस्थानभेदम् । विश्वाधीशप्रणयिनि सदा विभ्रमद्यूतवृत्तौ
ब्रह्मेशाद्या दधति युवयोरक्षशारप्रचारम् ॥
अस्येशाना त्वमसि जगतः संश्रयन्ती मुकुन्दं
लक्ष्मीः पद्मा जलधितनया विष्णुपत्नीन्दिरेति । यन्नामानि श्रुतिपरिपणान्येवमावर्तयन्तो
[[७]]
नावर्तन्ते दुरितपवनप्रेरिते जन्मचक्रे ॥
[[८]]
त्वामेवाहुः कतिचिदपरे त्वत्प्रियं लोकनाथं किं तैरन्तः कलहमलिनैः किंचिदुत्तीर्य मग्नैः । त्वत्संप्रीत्यै विहरति हरौ संमुखीनां श्रुतीनां
भावारूढौ भगवति युवां दैवतं दम्पती नः ॥
[[९]]
आपन्नार्तिप्रशमनविधौ बद्धदीक्षस्य विष्णो- राचख्युस्त्वां प्रियसहचरीमैकमत्योपपन्नाम् । प्रादुर्भावैरपि समतनुः प्राध्वमन्वीयसे त्वं दूरोत्क्षिप्तैरिव मधुरता दुग्धराशेस्तरङ्गैः ॥
[[१०]]
[[210]]
॥ श्रीस्तुतिः ॥
धत्ते शोभां हरिमरकते तावकी मूर्तिराद्या तन्वी तुङ्गस्तनभरनता तप्तजाम्बूनदाभा । यस्यां गच्छन्त्युदयविलयैर्नित्यमानन्दसिन्धाविच्छावेगोल्लसितलहरीविभ्रमं व्यक्तयस्ते ॥ आसंसारं विततमखिलं वाङ्मयं यद्विभूति र्यद्भूभङ्गात्कुसुमधनुषः किंकरो मेरुधन्वा । यस्यां नित्यं नयनशतकैरेकलक्ष्यो महेन्द्रः
[[११]]
पद्मे तासां परिणतिरसौ भावलेशैस्त्वदीयैः ॥
अग्रे भर्तुः सरसिजमये भद्रपीठे निषण्णामम्भोराशेरधिगतसुधासंप्लवादुत्थितां त्वाम् । पुष्पासारस्थगितभुवनैः पुष्कलावर्तकाद्यैः
[[१२]]
क्लृप्तारम्भाः कनककलशैरभ्यषिञ्चन्गजेन्द्रः ॥
आलोक्य त्वाममृतसहजे विष्णुवक्षःस्थलस्थां शापाक्रान्ताः शरणमगमन्सावरोधाः सुरेन्द्राः ।
[[१३]]
लब्ध्वा भूयस्त्रिश्रुवनमिदं लक्षितं त्वत्कटाक्षैः सर्वाकारस्थिर समुदयां संपदं निर्विशन्ति ॥
[[१४]]
आर्तत्राणव्रतिभिरमृतासारनीलाम्बुवाहै-
रम्भोजानामुषसि मिषतामन्तरङ्गैरपाङ्गैः ।
यस्यां यस्यां दिशि विहरते देवि दृष्टिस्त्वदीया तस्यां तस्यामहमहमिकां तन्वते सम्पदौघाः ॥
[[१५]]
योगारम्भत्वरितमनसो युष्मदैकान्त्ययुक्तं
धर्मं प्राप्तुं प्रथममिह ये धारयन्ते धनायाम् । तेषां भूमेर्धनपतिगृहादम्बरादम्बुधेर्वा धारा निर्यान्त्यधिकमधिकं वाञ्छितानां वसूनाम् ॥
[[१६]]
[[211]]
॥ श्री देशिकस्तोत्राणि चतुर्थो भागः ॥
श्रेयस्कामाः कमलनिलये चित्रमाम्नायवाचां
चूडापीडं तव पदयुगं चेतसा धारयन्तः । छत्त्रच्छायासुभगशिरसश्चामरस्मेरपार्श्वाः
श्लाघाशब्दश्रवणमुदिताः स्रग्विणः संचरन्ति ॥
[[१७]]
ऊरीकर्तुं कुशलमखिलं जेतुमादीनरातीन्
दूरीकर्तुं दुरितनिवहं त्यक्तुमाद्यामविद्याम् । अम्ब! स्तम्बावधिकजननग्रामसीमान्तरेखा-
मालम्बन्ते विमलमनसो विष्णुकान्ते दयान्ते ॥
जाताकाङ्क्षा जननि युवयोरेकसेवाधिकारे
[[१८]]
मायालीढं विभवमखिलं मन्यमानास्तृणाय । प्रीत्यै विष्णोस्तव च कृतिनः प्रीतिमन्तो भजन्ते वेलाभङ्गप्रशमनफलं वैदिकं धर्मसेतुम् ॥
सेवे देवि त्रिदशमहिलामौलिमालार्चितं ते
[[१९]]
सिद्धिक्षेत्रं शमितविपदां संपदां पादपद्मम् ॥ यस्मिन्नीषन्नमितशिरसो यापयित्वा शरीरं
वर्तिष्यन्ते वितमसि पदे वासुदेवस्य धन्याः ॥
[[२०]]
सानुप्रासप्रकटितदयैः सान्द्रवात्सल्यदिग्धैरम्ब! सिग्धैरमृतलहरीलब्धसब्रह्मचर्यैः । धर्मे तापत्रयविरचिते गाढतप्तं क्षणं मामाकिञन्त्यालपितमनघैरार्द्रयेथाः कटाक्षैः ॥
द्भावाः सर्वे भगवति हरौ भक्तिमुद्वेलयन्तः ।
[[२१]]
संपद्यन्ते भवभयतमीभानवस्त्वत्प्रसादा-
याचे किं त्वामहमिह यतः शीतलोदारशीला
भूयो भूयो दिशसि महतां मङ्गलानां प्रबन्धान् ॥
[[212]]
[[२२]]
॥ श्रीस्तुतिः ॥
माता देवि त्वमसि भगवान्वासुदेवः पिता मे जातः सोऽहं जननि युवयोरेकलक्ष्यं दयायाः । दत्तो युष्मत्परिजनतया देशिकैरप्यतस्त्वं
भूयः प्रियमिति किल स्मेरवक्त्रा विभासि ॥
[[२३]]
किं ते
कल्याणानामविकलनिधिः कापि कारुण्यसीमा नित्यामोदा निगमवचसां मौलिमन्दारमाला । संपद्दिव्या मधुविजयिनः संनिधत्तां सदा मे
सैषा देवी सकलभुवनप्रार्थनाकामधेनुः ॥
[[२४]]
इति कवितार्किक सिंहस्य सर्वतन्त्र स्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु श्रीस्तुतिः सम्भूर्णा ॥
श्रीमान् वेंङ्कटनाथार्यः कवितार्किककेसरी । वेदान्ताचार्यवर्यो मे सन्निधत्ताम् सदा हृदि ॥
[[213]]
श्रीः
श्रीरङ्ग नायक्यै नमः ॥
श्रीमते निगमान्तमहादेशिकाय नमः
श्रीमान् वैयत्रटनाथार्यः कवितार्किककेसरी । वेदान्ताचार्यवर्यो मे सन्निधत्ताम् सदा हृदि ।
॥ श्रीस्तुतिः ॥
॥ मूलं
॥ मानातीतप्रथितविभवां मङ्गलं मङ्गलानां वक्षः पीठीं मधुविजयिनो भूषयन्तीं स्वकान्त्या । प्रत्यक्षानुश्रविकमहिमप्रार्थिनीनां प्रजानां
श्रेयोमूर्ति श्रियमशरणस्त्वां शरण्यां प्रपद्ये ॥ १
॥ आत्रेय श्रीवरदाचार्यस्वामिनः संस्कृतव्याख्यानम् ॥
॥ व्याख्यानप्रारम्भः ॥
आत्रेयं वरदाचार्यं श्रीनिवासार्यशेखरम् । वेदान्तार्यं यतीन्द्रं च शठारिं चरमां क्षमाम् ॥ वासुदेवं कुलधनं भूवराहं प्रणम्य च । करिष्ये श्रीस्तवव्याख्यां बालानां बोधसिद्धये ॥
इह खलु सकलजगदुज्जीवनाय कलिविलसितकुमतिमतशतनिरसनाय च समुदितः श्रीनिवासघण्टावतारतया प्रसिद्धस्सर्वतन्त्रस्वतन्त्रो भगवान् वेदान्ताचार्यो भक्त्युपायानधिकारिणाम् उज्जीवनाय प्रपत्त्युपायानुष्ठानं सप्रकारं प्रबन्धान्तरेषु बहुशः प्रतिपाद्य तत्र पुरुषकारतया भगवता भाष्यकारेण गद्यादौ भगवन् नारायणेत्यादिना दर्शितां श्रीशरणागतिं तन्मध्ये श्रीगद्यं च “असङ्ख्येयकल्याणगुणश्री वल्लभे"त्यादिना गद्यान्तरे श्रीमन्नारायणेत्यनेन च सिद्धोपायकोटावनुप्रवेशेन सूचितां श्रीविशिष्टशरणागतिं च द्वयमपि विशदीकर्तुं लोकमातुर्विष्णुपत्न्या जीवत्वाणुत्वाद्यभ्युपगमने निष्कर्षमिच्छतां पक्षान्विक्षो भयितुं पुरुषकारत्वशरण्यत्वोपेयत्वौपयिकान् गुणांश्च प्रकटयितुं स्तुतिव्याजेन दिव्यप्रबन्धमारभ्यते । मानातीतेत्यादि । अत्र श्लोके त्वां शरण्यां प्रपद्य इति क्रियमाणेन श्रीप्रपदनेनैव निर्विघ्नपरिसमाप्ति- 214
॥ श्रीस्तुतिः ॥
परिसमाप्तिफलकशिष्टाचारप्राप्तमङ्गलानुष्ठानमपि सेत्स्यतीति प्रथमं मङ्गळानुष्ठानं न कृतम्, अत एव मङ्गळंमङ्गळानामिति स्वाभिप्रायस्सूचितः । न च काम्यकर्मतया तत्प्रपन्नैरनादरणीयमिति वाच्यम् । एतादृशप्रबन्धानां सकलजगदुज्जीवनतया तत्समाप्तेः तदभिवृद्धेश्च “सत्समृद्धिं च युक्तां नित्यं याचेऽनन्य” इति न्यायेन प्रार्थनीयत्वात् पूर्वाचार्यैः स्वस्वग्रन्थादावनुष्ठितत्वा न चोद्यावकाश इति ध्येयम् । अत्र च श्रीदेवी स्वस्वरूपरूपगुणविभवैश्वर्यविशिष्टाप्रतिपाद्येति सैव प्रबन्धस्य विषयः । प्रयोजनं च तत्तत्कामकामानाम् अशक्ताधिकारिणां श्रीप्रपदनद्वारा सर्वकामसिद्धिः । तत्राद्यश्लोके देव्याः स्वरूपादिपञ्चकं सङ्ग्रहेणाभिधाय अनन्तकल्याणगुणतया देव्याः स्तुतिरेव न शक्येत्याशयं द्वितीयश्लोके दर्शयित्वा पुनः स्तोत्रारम्भाशंसामात्रेण प्रसन्ना सती स्तवनफलं ददातीति तृतीये समाधाय यत्सङ्कल्पादित्यादिश्लोकैस्सप्तभिः स्वरूपं प्रकाश्य एवं विधामम्बां विग्रहवर्ती चतुर्भिरश्लोकैः प्रतिपाद्य तदनु पञ्चभिः “आर्तो जिज्ञासुरर्थार्थी ज्ञानी चे “ति गीतोक्तपुमर्थचतुष्टयप्रदातृत्वविवरणमुखेन देव्याः कल्याणगुणेष्वभ्यर्हित तममौदार्यं प्रतिपाद्य. औदार्याविनाभूतान् परमकारुणिकत्ववात्सल्यसौशील्यादिगुणान् सूचयित्वा विभवेश्वर्ययोरप्येतेनैव सिद्धवत्कारेण पृथगनभिधेयत्वात् ततः पञ्चभिश्लोकैः स्वाभीष्टं विज्ञाप्य फलश्रुत्या निगमयत्याचार्य इति सर्वोऽप्ययं प्रबन्धः श्रीतत्त्वनिर्णयाय प्रवर्तत इति द्रष्टव्यम् । तत्र प्रथमश्लोके श्रीशब्दार्थपर्यालोचनया श्रीङ्घातुद्योतितां पुरुषकारशरणागतिं मतुबर्धनित्ययोगसूचितां प्रपत्तव्यत्वाविनाभावसिद्धां मोक्षार्थशरणागतिञ्च सङ्गृह्य आह तथाहि ( अशरणः) उपायान्तरेषु भक्त्यादिष्वशक्तः “उपाये गृहरक्षित्रोश्शब्दः शरणणमित्ययम् । वर्तते साम्प्रतं त्वेष उपायार्थैकवाचक” इत्यभिधानात् । अत्र " अहमस्म्यपराधानामालयोऽकिञ्चनोऽगतिः, अकिञ्चनोऽनन्यगतिश्शरण्य” इत्यादावुक्तानन्यगतिकत्वं अनन्योपायत्वापरपर्यायं सूचितं मोक्षार्थशरणागताविति द्रष्टव्यम् । एतेन प्रपत्त्यधिकारो दर्शितः । अहमित्यनेनाध्याहृतेन विशेष्येण प्रपदनाङ्गं कार्पण्यं द्योत्यते “श्रियं त्वां प्रपद्य” इत्यत्र शरणमित्यध्याहार्य अशरण इत्युक्तिसामर्थ्यात् । पद गतावित्यस्य गत्यर्थकतया बुद्ध्यर्थ कस्य प्रोपसर्गयोगेन विश्वासरूषप्रकृष्टज्ञानतात्पर्यतया महाविश्वासो दर्शितः । अत्राध्याहृतशरण शब्दोपश्लिष्टधातुना उपायान्तरस्थाननिवेशरूपो भरन्यासो दर्शितः । उपायत्वप्रार्थनात्मकत्वाद्गोप्तृत्ववरणमपि अन्तर्नीतम्, एवमितराण्यप्यङ्गान्यर्थादाक्षिप्तान्यनुसन्धेयानि । न हि कश्चिदन्यत्र स्वद्रव्यं न्यस्यन् तदनुकूलतामन्तरेण वर्तितुं सङ्कल्पयति । न तावत् प्रातिकूल्येन (शरण्याम्) शरणमर्ह तीत्यर्हार्थे यत्प्रत्ययः । तदर्हत्वञ्च कारुणिकत्वरक्षासामर्थ्याभ्यामिति तदुभयविवरणाय 215 -
॥ श्री देशिकस्तोत्राणि चतुर्थो भागः ॥
विशेषणानि मानातीतेत्यादीनि । (मानातीतप्रथितविभवाम्) मानं प्रमाणं शब्दादिकमतीतः द्वितीया श्रितेति समासः। “यतो वाचो निवर्तन्ते” इति वाङ्मनसाऽपरिच्छेद्यः यद्वा मानं परिमाणं असङ्ख्येयमित्यर्थः । असतोप्यसङ्ख्येयतया तद्व्यावृत्तिमाह - प्रथितेति । प्रथितः प्रमाणप्रसिद्धः विभवः विभूतिर्यस्यास्तां सकलविभूतिनायकत्वं पत्युरिवास्या अपीति बोध्यम् । अत्र च प्रमाणमुपरिष्टाद्दर्शयिष्यते, अतः ईश्वरत्वाद्रक्षासामर्थ्यं समर्थितम् । ननु “पवित्राणां पवित्रं यो मङ्गळानाञ्च मङ्गळम् । दैवतं देवतानाञ्च” इति भारतोक्तम् सर्वेश्वरलक्षणमत्रापि स्यात्, न चैवमुपलभ्यत इत्याशङ्कायां पृथग्वचनानुलम्भेपि तस्या ईश्वरत्वाविशेषाद्भारतवचनम् अप्युभयपरमित्याशयादाह (मङ्गळं मङ्गळानामिति) वस्तुतस्तु लक्ष्मी सहस्रनाममध्ये “सर्वमङ्गळमङ्गल्या सर्वकामफलप्रदा । सर्वानन्दा सदानन्दे “ति । पवित्राणां गङ्गोदककुशपवित्रपावनद्रव्याणां पावनत्वं यत्सङ्कल्पवशात्तथा मङ्गलानां शोभनद्रव्याणां दधिदूर्वाक्षतादीनामुत्सवानाञ्च मङ्गळत्वं यत्सङ्कल्पायत्तं तस्य दिव्यवस्तुनः पवित्रत्वमङ्गलत्वयोः कैमुत्यन्यायसिद्धत्वान्मङ्गळानामिति निर्धारणषष्ठ्या मङ्गलतमत्वं विवक्षितम्। एवं देव्या ईश्वरत्वसिद्ध्या तदाक्षिप्तजगत्कारणत्व जगद्व्यापारादिसिद्ध्या जीवादिव्यावृत्तिरित्युक्तं भवति । अथ रूपमाह - वक्षः पीठीमित्यादिना। (मधुविजयिन इति) मधुविजयी जि दृक्षि विश्रि इति इनिः, पीठीव वक्ष इत्युमितसमासः (स्वकान्त्या भूषयन्तीम्) तेन मुकुन्दवक्षस्स्थलभूषणायमानदिव्यमङ्गळविग्रहविशिष्टत्वं स्फोरितं “श्रियः श्रियं भक्तजनैकजीवितं सदा तवैवोचितया तव श्रिया " इति द्वयोरपि परस्पर शोभाजनकत्वे तुल्येऽपि “अप्रमेयं हि तत्तेजो यस्य साजनकात्मजे “ति भगवतो निरतिशयदीप्त्यावहस्व सम्बन्धकत्वाद्देव्या एव तदसाधारणमित्यभिसन्धिः। अथ गुणान् श्रियमिति पदेन सङ्ग्रहीष्यन् “श्रियं लोके देवजुष्टामुदारा"मिति श्रुतिप्रतिपन्नस्य “त्वं लज्जसे कथय कोऽयमुदारभावः” इति पूर्वाचार्यविवृतस्यौदार्यस्य परमकारुणिकत्वप्रयुक्तस्य प्राधान्येन पृथक् प्रतिपादनमुचितमित्याशयादाह प्रत्यक्षेति। प्रत्यक्षप्रमाणसिद्ध ऐहलौकिकः पशुपुत्रादिसमृद्धिरूपोमहिमा, अनुश्रवो वेदः “निगमानुश्रवावपीति शब्दार्णवे तत्र भवः आनुश्रविकः “अध्यात्मादित्वाट्ठक्” वैदिकस्स्वर्गकैवल्यापवर्गरूपो महिमा च, तौ महिमानी प्रार्थयन्त इति तत्प्रार्थिन्यः तासां प्रजानामिति मातृत्वस्फूर्तिः अतः प्रजासु वत्सलत्वञ्च ध्वनितमिति वस्तुना वस्तुध्वनिः (श्रेयो मूर्तिम् ) श्रेयो रूपां श्रेयस्साधनत्वात्तथोपचारः द्विविधश्रेयरसाधनत्वे देव्याः किं मानं? उच्यते । “यज्ञविद्या महाविद्या गुह्यविद्या च शोभने। आत्मविद्या च देवित्वं विमुक्तिफलदायिनी “ति विष्णुपुराणवचनात् । विमुक्तिफल दायिनीत्यस्यात्मविद्याविशेषेण - 1 ।
[[216]]
॥ श्रीस्तुतिः ॥
स्याभिहितत्वाद्देव्यास्तदुपायात्मकत्वं, विमुक्तिफलदायिनीत्वमात्म विद्येत्यन्वयाश्रयणे कैवल्यसाधनयोगविद्यारूपत्वम्। यद्वा “मेधा श्रद्धा सरस्वती” त्यत्र मेधा शब्देन तावत् क्रोडीकारः, इदमेव हि “श्रेयोरूपं श्रेयो नह्यरविन्दलोचनमनः कान्ताप्रसादादृते संसृत्यक्षरवैष्णवाध्वसु नृणां सम्भाव्यते कर्हिचिदि"ति कण्ठत उक्तं यामुनाचार्यैः । परमोदारत्वस्य परमकारुणिकत्वप्रयुक्तत्वस्याक्षिप्तत्वात् तदपि स्फुटीकृतम्। एवं पूर्वार्धे रक्षासमर्थत्वस्य उत्तरार्धे परमकारुणिकत्वस्य चार्थतः प्रकटनाच्छरण्यामित्युक्तिरुपपन्ना । स्वरूपरूपनिरूपणानन्तरं गुणान्निरूपयति श्रियमिति “गुणाद्रूपगुणाच्चापीति रामायणोक्तप्रकारेण गुणाः द्विविधाः, रूपगुणा आत्मगुणाश्चेति । आद्याः कान्त्यादयः भूषयन्तीं स्वकान्त्येत्यादावेव लेशतस्सूचिताः श्रीशब्देन प्रतिबोध्यन्ते । “कान्तिर्लावण्यमचिरित्यादि गुणगणसमावेशेन वपुषो दीप्तिरेव श्रीरिति द्रष्टव्यम्। शृण्वतीं श्रावयन्तीमाश्रितानां करुणाक्रन्दनं भगवन्तमिति, श्रयते च परं पदमित्यादि व्युत्पत्तिभिः पुरुषकारत्वोपयुक्तदयार्द्रत्वक्षमाशालित्वदोषादर्शित्वपतिवाल्लभ्यतत्तद्रञ्जनसमर्थत्वार्जवमार्दवसौहार्दस्थिरत्वसमत्वादयोऽस्या आत्मगुणाश्च स्फोरिताः । “श्रीयते चाखिलैर्नित्यं, श्रीणाति निखिलान्दोषान्, श्रीणाति च गुणैः जगदि “त्यादि व्युत्पत्तिभिस्सिद्धोपायत्वौपयिकास्समाश्रयणविरोधिरजस्तमोनिवर्तकत्वसमाश्रयणोत्तरभाविसकलसांसारिकदोषनिवर्तकत्वसमाश्रयणौपयिक- ज्ञानविशेषपरिपाकादिहेतुत्वतदुत्तरभाविस्वाष्टगुणाभिव्यञ्जकादयो धर्माः प्रतिपादयिषिताः। ततश्च तत्प्रयोजकज्ञानबलैश्वर्यशक्त्यादयोऽन्ये च गुणा आक्षिप्ताः, श्रीयते चाखिलैर्नित्यमित्यावृत्त्या उपेयत्वप्रयोजकास्सौशील्यादयोऽपीति आकारत्रयोपयुक्त गुणास्तदुपलक्षिताश्च सर्वेऽपि गुणा व्यजयन्त इति दिक्। प्रथितविभवामिति विभूतेरुक्त्या ऐश्वर्यस्यापि व्यञ्जितत्वात् भगवन्नारायणाभिमतानुरूपस्वरूपरूपगुणविभवैश्वर्येत्याद्यगद्योक्तं सर्वं सङ्गृहीतम् अत्रापीति संक्षेपः
குறிச்சி ஸ்ரீ கோபால தாதாசார்யரின் உரை श्रीमुनित्रयसिद्धान्तस्थापनाचार्यतल्लजम् । श्रीनिवासमुनीशानमस्मद्देशिकमाश्रये ॥
களை &াLi4ji Cougnßggf]sor, GoraŠgi GunG CHकंक(बाबा विभुत्वादि, (அதாவது எங்குமுள்ள என்பவற்றை) சிலரில்லையாக்க, அவற்றையிந்த ஸ்துதியாலே
[[217]]
॥ श्री देशिकस्तोत्राणि चतुर्थो भागः ॥
நிலைநிறுத்துகிறார். மேலும் ஸ்ரீபாஷ்யகாரர் புருஷகாரத்துக்காக ஸ்ரீசரணாகதி பண்ணினது மற்றும் வேண்டும் பலன்களுக்குமென்று காட்டினபடியென்றும் மேலும் வேண்டினவர்களுக்கு வேண்டுற்றெல்லாம் தருமென்றும் ஒன்றும் வேண்டாமல் பற்றினார்க்கும் அளிக மாக (அதாவது இடையிற்றானாக வருமதாக) தனம் முதலியவற்றையளிப்பாளென்றும் ஸ்துதியிலருளிச்செய்கிறார். தேசிகன் கோயிலில் எழுந்தருளியிருக்கையில் ஒருநாள் ஒரு ப்ரஹ்மசாரி வந்து தண்டனிட, நீயாரென்ன. அவன் யான் கண்ணாளத்துக்கு பணமிரப்பாளன், இங்கு வந்தால் வேறோரிடம்புகாமல் வேண்டுமளவு கிடைக்குமென்று சிலர் தூண்டுதலால் வந்தேனென்ன தேசிகனுமப்படியா ஸ்ரீவைஷ்ணவர்கள் நியமித்தார்களா? ஆகிறது இருமென்று இஸ்துதியை ஸ்ரீதேவியின் உகப்புக்காகவேயருளிச் செய்யவே, எர்பு: என்ற சுலோகமருளிச் செய்யுங்காலத்தில் ஆனுஷங்கிகமாக முற்றத்தில் பொற்குவியல் ஆகாயத்தினின்றும் விழ, தேசிகன் அவனைப் பார்த்து அதுமுழுவதுமெடுத்துப் போமென்ன ப்ரஹ்மசாரி எனக்கு கண்ணாளத்துக்கு வேண்டியவற்றைத் தவிர மேற்பட்டவை வேண்டாவென்ன, இப்படி ரகுமஹாராஜருக்கும் கௌத்ஸமுனிவருக்குமுண்டான விவாதம் போன்ற விவாதத்தைத் தூண்டினவர்கள் வந்து பார்த்து ஆச்சரியப் பட, தேசிகன் சேஷத்தை நீங்களெடுத்துக் கொள்ளுங்களென்ன அவர்கள் வாரிக் கொண்டு ப்ரஹ்மசாரியோடு ஸந்துஷ்டராய்ப் போனார்கள். தேசிகனும் ஸ்துதியைப் பூர்த்தி செய்தருளினார் என்னுஞ் சரித்திரத்தையனுஸந்திப்பது. அஸ்துதியின் ஆதியில் IH என்கிற ச்லோகம் சில கோசங்களில் காண்கிறது. ஆனால் வ்யாக்கியானம் பண்ணுமவர்கள் வ்யாக்கியானம் பண்ணவில்லை. அதில் காரணம் தெரியவில்லை. ஆகிலும் அதுக்குப் பதவுரையெழுதப் படுகிறது.
அவதாரிகை ஸ்ரீ ஸ்துதி செய்யக்கோலி மங்களமருளிச் செய்கிறார் Sol-14 என்பதனால் ईशानां जगतोऽस्य वेङ्कटपतेर्विष्णोः परां प्रेयसीं तद्वक्षस्स्थलनित्यवासरसिकां तत्क्षान्तिसंवर्धनीम् । पद्मालङ्कृतपाणिपल्लवयुगां पद्मासनस्थां श्रियं वात्सल्यादिगुणोज्ज्वलां भगवतीं वन्दे जगन्मातरम् ॥
பதப்பொருள் ஜகன்னாயகியும் அகலகில்லேனென்று உவப்போடு திருவேங்கடத்தான் திருமார்பிலுறைபவளும் அவனுக்கின்பமிகு மனையாட்டியும், அவனுடைய பொறுமையை வளர்ப்பவளும் கமலப்பூ தரித்த கையளும், கமலமலரில் வஸிப்பவளும் ஆச்ரிதருடைய பிழை பாராமை முதலிய குணங்களால் விளங்குமவளுமான ஸ்ரீதேவியை நமஸ்காரம் பண்ணுகிறேன் என்பது திரண்ட பொருள்.
[[218]]
॥ः]]
தமிழ்ப்பதவுரை
அவதாரிகை: முதல் சுலோகத்தில் ஸ்ரீதேவிக்கு இயல்பாயுள்ள ஸ்வரூபகுணவிபவம் முதலியவை ஸூசிப்பிக்கப்படுகின்றன (4Hiri) என்பதால்.
பதம்
உரை
मान
अतीत
प्रथित
ப்ரமாணத்துக்கு, அல்லது ஸங்க்யைக்கு எட்டாததும்
பேர் பெற்றவுமான
विभवाम्
मङ्गळानाम्
மஹிமையை (உபயவிபூதியை) உடையவளும்
சுபகரவஸ்துக்களுக்கும் அல்லது
मङ्गलम् मधुविजयिनः वक्षः पीठीम्
சுப்பதார்த்தத்துக்கும்
சுபத்தைப் பண்ணுமவளும்
மதுஸூதனனுடைய
स्वकान्त्या
திருமார்பாகிற பீடத்தை
தன்திருமேனி சோபையால்
भूषयन्तीम्
प्रत्यक्ष
அலங்கரிப்பவளும்
இம்மையிலுள்ளவும்
आनुश्रविक
महिम
ப்ரமாணஸித்தமாய் மறுமையிலுள்ளவுமான
மஹிமையை
प्रार्थिनीनाम्
प्रजानाम्
வேண்டுமவர்களான
श्रेयो मूर्तिम्
ஜனங்களுக்கு
शरण्याम्
श्रियम्
வடிவு கொண்ட ச்ரேயஸ் போன்றவளும் சரணம் புகலிடமும்
त्वाम्
ஆச்ரிதருக்கு ஆறுவித உபகாரகையுமான
உன்னை
अशरणः अहम्
प्रपद्ये
புகலொன்றொல்லாவடியேன்
சரணம் புகுந்தேன்.
[[219]]
[[15]]
॥ श्री देशिकस्तोत्राणि चतुर्थो भागः ॥
मानातीत, मङ्गलम् ढाबाकीp @G grisan b वक्षः पीठीम् ढंग ரூபமும் பி என்பதால் 347 குணங்களும் கூட்டிக்கொண்ட RH என்பதால் அங்கபஞ்சகஸம்பந்தமான இரக்ஷாபரஸமர்பணமும் அR: என்பதால் ஆகிஞ்சன்யாதிகளும் ஸூசிப்பிக்கப் பட்டன. இதின் விரிவுகளை குருமுகமாக உணர்ந்துகொள்வது. புகலொன்றில்லாவடியேன் எண்ணிறந்த சுபகுணையும், சுபபதார்த்தங்களுக்கும் சுபகரவஸ்துக்களுக்கும் சுபகரையாயும், பெருமாள் திருமார்புக்கு அலங்காரமானவளும் இஹபரஸுகமளிப்பவளும் சரணம் புகலிடமும் அடியார் வினைதீர்க்குமவளான ஸ்ரீதேவியை சரணமடைந்தேனென்பது திரண்ட பொருள்.
अम्बिल् श्री. उ. वे. वेङ्कट गोपाला चार्यैः विरचिता व्याख्या (ए.वि.गोपालाचार्यः)
श्रीनिवासं परं ब्रह्म तन्नाम्नश्च गुरूत्तमान् । वन्दे भागवतान्सर्वान्देशिकाशयलब्धये ॥
व्यङ्ग्यप्रधाना गम्भीरा निगमान्तगुरोर्गिरः ।
दर्शयन्तु प्रसादेन स्वं भावं कृत्स्नमञ्जसा ॥
सुन्दरे सीतां दृष्ट्वा हनूमांस्तामद्भुतं तुष्टुवे ‘इयं सा यत्कृते रामश्चतुर्भिः परितप्यते’ इत्यारभ्यासर्गान्तम् । अनन्तरसर्गारम्भे चोक्तमृषिणा ‘प्रशस्य च प्रशस्तव्यां सीतां तां हरिपुङ्गवः । जगाम मनसा रामं प्रशशंस च तं प्रभुम् ॥’ इति । संश्रवे मधुरया वाण्या मधुरालापा मधुरा प्रशस्ता । प्रशस्तव्यैव प्रशस्ता । प्रशस्तव्यायाः प्रशंसा न्याय्यैवेत्यानुरूप्यानुभवो महर्षेः । तद्धृदि निधायाचार्याः ‘अभिष्टौति स्तुत्यामवितथमतिर्यामुनमुनिः ’ इति चतुःश्लोकीभाष्यारम्भे श्रियोऽभितः स्तुत्यत्वं कथयन्ति । श्रीविषया स्तुतिः स्तोतव्यविषया स्यात् । ‘हिरण्यनिधिम्’ इति दहाराकाशब्रह्मविषये दृष्टान्तप्रयोगः श्रुत्या । हिरण्यस्थाने कल्याणशब्दः प्रयुज्यते आचार्यैः ‘कल्याणानामविकलनिधिः ’ इति तेन च हिरण्यं मङ्गलमित्यु भयमपि गम्येत । ‘हिरण्यवर्णां हरिणीम् ‘, ‘चन्द्रां हिरण्मयीं
[[220]]
॥ श्रीस्तुतिः ॥
लक्ष्मीम्’, ‘सूर्यां हिरण्मयीं लक्ष्मीम् ’ इति श्रीसूक्ते । यथा हिरण्मयः पुरुषस्तथा हिरण्मयी तत्पत्नी। ‘स्त्रीनाम्नी श्रीश्च विज्ञेया’ इति न्यायमनुसृत्यास्याः स्तवस्य स्तुतिरिति स्त्रीनामकरणम् । अस्याः स्तुतिः स्त्रीनाम्नी । कथम् सरसिजनिलयायाः स्तोत्रमेतत्पठन्तः’ इति फलश्लोके क्लीबस्तोत्रशब्द - ग्रहणमिति चेत् इन्द्रस्तुतिफलश्लोकमनुसृत्य तच्छ्लोकरचनयेति ब्रूमः । ‘स्तोत्रेण यस्त्वमेतेन त्वां स्तोष्यत्यब्धिसंभवे । स त्वया न परित्याज्यः ’ इति खलु तत्र फलप्रार्थना । प्रायेण श्रीसूक्तम्, इन्द्रकृत श्रीस्तुतिं च, पूर्वाचार्यकृतस्तुतीश्च हृदि निधायैषा स्तुतिर्गीतेति तत्र तत्र प्रदर्शयिष्यते । ‘श्रियं लोके देवजुष्टामुदाराम् । तां पद्मिनीमीं शरणं प्रपद्ये’, ‘अप्रमेयं हि तत्तेजो यस्य सा जनकात्मजा’ इति श्रुतिस्मृती मुख्यतोऽनुसृत्येयं स्तुतिः प्रवृत्तेव । उदाहृतश्रुतिच्छाययात्रापि ‘श्रियं त्वां शरणं प्रपद्ये’ इति प्रथम श्लोके । ‘लोके देवजुष्टाम्’ इति भगवदनुरूपाविर्भावः । चतुर्थ श्लोकमारभ्य सप्तभिः श्लोकैर्देवजुष्टत्वम्, अनन्तरं पञ्चभिः श्लेकैर्दिव्यरूपाभिषेकादिमहिमा; तदनन्तरं चतुर्भिः श्लेकैरार्तार्थायैश्वर्यार्थिमोक्षार्थि रूपचतुर्विधभक्तविषयौदार्यम्, तदनन्तरं तत्सेवातदुत्तरकृत्यफलानि च वर्ण्यन्ते । सुन्दरकाण्डं सीतान्वेषणदर्शन प्रशंसापरत्वाच्चरणाचरिते पथ्यत्युन्नतं प्रचरतीति व्यज्यते ऋषिणा तत्काण्डाद्य श्लोक एव । तथा मानातीतमस्याः स्तुतेः सौन्दर्यम् । मानातीतप्रथितविभवा स्तुतिः ॥
मानातीतप्रथितविभवाम् । (१) ‘अप्रमेयं हि तत्तेजो यस्य सा जनकात्मजा’ इति सौहार्देन रावणं प्रति मारीचस्य रहस्योपदेश आचार्यबुद्धौ परिवर्तते । जानकीकान्तत्वहेतुना रामस्याप्रमेयत्वोक्तेस्तस्या अप्रमेयत्वं कैमुत्यसिद्धम् । तस्या अप्रमेयत्वस्याभिधानवृत्त्या साक्षात्कथनमप्यशक्यम्; तस्य कैमुत्यविधया न्यायगम्यत्वमेवेत्युपदेष्टुर्भावः । मारीचोक्ता - प्रमेयत्वेनैवास्याः स्तुतेरुपक्रमः । भूयन् व्यामोह आचार्याणां मारीचकर्तृकसीतारामप्रशंसायाम् । ‘धर्मो विग्रहवान्’ इति तदुक्तिग्रहणं रामविषय श्लोके दशावतारस्तोत्रे । (२) ‘प्रकृतैतावत्त्वं हि प्रतिषेधति’ इति ब्रह्मविषये यदुक्तं शारीरके तत्प्रथममेवोच्यते
[[221]]
॥ श्री देशिकस्तोत्राणि चतुर्थो भागः ॥
। श्रीविषये मानातीतेति । यदुक्तं तदनन्तरम् ’ ततो ब्रवीति च भूयः’ इति तदुच्यते ‘प्रथितविभवाम्’ इत्यनुपदोक्त्या ‘मङ्गलं मङ्गलानाम्’ इत्यादि भूयोगुणजातस्योक्त्या च । अस्या विभवस्ये यत्तापरिच्छेदो नास्ति । मानातीतोऽस्या विभवः, प्रथितश्च । (३) मातृमेयास्तद्गर्भोत्पन्नाः सर्वाः प्रजाः । मातृमहिमा तु प्रजाभिरपरिच्छेद्यः । (४) मानातीतेति सामान्योक्तेस्तद्वल्लभस्यानन्तस्यापि तद्विभवेयत्तापरिच्छित्त्यसामर्थ्यं द्योत्यते । ‘यस्यास्ते महिमानमात्मन इव त्वद्वल्लभोऽपि प्रभुर्नालं मातुमियत्तया निरवधिः ’ इति चतुः श्लोक्युक्तमत्र भाव्यम् । तत्र महिमशब्दः पठितः । तत्स्थानेऽत्र विभवशब्दः । स्वेनापि स्वमहिमापरिच्छेद उच्यते ‘देवि त्वन्महिमावधिर्न हरिणा नापि त्वया ज्ञायते’ इति । (५) ‘मानाधीना मेयसिद्धिः’ इति न्यायेन मानापरिच्छेद्यस्याप्रसिद्ध्यापत्तावुच्यते ‘प्रथितविभवाम्’ इति । प्रसिद्धोऽस्या विभवो यद्यप्य परिच्छेद्यः । को वा मातरं तदुपकृतीश्च न जानीयात् । माता सर्वासां प्रजानां प्रसिद्धा स्यात् । यद्यपि तन्महिमा परिच्छेद्यः, सा प्रसिद्धैव स्वप्रजानाम् । (६) ‘अचिन्त्यानन्तविभवा’ इति लक्ष्मीसहस्रनामस्तोत्रप्रथमश्लोके । तच्चानेनानुगतं भवति ॥ 1
मङ्गलं मङ्गलानाम् । (१) प्रसिद्धमहिमेत्युक्तम् । प्रसिद्धा गुणाः संगृह्यन्ते । मङ्गलै कान्ता माता प्रजानाम् । ‘चकार माता रामस्य मङ्गलानि मनस्विनी ।’ गुरुतरमपि तमायासं क्षणमात्रेणापनीयोपस्पृश्य जलं शुचीभूय मङ्गलानि प्रायुङ्क्त माता । (२) ‘मङ्गलं मङ्गला नाम्’ इति कान्तस्य वर्णनं तपोधनेन भीष्मेण कृष्णसंनिधौ । एनां विना तस्य दण्डधरस्येश्वरस्य मङ्गलत्वमेव नैकान्तेन सिध्येत् । किमुत मङ्गलमङ्गलत्वम् । (३) मातृवल्लभत्वेन तस्य मङ्गलानां मङ्गलत्वेन निर्धारणमित्युपपादयिष्यन्भर्तृविषयोक्तमेव पत्नीविषयेऽपि प्रयुङ्क्ते । (४) सर्वमङ्गलेयम् । सर्वशब्दो मङ्गलान्यपि गृह्णाति । तथा च मङ्गलानामपि मङ्गलत्वं लभ्यते । (५) ‘सर्वमङ्गलमाङ्गल्यायै नमः’ इति लक्ष्मीसहस्रनामावल्यामुपान्त्यनाम । (६) ‘शुभां निमित्तानि शुभानि भेजिरे’ इति प्राणपरित्यागोद्युक्तसीताविषये । शुभानि तामाश्रित्य शुभीभूयं यान्ति । (७) सर्वेऽपि महिमवन्तो माङ्गलिकाश्च तन्नामपूर्वकत्वेनैव
[[222]]
॥ श्रीस्तुतिः ॥
व्यपदिश्यन्ते । इतरथा तेषां निःश्रीकत्वं स्यात् । ‘श्रीरित्येव च नाम ते ।’ इतरेषु श्रीर्विशेषणम् । इयं श्रीरेव धर्मी । स्वपरनिर्वाहिकेयं श्रीः । इतरेषु गौणी श्रीः इयं तु मुख्या श्रीः । (८) ‘श्रीविष्णुस्मृत्यादिषु माङ्गल्यविभूतिभेदानामियं विशेषतो देवता’ इति गद्यभाष्ये । (९) ‘तव स्पर्शादीशं स्पृशति कमले मङ्गलपदं तवेदं नोपाधेरुपनिपतितं श्रीरसि यतः । प्रसूनं पुष्यन्तीमपि परिमलधिं जिगदिषुर्न चैवन्त्वादेवं स्वदत इति कश्चित्कवयते ॥’ इत्यद्भुतो भाट्टानुभवोऽत्र भाव्यः ॥
वक्षः पीठीं मधुविजयिनो भूषयन्तीं स्वकान्त्या । (१) सर्वशक्तः पक्षपातानभिज्ञः फलवितरणदक्षः ‘फलमत उपपत्तेः’ इति सर्वफलमूलभूतः संसारतन्त्रवाहित्वात्प्राण्यपराधेषु तीक्ष्णदण्डः स्यात् । ततश्चापराधिनां प्रजानाममङ्गलपरम्परानुपरतिरेवं । ‘न कश्चिन्नापराध्यति’ इति सर्वेऽपराधिन एव । तत्कथमियं मङ्गलानां मङ्गलं भवितुं प्रभवेत् ? तत्रोच्यते वक्षःपीठीं स्वकान्त्या भूषयन्तीमिति । श्रियाध्युषितवक्षसो भगवत आशया दयाशिशिरिता भवेयुः । तस्याः कान्तिः कारुण्यप्रभा । कारुण्यकान्तिप्रवाहैराद्रीक्रियते भगवद्धृदयम् । करुणारूपिण्या अस्याः कारुण्यं प्रभा । भगवद्धृदयं कृपारूषितं भूषितं भवत्यस्याः कान्त्या । मधुविजयिनो वक्षः पीठीं स्वकान्त्या भूषयन्ती मङ्गलानां मङ्गलं भवतीत्यर्थः । (२) ‘अन्तःपुरं जलधिराज कुमारिकायाः’ इति वरदराजवक्षःस्थलवर्णनं श्रीमद्दीक्षितैः । अन्तःपुरस्य स्त्रीमयत्वमुचित मिति पीठीशब्दप्रयोग इत्यवधेयम् । (३) नित्येयं पीठी । अग्रे भर्तुः सरसिजमये भद्रपीठे निषदनं कादाचित्कम् । रामेण सह रत्नमये पीठे निवेशनं च कादाचित्कम् । अभिषेकमङ्ग लार्थं तदुभयम् । नित्यवासपीठ्या अत्र निर्देशः । ( ४ ) अत्र स्वकान्त्यम्भः पूरैर्नित्यमभिषिच्यते । मङ्गलानां मङ्गलस्येयं पीठी । (५) पीठशब्देनेयं नित्यं भर्तृवक्षस्यासीना सदा जागरूका प्रजानामार्तध्वनिश्रवणाय सज्जेति व्यज्यते । यद्यपि भर्ता निद्रालुः स्वपेदियं सततमासीनैव । (६) ‘मधुविजयिनः इति ‘अक्षय्यं मधुहन्तारं जानामि त्वां सुरोत्तमम्’ इति देवोत्तमत्वमुक्तं भवति । तथा चेयं देवदेवदिव्यमहिषीत्युक्तं भवति । ‘कान्तस्ते पुरुषोत्तमः’ इति स्तोत्रारम्भेण चैकार्थ्यं भवति । I ,
[[223]]
॥ श्री देशिकस्तोत्राणि चतुर्थो भागः ॥
(७) ‘तं दृष्ट्वा शत्रुहन्तारं महर्षीणां सुखावहम् । बभूव हृष्टा वैदेही भर्तारं परिषस्वजे ॥ ’ यद्यपि विगतदेहाभिमाना जनकसुता विदेहदेशोद्भवा वैदेही भर्तृपरिष्वङ्गाय सा देहं बहु मेने । ‘यं च हृष्टा परिष्वजेत्’ इति शूर्पणखयेदमनूदितमिव । प्रबलशत्रुभूतमधु विजये भर्तृवक्षो गाढं परिरभ्य स्व परिष्वङ्गेन तद्भूषयति, प्रहर्षयति च । मधुविजयिन इति प्रणष्ट त्रयीमुद्धृत्य वेदसंप्रदायं प्रवर्तयतो भगवतो हृदयदेशस्य ‘यज्ञविद्या महाविद्या गुह्यविद्यात्म विद्या’ ‘त्रयी दण्डनीतिस्त्वमेव च’ इत्यादिप्रमाणैर्विद्यात्वेन त्रयीत्वेन रूपितयानयाधिष्ठानं सांप्रतमिति व्यज्यते । (८) त्रिभुवनकमनस्य लावण्यजलधेर्भगवतो निरतिशयसुन्दरमपि वक्षःस्थलमस्याः कान्तिमपेक्ष्यानुरूपपीठ्येव भवतीति व्यज्यते पीठीरूपकेण, तस्य भूषितत्ववर्णनेन च ॥
प्रत्यक्षानुश्रविकमहिमप्रार्थिनीनां प्रजानां श्रेयोमूर्तिं श्रियम् । (१) लक्ष्मीसहस्र नामस्तोत्रे प्रथमनाम श्रीरिति । अन्त्यनाम दृष्टादृष्टफलप्रदेति । उपान्त्यनाम सर्वमङ्गलमाङ्गल्येति । दृष्टादृष्टफलप्रदेत्यस्य विवरणं प्रत्यक्षानुश्रविकेत्यादि । प्रथमनाम्न उपान्त्यान्त्यनाम्नोश्चा स्मिन् श्लोके ग्रहणेन लक्ष्मीसहस्रनामाद्यन्तग्रहणमप्याद्य श्लोकेन भवति । (२) श्रियो गुणः श्रेयः । (३) प्रत्यक्षं दैवतं पितरौ । ‘यतो मूलं नरः पश्येत्प्रादुर्भावमथात्मनः । कथं तस्मिन्न वर्तेत प्रत्यक्षे सति दैवते ॥’ इति पितृभक्तो रामः । पूजितौ मातापितरौ प्रत्यक्षदेवते दृष्टादृष्ट - सर्वफलं दत्तः । ( ४ ) श्रेयः साधनो धर्मः । भगवतो धर्मत्वं प्रदर्श्यते ‘रामो विग्रहवान्धर्मः’, ‘कृष्णं धर्मं सनातनम्’ इति च । अस्तु नाम धर्मत्वम् । तच्च श्रेयःसाधनत्वम् । इयं तु श्रेयोमूर्तिर्न केवलं श्रेयःसाधनम् । अस्याः प्रसादमपेक्षते देवः श्रेयोदाने । प्रत्यक्षमहिमैहिक श्रीः । आनुश्रविकमहिमा स्वर्गश्रीर्मोक्षश्रीश्च । सर्वापि श्रीः सैव । नास्याः साधनान्वेषण प्रयुक्तविलम्बः । श्रियम्’ इत्युक्त्यैव श्रेयोमूर्तित्वं निरूपितं भवति । सर्वेषां महिम्नां श्रीत्वात् । ‘श्रेयो न हारविन्दलोचनमनः कान्ताप्रसादादृते संसृत्यक्षरवैष्णवाध्वसु नृणां संभाव्यते कर्हिचित्’ इति श्रीमद्यामुनमुनिभिर्व्यतिरेकमुखेन यदुक्तं तस्यैवात्रान्वयमुखेनोक्तिः । व्यतिरेकोक्तिलभ्याधिकदार्द्धमन्वयेऽपि श्रेयोमूर्तित्वरूपणेन ।
[[224]]
॥ श्रीस्तुतिः ॥
लभ्यते । यदीयमेव श्रेय एनां विना कथं कस्य वा श्रेयः सिद्धिसंभावना । भगवानेव शारीरकमितं फलमित्युच्यते ‘फलमपि च शारीरक मितः’ इति । (५) ‘दृष्टवदानुश्रविकः सह्यविशुद्धिक्षयातिशययुक्तः’ इति साङ्ख्यकारिकोक्तानुश्रविकशब्दस्यात्र ग्रहणं साङ्ख्यमद व्यतिरेकप्रदर्शनाय । आनुश्रविकस्य महिमत्वेनोक्तिस्तस्य साङ्ख्याभिमतमशुद्धत्वं वारयति । ‘अशुद्धमिति चेन्न शब्दात्’ इति सूत्रम् । अनुश्रव एवानुश्रविकस्याशुद्धत्वं वारयतीति सूत्राभिप्रायः । (६) प्रार्थनाक्षण एवेयं प्रार्थितश्रेयो भवतीति भावः श्रेयोमूर्तित्वकथनस्य । ( ७ ) श्रियमिति काङ्क्षितसर्वविधव्युत्पत्तिपौष्कल्यवन्नाम्नो ग्रहणम् । तेन नाम्नैव मानातीतविभवत्वम्, तस्य प्रथितत्वम्; तस्याश्च मङ्गलमङ्गलत्वं चोपपाद्यन्ते । श्रीमतां सर्वेषां तत्पूर्वकत्वेनैवाबालगोपालं व्यपदेशः। तत्पूर्व कत्वं विना निःश्रीकत्वमापद्येत । ‘तद्विपरीतः श्रेयान्’ इत्युदाहृतसाङ्ख्यकारिकोक्ताद्वैजात्यम् । I
अशरणस्त्वां शरण्यां प्रपद्ये । सर्वलोकशरण्योऽपि तत्प्रपदनानन्तरमेव शरण्यो भवति । अशरण इत्यनन्यशरणत्वम् । अन्यशब्देन सर्वभूतानां शरण्यस्यापि व्यावृत्तिः । तदुपसदनत्रा सशमनीयम् । तस्याभिगम्यत्व साधिकेयम् । श्रीत्वादेव त्वां शरणं प्रपद्ये । लक्ष्मीसहस्रनाम ध्यान श्लोकेषु द्वितीयान्तपदान्येव दृश्यन्ते । ‘त्वां शरण्यां प्रपद्ये’ इति पदान्यध्याहृत्य तेषामन्वयः कार्य इत्याचार्याः प्रदर्शयन्तीव । नामावलीघटकप्रथमान्तपदानां ‘भूयो भूयो दिशतु महतां मङ्गलानां प्रबन्धान्’ इत्यध्याहृत्यान्वयोऽभिप्रेतः ‘कल्याणानामविकलनिधिः’ इति प्रथमान्तपठनेन ॥
॥ मूलं ॥
आविर्भावः कलशजलधावध्वरे वापि यस्याः स्थानं यस्यास्सरसिजवनं विष्णुवक्षस्स्थलं वा । भूमा यस्या भुवनमखिलं देवि दिव्यं पदं वा स्तोकप्रज्ञैरनवधिगुणा स्तूयसे सा कथं त्वम् ॥
[[२]]
व्या॥ एवमाद्यपद्य एव देव्या निरवधिकगुणत्वमीश्वरत्वनियतं सामान्यतोऽनुसन्धाय कथमीदृशीम्
[[225]]
॥ श्री देशिकस्तोत्राणि चतुर्थो भागः ॥ एनां तुष्टृषे इति स्वाशयं विज्ञापयति । आविर्भावेत्यादिना । समुदितस्वरूपादिभिरपि गुणैः स्तवनं देव्यास्सर्वज्ञैरपि दुष्करं नाप्येकैकगुणेन तस्यापि एकैकस्य निरवधिकतया कात्र्त्स्न्येन वर्णनासम्भवात् नह्यपरिमेयस्य, निरवधेरियत्तया परिच्छिद्य वर्णनमीश्वरेणापि शक्यं किमुत स्तोकप्रज्ञैः तदुक्तं “त्वद्वल्लभोऽपि प्रभुर्नालम्मातुमिति “देवित्वन्महिमावधिर्न हरिणा नापि त्वया ज्ञायत” इति च एवं स्थिते ( स्तोकप्रज्ञैः ) अल्पप्रज्ञैर्मादृशैः (कथं स्तूयसे) न कथं चिदित्याशयः (सा) “न ते वर्णयितुं शक्ता गुणान् जिह्वापि वेधस " इति ब्रह्मणाप्यशक्यस्तवना यावद्गुणतया प्रसिद्धा । यद्यपि सेति तत्पदस्य पूर्ववाक्यस्थयच्छब्द त्रयप्रतिसम्बन्धित्वमेव तथाप्यौचित्यात् प्रसिद्धार्थत्वमप्याश्रीयते । (अनवधिगुणा) अनवधिरेकैको गुणोयस्यास्सा, एवं पदद्वयेनापि यावद्भिरपि गुणैरेकैकेनापि गुणेन विशिष्य स्तवनन्न सम्भवतीति ध्वनितम्। यथा त्वमनवधिगुणतया अशक्यस्तवनासि एवमयोनिजा विर्भावतया सुगन्धिपवित्र पद्मालयतया विष्णावप्यसम्भावितविष्णुवक्षस्स्थलवास्तव्यतया उभय विभूतिस्वामितया चाशक्यस्तवना त्वमसीत्याह, आविर्भाव इत्यादिना (कलशजलधौ) क्षीराब्धौ (अध्वरे) जनकराजस्याध्वरशालायां वापीत्यव्ययद्वयं समुच्चयार्थकम् । अत्रेत्थमप्यर्थः स्फुरति - (अध्वरे वा) अध्वर इव (कलशजलधावपि यस्याः आविर्भावः इववद्वायथादय इत्यभिधानात् उत्तरत्राप्येवमेव वाकारो बोध्यः ॥ (आविर्भावः) अभिव्यक्तिः अतः कौसल्यादिगर्भवासादिसहितभगवदवतारापेक्षयाप्योनिजावतारत्वप्रकटनाद्देव्या अवतारवैलक्षण्यं सूचितम् । ( सरसिजवनम् ) पद्मवनं (विष्णुवक्षस्स्थलं वा यस्याः स्थानम्) अत्रापि वा शब्दश्चार्थः स्वतस्सिद्धसौगन्ध्यपवित्रत्वादिविशिष्टस्थानद्वयं विष्णोरपि न घटते। न हि श्रीरङ्गवेङ्कटाचलादिकं पद्मवनमिव विष्णुवक्षस्स्थलमिव च स्वतस्सुगन्धि सुकुमारं स्वतः पावनं वा, अतो भगवतोप्यतिशयितासना त्वं कथं स्तूयस इति भावः । अखिलम् अशेषं भवतीति भुवनं नित्यविभूतिव्यावृत्तं प्रपञ्चजातमित्यर्थः, (दिव्यं पदं वा ) त्रिपाद्विभूतिश्च (यस्या भूमा) वैपुल्यं समृद्धिरिति यावत्. यद्यपि “बहोर्लोपो भूच बहोरि “ति भूमन्शब्दो बहुत्वार्थकः । तथापि भूमाधिकरणप्रक्रियया वैपुल्यार्थे भूशब्दः औपचारिकः । तथा च यस्याः भूमाविस्तारस्समृद्धिः इति यावत् । स्तोत्रतो व्यावृत्तिप्रदर्शकोप्ययं श्लोकः कार्पण्यप्रकटनेन मातुर्दयोत्तंभकत्वाविशेषात् स्तोत्राशक्तिमुखेन गुणातिशयवर्णनात् स्तोत्रकोटावनुप्रविष्ट एवेति ध्येयम् ।
[[226]]
அவதாரிகை:- இப்படி ஸ்துதியிலிழிந்தவிவர் அவளுடைய மேன்மையையும் தம்முடைய புன்மையையும் பார்த்து நாமா ஸ்துதியிழிவதென்று கைவாங்கினபடியைப் பேசுகிறார். அரிவு[q: என்பதனால்.
பதம் यस्याः உரை யாதொருத்திக்கு आविर्भावः அவதரிக்குமிடம் कलशजलधौ பாற்கடலிலிலும் अध्वरे वापि யாகபூமியிலுமோ यस्याः யாதொருத்திக்கு स्थानम् இருப்பிடம் सरसिजवनम् தாமரைக்காடும் विष्णु பெருமாளின் वक्षस्स्थलं वा திருமார்பிடமோ यस्याः भूमा अखिलं भुवनम् யாதொருத்தியினுடைய ஸம்ருத்தியும் முழுலீலாவிபூதியும் போகவிபூதியுமோ दिव्यं पदं वा देवि ஏ அம்மா अनवधिगुणा அளவிறந்தகுணவதியும் सा அப்படிப்பட்டவளுமான त्वम् நீர் स्तोकप्रज्ञैः புல்லறிவரால் कथम् स्तूयसे எப்படி ஸ்தோத்திரம் பண்ணப்படுவீர் 227
॥ श्री देशिकस्तोत्राणि चतुर्थो भागः ॥
உன்னுடைய குணங்களோ எண்பெருக்கந்நலத்தொண் பொருளீறிலவண் புகழ் உடையவை. அவதரிக்குமிடமோ பெருமாளுக்குமுண்டான கர்ப்பவாஸதோஷமில்லாதது. இப்படிப் பெரியமேன்மை தங்கிய நீர் அற்பஜ்ஞாளானவடியோங்களால் எப்படி ஸ்துதிக்கப் படுவீர், முடியாதென்று கைவாங்கினாரென்று கருத்து.
(ए. वि. गो. व्या)ः मानातीतप्रथितविभवेत्युक्तम् । विभवः विभूतयश्च प्रस्तूयन्ते। ‘अप्रमेयं हि तत्तेजो यस्य सा जनकात्मजा’ इति सीताविषयवचनमुदाहृतं श्रीविषये । श्रीरेव सीतात्वेनाविर्भूता, यथा सैव कलशजलधिकन्या बभूवेत्युच्यते । ‘मातर्लक्ष्मि यथैव मैथिलजनस्तेनाध्वना ते वयम् ।’ इत्यादिकं भाव्यम् । श्रेयोमूर्तिमित्युक्तम् । जायमानत्वं विना कथं श्रेयस्त्वं भवेत् । ’ स उ श्रेयान्भवति जायमानः’ इति खलु श्रुतिः । श्रेयस्त्वोपपादनार्थं बहुधा जायमानत्वं प्रदर्श्यते । प्रथमं समुद्रकन्यात्वमनन्तरं भूकन्यात्वं प्रदर्श्यते । यथा भगवति भक्त्युत्पत्त्यर्थं तद्विभूतयः प्रदर्श्यन्ते मध्यमषट्के भगवता, तथात्रास्या भूमा प्रदर्श्यते ॥
आविर्भावः कलशजलधौ । (१) प्रपद्य इत्युक्तं पूर्व श्लोकान्ते । दुग्धोदधिशयं देवं देवा ऋषयश्च मुहुः प्रपद्यन्ते । तेषां प्रपदनसौकार्यायैषा तत्र भर्त्रा सह सततमास्ते । (२) अस्या अनन्ताः प्रजाः । कामधेनुरपि नालमस्या असङ्ख्यानां प्रजानां क्षीरं दातुम् । दोहरूप विलम्बोऽप्यक्षमोऽस्या मातुः । प्रजा आयास्यन्ति, ताभ्यः क्षीरं देयमिति मनोरथं कृत्वा तदर्थं प्रभूतं क्षीरं धत्त इव जलधिरूपेण ॥
अध्वरे वापि यस्याः । (१) ‘यदर्थमम्भोधिरमन्थ्यबन्धि च’ अत्राप्युभयाविर्भावसह पाठ इत्यवधेयम् । देवानां प्रपदनार्थं क्षीराब्धावाविर्भूता । राक्षसीनां प्रपदनार्थमध्वरे आविर्भूता । ‘पापीयसोऽपि शरणागतिशब्दभाजः’ इत्यादिकं नात्यन्तं सत्यं स्याद्भगवद्विषये । इयं तु शरणमित्युक्तिक्षणे रक्षति राक्षसीरार्द्रापराधाः । अतः प्रथममस्याः प्रपदनमेव वरम् । (२) दशरथाध्वरे आविर्भूतं रामविग्रहोपादानभूतं पायसम् ।
[[228]]
॥ श्रीस्तुतिः ॥
पायसप्राशनेन कौसल्या गर्भं बभार । इयं सीता ‘कर्मणैव हि संसिद्धिमास्थिता जनकादयः’ इति कर्मयोगनिष्ठेषु श्रेष्ठत्वेन भगवता व्यपदिष्टस्य जनकस्याध्वरे आविर्भूता । मङ्गलं मङ्गलानामित्युक्तं पूर्व श्लोके । ‘पवित्राणां पवित्रम् ’ इत्यत्र निरूप्यते । ‘उत्पत्तिपरिपूतायाः किमस्याः पावनान्तरैः । तीर्थोदकं च वह्निश्च नान्यतः शुद्धिमर्हतः ॥ ’ इत्युत्तररामचरित्रे । देवयजनसंभवाया आजानशुद्धाया अस्याः पवित्रान्तरैर्न शोध्यत्वम् । पवित्राणां तीर्थादीनामनया शोधनं न्याय्यम् । सीताया अन्यतस्तीर्थोदकं वन्हिश्च शोधनं नार्हतः । तस्या एव शुद्धिमर्हतस्ते इति तच्छ्लोक भावः । तथा च ‘पवित्राणां पवित्रम् इत्युपपादितं भवति । पवित्राणां तीर्थानामतः शुद्ध्यर्हत्वम् ॥
स्थानं यस्याः सरसिजवनं विष्णुवक्षःस्थलं वा । कलशजलधावाविर्भूता ‘पश्यतां सर्वदेवानां ययौ वक्षःस्थलं हरेः ।’ तदुच्यते विष्णुवक्षःस्थलं यस्याः स्थानमिति । विष्णुवक्षः स्थलं तस्या उचितं स्थानम् । तत्रावस्थाने भर्त्रा नित्ययोगः सिध्येत्; तद्धृदय नियमनं च सिध्येत् । सरसिजवनेऽवस्थाने कथं तदा भर्तृयोगः सिध्येदिति चेत् ‘तुलसीकाननं यत्र यत्र पद्मवनानि चेति भगवतो विशेषसंनिधिस्थाने पद्मवने तद्विग्रह इवासौ विशेषेण संनि धत्ते’ इति गद्यभाष्यप्रदर्शितरीत्या सरसिजवने भगवानपि संनिधत्ते । पद्मवनालयां श्रियमिति गद्यरीतिरप्यत्रानुम्रियते । सुप्रसिद्धमङ्गलभूतपद्मवनोदाहरणं मङ्गलमङ्गलत्वोपपादकम् । जलधिराजकुमारिकान्तः पुरत्वेन श्रीमद्दीक्षितानां वर्णनं पूर्वमेवोदाहृतम् । वरदराजवक्षःस्थल वर्णने निपुणा दीक्षितवंश्याः । वक्षःस्थलाचार्य इत्येव राजदत्तं बिरुदं तत्पितामहस्य । स्थल शब्देन विष्णुवक्षसः श्रीदेवतालयत्वमभिव्यज्यत इव । स्थलरूपं देवतास्थानम् ॥
भूमा यस्या भुवनमखिलं देवि दिव्यं पदं वा । मानातीतविभवस्य विवरणम् । उभयविभूतिशेषित्वमुक्तं भवति । विभूत्यध्यायेषु प्राकृतविभूतय एव वर्णिताः । ‘विष्टभ्याह मिदं कृत्स्नमेकांशेन स्थितो जगत्’ इत्येकपाद्विभूतिरेवोक्ता । पुंसूक्ते ‘त्रिपादस्यामृतं दिवि’ इति त्रिपाद्विभूतिरप्युक्ता । श्रुत्युक्तोभयमप्यत्र कीर्त्यते । भुवनमखिलमिति श्रीभाष्यमङ्गल श्लोकप्रत्यभिज्ञापनम् । देवीत्युभयविभूत्योर्मध्ये संबुद्धेर्निवेशनम् । देवीति पूर्वविभूतेर्लीला
[[229]]
॥ श्री देशिकस्तोत्राणि चतुर्थो भागः ॥
प्रयुक्तत्वं द्योत्यते क्रीडार्थकत्वमाश्रित्य । दिव्यार्थाश्रयणेन दिव्यविभूतिमत्त्वस्यौचित्यमपि प्रदर्श्यते ‘देवि साम्प्रतमिदं यद्दिव्यं पदं तव भूमेति ॥ '
स्तोकप्रज्ञैः । दिव्यं पदं देव्या विभूतिरित्युक्तं पूर्वपादान्ते । ’ तद्विप्रासो विपन्यवो जागृ वांसः समिन्धते । विष्णोर्यत्परमं पदम् ’ इति श्रुतिस्तेन प्रत्यभिज्ञाप्यते स्तोतृप्रस्तावात् । असंकुचितज्ञानाः सूरयः खलु देवस्य देव्याश्च विविधं स्तोतारो विपन्यवो वन्दिनः । सा त्वं स्तोकप्रज्ञैरस्माभिः कथं स्तूयेथाः । निरवधिः सर्वज्ञः सर्ववित्त्वद्वल्लभोऽपि त्वां स्तोतुं न शक्नुयात् ॥
अनवधिगुणा स्तूयसे सा कथं त्वम् । गुणिनिष्ठगुणाभिधानं स्तुतिः । सम्यक्तत्व गुणाभिवर्णनं स्तोत्रम् । स्तुतेरसाध्यत्वोपपादनार्थमनवधित्वविशेषणं गुणेषु ॥
॥ मूलं ॥ *** स्तोतव्यत्वं दिशति भवती देहिभिस्स्तूयमाना तामेव त्वामनितरमगतिस्स्तोतुमाशंसमानः । सिद्धारम्भस्सकलभुवनश्लाघनीयो भवेयं सेवापेक्षा तव चरणयोः श्रेयसे कस्य न स्यात् ॥
व्या। एवं स्तोत्राशक्तिप्रदर्शनमात्रेण दयमानतया मातुर्हृदयमार्दवमालोच्य स्तोत्रनिवृत्तेरशक्यतया देवी मयि स्तोत्रमात्रेण स्तोत्राशंसामात्रेण वा प्रसन्ना भविष्यतीत्यभिसन्धायाह । स्तोतव्यत्वमिति (भवती देहिभिः) देवमनुष्यादिविशेषानालोचनेन शरीरिमात्रैः (स्तूयमाना) वर्तमानार्थलडादेशेन स्तोत्रापरिसमाप्तिद्यत्यते, आरभ्यमाणस्तवना सती (स्तोतव्यत्वम् दिशति) सकलभुवनस्तवनार्हता वच्छेदकगुणविशेषवन्तं कृत्वा तस्यान्यैः स्तुतिमुत्पादयति, मातुः स्तुतिफलमपि स्तुतिरेवेति चमत्कारः (तामेव त्वाम् ) स्तुत्यारम्भेणैव फलप्रदां त्वामेव (अनितरगतिः) अहं स्तोत्रारम्भेप्यशक्त इति त्वां विना गत्यन्तरमुपायान्तरमुपेयान्तरमजानन् (स्तोतुमाशंसमानः) न तु स्तुतिमारभमाणः आशंसामात्रेण (सिद्धारम्भः) सिद्धस्तोत्रारम्भसामर्थ्यः (सकलभुवनश्लाघनीयो भवेयम् ) " स श्लाघ्यस्स गुणी धन्यस्स कुलीनः स बुद्धिमान् । स शूरस्स च विक्रान्तो यं त्वं देवि निरीक्षसे " इति हि स्मृतिः । उक्तमर्थमर्थान्तरन्यासेन दृढयति। सेवेति । सेवा त्रिविधा कायिकी वाचिकी मानसिकी चेति, स्तोत्रस्यवाचिककैङ्कर्यतया
[[230]]
[[३]]
॥ श्रीस्तुतिः ॥
सेवारूपत्वेन तदपेक्षात्वं सामान्यम् । सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः । (कस्य श्रेयसे न स्यात्) अत्यन्तमशक्तस्यापि श्रेयसे स्यादेवेत्यर्थः । श्लाघनीयो भवेयमिति देशिकस्य ख्यातिप्रार्थना कथमुपपद्यते, उच्यते, न तावदिदमाशीः, भूयासमिति रूपापत्तेः, नापि प्रार्थने लिङ्, उत्तमपुरुषस्वारस्यात्, त्वं मां श्लाघनीयं कुर्या इति वचनव्यक्तिस्तदा स्यात्, किन्तु विधिलिङ्, उत्तमपुरुष एवायम्। यद्वा सकलभुवनश्लाघनीयो भवेयं स्वभक्त्यादिनेति शेषः । त्वञ्चरणभक्तिमानयं भवेयमित्यर्थः, “तत्पाद भक्तिज्ञानाभ्यां फलमन्यत्कदाचन । न याचेद्वैष्णवो विष्णुमिति वचनात् । भक्तिप्रार्थनं ह्यनवद्यम्। न ह्यभिजनविद्यावृत्तादिकम् । सर्वश्लाघ्यताप्रयोजकं स्त्रीशूद्रादेरपि शबरीविदुरधर्मव्याधादेस्तथात्वा दिति दिक् । ,
தமிழ்ப்பதவுரை
அவதாரிகை: இப்படி ஸ்துதியில் கைவாங்கினவிவரை ஸ்ரீதேவி நீரோ விதுக்குக் கடவர். நாமன்றோ உமது பெருமைக்காக உம்மைக் கொண்டு செய்ய முயன்றோமென்று Gapp rogujirig Cubali Gii. स्तोतव्यत्वम् ).
பதம் हे देवि உரை ஏ தேவி भवती देहिभिः स्तूयमाना स्तोतव्यत्वम् दिशति ताम् त्वामेव अनितरगतिः स्तोतुमाशंसमानः நீர் சரீரம் படைத்தவர்களால் ஸ்துதியில் துவக்கப்பட்டவளாய்க் கொண்டு ஸ்தோத்திரத்தின் திறமையை கொடுக்கிறீர். அப்படி முயன்ற உம்மைத்தானே உம்மைத்தவிர வேறுகதியற்றவடியேன் ஸ்துதியில் முயன்றவனாய்க் கொண்டு 231
॥ श्री देशिकस्तोत्राणि चतुर्थो भागः ॥
முடியும்படி துவக்கமுடையவனும் அனைத்துலகாராலும் கொன்டாடப்பட்டவனுமாக सिद्धारम्भः सकलभुवनश्लाघनीयः भवेयम् तव चरणयोः உன் திருவடிகளில் Color. सेवापेक्षा कस्य श्रेयसे न स्यात् கைங்கர்ய ஆசையானது யாருக்குத்தான் இன்பத்தின் பொருட்டு शुक
தேவரீரை ஸ்துதிக்க வடியேனுக்கு சக்தியில்லை. அடியேனைக்கொண்டு தேவரீரே ஸ்துதித்துக் கொள்ள முயன்ற இது நுமது வழக்கம். ஆனாலும் இன்னான் ஸ்துதித்தா னென்னும் பெருமையடியேனுக்கு வருமதுவும் தேவரீரதே. நீரன்றோ முக்யப்ரயோஜனம் உடையவர். இப்படியனுஸந்தித்துக் கொண்டு ஸ்துதியிழிகிறாரென்பது திரண்ட பொருள்..
(ए. वि. गो. व्या ) स्तुतिशक्त्यभावः, स्तुत्यसाध्यता च जगदे । कथं स्तोत्रारम्भस्तत्सिद्धिर्वेति चेदुच्यते स्तोतृत्वप्रतिष्ठामहं देही लिप्से । मुक्त्यनन्तरमशरीरोवा प्राकृतशरीरो वा त्वां स्तुवीय । स्यादेव तदा तद्भाग्यं पूर्वोदाहृतश्रुत्या । एतद्देहस्थ एव तव स्तोता भूयासममित्याशासे । एतद्व्यज्यत इव देहिभिरिति । चतुः श्लोक्यां श्लोकद्वयेन स्तुतेरशक्यता वर्ण्यते । आद्यश्लोकद्वयस्य प्रकृष्ट स्तुतित्वं समर्थ्यते आचार्यैः ‘एवं स्तोत्राक्षेपसमाधानव्याजेन प्रवृत्तमपि श्लोकद्वयमिदं प्रकृष्ट स्तुतिरूपमेव’ इति तद्भाष्ये । अत्रापि श्लोकद्वयं स्तुत्याक्षेपसमाधानपरम् । तद्विषयक श्लोक द्वित्वमुभयत्र समानम् ॥ 1
स्तोतव्यत्वं दिशति भवती देहिभिः स्तूयमाना । यो मातरं स्तौति स लोकेन स्तूयते सत्पुत्र इति । त्वां मातरं स्तुवन्सर्वेषामपि जननीं स्तौति । स्वस्वजननीस्तोतारं जना बहुमन्येरन् । स्तुत्यत्वेन त्वामनुसंदधानः स्तुत्यत्वविशिष्टो भवति । तत्क्रतुन्यायात् । त्वत्स्तुत्या लक्ष्मीवान् भवति । तत एव सर्वैः स्तूयते । लक्ष्मीवन्तं सर्वो लोकः श्लाघते । ‘नरं श्रिया 232
[[1]]
॥ श्रीस्तुतिः ॥
जुष्टमिवोपजीविनः’ इति ऋषिः । ‘सर्वे जनाः काञ्चनमाश्रयन्ते ।’ ‘स श्लाघ्यः स गुणी धन्यः ॥’ ‘यं स्तुवन् स्तव्यतामेति’ इतिवदनुभवः ॥
तामेव त्वाम् । ‘योऽसि सोऽसि’ इति श्रुतिः । त्वमेव त्वम् । तत्पदार्थस्त्वम् । तदेव त्वम् । ‘ईश्वरीं सर्वभूतानाम्’ । न त्वं त्वंपदार्थः ।
अनितरगतिः । मातरं विना का गतिः प्रजायाः ॥
स्तोतुमाशंसमानः सिद्धारम्भः । स्तुता चेत्स्तोतव्यत्वं स्तोत्रा लभ्येत । स्तुतिः कथं साध्येतेति चेत् स्तोत्रेच्छामात्रात्तत्साधयसि श्रेयोमूर्तिस्त्वम् । आशंसामात्रात्स्तोत्रं सिध्यति त्वदनुग्रहेण । ’ त्वमेव श्रीर्मह्यं बहुगुणयवाणीविलसितम्’ इति स्तोत्रारम्भे भट्टार्याः ॥
श्लाघनीयो भवेयम् । त्वत्स्तोत्रसिद्धेः स्तुत्यः स्याम् ॥ इन्द्रस्तुतौ स्तोतव्यत्वलाभः फलत्वेन कथ्यते ॥
सेवापेक्षा तव चरणयोः श्रेयसे कस्य न स्यात् । त्वत्स्तुतिरूपसेवापेक्षामात्रमलं श्रेयोलाभाय । मम त्वत्स्तुतिरूपसेवापेक्षास्ति । तावता च स्तुतिनिर्वृत्तिलभ्यश्लाघनीयत्व श्रेयो लभ्येत ॥
॥ मूलं ॥
यत्सङ्कल्पाद्भवति कमले यत्र देहिन्यमीषां
जन्मस्थेमप्रलयरचना जङ्गमाजङ्गमानाम् ।
तत्कल्याणं किमपि यमिनामेकलक्ष्यं समाधौ
पूर्णं तेजस्स्फुरति भवतीपादलाक्षारसाङ्कम् ॥ ४
व्या ॥ अथ स्तोत्राशंसाप्रयुक्तं स्तोत्रारम्भाधिकारं विवृण्वन् स्तोतुमारभते । यत्सङ्कल्पादिति । (कमले देहिनि) शरीरवति “यस्याव्यक्तं शरीरं यस्यापश्शरीरं यस्य पृथिवी शरीरं यस्यात्मा शरीरमित्यादिना सूक्ष्मचिदचिच्छरीकत्वेन सिद्धे (यत्र) ब्रह्मणि (अमीषां ) प्रत्यक्षतो दृश्यमानानां (जङ्गमाजङ्गमानां) चराचराणां (जन्मस्थेमप्रलयरचना) उत्पत्तिस्थितिविनाशरचना, स्थेमन् शब्द 233
’ ॥ श्री देशिकस्तोत्राणि चतुर्थो भागः ॥ औणादिबाहुळकेमन्प्रत्ययान्तस्थाधातु निष्पन्नतया स्थितिवाचकः ( यत्सङ्कल्पात् भवति ) “तदैक्षत बहुस्यां प्रजायेये” त्यादिश्रुत्या ब्रह्मणः सङ्कल्प एव हि सर्गादौ नियामकः चिदचिद्विशिष्टे यस्मिन्नेव जगदुत्पत्तिस्थितिविनाशाः पर्यवस्यन्ति, यथा “देवदत्त उत्पन्नो विनष्ट” इत्यादिव्यवहाराश्शरीरद्वारा शरीरिणि पर्यवस्यन्ति, तद्वत्, एतेन सूक्ष्मचिदचिद्विशिष्टविधया ब्रह्मणः उपादानत्वं, स्थूलचिदचिद्विशिष्टविधया ब्रह्मण एवोपादेयत्वं निष्कृष्टविधया निमित्तत्वमिति फलितम् । अन्तः प्रविश्य नियमनादिकं हि न विशिष्टस्य सम्भवति । “तत्सृष्ट्वा तदेवानुप्राविशदि “ति । विशिष्टे विशिष्टानुप्रवेशासम्भवात्। अत्र च शरीरलक्षणं यथा पृथिव्यादिसाधारणं यथा च शरीरवाचिनां शब्दानां शरीरिपर्यन्तत्वं यथा चोपादानोपादेययोरनन्यत्वं यथा शरीरगतानां विनश्वरत्वादिदोषाणां न शरीरिब्रह्मगामित्वं, तथा भाष्यादौ प्रपञ्चितं द्रष्टव्यम्। (कल्याणं) मङ्गलरूपम्, सर्वशरीरकत्वेपि शरीरगतानाममङ्गलानामसंस्पर्शेन शोभनैक रूपम् । अत एव “न सन्नचाच्छिव एव केवल” इति शिवशब्देन भगवतो नारायणस्यैवा भिधानं न देवतान्तरस्य “आविरिञ्चादमङ्गलमि"ति तस्या शुभत्वप्रतिपादनात् (यमिनाम्) सनकादियोगिनां (समाघावेकलक्ष्यम्) ध्याने शुभाश्रतया विषयान्तर व्युदासपूर्वकन्निर्धार्य विषयीकृतम् । यद्वा “कारणन्तु ध्येय” इति जगत्कारणतया निर्धारणादेव ध्येयतया निश्चितं (पूर्णम्) अखण्डं (किमपि) वाङ्मनसानास्पदं (तत्) प्रसिद्धं तेजः अथ यदतः परो दिव्योज्योतिरित्याम्नातं परञ्ज्योतिः ( भवती पादलाक्षारसाङ्कम् ) भवत्याश्चरणालक्तकचिह्नितम् (स्फुरति ) प्रकाशते तेजश्शब्देन सामान्यतो निर्दिष्टं कारणवस्तु नारायणाख्यमिति निश्चीयते, कारणवाक्येषु “क्वचित्सदेव सौम्येदमग्र आसीदिति सतो जगत्कारणत्वं श्रूयते " क्वचि देवेदमग्र आसीदि” असतः क्वचिदात्मा वा इदमग्र आसीदित्यात्मनः, अन्यत्र ब्रह्म वा इदमग्र आसीदिति ब्रह्मणः । " हिरण्यगर्भस्समवर्तताग्र” इत्यादौ चतुर्मुखस्य, “न सन्नचासच्छिव एव केवल” इति शिवस्य “एको हवै नारायण आसीदि"ति नारायणस्येति इति नानाशब्दाश्रूयन्ते तत्र यद्यपि सदसच्छब्दवाच्यस्य ब्रह्मत्वं स्वध्यवसानं छागपशुन्यायेन विशेषे उपसंहर्तुमुचितत्वात् ब्रह्मणश्चावस्थाभेदेन सदसच्छब्दवाच्यत्वा । तथापि जगत्कारणत्वं ब्रह्मविष्णुरुद्रादिषु विनगमका भावान्न निर्धारयितुं शक्यते, तस्मात् “ह्रीश्च ते लक्ष्मीश्च पत्न्या” विति श्रवणात्लक्ष्मीपतित्वमेव लिङ्गं निश्चायकमिति पुरुषोत्तम एव तादृश इति निर्धार्यत इति तात्पर्यम्। तदुक्तं “ईष्टे कश्चिज्जगत इति यः पौरुषे सूक्त उक्तः तञ्च त्वत्कं पतिमधिजगावुत्तरश्चानुवाकः " इति । वेदास्तत्वचिन्तां मुरभिदुरसि 234
॥ श्रीस्तुतिः ॥
, यत्पादचिह्नस्तरन्तीति” च पश्यतां सर्वदेवानां ययौ वक्षस्स्थलं हरेरिति वक्षस्स्थलारोहणवेळायां लाक्षारसाद्रितश्रीचरणारविन्दन्यासावश्यंभावात् तदङ्कितत्वमुपपन्नम् । यद्वा प्रणयकलहादिसमये देवीचरणारविन्दताडितं तद्वक्षः तस्याश्चरणलाक्षाङ्कितमिति भावः । ननु लक्ष्मीपतित्वमेव विनिगमकमित्युक्तं, ब्रह्मरुद्रादीनां उत्पत्तिविनाशादिमत्वमेव निरासकं भविष्यति किमनेन लक्ष्मीपतित्वेनेति चेत् “ब्रह्मविष्णुरुद्रेन्द्रास्ते सर्वे सम्प्रसूयन्त” इति त्रिमूर्तिमध्यस्थस्यापि विष्णोः अजायमानो बहुधा विजायत इति ऐच्छिकजननमादाय तदितरसामान्येनोत्पत्तिवचनेऽपि ब्रह्मरुद्रादिभिस्समभिव्याहारात् साक्षादुत्पत्तिरेव किन्न स्यादिति उत्पत्तिशङ्कया तदुत्पत्तेरनियामकत्वादिदमेव लिङ्गमनन्यथासिद्धमिति भावः । भवती पादलाक्षारसाङ्कमित्यत्र भवतीशब्दस्य सर्वनामत्वेन सर्वनाम्नो वृत्तिमात्रे पूर्वपदस्य पुंवद्भाव इति भवत्पादलाक्षेति स्यादिति चोदयन्ति । “एकोऽहं भवती सुतक्षयकर” इति वेणीसंहारे “भवती सम्बन्धदृष्ट्या हरिमिति” श्रीगुणरत्नकोशे अन्यत्र च बहुशः प्रयोगदर्शनेन भवच्छब्दस्य सर्वनाम भिन्नस्य शतृप्रत्ययान्तस्य सम्भावितत्वात्, अन्यथा गत्यन्तराभावादिति परिहरन्ति । तस्मादत्र श्लोके लक्ष्मीदेव्याः स्वाधीनपतिकत्वस्फूर्त्या तत्प्रीत्यर्थमेव भगवतो जगन्निर्माणलीलारम्भ इति। तदधीनमेव तस्य जगत्कर्तृत्वमिति ध्वनितम्। यमिनां ध्यानञ्च ब्रह्मणः श्रीवैशिष्ट्य एव रमणीयमित्युक्तं भवति। वेदादिप्रमाणान्यपि तदङ्घ्रिमुद्रामन्तरेण न ब्रह्म बोधयितुमीशत इत्यपि सिद्धम्। अतो यद्यपि विशिष्टगतमीश्वरत्वं भवति तथापि तत्र अनिष्कृष्टपरमपुरुषतत्त्वं निष्कृष्ट श्रीतत्त्वपरतन्त्रमिति स्तुतिश्च। इदञ्च पत्नीपारतन्त्र्यं पत्युरैच्छिकमिति न दोषावहम्। केचित्तु देहिनि चिदचिच्छरीरके यत्र अमीषां जङ्गमाजङ्गमानां शरीरभूतानां जन्मादिरचना यत्सङ्कल्पात् भवतीत्येवं जङ्गमाजङ्गमशब्दो न ब्रह्मपर्यन्तः विशिष्टस्येव विशेषणानामपि जन्मादिसम्भवात्। यत्रेत्येतदाधारताप्रदर्शनाय, न तु जन्मादिपर्यवसानभूमिताप्रदर्शनाय । तत्तेजः भवतीपादलाक्षारसाङ्कं सत् स्फुरति अधिकं शोभते श्रीपदचिह्नस्यैव भूषणतया शोभातिशयसमर्पकत्वादित्याहुः ।
தமிழ்ப்பதவுரை
அவதாரிகை: உலகில் அனைவரும் பெருமாளை ஸ்துதியாநிற்க நீர் ஸ்ரீஸ்துதியிழிவானேன் என்ன. அவரும் உம்மாலே பெருமைபெற்றவரே என்றருளிச் Qupari यत्सङ्कल्पात् m.
[[1]]
[[16]]
[[235]]
பதம் यत्र देहिनि यत्सङ्कल्पात् अमीषाम् जङ्गमाजङ्गमानाम् जन्मस्थेमप्रलयरचना भवति तत् कल्याणं किमपि यमिनाम् समाधौ एकलक्ष्यम् पूर्णम् ॥ श्री देशिकस्तोत्राणि चतुर्थो भागः ॥ உரை சித் அசித் என்னுமதுகளுடன் கூடியவையனைத்துக்கும் சரீரியான பகவானிடத்தில் யாதொரு பகவானுடைய எண்ணத்தால் இந்த ஜங்கமஸ்தாவரங்களுடைய பிறப்பு, இருப்பு, இறப்புகளைச் செய்கை உண்டாகிறதோ, அப்படிப் பட்ட சுபாச்ரயமும் வாசாமகோசரமும் யோகிகளுக்கு த்யானத்துக்குக் குறிப்பிடமும் भवतीपादलाक्षारसाङ्कम् எங்கும் நிறைந்ததுவும் ஒளி பொருந்திய திருமேனியை உடையவருமான பெருமாள் உமது கால் செம்பஞ்சுக் குழம்பின் அடையாளமுடையதோ
ஜகத்காரணப்ரஹ்மம் சித் அசித் சரீரியாய்க் கொண்டு ஸ்ருஷ்டி முதலியவற்றைத் தன் ஸங்கல்பத்தாலே செய்கிறது. யோகிகளால் த்யானிக்கத்தக்கவும் சுபமாயுமுள்ளது. இப்படிப் பட்டவதுவும் உமது ஸம்பந்தமில்லாவிடில் திருவில்லா தெய்வமாகும். ப்ரயோஜனப்படவும் மாட்டாது. ஆகையால் நீர் அவருக்கும் மேலானவரென்று வேதவைதிகர்கள் கூறுகிறபடியால் நும்மை ஸ்துதி செய்கிறேனென்றருளிச் செய்கிறாரென்பது திரண்டபொருள்.
(.fa..)danaa: ।- 236
॥ श्रीस्तुतिः ॥
विषयेऽपीदं सममिति प्रदर्श्यते पूर्णं तेजः स्फुरति भवतीपादलाक्षारसाङ्कमिति । मङ्गलं मङ्गलानामित्युक्तम् । तत्कल्याणं तेजस्त्वत्पादलाक्षारसशुभाङ्कवत्स्फुरतीत्युच्यते । यत्कारणं तदेव पूर्णम् । कारणं व्यापकम् । कार्यं व्याप्यमपूर्णम् । परमकारणमेव फलप्रदानसमर्थम् । तदेव योगिध्येयम् । भर्तुः कारणत्वप्रदर्शनमस्याः प्रशस्तिरेव । अस्याः पतित्वेनैव भर्तुः कारणत्वे विशेषज्ञप्तिः । अवगतेन प्रसिद्धेनानवगतस्य लक्षणं युक्तम् । हेतुत्वलक्ष्यः पुंसूक्तादिप्रसिद्धः कश्चित्पुरुषः । तस्य विशेषो न ज्ञायते । विशेषपरिज्ञानं च ‘हीश्च ते लक्ष्मीश्च पत्यौ’ इति तत्पत्नीकीर्तनेन भवति । ‘पुंसूक्तं सर्ववेदप्रपठनमहितं यत्परत्वैकतानं तस्यैव श्रीपतित्वं विशदमभिदधे ह्युत्त रत्रानुवाके’, ‘वेदान्तास्तत्त्वचिन्तां मुरभिदुरसि यत्पादचिन्हैस्तरन्ति’, ‘नानागमोद्यद्विशयशम नतः श्रीमति ब्रह्मतोक्तेः ’ इत्यादिकमत्र भाव्यम् । कारणमुद्दिश्य तस्य श्रियः पतित्त्वं विधीयत इति वा, श्रियः पतिमुद्दिश्य तस्य कारणत्वान्वयो विधीयत इति वा । उभयथापि कारणत्वस्य ब्रह्मलक्षणत्वसिद्धिः । विश्वकारणत्वेन ईश्वरलक्षणम् । अस्याः पतित्वेन तस्य विशेषज्ञप्तिः । कमले इति समस्तमङ्गलावाप्तिसाधनरूपमाङ्गल्यद्योतनम् । अस्याश्चरणसेवित्वाद्भर्तुरभिगम्यत्वसिद्धिः ॥ 1
यत्सङ्कल्पात् । नामरूपव्याकरणसङ्कल्पः । तेन च निमित्तत्वम् । तच्च केवलविशेष्यनिष्ठम् ॥
यत्र देहिनि भवति । यस्मिञ्छरीरविशिष्टे शरीरिणि भवति चराचररचना । उपादानत्व - मुच्यते । उभयविधकारणत्वं विना न पूर्णत्वं ब्रह्मणः । ‘सर्वश्रुत्यैकरस्यप्रणयिभिरुचितं द्वारमत्राभ्युपेतम्’ इति शरीरद्वारकं परिणामित्वम् । ‘अस्यैवाचिन्त्य शक्तेरखिलजनयितुः स्यादुपादनभावः सूक्ष्माव्यक्तादिदेहः परिणमति यतोऽनेकया स्थूलवृत्त्या । निष्कृष्टेऽस्मिञ्छरीरिण्यखिलगुणगणालंकृतानन्दरूपे संपद्यन्ते समस्ताः समुचितगतयो निर्विकारत्ववादाः’ इत्याचार्य श्लोकोऽत्र भाव्यः । समन्वयाध्याया रम्भदृष्टं जन्माद्यधिकरणम्, तदन्तदृष्टं प्रकृत्यधिकरणमित्युभयमपि संगृहीतं भवति । तथा च समन्वयाध्यायस्येमौ दम्पती विषयः इति लभ्यते । इतरे रचयितारश्चतुर्मुखाद्याः स्वसङ्कल्पेन जंगमाजंगमान् स्वदेहाद्बहिः सृजेयुः । तेषां न विश्वोपादानत्वसंभवः ॥
[[237]]
॥ श्री देशिकस्तोत्राणि चतुर्थो भागः ॥
अमीषां जङ्गमाजङ्गमानाम् । ‘जन्माद्यस्य यतः’ इति सूत्र स्थस्यास्येति खण्डस्य विवरणम् । इमानीति श्रुतिखण्डानुसारः । सूत्रस्थषष्ठीविभक्तिः, श्रुतिस्थबहुवचनं च । तथा च श्रुतिसूत्रोभयानुसार इत्यवधेयम् ॥ वेदान्ताचार्यः खलु कविः ।
जन्मस्थेमप्रलयरचना । ‘रचनानुपपत्तेश्च’ इति सूत्रोक्तरचनाशब्दस्य ग्रहणम् । जन्मस्थेमशब्दौ श्रीभाष्यप्रथम श्लोकस्थौ । भङ्गशब्दस्थानेऽत्र मङ्गलमङ्गलमातृसंनिधौ प्रलयशब्दप्रयोगः । यथा स्थेमरूपजीवनं मातृकरुणया, तथा सृष्टिप्रलयावपि करुणामूलौ ॥
तत्कल्याणं किमपि । ‘यतो वेमानि भूतानि ’ इति सामान्येनोक्तस्य ‘आनन्दाद्ध्येव खल्विमानि भूतानि जायन्ते’ इति निर्णयवाक्यदृष्टे आनन्दमये पर्यवसानम् । आनन्दमयः स आत्मा कल्याणशब्देन निर्दिश्यते । किमपीति तत्प्रकरणोक्तवाङ्गनसातीतत्त्वम् ॥
यमिनामेकलक्ष्यं समाधौ । एकाग्रबुद्ध्या योगिनः सर्वा वृत्तीर्निरुध्य स्वान्ते परमकारणं ध्यानेन दिदृक्षन्ते ॥
… … पूर्णं तेजः स्फुरति भवतीपादलाक्षारसाङ्कम् । यद्यपि यमिनो बुद्धिरेकाग्रैकमेव लक्ष्यं परमकारणमन्विष्यति, कारणस्य मिथुनत्वात्, पत्नीं विना पत्युरपूर्णत्वाच्च मिथुनमेव समाधौ भासने । भाने च भगवद्दिव्यमङ्गलविग्रहस्य श्रयङ्कितत्वं भासते । तेनैव कारणस्य विशेषनिर्णयः । यद्यपि ‘यतो वेमानि भूतानि जायन्ते तद्विजिज्ञासस्व तद्वह्म’ । इति पुरोवादसामान्यवचनस्य ‘आनन्दाद्ध्येव खल्विमानि भूतानि जायन्ते’ इत्यानन्दरूप विशेषे पर्यवसानम्, न तावता व्यक्तिविशेषाकाङ्क्षाशान्तिर्भवति । अस्ति जिज्ञास्य शेषम् । तच्च पत्नीज्ञानेनैव पूर्णज्ञातं भवति । अत उच्यते यद्यपि कल्याणरूपानन्दत्वं ज्ञातम् ‘तत्कल्याणम्’ इति, त्वत्पादलाक्षारसाङ्कितत्वेनैव सर्वाकांक्षाशान्तिपूर्वकम्, व्यक्तिविशेषनिर्णय पूर्वकं जिज्ञास्यशेषमन्तरा पूर्णं स्फुरणं कारणतेजसः । देवताविशेषाकाङ्क्षायाः साकल्येन शान्तिरपि पूर्णशब्देन सिध्यति । कारणत्वसमव्याप्ततेजस्त्वस्याप्यत्र ग्रहणं तेजःशब्देन । ‘अप्रमेयं हि तत्तेजः’ इत्यादिना मारीचोक्ततेजसोऽपि स्मरणम् । तथा च स्तोत्रारम्भोक्तमानातीतत्वरूपाप्रमेयत्वान्वयोऽपि । ज्योतिरधिकरणविषयत्वमपि 238
॥ श्रीस्तुतिः ॥
। प्रदर्श्यते तेजः शब्देन । तत्त्वं खल्वन्विष्यते योगसमाधिना । तत्त्वं च दम्पती । श्रीवैशिष्ट्यस्फुरणाभावे न पूर्णस्फुरणं तत्त्वस्य । तद्व्यज्यते पूर्णशब्देन । एकलक्ष्यं ह्यैकाग्ग्रेणान्विष्यते । कथं द्वयोः स्फुरणमिति चेत् ‘एकतत्त्वमिवोदितौ’ इति स्वभावतः पतिपत्नीभावेन मणिप्रभान्यायेनैकीभूतयोरविभक्तत्वेनैव सिद्धेर्नैकलक्ष्यत्वहानिः । ‘अस्ति वस्त्विदमित्थंत्वप्रसङ्ख्यानपराङ्कखम् । श्रीमत्या यतने लक्ष्मीपदलाक्षैकलाञ्छनम् ॥’ इति भाट्टानुभवोऽत्र भाव्यः । ‘नेति नेति’ इति श्रुत्येद - मित्थमिति लक्षयितुमशक्यमपि वस्तु त्वत्पदलाक्षारसाङ्करूपेणैकेन लक्षणेनैव विधिमुखेन लक्ष्यते । ‘वृक्षे वृक्षे च पश्यामि चीरकृष्णाजिनाम्बरम्’ इति स्वाश्रमे सततं योग्यनुभाव्यं रामं भावयतो योगिनो मारीचस्यानुभवो यस्य सेति । अत्र यस्या अयमित्यनुभव इव । ‘अस्या मम च शेषं हि ’ इति भगवदुक्तावस्याः प्राधान्यं तद्बुद्ध्या द्योत्यत इव । तद्बुद्धिं वयमनुसरामः । तस्याज्ञा तद्वचनरूपस्मृतिः । तदाज्ञासेतुरस्माभिरनुपाल्यते । यथा राजा तथा प्रजाः । ‘रसो वै सः’ इति श्रूयते । पत्नीपादलाक्षारसाङ्कितो रस इति पूर्वाचार्याणामनुभवः । तथा च रसिकसार्वभौमत्वरूपरसत्वमुपपाद्यते । कलशजलधावाविर्भाव उक्तः । आविर्भूता भर्तुर्वक्षःस्थलं ययौ । स्वयंवरमङ्गलविधौ लाक्षारसार्द्रपादा स्यात् । आर्द्रस्तद्रसाङ्कः स्याद्भर्तृवक्षसि । उरस्यासने तत्र पादलाक्षारसाङ्को नियतं भवेत् । ‘आर्द्रा ज्वलन्तीम् इति तस्या जाज्वल्यमानं तेज आर्द्रम् । यथा भगवत्तेजः ज्योतिरिवाधूमकः’ इति वर्ण्यते । ‘प्रवालानां दीक्षागुरुरपि च लाक्षारुणरुचां नियन्त्री बन्धूकद्युतिनिकरबन्धूकृतिपदः ’ इति पण्डितराज- लक्ष्मीलहर्युक्तरीत्या यद्यपि चरणरुचेर्लाक्षारसातिशायित्वमस्ति, न
चरणमात्रेणाङ्कनसंभवः ॥
निष्प्रत्यूहप्रणयघटितं देवि नित्यानपायं विष्णुस्त्वं चेत्यनवधिगुणं द्वन्द्वमन्योन्यलक्ष्यम् । शेषश्चित्तं विमलमनसां मोळयश्च श्रुतीनां सम्पद्यन्ते विहरणविधौ यस्य शय्याविशेषाः ॥
॥ मूलं ॥
[[239]]
॥ श्री देशिकस्तोत्राणि चतुर्थो भागः ॥ ॥ व्या॥ नन्वेवं श्रियो जगत्कर्तृभगवदनुमन्तृत्वेन वा प्रेरकत्वेन वा जगत्कर्तृकोटावनुप्रवेश उक्तः तथा सति ईश्वरद्वित्वापत्तिः “जन्माद्यस्य यतः” इत्युक्तलक्षणं लक्ष्म्यामतिप्रसक्तं च स्यात् ब्रह्म निस्समाभ्यधिकञ्च न स्यात् न चोभयगतमीश्वरत्वमेकं यथा यागादिकर्तृत्वमेकं कर्तृत्वाश्रयव्यक्ति भेदेऽपि कर्तृत्वे भेदाभावाज्जायापतिव्यासक्तमिति वाच्यम् । एवं सति लौकिकदम्पतिन्यायेन कदाचिद्विरोधादिसम्भवेन जगत्सर्गादावनैकमत्यप्रसङ्गेन जन्मस्थेमाद्यप्रवृत्त्यापत्तेः । अन्यतरवैकल्प्यप्रवृत्तौ च सुतरां रक्तो न हि दम्पत्योरन्यतमेऽपि यागादिकमस्ति अनयोर्गुणवैषम्यञ्च यदि लौकिकनयात्, तथापि कार्यविरोधः । परस्परमानुरूप्यञ्च तयोर्न स्यात् । “ह्रीश्च ते लक्ष्मीश्च पत्न्या “विति श्रवणात् । प्राथम्यात् ह्रीविष्णोरेव जगत्कर्तृत्वमस्तु “अस्येशाना जगतो विष्णुपत्नी " ति अस्य च मन्त्रस्य विष्णुपत्नी मात्रतुल्यत्वात्, तस्माज्जगत्कर्तृत्वे श्रियो विशेषकप्रमाणाभाव इत्यादिशङ्कां व्युदस्यन्नेव लक्ष्मीविशिष्टस्यैव ईश्वरत्वं स्थिरीकरोति निष्प्रत्यूहेति ॥ (निष्प्रत्यूहप्रणयघटितम्) निष्प्रत्यूहेन-निर्घातेन प्रणयेन-अन्योन्यानुरागेण घटितम् - यदा कदापि विश्लेषो न भवति तथा सुश्लिष्टम्, प्रणयविशेषेण स्वरूपे रूपे च गाढोपगूढमिति यावत् । उक्तं हि भगवच्छास्त्रे भगवता स्वस्वरूप श्रीरूपयोः गाढोपगूढत्वमिति “तथा लक्ष्म्याः स्वरूपं च वक्ष्ये श्रुणु समाहितः । गुणतश्च स्वरूपेण व्याप्तिस्साधारणी मता । यथा मया जगद्व्याप्तं स्वरूपेण स्वभावतः । तया व्याप्तं तथा सर्वं नियन्त्री च तथेश्वरी । मया व्याप्ता तथा सापि तया व्याप्तोऽहमीश्वरः । मम लक्ष्म्याश्च सेनेश वैलक्षण्यमिदं श्रुणु । मच्छेषभूता सर्वेषामीश्वरी वल्लभा मम। तस्याश्च जगतश्चाहं ईश्वरो वेदविश्रुतः । अस्या मम च शेषं हि विभूतिरुभयात्मिका ।” इति श्रुतिशिरस्सिद्धं मच्छास्त्रेष्वपि मानदेति अस्या देव्या मनस्तस्मिन् तस्य चास्यां प्रतिष्ठितम्। तेनेयं स च धर्मात्मा मुहूर्तमपि जीवति, अनन्या राघवेणाहं भास्करेण प्रभा यथा अनन्या हि मया सीता मैथिली जनकात्मजा इत्यत्रानन्यत्वं अनन्यवदवभासमानत्वं अविनाभूतत्वमिति यावत् । एतेन प्रणयविघात सम्भावनया सर्गादावनैकंमत्याशङ्का निरस्ता । (नित्यानपायम्) नित्यञ्च तदनपायञ्च । नित्यत्वं कालपरिच्छेदराहित्यं अपायस्संश्लेषस्य विच्छेद इहोच्यते। तद्राहित्यमनपायित्वम्। तदुक्तं श्रीविष्णुपुराणे नित्यैवेषा जगन्माता विष्णोः श्रीरनपायिनीत्यादि । श्रीसूक्ते च “श्रियं लोके देवजुष्टामुदारामिति । अत्र देवशब्दो दिव्यो देव एको नारायण इति नारायण एव मुख्यवृत्तः । जुषप्रीतिसेवनयोरिति धातुरत्रो भयार्थः बाधकाभावादित्याहुः । एतेन द्वन्द्वे यतरलोपादिकृतजगत्सर्गादिविलम्बशङ्का निरस्ता । (अनवधिगुणम्) अवधिरहिताः सङ्ख्यारहिताः गुणा यस्य । यद्वा एकैकोऽपि गुणो अवधिरहितः 240
॥ श्रीस्तुतिः ॥
परिच्छेदरहितः इयत्तया परिच्छेदनानर्हाः ज्ञानशक्त्यादयो हि गुणास्सर्वेऽपि साधारणाः - उभयोरीश्वरत्वात्, तदुक्तम् श्रीगुणरत्नकोशे “प्रशकन बलज्योतिर्ज्ञानेश्वरत्वजयप्रथा प्रणतवरणप्रेमक्षेमंकरत्वपुरस्सराः। अपि परिमलः कान्तिर्लावण्यमर्चिरितीन्दिरे तव भगवतश्चैते साधारणा गुणाराशय” इति। एतेन इदं लक्ष्मीनारायणाख्यं मिथुनं परस्परमनुरूपमित्युक्तं भवति । तदिदमानुरूप्यं परदेवतापारमार्थ्यविदग्रेसरेण भगवता पराशरेण श्रीविष्णुपुराणे कण्ठत उक्तं तथा हि “यथा सर्वगतो विष्णुस्तथैवेयं द्विजोत्तम । अर्थो विष्णुरियं वाणी नीतिरेषा नयो हरिः । बोधो विष्णुरियं बुद्धिः धर्मोऽसौ सत्क्रिया त्वियम् । स्रष्टा विष्णुरियं सृष्टिः श्रीर्भूमिः भूधरो हरिः । इच्छा श्रीर्भगवान् कामः यज्ञोऽसौ दक्षिणा तु सा । आजयाहुतिरसौ देवी पुराडाशो जनार्दनः ॥ सामस्वरूपी भगवानुद्गीथः कमलालया । स्वाहा लक्ष्मीर्जगन्नाथो वासुदेवो हुताशनः। शङ्करो भगवान् विष्णुः गौरी लक्ष्मीर्द्विजोत्तम । मैत्रेय केशवस्सूर्यस्तत्प्रभा कमलालया । विष्णुः पितृगणः पद्मा स्वधा शाश्वतपुष्टिदा । शशाङ्कः श्रीधरस्तस्य कान्तिः श्रीरनपायिनी । लक्ष्मीस्वरूपमिन्द्राणी देवेन्द्रो मधुसूदनः ॥ यमश्चक्रधरः साक्षाद्धूमोर्णा कमलालया । ब्रह्माविष्णुस्स सर्वात्मा वाग्देवी श्रीर्महामते । किं वात्र बहुनोक्तेन संक्षेपेणेदमुच्यते” इत्यादिभिः । अनेन लौकिकदम्पतीन्यायात् गुणवैषम्यमानुरूप्यञ्च न स्यादिति शङ्का निरस्ता । उभयोरनवधिगुणत्वप्रतिज्ञानात् (विष्णुस्त्वं चेति द्वन्द्वम्) मिथुनम् न तु विष्णुः ह्रीश्चेति द्वन्द्वम् । न वा विष्णुर्नीळा चेति। तयोस्स्वरूपेण व्याप्त्यभावात्। धर्मभूतज्ञानद्वारा हि तयोर्व्याप्तिः । तथा चोक्तं तथा भूमिश्च नीळा च शेषभूते मते मम । यथात्मानं हि सर्वेषां ज्ञानतो व्याप्तिरिष्यते । इति भट्टाचार्यैः । देवि त्वामनुनीळया सह महीदेव्यस्सहस्रं तथेति। अत्रानुः कर्मप्रवचनीयो हीनार्थः तस्मालक्ष्मीविशिष्टमे कमीश्वरतत्त्वमित्युक्तं भवति। उक्तञ्च देव्यैव भवान्नारायणो देवः भावो लक्ष्मीरहं परा । लक्ष्मीनारायणाख्यं तत्परं ब्रह्म सनातनमिति । एतेनेश्वरद्वित्वशङ्कानवकाशात्, लक्ष्यभूतायां लक्ष्म्यामतिव्याप्तेरदोषत्वात् लक्ष्म्याः विशेषणत्वेन ईश्वरत्वेपि भगवच्छेषत्वात् भगवतस्सर्वशेषित्वेन निस्समाभ्यधिकत्त्वात् । ननु लक्ष्म्याः एको न शेषित्वमात्रेण न तावदीश्वरत्वं कतिपयशेषित्वस्य जीवसाधारणत्वात् यावद्वस्तुशेषित्वं च नेश्वरेप्यस्ति स्वंप्रति स्वस्याशेषित्वात् स्वव्यतिरिक्तयावद्वस्तुशेषित्वं तु लक्ष्म्याः न सुवचं स्वातिरिक्तविष्णुं प्रति शेषित्वासम्भवात् इति चेत् न स्वशब्दस्य लक्ष्यपरत्वात् उभयोरपि लक्ष्यतया तदनन्यशेषित्वस्य लक्ष्म्यामपि सम्भवात्, एवं चेश्वरत्वेन प्रमाणसिद्धमेव स्वपदेन विवक्षितम्, तदन्ययावद्वस्तुशेषित्वमीश्वरत्वमिति निष्कर्षः। अन्योन्येन लक्ष्यं लक्षणीयं निरूपणीयमिति यावत् । लोके वेदे च विष्णुपत्नीत्वेन 241
॥ श्री देशिकस्तोत्राणि चतुर्थो भागः ॥
श्रियः पतित्वेन च तयोर्व्यवहारप्राचुर्यात् । यद्वा अन्योन्येन लक्ष्यं दृश्यं लक्षदर्शनाङ्कनयोः श्रिया हि दृश्यो देवः तेन च दृश्या देवी उभयोः परस्परं प्रति श्रीत्वात् । “कः श्रीः श्रियः, तव श्रिया " इति च परस्परस्य श्रीत्ववचनात्। एवं परस्परं द्वावप्यनुरूपाविति भावः । ननु लक्ष्म्याः कथमीश्वरत्वं भगवत इव शेषशयनत्वयोगिध्येयत्ववेदान्तवेद्यत्वाभावादित्याशङ्क्य उक्तं विशेषणत्रयमप्युभयसाधारणमित्याह. शेष इत्यादि। (शेषः) अनन्तः (विमलमनसां ) योगिनां च (चेतः - श्रुतीनां मौलयः) वेदान्ताश्च (यस्य) मिथुनस्य (विहरणविधौ शय्याविशेषास्सम्पद्यन्ते) आधाराधेयभावेन ध्यातृध्येयत्वेन तात्पर्यविषयत्वेन चत्रितयगत्त्वं मिथुनस्य सम्भवति तदधिकरणत्वात् त्रयाणामपि शय्यात्तवेन निरूपणं “भोगप्रिया भोगवती भोगीन्द्रशयनासने” ति श्रीसहस्रनामपाठात् शेषशयनत्वं सिद्धम् । योगिध्येयत्वं “सर्वकामप्रदां रम्यां संसारार्णवतारिणीम्। क्षिप्रप्रसादिनीं लक्ष्मींशरण्यामनुचिन्तये"दिति स्वायम्भुववचनात् विशिष्टस्य प्रत्यगात्महविस्समर्पणयज्ञे देवतात्वं च सिद्धम् । अत एव वेदान्तवेद्यत्वं चेति दिक् ।
தமிழ்ப்பதவுரை
அவதாரிகை: உமது அபிப்ராயப்படி நானே அதிகையாகில் எனது ஸ்துதியேயமையாதோ சில ஸமயங்களில் பெருமாளையும் துதிக்கின்றீரே அஃதேனென்ன, பெருமாளை நீக்கி நீரும் நும்மை நீக்கி அவரும் பூர்ணபலத்துக்குப் போதாது. நீங்களிருவருமே 2xqGwoQjigejGgalya swimmi. निष्प्रत्यूह m.
பதம்
हे देवि
निष्प्रत्यूहप्रणयघटितम्
नित्यानपायं
निरवधिगुणम् अन्योन्यलक्ष्यम्
எக்காலத்திலுமுள்ளதும் ஒருக்காலத்திலும்
பிரியாததும்
ஈறிலகுணமுடையதும்
विष्णुः
உரை
ஏ தேவியே
இடையூறிராவன்பு பூண்டதும்
ஒன்றுக்கொன்று நிகரானதும் அல்லது
ஒன்றையிட்டொன்று நிரூபிக்கத் தக்கதும் பெருமாளும்
[[242]]
॥ श्रीस्तुतिः ॥
त्वञ्चेति द्वन्द्वम् (उद्देश्यम् विमलमनसाम् चित्तम् श्रुतीनाम् मौळयश्च शय्याविशेषाः நீரென்றுமாகவிப்படி ஸ்த்ரீபுருஷனுமான விரட்டையே உத்தேச்யம்) கல்மஷமில்லாத மனத்தவமுனிவர்களுடைய ஹ்ருதயமும் வேதங்களுடைய முடிகளும், வேதாந்தங்களுமென்றபடி இவை படுக்கைப் பிரிவுகளோ
ஸ்ரீயும் நாராயணனும் ஸமராகில் ஜகத்ஸ்ருஷ்டி முதலியவை இருவருக்குமாகுமே ஆகிடுவென்னில் ப்ரஹ்மமொன்றேயென்பதும் விரோதிக்கும், ஈரரசும் படுமேயென்று முதலியசங்கைகள் வர ச்ருதி ஸ்ம்ருதிபுராணாதிகள் இருவருமே சேஷிகளென்றிப்படி கூறுகையால் சங்கைக்கிடமில்லை. திவ்யதம்பதிகளாகையால் அபிப்ராயபேதமுண்டாகாது. ஆதலாலிருவருமேயுத்தேச்யரென்று கருத்து. யாகத்தில் ஏகயஜமானன் என்றாலும் பத்நீயை விலக்காது அதுபோலவிங்கும் கண்டுகொள்வது.
(ए. वि. गो. व्या )ः पादलाक्षारसाङ्कं स्फुरति भर्तृतेज इत्युक्तम् । प्रणयकलहे तत्संभवः प्रायेण । मिथः कलहायमाने ईश्वरद्वन्द्वे तदुभयनियाम्यं जगदितस्ततः कृष्टं नितान्तं क्षुभ्येत् । एकलक्ष्यमित्युक्तम् । वस्तुतो द्वित्वेप्येकतुल्यत्वमुपपाद्यम् । देवताद्वन्द्वमिदम् । ईश्वरत्वमस्मिन् द्वन्द्वे व्यासज्यवृत्ति । परस्परमनयोर्निष्प्रयूहः प्रणयः । उभयाधिष्ठानमेकं शेषित्वम् एवंजातीयका अंशाः षड्भिः श्लोकैर्निरूप्यन्ते ॥
निष्प्रत्यूहप्रणयघटितं द्वन्द्वम् । मित्रावरुणादिदेवताद्वन्द्वघटकयोर्देवयोः पुंसोरपि न मिथः कलहो दृश्यते । इदं मिथुनं परदेवताद्वन्द्वम् । स्वेतरेषु सर्वप्राणिषु सहजपरिपूर्णानुरागवन्ताविमौ । प्रेमैकस्वभावावितरविषयेऽपि । परस्परं तयोः प्रणयो निरवधिर्निष्प्रत्यूहः । धर्मवीर्येण सर्वहृदयभावमपरोक्षं पश्यन्नृषिरपि ‘हृदयं त्वेव जानाति प्रीतियोगं परस्परम्’
[[243]]
॥ श्री देशिकस्तोत्राणि चतुर्थो भागः ॥
इति तत्प्रणयस्य स्वेनाज्ञाततामवधारयति । दाम्पत्यस्य प्रणयघटितत्वं वर्ण्यते उत्तररामचरिते रामेण ‘अद्वैतं सुखदुःखयोरनुगतं सर्वास्ववस्थासु यद्विश्रामो हृदयस्य यत्र जरसा यस्मिन्नहार्यो रसः । कालेनावरणात्ययात्परिणतेर्यत्स्नेहसारे स्थितं भद्रं तस्य सुमानुषस्य कथमप्येकं हि तत्प्रार्थ्यते ॥ ’ इति । सुखं वा कृच्छ्रं वा भवतु । उत्तमदम्पत्योः परस्परप्रेम स्नेहसारमेक रूपमेव स्यात् । तयोर्जरसा न स्नेहरसो जीर्येत् । ‘नास्य जरया जीर्यति ॥ ’ -
देवि । देवतामिथुनं युवाम् न युवयोः कलहसंभवः ॥
नित्यानपायम् नित्यमनादि । अनपायमनन्तम् । सादि सान्तमितरद्देवताद्वन्द्वम् । देवीत्युक्तेरितरदेवताद्वन्द्वसामान्यात्सादित्वसान्तत्वशङ्का जायेत । तद्वार्यते नित्यानपायमिति । नित्यमविश्लिष्टं द्वन्द्वम् । अपायो विश्लेषः । I
विष्णुस्त्वं चेति द्वन्द्वम् । यद्यपीयं श्रीस्तुतिः, न भर्तारं विना श्रीमात्रं स्तोतुमुचितम् । भर्त्रविनाभावेन स्तवन एव तस्याः प्रीतिः स्यात् । भर्तृसंश्लिष्टायाः स्वस्याः स्तुतिरेव स्त्रियेप्स्ये । ‘विष्णुपत्नीम्’, ‘यथा सर्वगतो विष्णुस्तथैवेयं द्विजोत्तम’ इति चैश्वर्यवैभवादि- प्रकरणपठित श्रौतस्मार्तनामग्रहणं विष्णुरिति ॥
अनवधिगुणं (द्वन्द्वम्) । यद्यपि द्वन्द्वघटक धर्मिणौ द्वावेव, तयोः कल्याणगुणा अनन्ताः ॥
अनवधिगुणं द्वन्द्वमन्योन्यलक्ष्यम् । यद्यप्येकैकस्यानवधिगुणानां सर्वेतरविसदृशत्वं, अनयोः परस्परसदृशत्वात्परस्परलक्ष्यत्वमस्ति । ‘तुल्यशीलवयोवृत्तां तुल्याभिजनलक्षणाम् । राघवोर्हति वैदेहीं तं चेयमसितेक्षणा ॥’ इति परस्परसादृश्यमूलपरस्परनिरूप्यत्वम् । परस्परस्य सदृशौ । अनन्यसदृशौ । अनवधिगुणत्वं प्रत्येकम् । ततश्च सर्वेतरविसदृशत्वम्, अन्योन्यलक्ष्यत्वं च । श्रियः पतिरिति त्वत्कान्तः, विष्णुकान्तेति त्वं इति युवां लक्ष्येथे ॥
शेषश्चित्तं विमलमनसां मौलयश्च श्रुतीनां संपद्यन्ते विहरणविधौ यस्य शय्याविशेषाः । द्वन्द्वमिति स्त्रीपुंसमिथुनोक्तिः । तयोश्चोत्तमशय्याः संपादनीयाः । उपचित
[[244]]
॥ श्रीस्तुतिः ॥
गुरुभक्ति मन्मनः तदुत्पन्ना चेयं स्तुतिस्तन्मिथुनस्य तल्यं भूयादिति मनोरथः । यथा श्रीशठजित्कर्तृकस्तुतिः कल्पान्तयूनस्तल्पं भवतीत्युक्तमाचार्यैः । शेषः प्रसिद्धः पर्यङ्कः । तस्य शरीरं शय्या भवति । श्रुतीनां स्त्रीणामुत्तमाङ्गानि शय्या भवन्ति । शेषः शेतें । तदुपरि मिथुनं शेते । विमलमनसां हृदयं शय्या । श्रुतीनां शिरांसि शय्याः । उत्तमशय्याभूतशेषश्रुतिमौलिभ्यां संदष्टं विमलमनसां चित्तमपि तद्वदुत्तमशय्या भवति । शेषः पुमान् । चित्तं नपुंसकम् । श्रुतयः स्त्रियः । धरातलाद्धृदयदेशगमनम् । तदुपरि मौलिगमनम् । कथं शेषः संपद्येत पुमान् ? विमलमनोयुक्तयोगेन, मननेन च । कथं च मननादिकं संपद्येत ? बहुभ्यो बहुधा श्रवणेन । एष क्रमोऽपि समासोक्त्या परिस्फोर्यते । यथा शेषोऽन्तरङ्गः शय्याविहारादिषु तथा विमलमनसां चित्तमपि । देवीति संबोधनेन विहरणशीलत्वमुक्तम् । शय्याविहाराः प्रस्तूयन्ते । संपद्यन्ते शय्यात्वेन । शय्याभवनसंपत्तिरनन्तत्वेन । ‘स चानन्त्याय कल्पते’ । आनन्त्यमनन्तभावः ॥ I I
॥ मूलं
॥ उद्देश्यत्वं जननि भजतोरुजिझतोपाधिगन्धं प्रत्यग्रूपे हविषि युवयोरेकशेषित्वयोगात् । पद्म पत्युस्तव च निगमैर्नित्यमन्विष्यमाणो नावच्छेदं भजति महिमा नर्तयन्मानसन्नः ॥ ६
॥ व्या॥ नन्विह प्रत्यगात्महविस्समर्पणयज्ञे भगवत एव सम्प्रदानता “वसुरण्यो विभूरसी” ति तत्करणमन्त्रे तस्यैव प्रकाशनात्, तदुत्तरप्रणवे च अकारवाच्यस्य तस्यैव कण्ठोक्तेश्च इत्यवान्तरशङ्कां व्युदस्यन्नेव सकलवेदान्तापरिच्छेद्यमहिमाशालित्वमुभयोरप्यविशिष्टमिति तयोर्न कदाचिदनानुरूप्यमित्याह उद्देश्यत्वमिति (हे पद्मे जननि प्रत्यग्रूपे हविषि) न्यासविद्यायां “ओमित्यात्मानं युञ्जीते” तिविधिना मुमुक्षुभिः क्रियमाणे प्रत्यगात्मस्वरूपसमर्पणयज्ञे तस्मिन्नेव हविषि (उजिझतोपाधिगन्धम् ) इन्द्रादीनां भगवच्छरीत्वेनोपाधिना हविरुद्देश्यत्वरूपं देवतात्वं भगवतस्तु न तथा साक्षादेव हविषो भोक्तृत्वादत उक्तं “उज्झितोपाधिगन्धमिति । तादृशमुद्देश्यत्वं सम्प्रदानत्वम् । (भजतोर्युवयोरेकशेषित्वयोगात्)
[[245]]
॥ श्री देशिकस्तोत्राणि चतुर्थो भागः ॥
“लक्ष्म्यास्समस्तचिदचित्प्रपञ्चो व्याप्यस्तदीशस्य तु सापि तथाप्यनन्यसाधारणमीशितृत्वं श्री श्रीशयोद्व च सदैकशेषी"त्यहिर्बुध्र्यवचनेन “उभयाधिष्ठानं चैकं शेषित्व “मित्युक्त्या च जगदीश्वरत्वस्याप्यु भयाधिष्ठानत्वात्। (नित्यं निगमैः) वेदैः (अन्विष्यमाणः) परिच्छेदाभावादद्याप्यालोच्यमानः शतगुणित दशाशिरस्कतया “स एको ब्रह्मण आनन्दः” इति मीमांस्यमानः आनन्दमीमांसायास्सकलगुणोपलक्षणार्थत्वात्। अत एवोक्तं “एकैकगुणावधीप्सयेति । ( पत्युस्तव च महिमा नः मानसं) आश्चर्यात् (नर्तयन् अवच्छेदन्न भजति) अवच्छेदं परस्परव्यवच्छेदं पृथक् पृथक् निर्देशत्वरूपं अवच्छेदन्न भजति। प्रत्यगात्महविस्समर्पणकरणमन्त्रस्य प्रणवस्यानुष्ठेयार्थप्रकाशकत्वावश्यंभावात् “अग्नये स्वाहे"त्यादिवत् अकारार्थाय मकारवाच्य इति तादर्थ्यचतुर्थ्याश्रयणेन प्रस्तुतार्थबोधकत्वं वाच्यमिति । अकारप्रकृतेरवरक्षण इति धाताववतेष्टि लोपश्चेति तद्रूपनिष्पत्तौ सत्यां रक्षकत्वं चासङ्कोचादखिलविषयकमिति सर्वरक्षको नारायण एवयुक्तः । स च “लक्ष्म्या सह हृषीकेशो देव्या कारुण्यरूपया। रक्षकस्सर्वसिद्धान्ते वेदान्तेषु च गीयते” इति श्रीमन्नारायण एवाकारार्थ इत्युक्तं भवति । मध्यस्थित उकारो लक्ष्मीवाचकः “अकारेणोच्यते विष्णुः सर्वलोकेश्वरो हरिः । उद्धृता विष्णुना लक्ष्मीरुकारेणोच्यते तथा। मकारस्तु तयोर्दासः” इति प्रणवलक्षणमिति श्रौतनिरुक्तिविधयाशाब्दमेव श्री श्रीशयोरुद्देश्त्वमप्याहुः । अयं चार्थो द्वयस्य पूर्वखण्डस्थ श्रीमन्नारायणशब्देन विशदीकृतः “वसुरण्य” इति मन्त्रे च “ब्रह्मणे त्वा महस” इति चतुर्थ्यन्तब्रह्मशब्दोऽपि विशिष्टपरः, एवं सर्वेषु वेदान्तेषूत्सर्गाद्विशिष्टपराभगवच्छब्दा योजयाः। तदुक्तं “तदन्तर्भावात् त्वान्न पृथगभिधत्ते श्रुतिरपि” इति यस्मादात्महविरुद्देश्यत्वं सकलजगच्छेषित्वं च द्वयं साधारणं तस्मादेव हेतोः आनन्दवल्यादौ “यतो वाचो निवर्तन्ते” इत्यपरिच्छेद्यतया कीर्त्यमानो महिमा भर्तुरिव तवापीति हेतुहेतुमद्भावेन योजयम् । आत्महविरुद्देश्यत्वस्याविशेषे हि प्रणवादिकरण मन्त्राभिधेयत्वावश्यंभावादितरेप्यागमास्तदुभयपरा इत्यानन्दवल्लयपि तदुभयमहिमापरिच्छेद्यता मभिधत्ते। सकलजगच्छेषित्वमपि नैकस्मिन्नेव पर्याप्तमिति ईश्वरत्वपर्याप्यधिकरणयोर्द्वयोरपि अपरिच्छेद्यमहिमत्वपरा यतो वाचः इति श्रुतिरिति भावः ।
தமிழ்ப்பதவுரை
அவதாரிகை: இப்படியிருவரும் உத்தேச்யராகில் ந்யாஸவித்யையில் கரணமந்த்ரங்களில் நாராயணனையே உத்தேச்யதேவதையாகச் சொல்லுகிறதே. அது சேரும்படியெங்ஙனேயென்ன அந்த மந்த்ரங்கள் இவளையும் கூட்டியே சொல்லுகிறதென்று அருளிச் செய்கிறார் उद्देश्यत्वम् .
[[246]]
// உரிரி://
பதம்
हे जननि
உரை
हे पद्मे
தாயே
லக்ஷ்மியே
प्रत्यग्रूपे
हविषि
ஆத்மாவாகிற
ஹோம்யத்ரவ்யத்தில் (ஆத்மஸமர்ப்பணயஜ்ஞத்தில்
उजिझतोपाधिगन्धम्
என்றபடி)
விடப்பட்ட உபாதி நாற்றமுடையவான
(உபாதி என்பது இடையில் ஒன்றைச் சேர்ப்பது. இங்கு அதாவது 9 49 என்னுமிடத்தில் ருத்ரனை சரீரமாகக் கொண்டவனென்றிப்படி ஒர் பண்ணவேண்டியது.
இங்கு அப்படியன்றிக்கே நேரிலேயே சொல்லப்பட்டவென்றபடி)
उद्देश्यत्वम्
வஸ்துவை ஒப்புக் கொள்ளுவன்படியை
அடையாநின்ற
युवयोः एकशेषित्वयोगात्
உங்கள் இருவருடைய
சேஷித்வமாவது பலமடைகை
पत्युः
(அது இரண்டிடத்திலும் ஒன்றாக இருப்பதால்)
உன் பதியினுடையவும்
तव च
नित्यम्
உம்முடையவும்
எப்பொழுதும்
யர்:
अन्विष्यमाणः
வேதங்களால்
महिमा
தேடும்படிக்குள்ள
பெருமையானது
ஈ:
मानसं
அடியோங்களுடைய
नर्तयन्
மநஸ்ஸை
நர்தனம் பண்ணும்படி செய்து கொண்டு
[[247]]
॥ श्री देशिकस्तोत्राणि चतुर्थो भागः ॥
பிரிவை அல்லது எல்லையை
अवच्छेदम् न भजति
அடைகிறதில்லை.
சரணாகதிமந்திரங்களிலும் உம்மோடு கூடியே உத்தேச்யரென்று வேதவேதாந்திகள் கூறுகையால் அதை மநநம் பண்ணுமென் மனதில் ஒருக்காலும் அந்த மந்த சங்கை உதியாது. शु@swnãं श्रियः पतिwn or सर्वावस्थै उपजीव्य &ত♚हूं,
(ए. वि. गो. व्या)ः देवताद्वन्द्व इवात्महविरुद्देश्यत्वादिकं मिथुनविषयम् । तयोर्मध्ये जननीभूता त्वमत्यन्त- सुलभा । पूर्व श्लोके विमलमनसां चित्तं शय्या संपद्यत इत्युक्तम् । चित्तस्य स्पर्श एव न संभवेन्मिथुनस्य । कथं तस्य शय्यात्वसंपत्तिः ? विमलमनस्त्वं च योगिनामेव संभवेत् । कथं तव विमलमनस्त्वसंपत्तिः, तत्प्रयुक्तशय्यात्वसंपत्तिश्चेति चेदुच्यते वयमत्यन्तमस्मदाकिंचन्यम्, अनन्यगतित्वं च बुद्ध्वा मिथुनमेव शरणीकृत्यास्मै मिथुनायास्मत्प्रत्यगात्मानं समर्पयामः । निरवधिकरुणौ दम्पती उद्देशक्षण एव समर्पितं प्रत्यग्रूपं हविर्गृहीत्वा तत्समर्पणं सततं श्लाघेते । आत्महविः संप्रदानोद्देशक्षण एव सज्जौ भूत्वोद्देश्यत्वं भजत इमौ दम्पती । निगमा नित्यमन्विष्यन्त्यनयोर्महिमानम् । तन्महिमा च नावच्छेदं भजति । इमौ तु क्षणमात्रे मदुद्देश्यत्वं भजतः । श्रुतयः परितोऽन्विष्यन्त्य एव वर्तन्ते । एतद्वीक्ष्य मम मनो हर्षविस्मयाविष्टं नृत्यति । वेदा नित्यं परितोऽन्विष्यन्तस्तदप्राप्नुवन्तो वदन्ति’ यतो वाचो निवर्तन्तेऽप्राप्य मनसा सह ’ इति । श्रुतीनां मनो न प्राप्नोति । अकिंचनस्य मम मनस उद्देश्यत्वमिमौ भजतः । कथमेतदाश्चर्यं मम मनो न नर्तयेत् ? उद्देश्यत्वम् । ‘यस्मै देवतायै हविर्गृहीतं स्यात्तां मनसा ध्यायेद्वषट्करिष्यन्’ इति शिष्यते । आत्महविः समर्पयिष्यन्तो वयं संप्रदानत्वेन युवयोर्द्वन्द्व - मुद्दिशामः । तत्क्षण एवाविलम्बितं युवामस्मदुद्देश्यत्वं भजतः ॥ 1
जननि । मातृत्वं हेतुरुद्देश्यत्वस्य सद्यो भजने । चिरमविधेयः पुत्रो यदि कदाचिन्मातरमुद्दिश्य नमः प्रयुञ्जीत सद्यः सा तत्प्रतिगृह्णीयात् । न सा क्षणमपि दुर्लभा भवेत्पुत्रस्य इतः पूर्वमसत्कल्प एवासीत्पुत्रः । इदानीमेव स सन्भवत्येतदुद्देशेन । इदानीमेवायं पुत्रो जात इव । अतो जननीति संबोधनम् । इदानीं मां प्रसूतासि । तव वन्ध्यात्वं निवृत्तम् । इतः पूर्वं ममासत्त्वान्मम माता वन्ध्याभूत् ॥
[[248]]
॥ श्रीस्तुतिः ॥
I भजतोः । (१) आश्रयमाणयोः । श्रीः खलु त्वमाश्रयणस्वभावा । (२) पुत्रैरस्माभिरुद्दिष्टत्वं युवां सततं भजतः । सततं तत्कीर्तयतः । सततं श्लाघमानौ तद्भजतः । आवयोः पुत्र आवामुद्दिश्य तवास्मीति ययाचे । तव भरोऽहमित्यवादीत् । कोऽन्योऽस्ति सदृशोऽनेनेति सततं मदुद्देश्यत्वं भजत इत्यपि व्यज्यते । तत्र च जननीत्वं निमित्तम् । अस्मद्भजनभारः युवयोर्न्यस्तः । तं स्वीकृत्य युवामस्मदुद्देश्यत्वं भजन्तौ भजनभाराङ्गीकारं सत्यापयतः । (३) भजतोर्युवयोः । यदा युवां भजतः । सति षष्ठी ॥
उज्झितोपाधिगन्धम् । (१) देवतोद्देश्यकद्रव्यत्यागो यागः । बाह्यहविः समर्पणरूपयागेषु तत्तद्देवतायाः साक्षादुद्देश्यत्वम् । तत्राप्येतन्मिथुनस्याविधिनाज्ञातत्वेन तत्तद्देवतोपाधि द्वारा परम्परयोद्देश्यत्वमस्त्येव । सोपाधिकमहृदयम्, तत्रैतयोरुद्देश्यत्वम् । आन्तरप्रत्यग्रूप हविःसमर्पणे साक्षादेतयोरुद्देश्यत्वम् । नात्रोपाधिलेशोऽपि । (२) उज्झितोपाधिगन्धं युवयोरुद्देश्यत्वं भजतोः । यद्यप्यात्मानं समर्पयन्तो वयं सकैतवमनुज्झितोपाधिकं समर्प यामः, संप्रदानभूतौ युवामुज्झितोपाधिगन्धं कैतवलेशं विनात्यन्तार्जवेन निर्व्याजमस्मदुद्देश्यत्वं भजतः । (३) ‘यद्यपि वयं मिथ्या आत्मानं दद्मः सत्यमेवास्माकं फलं दीयते’ इति वकुलभूषणमुनयः ॥
प्रत्यग्रूपे हविषि । आन्तरात्महविषि । न पराग्रूपबाह्यहविषि ॥
युवयोरेकशोषित्वयोगात् । (१) उभयाधिष्ठानमेकं शेषित्वम् । शेषित्वं व्यासज्यवृत्ति । (२) एकशब्दस्य मुख्यार्थकत्वमपि । मुख्यं निरुपाधिकं शेषित्वं युवयोरेव । (३) पूर्व श्लोके शेष उक्तः । अत्र शेषित्वं निरूप्यते ॥
पद्मे । निधित्वं व्यज्यते । गुहायां निहितत्वमुच्यते निगमैः । ‘निधिरिव क्षिप्तो गुहाभ्यन्तरे । ’ दुर्दर्शत्वेन, गुहाहितत्वेन; वाङ्मनसागोचरत्वेन च निगमवर्णनम् ॥
पत्युस्तव च महिमा । यद्यपि शेषित्वमेकम्, उद्देश्यत्वं चैकम्; पत्युस्तव च महिमा विभक्तः । ‘युवत्वादौ तुल्ये ऽप्यपरवशताशत्रुशमनस्थिरत्वादीन्कृत्वा भगवति गुणान्पुंस्त्वसुलभान् । त्वयि स्त्रीत्वैकान्तान्प्रदिमपतिपारार्थ्यकरुणाक्षमादीन्वा भोक्तुं भवति युवयोरात्मनि भिदा ॥’ इति श्रीभट्टायैः प्रदर्शितस्वभावप्राप्तव्यवस्थया विभागः ॥
[[249]]
॥ श्री देशिकस्तोत्राणि चतुर्थो भागः ।
नित्यमन्विष्यमाणः । नित्या निगमाः । ‘सोऽन्वेष्टव्यः, स विजिज्ञासितव्यः’ इति सततं वदन्ति । न कदापि प्राप्तत्वज्ञातत्वकीर्तनं तैः ॥
I नावच्छेदं भजति महिमा । (१) ‘यतो वाचो निवर्तन्तेऽप्राप्य मनसा सह’, ‘नेति नेति’ इति त एव ब्रुवन्ति । ( २ ) युवामस्मदुद्देशमात्रेणावच्छिद्येथे । युवयोर्महिमा तु निगमैर्नित्यमन्विष्यमाणो नावच्छेदं भजति । युवां भजतः, पत्युस्तव च महिमा न भजतीति वैचित्र्यमप्यनुभाव्यम् ॥
नर्तयन्मानसं नः । निगमानामपि नित्यं दुर्लभं क्षणमात्रेण मितंपचानामस्माकं सुलभं भवतीति विस्मितं मानसमानन्दभरितं नृत्यति । नर्त्यते मनः आनन्दपारवश्येन । ***
॥ मूलं
॥ पश्यन्तीषु श्रुतिषु परितस्सूरिबृन्देनसार्धं मध्ये कृत्यत्रिगुणफलकं निर्मितस्थानभेदम् । विश्वाधीशप्रणयिनि सदा विभ्रमद्यूतवृत्तौ ब्रह्मेशाद्या दधति युवयोरक्षशारप्रचारम्॥ ७
॥ व्या ॥ ननु जगन्निर्मणादिलीला भगवत एवाभिधीयते । लीला, जगत्पतेस्तस्य छन्दतस्+प्रवर्तते, “मोदते भगवान्भूतैर्बालः क्रीडनकैरिव” “लोकवत्तु लीलाकैवल्यमिति, न हिलक्ष्म्यास्तत्रान्वय उच्यते, अतोलीलास्वैकरस्य विरहात् सर्गादिकर्तृत्वेप्यनन्वयस्स्यादित्याशङ्क्य “क्रीडेयं खलु नान्यदास्यरसदास्या - दैकरस्यात्तयोरिति श्रीवत्सचिह्नमिश्रवचनक्रमेण द्वयोर्लीलायामैकरस्यमाह पश्यन्तीति (विश्वाधीशप्रणयिनि) विश्वाधीशस्य - जगन्नेतुः प्रणयिनि दयिते, एतेन “लोकवत्तु लीलाकैवल्यमिति सूत्रकृता लोकदृष्टान्तोपपादनात् लीलाप्रवृत्तस्य मण्डलाधीशस्य राज्ञः प्रणयिनीं विना क्रीडासु प्रवृत्त्यनुप लम्भात् विश्वाधीशस्य तत्र तत्साहित्यमावश्यकमित्यर्थो ध्वनितः । (श्रुतिषु ) त्रयीषु (परितः सूरि बृन्देन) नित्यसूरिबृन्देन (सार्धं पश्यन्तीषु) “सदा पश्यन्ति सूरय” इति भगवल्लीलाद्रष्टृत्वं नित्यसूरिणामस्त्येव, श्रुतीनान्तु स्त्रीलिङ्गनिर्देशात् सहचरीत्वविवक्षया चेतनधर्मो द्रष्टृत्वमुपचर्यते । ( निर्मितस्थानभेदम्) निर्मितः कल्पितः स्थानभेदः ब्रह्मलोकशिवलोकादिस्थानभेदो यस्मिन् तत् अन्यत्र स्थानभेदास्शाराणां
[[250]]
॥ श्रीस्तुतिः ॥
गतागतिविहारे विश्रान्तिभूमयोगृहविशेषाः (त्रिगुणफलकम्) त्रयस्सत्त्वरजस्तमोगुणा यस्य तत् त्रिगुणं प्रधानं, तदेव फलकं शाराणांसंचरिष्णुनामाधारभूतं अष्टापदाख्यं फलकं ( मध्येकृत्य) द्वयोर्लीलायां साधारणीकृत्य अन्यत्रमध्यदेशे स्थापयित्वा “मध्ये पदे निवचने च” इति गतिसंज्ञायां समासे क्त्वोर्ल्यापि मध्येकृत्य (युवयोर्विभ्रमद्यूतवृत्तौ ) विभ्रमो विलासः द्यूतः जयापजयार्थं पणबन्धपूर्वकं कर्म द्यूतरूपा वृत्तिः व्यापारः विभ्रमार्था द्यूतवृत्तिः मध्येकरणद्यूतव्यापारयोर्दम्पतिव्यापारत्वेन समानकर्तृकत्वात् वक्ष्यमाणब्रह्मेशादिकर्तृत्वाभावेपि त्वाप्रत्ययोपपत्तिः द्यूतव्यापारतया सर्गादिलीलानिगीर्याध्यवसीयत इति रूपकातिशयोक्तिः । “रूपकातिशयोक्तिस्यान्निगीर्याध्यवसानतः " इति लक्षणात् (ब्रह्मेशाद्याः)) जीववर्गाः (अक्षशारप्रचारम्) अक्षाः पाचिकाः अक्षसम्बन्धिनश्शाराः अक्षशाराः अक्षपातानन्तरं तत्तत्स्थानेषु सञ्चार्यमाणादारुविशेषाश्शार इत्युच्यन्ते । दम्पत्योस्सङ्कल्पावेव द्वावक्षाविति ध्वनिः। तेषां प्रचारं ब्रह्मेशानादिप्रचार एवाक्षशारप्रचारत्वेन निगीर्याध्यवसीयत इति तत्रापि रूपकातिशयोक्तिः ( दधति) पुष्णन्ति, धारयन्ति वा, तथा चोभयसंङ्कल्पायत्तासर्गादिलीलेति उक्तवचनानि दम्पतिपराणीति भावः ॥
தமிழ்ப்பதவுரை
அவதாரிகை: இப்படி ஸ்ரீக்கும் 3வு கூடினாலும் உலகப் படைப்பு முதலிய லீலை நாராயணனதே யென்று ப்ரமாணஞ்சொல்லுவதால் ஸ்ரீக்கு அதில்லையாகிறதேயென்ன அதுவுமிவளுடன் கூடியேயென்றருளிச் செய்கிறார் பு4ag என்பதால்.
பதம்
உரை
हे विश्वाधीशप्रणयिनि
श्रुतिषु
உலகநாயகனிடத்தில் அன்புடையவளே
सूरिबृन्देन सार्धम्
வேதங்கள்
परितः
पश्यन्तीषु
நித்யஸூரித் திரளுடன்
நாற்புறத்திலும்
निर्मितस्थानभेदम्
பார்த்துக் கொண்டிருக்குமளவில்
கருவி வைக்குமிடக் குறிப்புள்ளதான (ஸத்யலோகம்
முதலான ஸ்தானங்களையுடயதான)
[[251]]
[[17]]
॥ श्री देशिकस्तोत्राणि चतुर्थो भागः ॥
त्रिगुणफलकम् मध्ये कृत्य युवयोः विभ्रमद्यूतवृत्तौ ப்ரக்ருதியாகிற சொக்கட்டான் பலகையை நடுவில் வைத்து உங்களிருவருடையவும் சொக்கட்டான் விளையாட்டில் ब्रह्मेशाद्याः அயனரன் முதலியர் अक्षशारप्रचारं கருவிவைக்கும் நடையை दधति வஹிக்கிறார்கள்.
லீலையானது இருவருங்கூடியே ஸுகமாகும். அதிலும் ப்ரியநாயகியோடாகில் மிகவுமுவப்பாகும். ஆதலால் லீலையிருவரதுமே. இங்கு மூலப்ரக்ருதியே பலகை. ஸத்யலோகமே கட்டம், ப்ரஹ்மாதிகளே கருவிகள் வேதங்களும் ஸூரிகளுமே வேடிக்கைப் uniouri. Quiug लीलाविभूतिवृद्धि प्रमाणसिद्ध कुं
श्रुतिमौलयो दिव्यमिथुनस्य शय्या इत्युक्तम् । ‘पद्मे पत्युस्तव च निगमैर्नित्यमन्विष्यमाणो नावच्छेदं भजति महिमा’ इति कथं विरुद्धमिवोच्यते ? श्रुत्येकगम्यमिदं मिथुनम् । श्रुतय एवास्माकं चक्षूंषि ब्रह्मदर्शने । यदि ता अपि न पश्यन्ति तन्मिथुनं कथमस्माकं तदेक-चक्षुषां मिथुनदर्शनसंभवः । अत्रोच्यते पश्यन्तीष्विति । श्रुतयः पश्यन्त्येव । परितः पश्यन्ति च । सदा पश्यन्ति च । सदाशब्दस्तृतीयपादे गृह्यते । ‘सदा पश्यन्ति सूरयः’ इति श्रुतिः साक्षित्वेन वदति । स्वयं सदा दर्शनाभावे कथं सूरिभिः सदा दर्शनं तया साक्षीक्रियेत । यद्यपि सा सदा पश्यतीश्वरमिथुनं तथापि तयोर्महिमानं परिच्छेतुं न प्रभवति । महिमा नावच्छिद्यत इत्येतावन्मात्रमुक्तम् । अतो न विरोधगन्धः ॥ 1
पश्यन्तीषु श्रुतिषु परितः सूरिबृन्देन सार्धम् । दीव्यन्तो द्वित्रा एव स्युः । परित उपविश्य तद्द्रष्टारो बहवः स्युरिति लोकेऽनुभवः । स स्वभावश्चारु प्रदर्श्यते आचार्यैः । दीव्यन्तौ द्वौ । पश्यन्त्योऽनन्ताः श्रुतयः । अनन्ताश्च ता असङ्ख्यैर्नित्यमुक्तसूरिबृन्दैः सहिताः । भगवत्प्राणनिश्वसितभूतस्त्रीणां श्रुतीनां सूरिपुरुषेभ्योऽपि द्रष्टगोष्ठ्यां प्राधान्यं सहशब्देन व्यज्यते । सूरयः प्राणत्वेनाभिमतिविषयाः । श्रुतयो मुख्यप्राणाः, भगवन्निश्वसि-
[[252]]
॥ श्रीस्तुतिः ॥
तत्वात् । निश्वसितद्वारैव पुरुषस्य सत्ता प्राणनं च गम्यते । निश्वसितभूतश्रुतिरेव परमपुरुषसत्तामस्मान् ज्ञापयेत् । सूरयश्च नित्याभिवाञ्छितनीचभावाः शेषिनिश्वसितभूताः श्रुतीरेवा ग्र्यासनेऽवस्थापयेयुः । ‘पश्यन्तीषु’, ‘सदा’, ‘सूरी’ति पदैः, ‘सदा पश्यन्ति सूरयः ’ इति श्रुतिः प्रत्यभि-ज्ञाप्यते । सूरयः पश्यन्तीति वदन्ती श्रुतिरपि नियतं द्रष्ट्री स्यात् । सूरयोऽलिङ्गा शुद्धान्तविहारदर्शनयोग्या इति दर्शयितुं नपुंसकलिङ्गबृन्दशब्दप्रयोग इत्यवधेयम् । सृष्टेः पूर्वं नित्यमुक्ताः श्रुतयश्च सिद्धा एव । ते सर्वे सृष्टिस्थितिलयादिक्रीडां पश्यन्ति ॥
मध्येकृत्यत्रिगुणफलकं निर्मितस्थानभेदम् । गुणत्रयमयी प्रकृतिश्चतुरङ्गफलकं भवति । सत्त्वरजस्तमोगुणाः शुक्लपीतकृष्णवर्णत्वेन प्रसिद्धरूपणाः । गुणविभागशश्चेतनाः स्थानभेदं प्राप्नुयुः । तत्तद्गुणप्रचुरास्तत्तद्वर्णस्थानेषु निवेश्येरन् । ईश्वरमिथुनान्तरस्ति नियाम्या, आधेया प्रकृतिः । अचित्संश्लिष्टाश्चितः प्रजा मातापित्रोर्मध्ये भवेयुरुभाभ्यां लालनार्थम् ॥
विश्वाधीशप्रणयिनि । रङ्गाधीशप्रणयिनीति श्रीगुणरत्नकोशे । अस्याः स्तुतेः सामान्येन श्रीविषयत्वम्, नार्चाविशेषविषयत्वम् । विश्वसृष्टिस्थित्यादि प्रस्तावाद्विश्वशब्दस्य तदधीशशब्दस्य च प्रयोगः । प्रेयस्यास्तव संप्रीत्यर्थं सृष्टिस्थित्यादिभिः क्रीडति प्रभुः । अनुशिखिनि शिखीव त्वत्समक्षं क्रीडति सः । तदर्थं त्वदभिमुखे स्थित्वा मध्ये च लीलाविभूतिमवस्थाप्य तत्र शारादिकं त्वदिङ्गितपराधीनस्त्वन्मुखं वीक्ष्य त्वत्कटाक्षवैचित्र्यमनुसृत्य तत्तत्स्थाने तांस्तांश्चेतनान्निवेशयति । त्वत्प्रीत्यै प्रभुः क्रीडति । क्रीडायां शाराणां प्रचारबैचित्र्ये त्वत्प्रणयो नियामकः ॥
1 सदा । न युवयोः क्रीडाया उपरतिः । यदि विहरणविरतिः स्याद्युवयोरिच्छयैव सा स्यात्। ‘विहरणविरतिः स्वेच्छया नैव दोषः’ इति तत्त्वमुक्ताकलापे । सर्वमुक्तौ लीलाविरतिरिष्टैव । चेतनमुक्त्यर्थमेव दयारूपा लीला । सर्वप्रजामुक्तेरनन्तरं न कर्तव्यशेषं स्याद्दिव्यमि थुनस्य । सर्वप्रजानां मुक्तेरधिकः संतोषः कस्तैरीप्स्येत ॥
[[253]]
॥ श्री देशिकस्तोत्राणि चतुर्थो भागः ॥
विभ्रमद्यूतवृत्तौ । नेदं पणबन्धद्यूतम् । लीलाकैवल्यमिदं द्यूतम् । नात्र परस्परस्पर्धा परम्परविजिगीषा । देव्या अभिप्रायमनुसृत्यैवाक्षशारप्रचारः क्रियते देवेन । उभयोरभिप्राययोः सर्वदैकरूपत्वे कथं चतुरङ्गक्रीडासंभवः ? न द्वौ दीव्यन्तावभिन्नाभिप्रायेण परस्पर स्पर्धाविजिगीषुत्वादिकं विना शारादिकं निवेशयन्तौ दृष्टचराविति चेत् अदृष्टपूर्वावेवेमौ दीव्यन्तौ । नात्यन्तसादृश्यनिर्बन्धो दृष्टान्तदाष्टन्तिकयोः । अभिप्रायभेद, एकस्य जयोऽन्यस्य पराजयश्चावश्यमपेक्ष्येतेति चेत् अस्ति तत्सर्वमिति वदामः । शाराणां तत्तत्स्थाने निवेशनात्पूर्वम्, तत्तत्स्थानप्रचारणात्पूर्व च पक्षपातानभिज्ञो भगवानेते चेतना एतदेतत्स्थान मात्रार्हाः, कस्मिन्स्थाने एते निवेशनीया इत्यत्र देवी प्रमाणमिति देवीसंनिधौ विज्ञापयति । करुणैकरूपिणी सा तत्तत्प्रणिस्थानस्य किंचित्किं चिदन्यथाकरणं स्वोदारभावानुगुणं नाथसंनिधौ स्ववाल्लभ्येन विज्ञापयति । मुखेङ्गितादिना स्वाभिप्रायं भर्त्रे निवेदयति वा । देवीच्छामनु देवो देव्यभिमततत्तत्स्थाने निवेशयति । प्रथममस्त्येव नाथस्य कश्चिदभिप्राय स्तत्तत्प्राणिकृतसुकृतदुष्कृतमनुसृत्य । देव्या दयया तत्तत्प्राणिनां स्वसुकृतादधिकंभोग्यं किंचित्स्थानं दित्स्यते । तदिच्छानुसारेण प्रभुः स्थानं ददाति प्राणिभ्यः । एवमैकरस्यं भवति । सदा देविदयाप्रयुक्ताभिप्रायस्यैव जयः । देवस्य पराजय एव । ‘पुत्रादिच्छेत्पराजयम् ।’ पुत्रशब्देन कलत्रमप्युपलक्ष्यते । सर्वो रसिको विभ्रमक्रीडादिषु स्वस्य कलत्रात्पराजयमेवेच्छति ॥
ब्रह्मेशाद्या दधति युवयोरक्षशारप्रचारम् । विश्वाधीशत्वं निरूप्यते । ‘कालः काल्या भुवनफलके क्रीडति प्राणिशारैः’ इति भर्तृहर्युक्तमत्र भाव्यम् । अक्षाः ब्रह्मेशाद्या लोकनियन्तार ईश्वराः तन्नियाम्याश्चेतनाः देवमनुष्यादयः शाराः । यथाक्षानुगुणं शाराः प्रचार्यन्ते दीव्यद्भ्यां जनाभ्यां तथा दिव्याभ्यां दम्पतिभ्यां स्वप्रत्ताधिकारब्रह्मेशादिसङ्कल्पानुगुणमितरे संसारिणः प्रचार्यन्ते ॥
[[254]]
॥ श्रीस्तुतिः ॥
॥ मूलं ॥
अस्येशाना त्वमसि जगतस्संश्रयन्ती मुकुन्दं लक्ष्मीः पद्मा जलधितनया विष्णुपत्नीन्दिरेति । यन्नामानि श्रुतिपरिपणान्येवमावर्तयन्तो नावर्तन्ते दुरितपवनप्रेरिते जन्मचक्रे ॥ ८
॥ व्या॥ ननु “अस्येशाना जगतो विष्णुपत्नी” “ईशानो भूतभव्यस्य” इत्युभयत्र ईशानत्वश्रवणा दुभयोरपि समप्राधान्यमेव न तु गुणप्रधानभाव इति विशिष्टतत्वे कुतोऽस्या नियमेन विशेषणत्वं विशेषणत्वे वा प्रतर्दनविद्यासुशरीरभूतेन्द्रादेरिव देव्याः मुक्तिदत्वन्न सिध्येत्, तथा चापसिद्धान्तः इति शङ्काद्वयं परिहरति अस्येशाना इति । ( त्वं मुकुन्दं) विष्णुं (संश्रयन्ती) पतित्वेन संश्रयन्ती सती, विष्णुशेषभूतैव सतीत्यर्थः। (अस्य जगतः ईशाना असि) ईश्वरी भवसि, “अस्येशाना जगतो विष्णुपत्नी ति श्रुतिरनेन सन्दर्भेण प्रत्यभिज्ञाप्यते, तथा च विष्णुपत्नी ईशानेति च निर्देशात् विष्णुशेषत्वविशिष्टजगदीश्वरत्वविधि परेयं श्रुतिरिति च ख्यातम् । ननु भगवच्छेषभूतस्य प्रपञ्चस्य तच्छेषभूतलक्ष्मीशेषत्वमित्यनुपपन्नम् - उभयोरपि परशेषत्वेन समत्वात्, “गुणानां च परार्थत्वादसम्बन्धस्समत्वात्स्यादि"ति न्यायात्। अतोऽत्र न विशिष्टविधिपरत्वमस्या इति चेन्न । यथा एकप्रकरणावगतक्रत्वंगभावानामपि प्रोक्षणादीनां श्रुत्यादि वशेन क्रत्वर्थव्रीह्याद्यर्थत्वमविरोधात्तथा । ईशानो भूतभव्यस्येत्यादि श्रुत्यवगतेश्वरशेष भावस्यापि जगतः अस्येशानेति श्रुत्यनुसारेण भगवच्छेषभूतलक्ष्मीशेषत्वमुपपन्नम्। किञ्च “पत्नी हि पारीण ह्यस्येशे पत्नियैवानुमतन्निर्वपती"ति स्त्रिया अपि परिणयेन पतिधनस्वामित्वस्य श्रुतत्वात् “जायापत्योर्न्न विभागो विद्यत” इति स्मृतेः । पत्युर्द्रव्यं पत्न्या अपीति लोकन्यायाच्च भगवच्छेषत्वस्येव लक्ष्मीशेषत्वस्यापि सम्भवात् उक्तविशिष्टविधिपरत्वे बाधकाभावः । ननु अस्य मन्त्रस्य “इषयन्ती, सूभूतिश्शिवा नो अस्त्वदितिरुपस्थे” इति इषयन्तीति शब्दसामानाधिकरण्याद्भूविषयत्वमेवास्तु इषयन्तीति अन्नाकारपरिणामहेतुत्वस्य तदर्थस्यादिति शब्दस्य च प्रसिद्धेरिति चेन्न । ईशानेति श्रुत्या विष्णुपत्नी लिङ्गेन च लक्ष्मीपरत्वस्यावर्जनीयत्वात् । न चास्यमन्त्रस्य विशेषाभावात् विष्णुपत्नीमात्रे शेषत्वविधायकत्वमस्त्विति भूमिनीलयोरपि ईश्वरकोटित्वापत्तिरिति वाच्यम् । स्वरूपतस्तु न तयोर्गुणतो व्याप्तिरिष्यत इति तयोस्स्वरूपव्याप्तिनिषेधेन जीवकोटिप्रवेशस्य पर्यनुयोगानर्हत्वादिति भावः । यदुक्तम् । विशेषणत्वे च इन्द्रादिवन्न मुक्तिप्रदत्वमिति । तत्राह - लक्ष्मीः पद्मेत्यादिना (श्रुतिपरिपणानि ) श्रुतेः परिपणानि मूलधनानि। “नीवीपरिपणं मूलधनमित्यमरः । श्रुत्यन्ततात्पर्यसर्वस्वानि इति यावत्। (लक्ष्मीः पद्मा जलधितनया विष्णुपत्नीन्दिरेति यन्नामानि ) यस्याः नामानि लक्ष्मीसहस्रनामपठितानि (एवमावर्तयन्तः) पौनः पुन्येन कीर्तयन्तः (दुरितपवनप्रेरिते) दुरितमेव व्रजिनमेव पवनः तत्प्रेरिते 255
॥ श्री देशिकस्तोत्राणि चतुर्थो भागः ॥
(जन्मचक्रे) जन्मैव चक्रं दुरितपवनप्रेरित इति साक्षात् प्रयोगात् मधूरव्यंसकादिसमासः नोपमितसमासः (नावर्तन्ते) मुक्ता भवन्तीत्यर्थः । नामसहस्रकीर्तनप्रसन्ना सती सर्वपापनिवर्तनद्वारा मुक्तिं ददातीति भावः। अस्याश्च मुक्तिप्रदत्वं स्वायम्भुवसात्वतब्राह्मवैष्णवेषु “संसारार्णवतारिणीं” वाचः परं प्रार्थयिताप्रपद्येन्नियतः श्रियं “यामालंब्य सुखेनेमं दुस्तरं हि गुणोदधिम् । निस्तरन्त्यचिरेणेव व्यक्तं ध्यानपरायणाः भोगमुक्तिदायिनी परनिर्वाणदायिनी सकृद्विभाता सर्वार्तिसमुद्रपरिशोषिणी । “भव भङ्गापहारिणी” ज्योतिष्मत्यमृतावहाविमुक्तिफलदायिनीत्यादिप्रमाण शतसिद्धम् । “विष्णोर्नामसहस्रम्मे श्रुणु पापभयापहमिति विष्णुनामसहस्रस्येव लक्ष्मीनामसहस्रस्यापि कीर्तनं सकलपापप्रणाशकमिति सनत्कुमारसंहितायाम् अभिहितम् । श्रुणुष्वावहितो भूत्वा परमैश्वर्यभूतिदम्। यश्चैतत् कीर्तयेन्नित्यं श्रुणुयाद्वापि पद्मज। शुचिस्समाहितो भूत्वा भक्तिश्रद्धासमन्वितः । ऐहिकामुष्मिकं सर्वं लभते श्रीप्रसादतः । दारिद्र्यन्नश्यते तस्य सर्वपापात् प्रमुच्यते” इति।
தமிழ்ப்பதவுரை
அவதாரிகை: இப்படி லீலை கூடினாலும் நாராயணனே உபாஸ்யனென்று சொல்லுகையால் அது இவளுக்கில்லையாகிறதேயென்ன அந்தப்ரமாணத்திலேயே இவளுமுபாய்Gomb Gar Bijay@mri. अस्येशाना என்பதனால்.
பதம் अस्य जगतः त्वम् मुकुन्दम् संश्रयन्ती सती ईशाना असि लक्ष्मीः உரை இந்தவுலகத்துக்கு நீர் வரந்தருமவனான நாயகனை அணைந்தவளாய்க் கொண்டு நாயகியாக லக்ஷ்மியென்னும் पद्मा जलधितनया பத்மையென்னும் கடல்மகளென்னும்
[[256]]
इति श्रुतिपरिपणानि विष्णुपत्नी इन्दिरा ॥ श्रीस्तुतिः ॥ எங்கும் நிறைந்த விஷ்ணுவின் தர்மபதநியென்னும் இந்திரையென்றும் இப்படி வேதத்துக்கு மூலதனங்களான यन्नामानि யாதொருவுன் திருநாமங்களை एवम् முன் கூறியபடி आवर्तयन्तः ஜபிக்குமவர்கள் दुरितपवन பாவக்காற்றினால் प्रेरिते சுழற்றப்பட்ட जन्मचक्रे नावर्तन्ते பிறவிச்சுழலில் சுற்றுகிறார்களில்லை (அப்படிப்பட்டவர்
பெருமாளைப் போலே உம்மையுமீசானையென்று ப்ரமாணஞ்சொல்லுகிறது. அவர் ஈசனானதும் உமது சேர்க்கையாலேயே அவருடைய நாமங்களை பாபஹரமாகச் சொல்லுவது போல் உம்முடைய திருநாமங்களையுமப்படியே சொல்லுகிறார்கள். “வேரிமாறாத பூமேலிருப்பாள் வினை தீர்க்குமே” என்று ஆழ்வார் அருளிச்செய்தார். ஆகையால் உபாயதசையிலும் பிரிக்க ந்யாயமில்லையென்று கருத்து.
( ए. वि. गो. व्या)ः विश्वाधीशप्रणयिनीत्युक्तम् । तत्कथमिति चेत् तद्बोधकश्रुतिः परिगृहाते ‘अस्येशाना जगतो विष्णुपत्नी ’ इति । जगच्चक्रप्रवर्तयितृत्वम् ब्रह्मेशादि नियामकत्वं चोक्तं पूर्वश्लोके । संसारिणां जगच्चक्र एव निम्नोन्नतस्थानप्रापणमुक्तं तत्र । इदानीं मोक्षप्रदत्वमुच्यते । श्रुत्युक्तनामावृत्तेरनावृत्तिः सिध्येदिति चारु प्रतिपाद्यते । नामावृत्तिफलमनावृत्तिः । सौत्रमिदं प्रदर्शनम् । ‘आवृत्तिरसकृदुपदेशात्’ इति फलाध्यायोपक्रमः । आवृत्तेः साधनत्वमुच्यते तेन सूत्रेण । ‘अनावृत्तिः शब्दादनावृत्तिः शब्दात्’ इति तदध्यायोपसंहारः । अनावृत्तिः फलम् । अनावृत्तिमावर्तयति सूत्रकारः, 257
॥ श्री देशिकस्तोत्राणि चतुर्थो भागः ॥
सूत्रावृत्त्या । आवृत्तिलभ्यानावृत्तिमाचार्या अपि प्रदार्शयन्ति सौत्ररीतिमनुसृत्येति रसिकमनोहरं स्यात् । कथमीशस्याक्षशारत्वमिति चेत् ‘त्वं विश्वस्ये शाना’ इत्युच्यते ॥ अस्येशाना त्वमसि जगतः । अस्याः स्तुतेः सर्वाधिकारत्वाच्छ्रौतपदानां मध्ये त्वमसीति पदान्तरनिवेशः क्रियते ॥
संश्रयन्ती मुकुन्दम् । ‘श्रयते च परं पदम्’ इति निर्वचनोक्तं स्मार्यते । विष्णुपत्नीति श्रौतनाम्नोऽर्थः संश्रयन्ती मुकुन्दमिति । ‘सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम् ।’ ब्रह्मेशाद्याः पुनरावर्तिलोकाधिपतयः उक्ताः पूर्व श्लोके । संसाराध्वपारभूतं विष्णोः परमं पदम् । ‘विष्णोः परमं पदम्’ इत्यभेदषष्ठ्या विष्णोः स्वरूपमित्यप्यर्थ संमत एव । भर्तारं संश्रिता विष्णुपत्नी । विष्णुश्च संसारपारभूतः । परमं पदमिति परमप्राप्यभूतमुकुन्द एवाभिप्रेतः ॥
लक्ष्मीः । ’ ह्रीश्च ते लक्ष्मीश्च पत्यौ ।’ इति श्रौतनाम । श्रुतिपरिपणत्वं नाम्नाम् । ब्रह्मस्वरूपस्य निधित्वम् । लक्ष्मीनाम्नः परिपणत्वम् ॥ पद्मा । इन्द्रस्तुतिपठितनाम ॥
जलधितनया । अमृतमथनोद्भवत्वं तत्र वृत्तोऽभिषेकवृत्तान्तश्च स्मार्येते । ‘त्वां स्तोष्यत्यब्धिसंभवे’ इतीन्द्रः ॥
विष्णुपत्नी । श्रीतनाम । इन्दिरा । ‘श्रियमिन्दिरा सहचरम् ॥’
इति यन्नामानि । यस्यास्ते नामान्यावर्तयन्त इमं मानवमावर्तं नावर्तन्ते सा त्वमस्य जगत ईशानेत्यन्वयः । एवं च यतो वेत्यादिलक्षणवाक्यरीतिरनुसृता भवति ॥
श्रुतिपरिपणानि । मूलधनवद्रक्ष्यन्ते त्वन्नामानि । सकलकल्याणनिधेः श्रियस्तव नामानि परिपणान्येव ।
एवमावर्तयन्तो नावर्तन्ते । नामावृत्तिमात्रस्य मोक्षप्रदत्वं कथं स्यादित्याक्षिप्येत । तत्परिह्रियते एवमिति । यथा मम निरतिशयो भावः, उपचितगुरुभक्तिश्चैतच्छ्लोकपठना ।
[[258]]
॥ श्रीस्तुतिः ॥
वसरे, तादृशभावसहितमिति भावः । आवर्तस्य परित आवर्तनेनैवातिलङ्घनं शक्यमिति प्रसिद्धम् । तच्च चारु सूच्यत इव । ‘इमं मानवमावर्तं नावर्तन्ते’ इति श्रुतिः ॥ दुरितपवनप्रेरिते जन्मचक्रे । पवनप्रेरितश्चक्राकार आवर्तः ॥
॥ मूलं ॥ त्वामेवाहुः कतिचिदपरे त्वत्प्रियं लोकनाथं किन्तैरन्तः कलहमलिनैः किञ्चिदुत्तीर्य मग्नेः । त्वत्सम्प्रीत्ये विहरति हरौ सम्मुखीनां श्रुतीनां भावारूढो भगवति युवां दैवतं दम्पती नः ॥ ९
॥ व्या ॥ एवं स्तुतिव्याजेन श्रीस्वरूपमुक्त्वा स्वसिद्धान्तमितरपक्षानादरपूर्वकं स्थिरीकरोति त्वामेवाहुरिति। (कतिचित्) वादिनः (त्वां लोकनाथमेवाहुः) सर्वेश्वरेण नारायणेनाभिन्नामाहुः उभयोः विग्रहभेदमात्रं न त्वात्मभेदः, त्वद्व्यतिरिक्तो लोकनाथो न भवतीत्यर्थः । ते तावदेवं “नरनारीमयो हरिः नारायणात्मिका देवीति” ब्रह्मकाश्यपीयादिवचनानुसारात् । त्वं यादृशोसि कमलामपि तादृशीं ते दारान् वदन्ति युवयोर्न तु भेदगन्धः । मायाविभक्तयुवतीतनुमेकमेव त्वां मातरं च पितरं च युवानमाहुः इति विष्णुवैभवोक्तरीत्या सत्तादिविशिष्टो भगवानेव श्रीरिति वास्त्रीरूपनित्यविग्रहान्तरविशिष्टस्स एव श्रीरिति वा दैत्यमोहनभूमिका परिग्रहन्यायेन स्वयमेव भोगार्थं परिगृहीतकादाचित्ककान्ताविग्रहस्स एव श्रीरिति वा भगवत्स्वरूपैकदेशः । पृथक्तया परस्परभोक्तृत्वाय सर्वदा परिगृहीतश्रीरूप इति वा निर्वाहभेदात् स्वरूपैक्यं समर्थयन्ति यद्वा पुंप्रधानेश्वरेश्वरीमित्युक्त्या तत्त्वत्रयेश्वरत्वं लोकनाथ शब्दार्थः। (त्वामेव लोकनाथमाहुः) नाथशब्दो नित्यपुंलिङ्गो द्वितीयान्तः (अपरे त्वत्प्रियमेव लोकनाथमादुः) न तु त्वां ईश्वरद्वित्वापत्त्या जीवत्वावश्यंभावादिति भावः । आहत्य पक्षत्रयम्। (अन्तः कलहमलिनैः) परस्परदत्तदूषणकलुषितैः तथा हि ब्राह्मपुराणे - जयोत्स्नेव हि मदीधितेरित्यादिभेदघटितदृष्टान्तोपदर्शनेन “विष्णुपत्नीति” ह्रीश्च ते लक्ष्मीश्च पत्न्याविति श्रुतावेव भेद निर्देशेन च विष्णुपुराणे त्वयैतद्विष्णुना चेत्यादिषु भेदप्रतिपादनाच्च नाभेदपक्षः क्षोदक्षम इति भेदवादिनो दूषयन्ति । अभेदवादिनः उभयात्म भेदस्वीकारे गौरवात् ब्रह्माण्डादिवचनस्य लाघवानुगृहीतत्वेन प्रबलत्वात् इतरे भेदवादिनो निरस्ताः इतरेतरभेदव्यपदेशोपि विग्रहाद्युपाधिभेदमादायोपपन्नः द्वितीयपक्षो न साम्प्रतम्। तत्त्वचतुष्टयाङ्गीकारापत्तेः वरच्प्रत्ययान्तादीश्वरशब्दात् ङीपोऽप्राप्तेः पुंयोगादाख्यायामिति ङीषाश्रयणेनेश्वरभार्यात्वेनाप्राधान्यमेव
[[259]]
॥ श्री देशिकस्तोत्राणि चतुर्थो भागः ॥
सिद्ध्यति। यश्च तृतीयः पक्षः विष्णुरेव श्रीस्तु न तथेति । सोप्यनादेयः । त्वया च विष्णुना चाम्बजगद्व्याप्तं चराचरम्। ईश्वरीं सर्वभूतानां ईशाना देवी जगतोऽधिपत्नी अस्येशाना जगतः अस्याममच शेषं हि विभूतिरुभयात्मिका, आक्रम्य सर्वां तु यथा त्रिलोकीं तिष्ठत्ययं देववरो सिताक्षि। तथास्थिता त्वं वरदे तथापि लक्ष्म्यास्समस्तचिदचित् प्रपञ्चाव्याप्यः यथा सर्वगतो विष्णुस्तथैवेयं द्विजोत्तम इत्यादिप्रमाणप्रतिपन्नजगद्व्यापकत्वशेषित्वसर्वेश्वरभावायाः देव्याः तत् बहिष्कारे हेत्वभावादिति । अत्रापि पुनश्चोदयन्ति ईश्वरद्वित्वाङ्गीकारापत्तेर्गीरवाच्च द्वयोरभेदः स्वभाविकोऽस्तु, भेदवचनान्यौपाधिक भेदपराणीत्यादि एवं मिथो दूषणमलिनैः (किञ्चिदुत्तीर्य मग्नः ) किञ्चिदुत्तीर्येव वाद्यन्तरेभ्यः श्रीशब्दवाच्यं किमपि नास्ति अस्त्येव तत्, भगवदधिष्ठेया प्रकृतिरेव श्रीः नतु चेतनभूता काचिदस्ति न तावत् प्रकृतिरियं भगवानहमर्थः तस्या हन्ता सा, भगवतः शक्तिरेव सा भगवतः प्रभेत्यादि जल्पकेभ्यो विलक्षणाः श्रियश्चेतनत्वमभ्युपगच्छन्त एव तस्या भगवदभिन्नत्वं वा अनीश्वरत्वं वेति वदन्त एते यद्यपि अज्ञानसागरात् किञ्चिदुत्तीर्णः तथाविधवक्ष्यमाणसिद्धान्ताज्ञानेन पुनस्तत्रमग्ना एवेत्यर्थः। नद्यादौ किञ्चिदुत्तीर्णमग्नसदृशत्वादेतेषां तच्छब्देनाभिधानं (किम्) किंफलम्। तेषामन्योन्यदूषणेनैव निरस्ततया अस्माभिः पृथगदूष्यत्वेन तत्संवादस्य निष्फलत्वादितिभावः । स्वसिद्धान्तमाह त्वदिति (त्वत्सम्प्रीत्यै) तव, सम्प्रीत्यै (विहरति ) जगत्सर्गादिलीलां कुर्वति (हरौ सम्मुखीनाम्) तात्पर्यवतीनां (श्रुतीनां भावारूढौ उभावपि ) अनुमन्तृत्वसाक्षात्कर्तृत्वाभ्यां जगदीश्वरत्वाश्रयाविति तात्पर्यगोचरौ (युवां दम्पती नः दैवतम् ) इन्द्राग्नयादिवदेकं दैवतं, आत्मस्वरूपहविरुद्देश्यत्वस्योभयसाधारण्यात्, अतः उभयोः भेदस्य बहुप्रमाणसिद्धत्वेन दुरपह्नवत्वात् लाघवादेकत्वमभ्युपगम्य बहुप्रमाणबाधे सकलजीवेश्वरभेदासिद्धिप्रसङ्गात् । लक्ष्म्यास्तावदेवं विष्णुभेदे सिद्धे विष्णोरिव “ईश्वरी सर्वभूतानां नियन्त्री च तथेश्वरी त्वया च विष्णुना चाम्बजगद्व्याप्तं चराचरं लक्ष्म्यास्समस्तचिदचित्प्रपञ्चो व्याप्यः इत्यादिवचनबलादीश्वरत्वसिद्धिः तचेश्वरत्वं उभयत्रव्यासजयवृत्तिदेवतात्ववदेकमिति। ईश्वद्वित्वापत्तिदूषणानि प्रागेव परिहृतानि । तस्मादेव दैवतमित्येकवचननिर्देशः । तथा च प्रथमश्लोके पुरुषाकारतया श्रीशरणागतिं अनुष्ठितवद्भिः आचार्यैरस्मिन् श्लोके द्वयप्रतिपाद्या सिद्धोपायशरणवरणात्मिका प्रत् रुभयविषयानुष्ठीयते । प्रत्यगात्महविषो रक्षाभरस्य च सम्प्रदाने देवतात्वेन उभयोरपि दम्पत्योः कीर्तनात्। एतेन स्वसिद्धान्तप्रकटनेन श्रियः अणुत्वात् जीवत्वं चिदीश्वरभिन्नं तत्वान्तरमित्येकदेशिनां पक्षा निरस्तकल्पा इति न गणिता इति मन्तव्यम् । अत्र केचित् उपायकोटी देवी न प्रवेशमर्हति उपायद्वित्वापत्तेः मामेकं शरणमित्युक्तं अतो द्वयपूर्वखण्डस्य श्रीमच्छब्दो न वैशिष्ट्यमुपायकोटावाह । 260
॥ श्रीस्तुतिः ॥
किन्तु पुरुषकारत्वेन तत्साहित्यं अत एव भट्टायैः अष्टश्लोक्यां “ईशानां जगतामधीशदयितां नित्यानपायां श्रियं संश्रित्येति” मतुबर्थं पुरुषकारत्वेन साहित्यमेवाभिप्रेत्य उक्तमित्याहुः। तन्मन्दम्। मकारस्तु तयोर्दासः इति प्रणवविवरणरहस्याम्नायपर्यालोचनायां अग्नाविष्णुभ्यामितिवत् नामद्वयेन पृथक् पृथक् कीर्तितं लक्ष्मीनारायणसम्प्रदानकस्वरूपसमर्पणानुविधायिनि स्वात्मरक्षाभरसमर्पणे विशेषाभावात्। किञ्च उत्तरखण्डस्थश्रीमच्छब्देनाप्युपेयवैशिष्ट्यं नाभिधीयेत - उपेयद्वित्वप्रसङ्गात् मामेवैष्यसीत्यनन्योपेयत्वस्यापि प्रपन्नसाधारणत्वात् । यदि विशिष्टस्योपेयत्वेपि तदन्तः पातिनां विशेषणानां उभय भेदकत्वं नास्तीति तदा प्रकृतेऽपि तुल्यं, भट्टाचार्यसूक्तिरपि न पुरुषकारत्वमात्रपरा उपायविशेषणत्वमपि तात्पर्यतः स्वीकारे तु दोषाभावात् । अत एव भगवता भाष्यकारेण गद्यद्वयविवरणे “भगवन्नारायणेत्यादिवाक्येन श्रीशरणागतिं पृथगुक्त्वा पुनरपि गद्यान्ते श्रीमन्नारायण अशरण्य शरण्य त्वत्पादारविन्दयुगलं शरणमहं प्रपद्ये इति विशेषणकोटावनुप्रवेशोऽपि दर्शित इत्यास्तान्तावत्।
தமிழ்ப் பதவுரை
அவதாரிகை: அஹந்தை. சக்தி முதலாகச் சொல்லப்படும் அவளே ஸ்ரீ. வேறு. தேவதையில்லையென்று சிலர். ஸ்ரீயே விஷ்ணுரூபம் பூண்டவள் வேறு வஸ்துவில்லை. யென்று சிலர், விஷ்ணுவே ஸ்ரீரூபம் கொண்டவர் வேறு ஸ்ரீயென்று தத்துவமில்லையென்று சிலர். இப்படி சொல்லுமவர் மதங்களை அநுவதித்து அதை அநாதரித்துக் கொண்டு voungßng wgal Grani. त्वामेव
பதம் हे भगवति कतिचित् உரை ஏ பெருமாட்டியே சிலர் உம்மையே உலகநாயகனாக त्वामेव लोकनाथम् आहुः சொல்லுகிறார்கள் வேறு சிலர் अपरे त्वत्प्रियमेव உமது பதியையே 261
अन्तः कलहमलिनैः किञ्चित् उत्तीर्य புர்: ர்: किम् त्वत्सम्प्रीत्यै हरौ सम्मुखीनाम् श्रुतीनाम् भावारूढौ ॥ श्री देशिकस्तोत्राणि चतुर्थो भागः ॥ சொல்லுகிறார்கள் ஒருவருக்கொருவர் தூஷிப்பதால் கலங்கினவர்களும் கொஞ்சம் மேற்கிளம்பி மறுபடியும் மூழ்கிப் போனவர்களுமான அவர்களால் என்னவுண்டு உமதுவப்புக்காக இல்லீலைச் செய்யாநின்ற பெருமாளிடத்தில் பொருள்கொண்ட மறைகளுடைய युवाम् दम्पती 7: தாத்பர்யமேறின நீங்கள் பார்யாபதிகளாகவே அடியோங்களுக்கு दैवतम् பரதேவதை.
முன்கூறிய மதங்களெல்லாம் மறைமுடியின் கருத்துடையதன்று சரண்யதம்பதிகளே யடியோங்களுக்கு உத்தேச்யர். இவர்களை பிரிக்கில் பிராட்டியைப் பிரித்த இராக்ஷஸனாய் அவன் பட்டது படுவாரென்று கருத்து.
**
(ए. वि. गो. व्या )ः लक्ष्मीनामावृत्त्यानावृत्तिः सिध्येदित्युक्तम् । तथा च तस्याः स्वातन्त्र्येण मोक्षप्रदत्वं स्यात् । किं भवतां मतम् । चतुःश्लोकीभाष्यप्रदर्शितरीत्या बहवः पक्षाः प्रदर्शिता भवन्त्या वयोर्मिथः परापरत्वापार्थक्यैक्यादिविषये । तत्र को भवत्संमतः
[[262]]
॥ श्रीस्तुतिः ॥
पक्ष इति पृष्टे वदति । एते विकल्पा न निपुणैः कल्प्येरन् । पतिं विश्वस्येति त्वन्नाथो जगत्पतिः । ‘अस्येशाना जगतः’ इति त्वमीशाना । व्यक्तिभेदेऽप्युभौ देवताद्वन्द्ववदेकं दैवतम् । भर्तुरपि त्वत्परत्वोक्तिस्तद्वि हरणस्य त्वत्प्रीत्युद्देश्यत्वात् । युवरोरेकदैवत तुल्यत्वादेकमेवाद्वितीयमित्याद्यैक्यश्रुत्यविरोधः । अनन्तानां चिदचितामपि ब्रह्मणैक्यं घटयतामस्माकं युवयोः पतिपत्योरैक्यघटनं न दुष्करं स्यात् ॥
त्वामेवाहुः कतिचिदपरे त्वत्प्रियं लोकनाथं किं तैरन्तः कलहमलिनैः । अन्तः कलहः सयूथ्यकलहः दम्पत्योर्मिथः कलहकरणोद्यमो वा उभयमपि मालिन्यमेवा वहेत् ॥
1 किंचिदुत्तीर्यं मग्नः । दैवतान्तरपरत्वाश्रयणादुत्तीर्यानयोर्दम्पत्योरन्यतरपरत्वा श्रयणरूप दोषस्पर्शः । विशिष्टाद्वैतचातुरीनिष्ठत्वेऽपि परदेवतामिथुनस्याद्वैतीकरणसामर्थ्यविरहान्मग्नत्वम् । उत्तीर्यं किञ्चिन्मनः । तीरसमीपमागत्य किञ्चिन्मात्रा वशिष्टे तरितव्ये मग्नैः ।
1 त्वत्संप्रीत्यै विहरति हरौ । त्वत्प्रीत्यै विहरतीति हरिर्हरिर्भवतीव । विहर्तृत्त्वाद्धरिरिति नामेव । ‘रुक्मिणी हरता हरे’ इति बलरामो माघे कृष्णं प्रति । रुक्मिणीहरणेन हरिर्भवतीव । त्वत्प्रीत्युद्देश्यविहारवत्त्वात्त्वत्परत्वकथनं कैश्चित् । यो यत्प्रीतिमुद्दिश्य कर्मानुतिष्ठति, तस्य तद्दैवतं स्यात् । ‘अनुशिखिनि शिखीव क्रीडसि श्रीसमक्षम् ॥’
संमुखीनां श्रुतीनाम् । पश्यन्तीषु श्रुतिष्विति श्लोके दम्पत्योर्विहरणमुक्तम् । तयोः क्रीडा भावुकाभिः श्रुतिभिरध्यक्ष्यते । आनुकूल्येन संमुख्यः श्रुतयः पश्यन्ति भावसहितम् । सन्मुखीनां श्रुतीनामिति वा पाठः स्यात् । सद्विद्या खलु परदेवताया ऐक्यमवधारयति । तत्र च सेयं देवतेति देवताप्रस्तावः । तत्र विशिष्टैक्यपरत्वं निर्धार्यते एकत्वस्य । ‘दैवतं दम्पती नः ।’
श्रुतीनां भावारूढौ भगवति युवां दैवतं दम्पती नः । श्रुतीनां युष्मत्परत्वे भावः । ‘त्वां सर्वकारणमुशन्त्यनपायवाचः’ इति स्वरसभावः श्रुतीनां युवयोः । न तत्र कोऽपि हठात्कारः ।
[[263]]
॥ श्री देशिकस्तोत्राणि चतुर्थो भागः ॥
॥ मूलं
॥ आपन्नार्तिप्रशमनविधौ बद्धदीक्षस्य विष्णोः आचख्युस्त्वां प्रियसहचरीमैकमत्योपपन्नाम् । प्रादुर्भावैरपि समतनुः प्राध्वमन्वीयसे त्वं दूरोत्क्षिप्तैरिव मधुरतादुग्धराशेस्तरङ्गैः ॥ १०
॥ व्या॥ ननु भगवतो लीलायां सहचरीत्युक्तम् । यदा करुणया भगवान् रक्षणे प्रवृत्तः तदापि देव्यास्सहधर्मचारित्वं वक्तव्यम् - तन्न सम्भवति । सकलजगदनुग्रहाय क्रियमाणेषु भगवदवतारेषु कथमिव तस्यास्साहचर्यं तस्या अवताराभावादित्याह - आपन्नार्तीति । ( आपन्नार्तिप्रशमनविधौ बद्धदीक्षस्य) बद्धव्रतस्य एतद्व्रतं ममेति स्वयमेवाभिधानात् दीक्षाशब्दात् आपन्नार्तिप्रशमनमेव क्रतुरिति ध्वनितम्, तत्र च पत्नीसाहित्यमप्यावश्यकमिति वस्त्वन्तरमपि ध्वनितम्, (विष्णोः त्वां ऐकमत्योपपन्नाम्) एकसङ्कल्पवत्वेन उपपन्नाम् (प्रियसहचरीं आचख्युः) शशंसुः अस्येशाना जगतो विष्णुपत्नी ह्रीश्च ते लक्ष्मीश्च पत्यावित्याद्यागमा इति शेषः । पत्नीशब्दो हि पत्युर्नो यज्ञसंयोगइति भक्तरक्षादीक्षायां साहचर्यं व्यनक्तीति भावः । अत एवावताराणां भक्तरक्षार्थत्वात्तेष्वपि साहचर्यमस्तीत्याह प्रादुर्भावैरिति (त्वं प्रादुर्भावैः) प्रादुर्भवत्येभिरिति प्रादुर्भावाः रामकृष्णादिविग्रहाः “करणे घञ्. (समतनुस्सती) अनुरूपविग्रहा सती देवत्वे देवदेहेयं मनुष्यत्वे तु मानुषी । राघवत्वेऽभवत्सीता रुक्मिणी कृष्णजन्मनि॥ अन्येषु चावतारेषु विष्णोरेषानपायिनी “ति स्मरणात् (प्राध्वम्) आनुकूल्येन आनुकूल्यार्थकं प्राध्वमित्यमरः । (अन्वीयसे) अविनाभावेन सम्बध्यसे, इण् गतौ कर्मणि यत् । (दूरोत्क्षिप्तैः दूरमुत्थितैः (दुग्धराशेः) क्षीराब्धेः (तरङ्गैः मधुरतेव) अत्रोपमालङ्कारः दुग्धराशेरिति भगवतः प्रतिबिम्बं प्रादुर्भावान्तरङ्गाः प्रतिबिम्बाः श्रियश्च मधुरतेति बिम्बप्रतिबम्बानां साधर्म्याणि व्यापकत्वतदंशत्वसुखजनकत्वानि ॥ तैः
தமிழ்ப்பதவுரை
அவதாரிகை: பிராட்டிக்குப் பரரூபாதிகளில் சேர்க்கையாகட்டும் அவதாரங்களில் வேண்டாவோவென்ன அங்குமுண்டு என்றருளிச் செய்கிறார் 3197 என்பதால்.
பதம் आपन्नार्ति
உரை
प्रशमनविधौ
அடியார்களின் வினையை
நீக்கும்பாகத்தில்
[[264]]
बद्धदीक्षस्य त्वाम् ऐकमत्योपपन्नाम् प्रयसहचरीम् आचख्युः त्वम् दूरोत्क्षिप्तैः கங்கணம் கட்டின பகவானுக்கு உம்மை ஒரேயபிப்ராயத்தையடைந்த தர்மபத்னியாக சொல்லுகிறார்கள் நீர் வெகுதூரத்தில் சிதறப்பட்ட பாற்கடலுடைய दुग्धराशेःः அலைகளுடன் मधुरतेव தித்திப்பு போல प्रादुर्भावैरपि அவதாரங்களாலும் समतनुः प्राध्वम् अन्वीयसे ஸரியானவுருவத்துடன் அநுகூலத்துக்காக கூடவருகிறீர்
திருப்பாற்கடலையடைத்துக் கரையில் வெகுதூரமடித்தாலும் பால் தித்திப்பு விடாதேயிருக்குமாப்போலே பெருமாள் எந்தவிடத்தில் எந்த அவதாரஞ்செய்தாலும் நீரில்லாமை கிடையாது. பாலுக்குத் தித்திப்பு போலே நீர். மேலும் ஆபத்ரக்ஷணமாகிறதே யாகமாகிறது. யாகத்துக்கு பத்னியில்லாமல் கூடாது. புருஷன் எந்த ஊருக்குப் போய் யாகம் செய்தாலும் பத்னியும் கூடவே போகவேண்டும். ஆகையால் ஸர்வாவஸ்தையிலும் தம்பதிகளே உத்தேச்யரென்று கருத்து.
(v.fa..ன): ய வரிAH ।ः க: । எழு- कुटुम्बिनाविमौ दम्पती । जगतः पितराविमौ । ‘यज्ञो वै विष्णुः’ इति यज्ञमूर्तेर्विष्णोः सततं बद्धदीक्षत्वम् । सततदीक्षितस्य नित्यं पत्नीसाहचर्यापेक्षा ॥
आपन्नार्तिप्रशमनविधौ । भगवदुपासकेष्वार्तो जिज्ञासुरित्यार्तेः प्रथमग्रहणम् ।
[[265]]
॥ श्री देशिकस्तोत्राणि चतुर्थो भागः ॥
‘परमापदमापन्नो मनसाचिन्तयद्धरिम्’ इति गजेन्द्रविषये आपन्नशब्दप्रयोगः । ‘महत्यापदि संप्राप्ते स्मर्तव्यो भगवान् हरिः’ इति वसिष्ठगीतगाथा स्मर्यते पञ्चालतनयया नृपसदसि तथाभूतया । तादृशप्रमाणवचनप्रत्यभिज्ञापनमापन्नशब्देन । ‘आर्त’ इत्यादिगीतावचनम्, तावदार्तिस्तथा वाञ्छा’ इति प्रमाणवचनं च प्रत्यभिज्ञाप्येते आर्तिशब्देन । विधिशब्देनेश्वरस्य प्रजार्तिप्रशमनकर्मणि विहितयज्ञादिकर्मणीवादरः, नियोज्यत्त्वबुद्धिश्चेति व्यज्यते ॥
बद्धदीक्षस्य विष्णोः नित्यमुक्तोऽयं दीक्षयात्मानं बध्नाति आश्रितमोचनहेतोः । नास्य बन्धकान्तरसंभवः । अत आत्मना बध्यते । दीक्षाशब्दो विष्णुशब्दश्च विष्णुपत्नी मिति श्रुतिस्मारकौ यज्ञसंयोगे शिष्टं पत्नीशब्दरूपम् । विष्णोरेव सर्वत्र स्थितत्वात्तत्र तत्र झटित्यार्तिपरिहरण संभवः ॥
ऐकमत्योपपन्नां प्रियसहचरीं त्वामाचख्युः । आपन्नानामार्तिहरणे इयं तुल्यभावोप पन्नेति शब्दचारुता । सहधर्मचरी तवेति कर्मठजनकवचनस्मारणम् । अलौकिक श्रेयःसाध नोधर्मः । किमीश्वरस्य श्रेय इत्यलौकिकेन श्रुतिप्रमाणेनावेद्यते । जायमानत्वम् । ‘स उ श्रेयान् भवति जायमानः ।’ जायमानत्वमस्य श्रेयः तत्साधनं धर्मः । तद्धर्मेऽस्य दीक्षा । तत्रानया सहचर्यते । तथा च सहधर्मचरी त्वमवतारेषु सहावतारेण । एतदेवोपपाद्यते उत्तरार्धेन । सहशब्दस्यार्थ ऐकमत्येति प्रियसहचरीति च ॥
1 प्रादुर्भावैरपि समतनुः । जायमानत्वबोधकश्रुतिः स्मारिता । मुख्यं जन्म, येन जन्म प्रतिबद्धदोषशङ्का स्यात् ऐच्छिकप्रादुर्भावमात्रे जन्मोपचारः प्रादुर्भावैरिति जन्मनां पृथग्वि धत्वं द्योत्यते । समतनुरिति ‘देवत्वे देवदेहेयम्’ इत्यादि प्रमाणस्मारणम् । ‘विष्णोः श्रीरन पायिनी’ इति तत्रस्थविष्णुशब्दश्चास्मिन्नवतारप्रतिपादक श्लोके उपात्त इति रसिकैर्विभाव्यम् ॥
प्राध्वमन्वीयसे त्वम् । पूर्वार्धोक्तैकमत्यप्रियत्वयोः पुनः कथनमानुकूल्यभावे आदरातिशयात् । ‘अनुगुणान्भावान्स्वयं बिभ्रती ।’ सङ्कल्पैकरूप्यं दम्पत्योरवश्यापेक्षितं क्रतुनिर्वर्तनाय । अन्वीयसे इति छायेवानुगता सदेति वचनस्य स्मारणम् ॥
[[266]]
॥ श्रीस्तुतिः ॥
दूरोत्क्षिप्तैर्दुग्धराशेस्तरङ्गैर्मधुरतेव। ‘मध्येविरिञ्चगिरिशं प्रथमावतार’ इति क्षीराब्धौ विष्णुत्वेन प्रथममवतीर्णं भगवता । तत्र स्थितो भगवान्सुरादीनामार्तिं श्रुत्वा देव्या सह विविधतनूः परिगृह्य तदा तदावतरति । क्षीरोदधिशयदेवस्यावतारा दुग्धराशेस्तरङ्गत्वेन वर्ण्यन्ते । भर्त्रा सह चरन्ती देवी दुग्धस्य मधुरतात्वेन रूप्यते । ‘भास्करेण प्रभा यथा ’ इत्यनन्यत्वरूपणवद्दुग्धोदधितरङ्गत्वेन रूपितस्य मधुरतान्वयनियम इव देवीसाहचर्य नियमः । किं भगवतो न माधुर्यम् ? मधुरो भगवान्; न मधुरैकान्तः । तीक्ष्णोऽपि भवति सो दण्डधरः । इयं तु मधुरैकान्ता । भगवानेव तां मधुरेति व्यपदिशति ‘मधुरा मधुरालापा’ इति । अस्या अन्वयेन भगवतो मधुरतेति व्यज्यते ॥
॥ मूलं ॥
धत्ते शोभां हरिमरतके तावकी मूर्तिराद्या तन्वी तुङ्गस्तनभरनता तप्तजाम्बूनदाभा । यस्यां गच्छन्त्युदयविलयैर्नित्यमानन्दसिन्धौ इच्छावेगोल्लसितलहरीविभ्रमं व्यक्तयस्ते ॥ ११
॥ व्या॥ एवं देव्याः स्वरूपमुक्तं अथ रूपमाह धत्त इति ( तावकी आद्या) मूलभूता (तन्वी) तनुः वोतोगुणवचनादिति ङीप् । तनुत्वादेव (तुङ्गस्तनभरनता, तप्तजाम्बूनदाभा) तप्तस्वर्णवर्णा, हिरण्यवर्णां हरिणीमिति श्रुतेः (मूर्तिः हरिमरतके) हरिः मरतक इव तस्मिन्, परवासुदेवस्य वक्षसीत्याशयः। मूलभूतश्रीव्यक्तेर्मूलभूतभगवद्विग्रहस्थानकत्वौचित्यात् (शोभां धत्ते) परभागातिशयं पोषयति - स्वतस्सुन्दरस्य तस्यापि हरेः शोभातिशयावहसौन्दर्येति तत एवास्य हृदयङ्गमेति व्यजयते । तस्याः व्यक्त्यन्तराणि मूलभूतव्यक्तेरुदयन्ति तत्रैव लीयन्त इत्याह- यस्यामिति (आनन्दसिन्धौ) आनन्दपुञ्जरूपायां (यस्यां मूलभूतमूर्ती) उदयविलयैः व्यक्तयः) क्षीरार्णवजनकाध्वरादावुदित दिव्यमङ्गलविग्रहाः (इच्छावेगोल्लसितलहरीविभ्रमं ) इच्छेव सङ्कल्प एव वेगः तेनोल्लसिताः लहर्यः कल्लोलास्तासां विभ्रमं विलासं ( गच्छन्ति ) प्राप्नुवन्ति अपरिच्छिन्नानन्दराशिभूतमूलविग्रहांशभूतावतार व्यक्तिनिवहस्सर्वोऽपि आनन्दस्वरूप एवेत्युक्तं भवति । कथमानन्दरूपत्वं विग्रहस्येति चेत् उच्यते ज्ञानानन्दमया लोका इति शुद्धसत्वद्रव्यविकाराणां सर्वेषामपि स्वयं प्रकाशत्वेन ज्ञानत्वात्
[[267]]
[[18]]
॥ श्री देशिकस्तोत्राणि चतुर्थो भागः ॥
अनुकूलत्वाचानन्दमयत्वमपीति न्यायसिद्धाञ्जनादौ स्फुटम्। यथा ईश्वरस्वरूपज्ञानस्य स्वयं प्रकाशत्वेन ज्ञानत्वम् “आनन्द आत्मेति” आनन्दत्वं चाभ्युपगतम् । तथा स्वप्रकाशत्वाविशेषादनुकूलत्वाविशेषाञ्च सिद्धमानन्दरूपत्वं दिव्यमङ्गलविग्रहाणामिति दिक् ।
தமிழ்ப்பதவுரை
அவதாரிகை: எல்லாவவதாரங்களுக்கும் மூலகந்தமான பெருமாளுடைய பரரூபம் போலே ஸ்ரீக்கும் பரரூபமில்லையேயென்ன அதுவுமுண்டென்று அருளிச் செய்கிறார் பு
என்பதால்.
பதம்
तप्तजाम्बूनदाभा
तुङ्गस्तनभरनता
तन्वी
आद्या
तावकी मूर्तिः हरिमरतके
नित्यं
முதற்கிழங்கானவுமான
உம் திருமேனியானது
மரகதபச்சை போன்ற பெருமாள்
शोभां धत्ते
ते
உரை
ஓடவிட்ட தங்கம் போன்ற சோபையையுடையவும்
व्यक्तयः
आनन्दसिन्धी
यस्यां
சிறுத்த இடையுடையவும்
எல்லாவவதாரங்களுக்கும்
திருமேனியில்
எக்காலத்திலும்
அழகைப் போஷிக்கிறது.
உம்முடைய
அவதாரங்கள்
उदयविलयैः
इच्छावेगोल्लसित
பெருந்தனபாரத்தினால் வணங்கினவும்
ஆநந்தநிதியான
யாதொரு மூலமூர்த்தியில்
தோன்றல், மறைதல்களாலே
ஸங்கல்பவேகத்தினாலே மேற்
கிளம்பானின்ற
[[268]]
॥ श्रीस्तुतिः ॥
लहरीविभ्रमम्
गच्छन्ति
திரைகளின் ரீதியை
அடைகின்றனவோ
பெருமாளுக்குப் போலே ஸ்ரீக்கும் நித்யமான பரரூபமிருப்பதோடு அவருக்கும் அதிகசோபையைப் பண்ணிக் கொண்டிருக்குமென்று கருத்து.
1 (ए. वि. गो. व्या)ः क्षीराब्धितरङ्गौपम्यं वर्णितं भगवदवतारविग्रहस्य । तेन प्राकृतत्वशङ्का स्यात् । भगवद्दिव्यविग्रहाणां प्राकृतसूक्ष्मसत्त्वमयत्वमनित्यत्वं चोच्यते कैश्चित् । ‘आनन्दात्मको भगवांस्तदात्मिका भगवद्व्यक्तिः’ । यथा ज्ञानानन्दात्मको भगवांस्तथा तद्विग्रहाः । तथा श्रीविग्रहा अपि । उभयोराद्यो विग्रहोऽनादिर्नित्यः । इतरे विग्रहास्तत उत्पद्य तत्रैव विलीयन्ते । लक्ष्म्या आद्यनित्यविग्रहस्य नित्यत्वमांनन्दत्वम्, सर्वेतरतद्विग्रहाणां प्रकृतित्वं च व्युत्पाद्यते । दुग्धसिन्धुग्रहणं कृतं पूर्वश्लोके औपम्याय । अत्राद्यविग्रहस्यानन्दसिन्धुत्वम्; इतरविग्रहाणां तत्सिन्धुलहरी कल्पत्वं च वर्ण्यते ॥ तावक्याद्या मूर्तिः । परमपदस्थत्वं नित्यमूर्तेः । आद्यशब्देन श्रीवकुलभरषणैर्भगव द्विग्रहविषयप्रयुक्ताद्यज्योतिः शब्दप्रत्यभिज्ञापनमिव । मूर्तिशब्देन ‘मूर्तं ब्रह्म’ इति चतुः
श्लोकीवचनस्मारणम् ॥
तन्वी श्रुतिः ॥ तुङ्गस्तनभरनता तप्तजाम्बूनदाभा । तन्वीश्यामेति मेघे । हिरण्यवर्णामिति
हरिमरतके शोभां धत्ते । भर्तुः शेषभूतेयं तस्य शोभातिशयं विदधाति । मरतकमणेः काञ्चनेन शोभा स्यात् । पुंसां दृष्टिचित्तापहारी हरिः । तस्यापि शोभाधीयते ऽनया ॥ यस्यामानन्दसिन्धौ । आनन्दोदधिर्मूलविग्रहः, यथा स्वरूपम् ॥
नित्यमुदयविलयैः । ततो जन्म, तत्रैव लयः कार्यविग्रहाणाम् ।
इच्छावेगोल्लसितलहरीविभ्रमम् । न तव जन्मनां कर्मवातप्रेरितलहरीत्वम्, किं तु
[[269]]
॥ श्री देशिकस्तोत्राणि चतुर्थो भागः ॥
स्वेच्छासंरम्भमात्रप्रेरितत्वम् । स्वेच्छावातप्रेरितानन्दोदधितरङ्गसादृश्यम् । वीचीतरङ्घफेन बुद्बुदसादृश्यं वर्ण्यते चिदचिज्जगतो ब्रह्मसिन्धावद्वैतग्रन्थेषु । तद्दृष्टान्तं वयं दिव्यविग्रह प्रकृतिकावतारादिविग्रहेऽभ्युपगच्छामः । नेतरत्र ॥
ते व्यक्तयो गच्छन्ति । ते प्रादुर्भावाः । ‘तदात्मिका भगवद्भक्तिः’ इति प्रमाणप्रत्य भिज्ञापनं व्यक्तिशब्देन ॥
॥ मूलं ॥
आसंसारं विततमखिलं वाङ्मयं यद्विभूतिः
यद्भ्रूभङ्गात्कुसुमधनुषः किङ्करो मेरुधन्वा ।
यस्यां नित्यं नयनशतकैरेकलक्ष्यो महेन्द्रः
पद्मे तासां परिणतिरसौ भावलेशैस्त्वदीयैः ॥ १२
॥ व्या। एवमतिसुन्दरानन्दमयदिव्यमङ्गलविग्रहवत्वं “काचान्यत्वामृते देवि सर्वयज्ञमयं वपुः । अध्यास्ते देवदेवस्य योगिध्येयं गदाभृतः” इत्यप्राकृतयोगिध्येययज्ञमयहरिमरतकाधिष्ठानकत्वं च प्रतिपाद्य त्वत्सङ्कल्पलेशविषयस्त्रीव्यक्तीनामपि बहुविभूतिमत्वं प्रौढतरभर्तृवशीकरणलावण्यातिशयवत्वं च दृश्यते, तव किमु वक्तव्यम्, सौन्दर्यविभूतिमत्वस्वाधीनपतिकत्वादावित्याशयादाह - आसंसारमिति (आसंसारम्) संसारमारभ्य, सृष्टिमारभ्य (विततं) सर्वभुवनेषु विस्तृतम् (अखिलं वाङ्मयम्): वाग्विकारः वर्णात्मकशब्दविकारः पदवाक्यात्मकशब्दविकारः (यद्विभूतिः) यस्याः सरस्वत्याः विभूतिः यदधिष्ठेयम् वाचां देवता हि सा (मेरुधन्वा) धनुषश्चेत्यनङ्समासान्तः (यद्भ्रूभङ्गात्) यस्याः गौर्याः भ्रुवो भङ्गात् विकारविशेषात् (कुसुमधनुषः) वा संज्ञायामित्यनन्ङो विकल्पात् ( किङ्करः) विधेयो भवति । अत्यन्तदृढधन्वा त्रिपुरान्तकः महावीरोऽपि अतिसुकुमारपुष्पायुधस्यापि यद्भूद्भङ्गसाहाय्यमहिम्ना किङ्करोऽभूत् “बृहत्सहायः कार्यान्तं क्षोदीयानपि गच्छतीति न्यायात् ( महेन्द्रः ) न केवलमिन्द्रः किन्तु महत्वविशिष्ट इन्द्रः इदि परमैश्वर्ये (यस्याम्) पौलोम्यां (नित्यं नयनशतकैः) नेत्रसहस्रेण (एकलक्ष्यः) एकं लक्ष्यं यस्य स अजस्रं विषयान्तरं त्यक्त्वा यामेव पश्यन्नास्त इत्यर्थः । ( तासां) सरस्वतीपार्वतीन्द्राणीनां (असौ परिणतिः) एवं विधाकार भजनं ( त्वदीयैः भावलेशैः) भावः अभिप्रायः सङ्कल्प इति यावत्। त्वत्सङ्कल्पलेशतोऽपि विभूतिमत्वं स्वाधीनपतिकत्वावहसौन्दर्यातिशय
[[270]]
//ரிரி: //
विशिष्टविग्रहवत्वं च तासां “तव तु विहृतय एताः " “मेधा श्रद्धा सरस्वती” “स्त्रीनाम्नी लक्ष्मीमैत्रेय नानयोर्विद्यते परमिति तासां त्वद्विभूतित्वस्मरणात् । यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा इति गीतोक्तस्य न्यायस्यापि वाच्यत्वादिति भावः ।
தமிழ்ப்பதவுரை
அவதாரிகை: இப்படி பரரூபமாகட்டும், பெருமாள் ப்ரஹ்மாதிசரீரியாய் ஸ்ருஷ்ட்யாதிகளைச் செய்வது போல் பிராட்டிக்கு அதில்லையேயென்ன அதுவுமுண்டென்றருளிச் செய்கிறார் அHH என்பதால்.
பதம்
आसंसारम्
विततम्
अखिलं वाङ्मयम्
यद्विभूतिः
मेरुधन्वा
यद्भ्रूभङ्गात्
कुसुमधनुषः किङ्करः
உரை
ஸ்ருஷ்டி முதல்
எங்கும் பரவிய
எல்லா வாக்குரூபமும்
यस्याम्
नयनशतकैः
नित्यमेकलक्ष्यः
पद्म
யாதொரு ஸரஸ்வதியின் ஸம்பத்தோ
மஹாமேருவை வில்லாகப் பிடித்த சிவனும்
तासाम्
யாதொரு பார்வதியின் புருவநெறியினால்
புஷ்பபாணனுடைய
ஊழியக்காரனோ
தேவேந்த்ரனும்
யாதொரு இந்த்ராணியிடத்தில்
நூறுகண்களாலும்
எப்பொழுதுமொரே நோக்குடையவனோ
ஏ தாயே
அந்த கலைமகள் மலைமகள்
இந்த்ராணிகளுடைய
[[271]]
॥ श्री देशिकस्तोत्राणि चतुर्थो भागः ॥
இந்தப்படி புருஷனை
असौ परिणतिः
त्वदीर्यः
भावलेशैः
வசம்பண்ணும்படிக்கு உள்ள மேன்மையும் உம்முடையவையான
ஆவிர்பாவத்துணுக்குகளாலே வந்தது.
இப்படியிவளுடைய அவதாராவேசத்தினாலே ஸரஸ்வதி முதலானவர்களும் மேன்மை பெற்றார்களென்பதால் பெருமாளுக்கு ப்ரஹ்மாதிரூபியாய் நின்று ஸ்ருஷ்ட்யாதிகளைச் செய்யுந்திறமையுமவள் கடாக்ஷத்தினால் வந்ததென்று கருத்து.
(ए. वि. गो. व्या)ः कारणकार्यरूपाण्युक्तानि । इदानीं विभूतिरुच्यते । अस्य विभूतिभूतसरस्वत्यादिदेवीनां विभूत्यादिकथनेऽस्या महिम्नो निरतिशयत्वं सम्यगुन्नीयेत । ‘देवतिर्यङ्गनुष्येषु पुंनामा भगवान्हरिः । स्त्रीनाम्नी लक्ष्मीमैत्रेय नानयोर्विद्यते परम् ॥’ इति स्त्रीनाम्नीनां सरस्वत्यादीनां लक्ष्मीविभूतित्वेन विभक्तत्वम् । विभागश्चोभयोरिच्छानियतः । युवत्वादौ तुल्येऽपीत्यादिश्लोकोऽत्र भाव्यः । रामस्य सर्वस्मात्परत्वं वर्ण्यते हनूमता ‘ब्रह्मा स्वयंभूश्चतुराननो वा’ इति श्लोके ब्रह्मशर्वेन्द्रेभ्यः परत्ववर्णनेन । तद्रीत्यात्र तत्पत्नीभ्यः परत्ववर्णने सर्वस्त्रीभ्यः परत्ववर्णनम् ॥
आसंसारं विततमखिलं वाङ्मयं यद्विभूतिः । संसारमण्डले भूतभविष्यद्वर्तमानया वद्वाग्विलासः सरस्वतीविभूतिविलसितम् सरस्वतीमहिम्नस्त्वत्कटाक्षलेशायत्तत्त्वात्तस्या महिमा त्वन्महिम्नि पर्यवस्यति । आसंसारमिति संसाररूपसृष्टेः पूर्वभूतवेदवाचो व्यावृत्तिः । न वेदवाचः सरस्वतीसंभवाः । वाङ्मयमिति विकारार्थकमयटापि तद्व्यावृत्तिर्लभ्यते ॥
यद्भूभङ्गात्कुसुमधनुषः किंकरो मेरुधन्वा । ईश्वरकोपदग्धोऽपि मन्मथः पार्वती रूपास्त्रेण तं जिगाय । तं च स्वदासं चकार । पार्वत्या भ्रूविलासेनेश्वरो मन्मथकिंकरोऽभूत् । पार्वत्यास्तत्सौभाग्यं त्वद्भावलेशाधीनम् । ‘तव प्रसादात्कुसुमायुधोऽपि सहायमेकं मधुमेव लब्ध्वा । कुर्यां हरस्यापि पिनाकपाणेर्थैर्यच्युतिं के मम धन्विनोऽन्ये ॥’ इति मन्मथवचनं
[[272]]
॥ श्रीस्तुतिः ॥
कुमारसंभवे । कुसुमायुधोऽपि पिनाकपाणेधैर्यच्युतिं कुर्यादित्युक्तम् । कुसुमपिनाकयो रन्तरस्य न शब्दतस्तथा स्फूर्तिर्यथा कुसुममेर्वोः । उभयत्रैकरूपधनुः शब्दप्रयोग उचितः । यथा ‘उदेति सविता ताम्रस्ताम्र एवास्तमेति च ।’ एतच्चोपपादितं श्रीमम्मटभट्टैः । ‘के मम धन्विनोऽन्ये’ इति धन्विशब्दग्रहणं कृतम् । ‘कुसुमधनुषः किंकरो मेरुधन्वा’ इति श्लोकयन्त आचार्या दोषं परिजिहीर्षन्तीव । कुसुमायुधस्थाने कुसुमधन्वेति । पिनाकपाणिस्थाने मेरुधन्वेति । मधुमेकं सहायं मेने प्रथमं कामः । स्थाण्वाश्रमं गत्वा तत्तपोदार्द्धं दृष्ट्वा ‘नाल क्षयत्साध्वससन्नहस्तः स्रस्तं शरं चापमपि स्वहस्तात्’ इति च्युतचापो निराशोऽभूत् । अनन्तरं तदाश्रमं शुश्रूषया प्रविशन्तीं गौरीं दृष्ट्वा स्वकार्यसिद्धिं पुनराशशंसे । यदा सेश्वरं प्रणनाम तदा तामेव सहायं मत्वा संमोहनं नामास्त्रं धनुषि समधत्त । चुक्षुभे च तदा स्थाणुरीश्वरः । अत एव तद्भ्रूभङ्गसहायान्मन्मथ ईश्वरमजयदित्युच्यते । ‘अद्यप्रभृत्यवनताङ्गि तवास्मि दासः’ इतीश्वरवचनं पार्वतीं प्रति पञ्चम सर्गान्ते । अत्र न केवलं तस्या दासः तद्भ्रूभङ्गमनु मन्मथस्यापि दासोऽभूदित्युच्यते । दासशब्दस्थानेऽत्र किंकरशब्दप्रयोगः ।
यस्यां नित्यं नयनशतकैरेकलक्ष्यो महेन्द्रः । ‘इन्द्रो महेन्द्रः सुरनायको वा’ इति श्लोकम्य प्रत्यभिज्ञापनं महेन्द्रशब्देन । प्रियेषु सौभाग्यमेव पुरुषार्थः स्त्रीणाम् । इन्द्रः सहस्राक्षः । दर्शनकरणाधिक्यं स्त्र्यन्तरदर्शनसौकर्यतदपरिहार्यत्वादिहेतुः दिव्यरूपिण्यः सुरस्त्रियो भूयो नृत्यन्ति सुरनायकस्य पुरतः । चक्षुर्भूयस्त्वेऽपि दर्शनीयदिव्यरूपभूयस्त्वेऽपीयं शची तन्नयनशतकानामेकलक्ष्या भवतीति किमाश्चर्यमतः परम् । नित्यं तामेव सदाभावितै कलक्ष्यत्वेन पश्यन्ति । शतकैरिति पुरोभागे, पश्चाद्भागे पार्श्वभागे सर्वत्र नयनानां व्यवस्थितिरुच्यते । यदि ललाट एव नयनानि स्युः, बहून्यपि तान्येकमेव लक्ष्यमेककाले प्रभवेयुः । अस्येन्द्रस्य पुरस्तात्पृष्ठतः पार्श्वतः सर्वत्र नयनानि सन्ति । तथा चैकैकनयनवर्गेण भिन्नभिन्नलक्ष्य दर्शनसामर्थ्यम् । तद्व्यज्यते नयनशतकैरिति विभागसूचनेन ॥
तासामसौ परिणतिः । तिसृणामीदृशं सौभाग्यफलम् ॥
[[273]]
॥ श्री देशिकस्तोत्राणि चतुर्थो भागः ॥
पद्मे त्वदीयैर्भावलेशैः । त्वत्कटाक्षलेशैः । त्वदंशलेशसद्भावैरिति वा । तव तेजोंऽश संभवम् ॥
॥ मूलं ॥ अग्रे भर्तुस्सरसिजमये भद्रपीठे निषण्णां अम्भोराशेरधिगतसुधा सम्वादुत्थितां त्वाम् । पुष्पासारस्थगितभुवनैः पुष्कलावर्तकाद्यैः क्लृप्तारम्भाः कनककलशैरभ्यषिञ्चन् गजेन्द्राः ॥
॥ व्या॥ एवं द्वाभ्यां श्लोकाभ्यां देव्या विग्रहवत्वं स्वाधीनपतिकत्वादिप्रयोजकसौन्दर्यातिशयवत् रुद्राणीन्द्राणीप्रभृतिपरिजनवत्वेन कैमुत्यसिद्धरूपातिशयवत्वं च प्रतिपाद्यतदव्यवहितानन्तरप्रादुर्भाव स्वरूपममृतसहोत्पत्तिकत्वं त्रैलोक्यसाम्राजयपट्टाभिषिक्तत्वं च विवृणोति - अग्र इति ( गजेन्द्राः) ऐरावतपुण्डरीकप्रभृतयः (अधिगतसुधासम्भवात्) अधिगतः प्राप्तः सुधास वः अमृतप्रवाहः येन (अम्भोराशेः) क्षीरोदात् (उत्थिताम् ) नतूत्पन्नाम्, सुधासम्भवदेवीसम्भवयोः यौगपद्योक्त्या माधुर्यातिशयो व्यजयते। (भर्तुः) उपेन्द्रस्य त्रैलोक्य रक्षार्थं अवतीर्णस्य (अग्रे) पुरस्तात् - (सरसिजमये) पद्मस्वरूपे “तत्प्रकृतवचने मयट्” (भद्रपीठे ) सिंहासने (निषण्णां त्वां पुष्पासारस्थगितभुवनैः) पुष्पासारः पुष्पवर्षः “धारासम्पातः आसारः” इत्यमरः । तेन स्थगितम् छादितम् भुवनं यैः (पुष्कलावर्तकाद्यैः) मेघैः (क्लृप्तारम्भास्सन्तः) क्लृप्तः वर्षारम्भो येषान्ते स्वकर्तृकसुधाभिषेकारम्भस्य मेघकर्तृकपुष्पाभिषेकार्थत्वेनैव क्लृप्तत्वादादावुपक्रान्तत्वमिति भावः । (कनककलशैः) कनककलशस्थसुधासारैः (अभ्यषिञ्चन्) अभिषिक्तवन्तः। एतेन त्रैलोक्यपट्टाभिषिक्तायाः लोकमातुः “मामेकां देवदेवस्य महिषीं शरणं व्रजेदिति उक्तमुपेन्द्रमहिषीत्वम्। सिंहासनमपि तदनुकूलं सुकुमारमिति स्फुरितम् । सुधासहजत्वादुज्जीवकत्वशीतळत्वमधुरगुणत्वस्फूर्तिरपि । अयं च गजेन्द्राभिषेकवृत्तान्तः श्रीविष्णुपुराणे “गङ्गाद्यास्सरितस्तोयैस्स्नानार्थमृपतस्थिरे । दिग्गजा हेमपात्रस्थमादाय विमलं जलम् । स्नापयां चक्रिरे देवीं सर्वलोकमहेश्वरीमिति प्रपञ्चितः ॥
[[१३]]
[[274]]
தமிழ்ப்பதவுரை
அவதாரிகை: இப்படி ஸ்ரீக்கு ஸ்வரூப ரூப குணவிபூதிகளையருளிச் செய்து
அவதாரவிசேஷங்களின் மஹிமைகளையருளிச் செய்கிறார் அ என்பதால். பதம் अधिगतसुधासम्भवात् अम्भोराशेः उत्थिताम् உரை அம்ருதோத்பத்தியையுடைய பாற்கடலில்நின்றும் भर्तुः अग्रे सरसिजमये भद्रपीठे निषण्णां त्वाम् गजेन्द्राः पुष्पासार स्थगितभुवनैः पुष्कलावर्तकाद्यैः कॢप्तारम्भास्सन्तः कनककलशैः अभ्यषिञ्चन् அவதரித்தவளும் நாயகனெதிரில் தாமரை புஷ்பமான மங்களபீடத்தில் வீற்றிருந்தவளுமான உம்மை திக்கஜங்கள் மலர்மாரியினால் மறைக்கப்பட்ட உலகங்களையுடைய புஷ்கலாவர்தகமென்று பெயருடைய மேகம் முதலிவற்றாலே ஸரியான துவக்கமுடையவையாயக் கொண்டு பொற்குடங்களால் அபிஷேகம் செய்தன.
பாற்கடலைக் கடைகையில் ஆவிர்பவித்து பத்மாஸனத்தில் வீற்றிருந்த லக்ஷ்மியை சூழ்விசும்பணி முகில்மலர்மழை பொழிந்தன. அஷ்டதிக்கஜங்களும் பூர்ணபொற்குடங்களால் அபிஷேகம் பண்ணின. இப்படி ஸ்நாதையாய் அலங்கரித்து எல்லோரும் ஸேவிக்க பெரிய மேன்மையோடு பெருமாள் திருமார்பையடைந்தாளென்று கருத்து.
[[275]]
॥ श्री देशिकस्तोत्राणि चतुर्थो भागः ॥
(ए. वि. गो. व्या)ः सरस्वत्याः, कुसुमधनुषः शच्याश्च शक्तिसौभाग्यादिकं लक्ष्म्यधीनमित्युक्तम् । अन्वयव्यतिरेकाभ्यां त्रिभुवनैश्वर्यस्यापि तत्कटाक्षाधीनत्वं निरूपितं श्रीमद्यामुनायैः ‘ईषत्त्वत्करुणानिरीक्षणसुधासंधुक्षणाद्दृश्यते नष्टं प्राक्तदलाभतस्त्रिभुवनं संप्रत्यनन्तोदयम्’ इति । ईषत्त्वत्करुणानिरीक्षणेति यदुक्तं तदुच्यते ‘भावलेशैस्त्वदीयैः’ इति । अन्वयव्यतिरेक प्रदर्शनं करिष्यते ऽनन्तर श्लोके ‘शापाक्रान्ताः’, ‘लब्ध्वा भूयस्त्रिभुवनमिदम्’ इत्यादिना । अस्या मथितक्षीराब्धेरुत्थानकालेऽभिषेकमङ्गलं निरवर्त्यत । नष्टा त्रिभुवनशोभा पुनः समजनि । अत्राभिषेकमङ्गलं वर्ण्यते । ‘ऐरावतं गजेन्द्राणाम् इति निर्धारणमैरावतस्य गजेन्द्रेषु । ऐरावतश्च लक्ष्मीमालां पदा ममर्द । गजेन्द्रकृतापराधं गजेन्द्राः क्षालयन्ति स्वयम भिषेचनेनेत्युच्यते ‘अभ्यषिञ्चन्गजेन्द्राः’ इति रसिकैर्भाव्यम् ॥ I ,
अग्रे भर्तुः । भर्तुरप्यग्रे भवतीयम् । सहसीतमिति रामाभिषेके सीतायाः सहशब्दगम्यं
किंचिदप्राधान्यमिव । अत्र भर्तुरिति भर्तुर्निरूपकत्वमेव महिष्याः । तस्याः प्राधान्यम् ॥ सरसिजमये भद्रपीठे निषण्णाम् । ‘स्थानं यस्याः सरसिजवनं विष्णुवक्षःस्थलं वा’ इत्युक्तमनुसृत्य सरसिजमयासननिषदनमुच्यते । ‘विकासिकमले स्थिता ’ इत्यवतारवर्णनं श्रीपराशरेण ॥
अम्भोराशेरधिगतसुधासंप्लवादुस्थितां त्वाम् । अमृतसंप्लवनदशापन्नक्षीराब्धे रुत्थितेति विशेषो द्योत्यते । न केवलंक्षीराब्धेरुत्थिता, ‘श्रीर्देवीं पयसस्तस्मादुत्थिता इत्यार्षशब्दग्रहणमुत्थितामिति ॥
पुष्पासारस्थगितभुवनैः । पुष्पमयमासनम् । पद्मा पद्मप्रिया पद्मवनावासा लक्ष्मीः । पुष्पवृष्ट्याभिषेको युक्तस्तस्याः । पुष्पवृष्ट्या सुदिनं भवति, न दुर्दिनं मिलितेष्वपि सप्त मेघेषु ॥ ‘शरीरिणां स्थावरजङ्गमानां सुखाय तज्जन्मदिनं बभूव’ इतिवत् सुदिनं खलु तदाविर्भावदिनम् ।
पुष्कलावर्तकाद्यैः । अभिषेके सहकुर्वतां मेघानां पुष्कलत्वम्, हर्षवेगेनावर्तवत्त्वं च व्यज्यते संज्ञाभ्याम् ॥
[[276]]
॥ श्रीस्तुतिः ॥
क्लृप्तारम्भाः कनककलशैरभ्यषिञ्चन्गजेन्द्राः । अभ्यषिञ्चन्नित्यार्षशब्दग्रहणम् । गजेन्द्रा इति स्वप्रधानभूतैरावतकृतापचारस्याभिषेकधाराभिः क्षालनं व्यज्यते । ऐरावतोऽ पीदानीमेव पुनः संभूतः। गृहीत्वामरराजेन स्रगैरावतमूर्धनि । न्यस्ता’, ‘मदान्धकारिताक्षोऽसौ गन्धोत्कृष्टेनैरावणः । करेणाघ्राय चिक्षेप तां स्रजं धरणीतले ॥ ’ इति श्रीपराशरः ‘दिग्गजा हैमपात्रस्थमादाय विमलं जलम् । स्नापयांचक्रिरे देवीं सर्वलोकमहेश्वरीम् ॥’ इति च ।
॥ मूलं ॥
आलोक्य त्वाममृतसहजे विष्णुवक्षस्स्थलस्थां
शापाक्रान्ताश्शरणमगमन्सावरोधास्सुरेन्द्राः । लब्ध्वा भूयस्त्रिभुवनमिदं लक्षितं त्वत्कटाक्षैः सर्वाकार (स्थिति) स्थिरसमुदयां सम्पदं निर्विशन्ति
॥ १४
॥ व्या ॥ एवमभिषिक्तायाः देव्याः “देवदेवस्य महिषीं शरणं व्रजेदिति विहितप्रकारेणानुष्ठितशरण वरणानां गीर्वाणानां रक्षणप्रकारमाह आलोक्येति । (अमृतसहजे) सहजायते प्रादुर्भवतीति सहजा, जनिप्रादुर्भाव इति धातुः, (शापाक्रान्ताः ) दुर्वासशापान्नष्टैश्वर्याः निःश्रीकत्वशापपराभूता इत्यर्थः । (सावरोधाः) सान्तःपुराः (सुरेन्द्राः विष्णुवक्षस्स्थलाम्) अभिषेकानन्तरं स्नाता भूषणभूषिता “पश्यतां सर्वदेवानां ययौ वक्षस्स्थलं हरे “रिति हरिवक्षस्स्थलमरतकसिंहासननिषण्णां (त्वां आलोक्य) भगवत्संश्लेषणेन प्रसन्नत्वाद्यतिशयध्वनिः । देवतानां मातापितृदर्शनात् (साधनत्व) सनाथत्वप्रतीतिरिति भावः। (शरणमगमन्) स्वाभीष्टोपायतया निश्चित्य प्रणेमुः । “ततः प्रभृति निःश्रीकं सशक्रं भुवनत्रयम्। मैत्रेयासीदपध्वस्तं संक्षीणौषधिवीरुधम् । श्रिया विहीना निस्सत्वादेवाश्चक्रुस्ततो रणम् । विजितास्त्रिदशा दैत्यैरिन्द्राद्याश्शरणं ययुः” इति स्मरणात्। पुनस्सुरेन्द्रा इत्यनुषजयाह - लब्ध्वेति । ( त्वत्कटाक्षैर्लक्षितम्) वीक्षितं ईक्षणमात्रेण समृद्धमखिलं (त्रिभुवनम् ) भूयोपि लब्ध्वा ) पुनः प्राप्य (सर्वाकारस्थितिसमुदयाम्) शापात्पूर्वमनुभूतानां सर्वाकाराणां तत्तद्भोगोपकरणभोगस्थानप्रकाराणां स्थितिः मर्यादा तस्यास्समुदयः पुनः प्रादुर्भावः सर्वाकारस्थितेः समुदयो यस्यां सा, यद्वा स्थितिसमुदयोऽस्यामस्तीति मत्वर्थे अर्शाद्यच् प्रत्ययः सर्वाकारस्थिरसमुदयामिति पाठे तु सर्वप्रकारैः स्थिरः समुदयः अभ्युदयो यस्यास्ताम् (सम्पदम् ) निर्विशन्तीत्यर्थः । “श्रिया जुष्टं च त्रैलोक्यं बभूव मुनिसत्तम । शक्रश्च त्रिदशश्रेष्ठः पुनः
[[277]]
॥ श्री देशिकस्तोत्राणि चतुर्थो भागः ॥
श्रीमानजायत। सिंहासनगतः शक्रस्सम्प्राप्य त्रिदिवं पुनः । देवराजये स्थितो देवीं तुष्टा वाब्जकरान्तत” इति च स्मरणात्॥
தமிழ்ப்பதவுரை
அவதாரிகை: ஸ்ரீதேவீ திருப்பாற்கடலில் அவதரித்த ப்ரயோஜனமருளிச் செய்கிறார்
அடி என்பதால்.
பதம்
हे अमृतसहजे
शापाक्रान्ताः
सावरोधाः
सुरेन्द्राः विष्णुवक्षस्स्थलाम्
त्वाम् आलोक्य
शरणं
உரை
அமுதத்துடன் பிறந்தவளே
சாபத்தினால் பீடிக்கப் பட்டவரும்
பத்னியுடன் கூடியவருமான
தேவச்ரேஷ்டர்கள்
அமுதில் பிறந்து பெருமாள் திருமார்பை
யடைந்த
உம்மை
अगमन्
ஸேவித்துக் கொண்டு
உபாயமாக (நஷ்டமான ஐச்வர்யம்
கிடைத்தலுக்காவென்றபடி)
அடைந்தார்கள் (சரணாகதி
त्वत्कटाक्षैः
लक्षितम्
செய்தார்களென்ற படி)
इदं त्रिभुवनम्
(அவர்கள்)உமது கடாக்ஷத்தினால்
குறிப்பிடப் பட்டு ஸம்ருத்தமான
இம்மூவுலகையும்
பிந்தியும்
लब्ध्वा
அடைந்து
[[278]]
॥ श्रीस्तुतिः ॥
सर्वाकारस्थितिसमुदयाम्
सम्पदम् निर्विशन्ति
எல்லாவற்றிலும் முன்போலவான
ஐச்வர்யத்தை
அனுபவிக்கிறார்கள்
கருத்து - இந்திரன் பொருட்டுச் செய்த துர்வாஸமுனி சாபத்தினால் மஹாலக்ஷ்e மறைய, அதினால் நஷ்டதனரான தேவர்கள் அம்ருதங்கடைகையெனும் வ்யாஜமாக லக்ஷ்மியினவதாரத்தை வேண்ட, அவளும் ஆவிர்பவித்து நீராடி ஒப்பிற்று எல்லாரும் பார்க்க பெருமாள் திருமார்பாகிற மங்களபீடத்தையடைந்து வீற்றிருக்க தேவர்கள் கண்டு மகிழ்ந்து சரணம் புக அவளும் கடாக்ஷிக்க அதினால் அனைத்துலகும் முன்னினும் மேலான ஸம்பத்து பெருக எல்லாரும் தந்தாம் பதவியையடைந்து ஆநந்தமானார்கள்.
(ए. वि. गो. व्या)ः अन्वयव्यतिरेक प्रदर्शनमत्र चतुःश्लोकीरीतिमनुसृत्य । लक्ष्मीकटाक्षालाभात्त्रिभुवनं शून्यमिव नष्टमिवाभूत् । ततः प्रभृति निःश्रीकं सशक्रं भुवनत्रयम् । मैत्रेयासीदपध्वस्तं संक्षीणौषधिवीरुधम् ॥’ इति श्रीपराशरः । ’ तस्मात्प्रणष्टलक्ष्मीकं त्रैलोक्यं ते भविष्यति’ इत्यक्षान्ति सारसर्वस्वत्वेनात्मानं वर्णयतो दुर्वाससः शापः । शक्रविषये । लक्ष्म्यवतारा नन्तरम् ‘श्रिया जुष्टं च त्रैलोक्यं बभूव द्विजसत्तम’ इति पराशरः ॥
आलोक्य त्वाममृतसहजे विष्णुवक्षःस्थलस्थाम् । ‘ततोऽवलोकिता देवा हरिवक्षः स्थलस्थया’ इत्यार्षशब्दानुसरणम् । ‘पश्यतां सर्वदेवानां ययौ वक्षःस्थलं हरेः’ इति पूर्व वाक्यम् । वाक्यद्वयमिश्रणमत्र । अमृतस्यानन्तरं लक्ष्म्युत्थानम् । प्रथमं धन्वन्तरिर्देवोऽमृतस्य पूर्णं कमण्डलुं बिभ्रदुत्थितः । अनन्तरं लक्ष्मीः । ‘विष्णुवक्षःस्थलस्थिताम् ’ इतीन्द्रः ॥
शापाक्रान्ताः । लक्ष्मीमालाक्रमणस्य शापाक्रान्तत्वं फलम् ॥
शरणमगमन्सावरोधाः सुरेन्द्राः । पूर्वश्लोके गजेन्द्रकृतसेवोक्ता । अत्र सुरेन्द्रसेवोच्यते । इन्द्रापराधस्तदीयैः सुरेन्द्रैः क्षाल्यते । यथा गजेन्द्रैरैरावतस्य । ‘घृताचीप्रमुखा ब्रह्मन्ननृ तुश्चाप्सरोगणाः ।’ श्रीसूक्तेन सर्वे तुष्टुवुर्मातरम् । ‘नमामि सर्वलोकानाम्’ 279
॥ श्री देशिकस्तोत्राणि चतुर्थो भागः ॥
इतीन्द्रस्तुत्युपक्रमः । सावरोधैः शरणगमने फलनिश्चयः । दम्पत्योः सहाधिकारो न्यासयागे I सह प्रपदनमुचितम् । सावरोधः खलु प्रपद्यते ॥ ।
1 लब्ध्वा भूयस्त्रिभुवनमिदं लक्षितं त्वत्कटाक्षैः । त्रैलोक्यमित्यार्षवचनम् । त्रिभुवन मिति यामुनपदोपादानम् । शरणगमनक्षणे भूयो लाभसिद्धिः ॥
सर्वाकारस्थिरसमुदयां संपदं निर्विशन्ति । ‘संप्राप्य त्रिदिवं पुनः’ इति पराशरः । अत्र ‘लब्ध्वा भूयः’, ‘समुदयाम’ इति । ‘संप्रत्यनन्तोदयम्’ इति चतुः श्लोक्यनुसरणमप्यत्र । ‘त्वया देवि परित्यक्तं सकलं भुवनत्रयम् । विनष्टप्रायमभवत्त्वयेदानीं समेधितम्’ भूयस्त्वत्कटाक्षैर्लक्षितमित्यप्यन्वयः । त्वत्कटाक्षलक्ष्यत्वफलमनन्तोदयवत्त्वम् । अनन्तोदयमित्यस्य भाववर्णनम् ‘सर्वाकारस्थिरसमुदयां संपदम्’ इति । ‘सुरव्रजस्त्वद्दासदासीगणः’ इत्यस्य भाववर्णनम् ‘सावरोधाः सुरेन्द्राः’ इति । भूय इति प्रणष्टस्य लाभः सूच्यते । ‘प्रणष्टस्य यथा लाभः’ इति दशरथो हर्षातिशयं निदर्शयति ॥ ***
॥ मूलं ॥ आर्तत्राणव्रतिभिरमृतासारनीलाम्बुवाहैः
अम्भोजानामुषसि मिषतामन्तरङ्गैरपाङ्गैः ।
यस्यां यस्यां दिशि विहरते देवि दृष्टिस्त्वदीया
तस्यां तस्या महमहमिकां तन्वते सम्पदोघाः ॥
॥ व्या॥ एवं देव्याः स्वरूपं चतुर्दशभिः श्लोकैः प्रतिपाद्य सर्वकल्याणगुणानामाकरं (अग्रेसरं) परमोदारत्वं परमकारुणिकत्वक्षमावात्सल्यादिगुणाविनाभूतं “प्रत्यक्षानुश्रविके “त्यादिना प्रथम श्लोके सामान्यत उक्तम्। ऐश्वर्यकैवल्यमोक्षप्रदत्वरूपेण विशिष्यवक्तुमुपक्रमते आर्तेत्यादिभिः पञ्चभिः श्लोकैः । तत्र ऐश्वर्यार्थी द्विविधः नष्टैश्वर्यः अनागतैश्वर्यश्च ऐश्वर्यं द्विविधं धनरूपं मण्डलाधिपत्यरूपं चेति । तत्र प्रथमं नष्टैश्वर्यस्यार्तस्य रक्षणमाह आतंत्राणेति (आर्तत्राणव्रतिभिः) आर्तानां त्राणं ऐश्वर्यप्रापणरूपं तत्र व्रतं तद्वद्भिः (अमृतासारनीलाम्बुवाहैः) अधिकार्यन्तरेषु अमृतासारः मोक्षवर्षः अन्यत्र जलवर्षः तस्य नीलाम्बुवाहः नीलाम्बुवाहेतिशरन्मेघव्यावृत्तिः ( उषसि ) प्रातः (मिषतां ) उन्मीलितानां
[[१५]]
[[280]]
(அவு]ளாளர் அ அசி எனில் (அq:) alர்: (car) f: यस्याम् यस्यां दिशि) दिक्छब्देन दृग्वृत्तिजन्तु मात्रं विवक्षितम्। यस्मिन् (विहरते) यं कञ्चिदप्यार्तमुपसन्नं स्वपाशं अवदिशि वर्तमानं कटाक्षेण वीक्षते ( तस्यान्तस्यां दिशि (सम्पदोघाः) सम्पत्प्रवाहाः ( अहमहमिकां ) अहं पूर्वमादेष्यामीति यौगपद्येन प्रादुर्भावं (त्वते) कुर्वन्ति । दुर्वासशापनष्टैश्वर्यशक्रादिरक्षणवृत्तान्तोऽत्र प्रमाणमिति भावः ॥
தமிழ்ப்பதவுரை
இப்படி தேவர்களுடைய வேண்டுதலால் கடாக்ஷித்து அதினால் ஸம்பத்து அபிவ்ருத்தமாயிற்றென்றார் கீழ் அவள் கடாக்ஷம் யாத்ருச்சிகமாகவாகிலும் எந்தவிடத்தில் விழுகிறதோ அவ்விடமும் ஸம்ருத்தமாகுமென்கிறார். என்பதால்.
பதம்
आर्तत्राणव्रतिभिः
अमृतासार नीलाम्बुवाहैः
उषसि मिषतां
अम्भोजानाम्
अन्तरङ्गैः
அபுர்:
यस्यां यस्यां दिशि
உரை
வ்ரதமாகவுடையவும்
அம்ருதவர்ஷம் வர்ஷியாநின்ற
கருத்தமேகம் போன்றவையும்
காலையில் மலராநின்ற
त्वदीया दृष्टिः विहरते
தாமரைப் பூக்களுக்கு
தோஷமை பூண்டவையுமான
எந்த எந்த
திக்கில்
உமது பார்வை
तस्यां तस्यां सम्पदोघाः
கஷ்டப்பட்டாருடைய ரக்ஷணத்தை
கடைக்கண்களால்
விளையாடுகிறதோ
அந்தந்த திக்கில்
ஸம்பத்தின் ப்ரவாஹங்கள்
[[281]]
॥ श्री देशिकस्तोत्राणि चतुर्थो भागः ॥
अहमहमिकां तन्वते
நான்முன் நான்முன் போவேனென்பதை செய்கின்றன
கருத்து. கஷ்டத்தை நீக்குகையை வ்ரதமாகப் பூண்டும் அமுதம் வர்ஷியாநின்ற மேகம் போன்றும் காலையால் மலர்ந்த தைமரை மலர்களுக்கிணையானவையுமான உமது பார்வைகள் எந்த திக்கில் படுகின்றனவோ அவ்விடத்தில் ஸம்பத்துக்கள் நான்முன்னே யென்று வந்து குடிகொள்ளுகின்றன.
1 (ए. वि. गो. व्या)ः शरणगमनमुक्तम् । ‘तावदार्तिः … यावन्न याति शरणम्’ इति । प्रमाणस्योपस्थितिर्भवति। ’ ददाम्येतद्व्रतं मम’ इत्यपि स्मर्यते । मेघैः पुष्पवर्षः कृतः । कृते च प्रतिकर्तव्यं कृतज्ञसार्वभौम्या । तस्या अपाङ्गा नीलाम्वुवाहा भवन्ति । पुष्पासारस्थानेऽमृतासारं प्रवर्तयन्ति । स्वयमपि सद्यो विकसत्पद्मानि भवन्ति । ‘वर्षाकीर्णामिव कमलिनीम्’ ‘शिशिरमथितां पद्मिनीम्’ इत्यम्बुवाहैः पद्मानि कदर्थ्येरन् । अत्र नीलाम्बुवाहाः पद्मानि भवन्ति । संपदोघास्त्वद्दृष्टिपातेऽहमहमिकां भजन्ते ॥
आर्तत्राणव्रतिभिः । ‘आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ ।’ प्रथमपठितस्यार्तस्य त्राणमुच्यते । दम्पत्योरापन्नार्तिप्रशमनविधौ वद्धदीक्षत्वमुक्तम् । अत्र पत्नीकटाक्षाणां तद्व्रत्तित्वमुच्यते । यथा राज्ञी तथा तत्परिकराः ॥
अमृतासारनीलाम्बुवाहैरम्भोजानामुषसि मिषतामन्तरङ्गैरपाङ्गैः । अपाङ्गा अन्तरङ्गा इति शाब्दविरोधवैचित्र्यम् । नीलाम्बुवाहा अम्भोजानामन्तरङ्गा इत्यपि वैचित्र्य प्रदर्शनम् । ‘उन्निद्रपद्माक्षीम् ’ इतीन्द्रस्तुतौ । तदुच्यते ‘उषसि मिषताम्’ इति ॥
यस्यां यस्यां दिशि । वीप्सया व्याप्तिः, संरम्भश्च । तस्यां तस्यामिति वीप्सा । अहमह मिकापि च वीप्सागर्भा । संपदोघा इति तासां पौनःपुन्येन भवनम् । एवं वीप्साबाहुल्यमस्याः फलदातृत्वविषये ऽत्यन्तहृद्यम् ॥
विहरते देवि दृष्टिस्त्वदीया । देवि विहरणशीले । त्वच्छीलानुसारिणी त्वद्दृष्टिः । त्वदीयत्वात्सा विहरे । आत्मनेपदप्रयोगः फलं तवैवेति व्यनक्ति । विहरणं च दयालीला ॥
[[282]]
॥ श्रीस्तुतिः ॥
तस्यां तस्यां दिशि । दिगन्तपर्यन्तं धावन्ति संपदो लक्ष्यमन्विष्यन्तः॥
अहमहमिकां तन्वते संपदोघाः । अनिर्दिष्ट संप्रदानव्यक्तिविशेषाः संपदः स्वामिन्या । ‘का कात्र’, ‘गम्यताम्’ इति सामान्येन निर्विशेषाज्ञा । सर्वा अहं पूर्वमहं पूर्वमिति धावन्ति । अथ वा न भाषते देवीं । कटाक्षमात्रं प्रसृतं कस्यांचिद्दिशि भाषणात्पूर्वमेव तत्र सर्वा धावन्ति । कटाक्षमात्रपाते कस्यैवाज्ञा दत्तेति विशेषापरिज्ञानात्सर्वा अहं पूर्वमहं पूर्वमिति ससंरम्भं दिगन्तेषु धावन्ति । यद्येका संपद्विशिष्याज्ञाप्येत सैकैव गच्छेत् । न तदाहमहमिकावकाशः । स्वामिन्यपि किं दद्यां किं दद्यामित्यनिश्चाय्यैव संपदोघधावनं स्पृहयतीव । तासामहमहमिका तस्या इष्टेव । I
॥ योगारम्भत्वरितमनसो युष्मदैकान्त्ययुक्तं धर्मं प्राप्तुं प्रथममिह ये धारयन्ते धनायाम् । तेषां भूमेर्धनपतिगृहादम्बरादम्बुधेर्वा धारानिर्यान्त्यधिकमधिकं वाञ्छितानां वसूनाम् ॥ १६
॥ व्या॥ अनागतैश्वर्यरक्षणप्रकारमाह- योगेति । (योगारम्भत्वरितमनसः) ऐश्वर्यार्थमष्टाङ्गयोगा रम्भे त्वरितहृदयास्सन्तः (युष्मदैकान्त्ययुक्तं युवयोरेकान्त्यं नैयत्यमनन्योपासनव्रतयुक्तं (धर्मम्) कर्मानुष्ठआनं (प्राप्तमिह ये) केचित् (धनायाम्) धनेच्छाम् (धारयन्ते, तेषां वाञअछइतानाम्) अपेक्षितानाम् (वसूनाम्) धनानाम् (धाराः भूमेः) निध्यादिरूपेण ( धनपतिगृहात्): गुरुदक्षिणार्थकृतरघूपसर्पणकौत्स महर्षेरिव कुबेरभवनात् (अम्बरात्) व्योम्नः कुचेलस्येव (उम्बुधेर्वा) (वणिगानीत) वायुवेगानीत समुद्रयानेभ्यः (अधिकमधिकम् ) वाञ्छितादधिकं (निर्यान्ति) आविर्भवन्ति, कुचेलः खलु रुक्मणीवासुदेवसमाश्रयणेन निरवधिकमैश्वर्यं प्राप्त इति युष्मत्पदमहिम्ना तत्प्राप्तमिति भाति ॥
தமிழ்ப்பதவுரை
॥ मूलं
அவதாரிகை: இஹ போக்யபோகங்களில் வேண்டுமவற்றை அளிப்பாளென்பதை योगारम्भ ढाòmळं श्रेयस्कामाः my Conjan অBali Grui&pri. 283
[[19]]
பதம் ये योग आरम्भ त्वरित मनसः युष्मत् ऐकान्त्ययुक्तम् धर्मम् प्रथमम् प्राप्तुम् धनायाम् धारयन्ते तेषाम्ः 1/1 உரை யாதொரு தனார்த்திகள் கர்மயோகம் முதலான யோகங்களை யத்னிப்பதில் வேகமுடைய மனமுடையவர்களாய் கொண்டு (நீரும் பெருமாளுமாகிற) உங்களையே உ அடைவதென்று உறுதியுடன் கூடிய கர்மானுஷ்டானத்தை முந்தி அடைகைக்கு தனத்திலாசையை அதற்காக சரணமடைகிறார்களோயென்றபடி அவர்களுக்கு பூமியினின்றாவது குபேரன் வீட்டினின்றாவது भूमेर्वा धनपतिगृहाद्वा अम्बराद्वा ஆகாயத்தினின்றாவது अम्बुधेर्वा கடலினின்றாவது वाञ्छितानाम् வேண்டப்பட்ட वसूनाम् த்ரவ்யங்களுடைய BRT: निर्यान्ति பெருக்குக்கள் வெளிப்படையாகின்றன
கருத்து- மோக்ஷம் பெறவேணும் அது பக்தியோகத்தால் வரவேணும் அது க்ஞான யோகத்தால் அது கர்மயோகத்தால் அது கார்ஹஸ்த்ய முதலான ஆச்ரமதர்மங்களால் வரவேணும். அதற்கது யாகாதிகள் செய்யவேணும், அதற்கு தனம் வேணும். அதற்கு இம்மண்ணுலகில் செல்வரிப்போதில்லை. தேவதாந்தரத்தைக் கேட்கக் கூடாது.. சீக்கிரமாகவும் வேணும், ஆகையால் லக்ஷ்மீநாராயணர்களையே கேட்கவேணுமென்று இப்படி உறுதியுடன்
[[284]]
//
॥ श्रीस्तुतिः ॥
உங்களைப் பற்றினார்க்கு உங்கள் ஸங்கல்பத்தாலே பூமியில் நிதிரூபமாகவாவது. ரகுமஹாராஜாவுக்கு குபேரன் வீட்டினின்றம் வந்தது போலாவது, குசேலருக்கு ஆகாசத்தினின்றுமுண்டானது போலாவது, கடலில் கப்பல் கிடைத்து அதினாலாவது மிகுதியான தனலாபம் அவர்களுக்கு உண்டாகிறதென்று அருளிச் செய்தாரென்று கருத்து.
(ए. वि. गो. व्या )ः अर्थार्थिनामर्थप्राप्तिरुच्यते ऽत्रानन्तरश्लोके च । न स्वार्थ मर्थार्थिन इमे । धर्मार्थमर्थापेक्षा । न फलाभिसन्धिरूपकलङ्कोपहतधर्मार्थम् । किं तु तद्रहितशुद्धनिवृत्तिधर्मार्थम् । संपदामहमह मिकारूपा त्वरोक्ता । अत्र भूम्यादिवसुस्थानानां संपद्धारावर्षणे त्वरा बोध्यते । कनकधारा श्रीलक्ष्मीस्तव इत्यपि स्तुतिनामविशेषोऽन्वर्थीक्रियते ॥
योगारम्भत्वरितमनसः । ‘विविदिषन्ति यज्ञेन दानेन’ इति श्रुतिमनुसृत्य योगारम्भ योग्यतासंपादनार्थमनाशकमकामोपहतं यज्ञं दानं च चिकीर्षन्ति ।
युष्मदैकान्त्ययुक्तं धर्मं प्रथमं प्राप्तुम् । प्रथमो धर्मः, प्रथमयुगधर्मः, कार्तयुगधर्मो निवृत्तिधर्मः । स एव प्रथमः श्रेष्ठो धर्मः । ऐकान्त्ययुक्तमित्यैकाग्र्यरूपयोगवत्त्वमपि धर्मस्य गृहीतं भवति । तेन च योगारम्भानुकूल्यम् । ‘व्यवसायात्सिका बुद्धिरेकेह कुरुनन्दन ।’ ऐकान्त्यं न बहुशाखत्वमानन्त्यं वा ॥ I
इह ये धारयन्ते धनायाम् । न धनमात्मन इच्छन्त इमे धनायन्तः, किंतु परोपकारार्थ मिति वैचित्र्यमभिप्रेतम् । परार्थतैव स्वार्थतैषाम् ॥
तेषां वाञ्छितानां वसूनां धारा अधिकमधिकं निर्यान्ति । ये धारयन्ते तेषां धारा निर्यान्तीत्युचितम् । नाहं प्रथमिकारूपा मिथः स्पर्धा । एकैकस्या वसुधाराया अनेककृत्वः पूर्वपूर्वाधिक्येन जिगमिषात्र वर्ण्यते । अहं चरमिकारूपा स्पर्धा ।
भूमेः । वसूनां धारा वसुंधराया निर्गच्छन्तीति साम्प्रतम् । अतो भूमेः प्रथमनिर्देश इव । सीतामाता भूमिः । मातृप्रेषितं वसु ॥
[[285]]
॥ श्री देशिकस्तोत्राणि चतुर्थो भागः ॥
घनपतिगृहात् । धनपतिर्लक्ष्म्या कोशाधिकारे नियुक्तः । स्वस्या एव कोशागारान्नि र्यान्ति ॥
अम्बरात् । विष्णुपदमम्बरं भर्तृपदम् । अम्बुधेर्वा । अम्बुधिश्च रत्नाकरः । पितापि सः भर्तुः स्वस्याश्च च वासगृहं च ॥ धारा निर्यान्त्यधिकमधिकं वाञ्छितानां वसूनाम् । वसूनां धारा अधिकमधिकं निर्यान्ति । उत्तरोत्तरमभिवृद्धा निर्यान्ति । अधिकमधिकं वाञ्छितानां वसूनां धारा निर्यान्ति । वाञ्छितानामधिकमधिकं धारा निर्यान्ति ॥
भर्तुर्धनधाराः प्रसरन्ति ॥
॥ मूलं ॥ श्रेयस्कामाः कमलनिलये चित्रमाम्रायवाचां
चूडापीडं तव पदयुगं चेतसा धारयन्तः । छत्रच्छायासुभगशिरसश्चामरस्मेरपार्श्वाः
श्लाघाशब्दश्रवणमुदिताः स्रग्विणस्सञ्चरन्ति ॥ १७
॥ व्या ॥ मण्डलाधिपत्यलिपस्या त्वत्पादचिन्तकानामपि तत्फलसिद्धिरस्तीत्याह श्रेयस्कामा इति - मण्डलाधिपत्यसार्वभौमत्वादिश्रेयस्कामास्सन्तः अतः कृकमीति विसर्जनीयस्य सत्वम् (आम्नायवाचम्) वेदवाचाम् (चित्रम्) आश्चर्यभूतं (चूडपीडं ) चूडायाः शिरसः वेदान्तरूपस्यापि आपीडं शेखरं - सौगन्ध्यसौकुमार्यादिना अद्भुतं किमपि शेखरकुसुमिवस्थितं (तव पदयुगं चेतसा) मनसा (धारयन्तः) हेतौ शता त्वत्पदध्यानादेवेत्यर्थः । (छत्रच्छायासुभगशिरसः) मुक्ताखचितातपत्रच्छायया सौभाग्यवन्मूर्धानः (चामरस्मेरपार्श्वाः) चामरैः स्मेरौ स्मितवन्तौ पार्श्वो येषां इतरेषां प्रभावं हसन्ताविव पार्श्वाविति ध्वनिः (श्लाघाशब्दश्रवणमुदिताः) वंशावलीनिजापादानबिरुदोद्घोष मुखरवन्दिस्तुतिपाठसन्तुष्टाः (स्रग्विणः) मालाधाराः (सञ्चरन्ति) गजादिभिरिति शेषः । ब्रह्माद्याश्च सुरास्सर्वे मुनयश्च तपोधनाः । एधन्ते त्वत्पदच्छायामाश्रियत्य कमलेश्वरी ॥ लोकेशेशविभूतीनां कारण यन्निरीक्षणमित्यादिप्रमाणं द्रष्टव्यम् ।
[[286]]
தமிழ்ப்பதவுரை
அவதாரிகை: கீழ்ச்லோகம் அனுஸந்திக்கும்பொழுது ஆகாயம் கனகவர்ஷம் வர்ஷிக்க அதை வர்மியும் வந்தவரும் வாரிப் போக இதை கடாக்ஷித்து இவருக்குத் தனலாபகணம் ஜன்மாந்தரஸுக்ருதமாயிருக்கவேணும் ஸ்ரீதேவியை வேண்டினவர்க்கு எதுதான் கிடையாதது ஸர்வமும் கிடைக்கும் என்பதை அருளிச் செய்கிறார் ।பு: என்பதால்.
பதம்
हे कमलनिलये
श्रेयस्कामाः
आम्नायवाचां
चित्रम् पीडाचूडम्
तवपदयुगम् चेतसा
धारयन्तस्सन्तः
छत्रच्छाया
सुभगशिरसः चामरस्मेरपार्श्वाः
உரை
ஏ தாயே
मुदिताः
ஸம்பத்தை விரும்புவோர்
வேதவாக்குக்களுக்கு
அழகு பொருந்தின
சூடாமணி போன்ற
உமது திருவடியிணைகளை
மனதினால்
தரித்தவர்களாய்க் கொண்டு
வெண்குடை நிழலினால்
श्लाघाशब्दश्रवण
விளங்கியமுடியினரும்
இருபுறமும் வெண்சாமரம் வீசப்பட்டவரும்
सञ्चरन्ति
தங்கள் பிருதாவளி கூறப்படுகிற
கோஷத்தைக் கேட்டு
स्रग्विणः
மனமுகந்தவரும்
நற்பூமாலையணிந்தவரும்
யானைக்குதிரை மேல் ஏறித் திரிகிறார்கள்.
கருத்து. ஏ தாயே லக்ஷ்மி ஸம்பத்துக்கா வேதங்களாகிய வனிதைகளின் மயிமுடிக்குப் பூமுடி போன்ற தேவரீர் திருவடி மலர்களைத் த்யானம் பண்ணினவர் (சரணமடைந்தவ- 287
॥ श्री देशिकस्तोत्राणि चतुर्थो भागः ॥
ரென்றபடி) வெண்குடை போட, இருமருங்கும் வெண்சாமரம் வீச வந்திகள் பிருதுகள் கூற தம்மைத் தாமேமதித்து குஞ்சரம் ஊர்வர்.
(ए. वि. गो. व्या)ः ‘श्रेयो न हारविन्दलोचनमनः कान्ताप्रसादादृते’ इत्युक्तिस्मारणं श्रेय इति । ‘स्तूयमाना स्तोतव्यत्वं दिशति’ इत्युक्तम् । ‘यं स्तुवन्स्तव्यतामेति । तदुपपाद्यते । श्रुतिमौलयश्चरणयुगं चारयन्ति । अस्माभिरपि तथैव कर्तव्यम् । तच्चरणयोश्चेतसा धारणेऽस्माकं छत्राणि धार्यन्ते; चामराणि वीज्यन्ते, श्लाघाशब्दाः पठ्यन्ते; मालाः समर्प्यन्ते । चरणधारणस्य फलं छत्र - धारणम् । चरणश्रवणफलं श्लाघाशब्दश्रवणम् । धारणस्य धारणम्; श्रवणस्य श्रवणं च प्रत्यर्प्यते परमोदारया । इतरथा आनृण्यं न भवेदिति मन्यते सा ॥
I कमलनिलये । पद्मसौगन्ध्यम्, पद्मसौकुमार्यं च व्यज्यते चरणकमलधारणरुचिजननाय । युक्तं हृदयपुण्डरीकेण चरणकमलधारणम् ॥
श्रेयस्कामाः । कामना तावदधिकारिविशेषणम्, स्वर्गकामो यजेतेतिवत् । एतेन नान्यथा श्रेयोलाभ इति व्यज्यते ॥
आम्नायवाचां चित्रं चूडापीडं तव पदयुगम् । श्रुतीनां दिव्यावतंसभूतं पदपद्म युग्मम् । पद्मद्वित्वं मङ्गलकरम् ॥
चेतसा धारयन्तः । न स्वर्णशठारेः शिरसा धारणेनालम् । बुद्धौ धारणमावश्यकम् । मौलिश्च बुद्धिस्थानम् । अनेन शिरसा धारणमपि सिध्यति ‘यावन्न शिरसा धारयिष्यामि न मे शान्तिर्भविष्यति’ इति भरतः । धारणमिति धारणापि व्यज्यते । धारयन्त इति शतृपा समानकालिकत्वं द्योत्यते । धारयन्तश्छत्रच्छायासुभगशिरसः । धारणक्षण एव भूयः संमानं लभन्ते ॥
छत्रच्छायासुभगशिरसः । येन शिरसा तव चरणयुगलं धार्यते, तच्छिरश्छत्रच्छायया ब्रियते । शिरसि धृतयोर्लक्ष्मोचरणयोरियं संमानना । तदर्थमनातपसंपादनम्, चामरवीजनं
[[288]]
॥ श्रीस्तुतिः ॥
च । तच्चरणानुभावोऽयम् । ‘जनार्दनानुस्मरणानुभावः, इति प्रह्लादः स्वस्य प्रह्लादस्यानुभाव इति पितृबुद्धिं निरस्यति ॥
श्लाघाशब्दश्रवणमुदिताः । जय विजयीभवेत्यनुचरैरुच्चैरुद्धोष्यते । श्रवणेनाराधित वन्तं श्रवणेन मोदयते माता । स्तोतव्यत्वं ददाति स्तोतुः । तत्क्रतुन्यायोऽनुम्रियते ॥
स्रग्विणः । मालाः समर्प्यन्ते प्रभूणां श्रिया जुष्टानामिति लोकमर्यादा दृश्यत इदानीम् । श्लाघापत्रिकाश्च पठ्यन्ते तेषां श्रवणाय । इदमाचार्यैरनुभूतमिति विस्मयस्थानमस्माकम् ॥
॥ ऊरीकर्तुं कुशमखिलं जेतुमादीनरातीन् दूरीकर्तुं दुरितनिवहन्त्यक्तुमाद्यामविद्याम्। अम्ब स्तम्बावधिकजननग्रामसीमान्तरेखा मालम्बन्ते विमलमनसो विष्णुकान्ते दयान्ते ॥
॥ मूलं
[[१८]]
॥ व्या॥ एवमैश्वर्यप्रदत्वमुपपाद्य कैवल्यमोक्षप्रदत्वमुपपादयितुं प्रक्रममाणस्तदुभयप्रवृत्तिहेतु भूत कामक्रोधाद्यरिषड्वर्गनिराकरणं तद्धेतुभूतपापादिनिव्रतनं सर्वकारणभूतानाद्यविद्याब्दितप्रकृति सम्बन्धतरणं च स्वामिन्याः दयावलम्बिनामेव सिध्यतीत्याह अथवा अनिष्टनिवृत्तिरिष्टप्राप्तिश्चेति द्विव्धोऽपि पुरुषार्थस्त्वदीयदयावलम्बनेन सिद्ध्यतीत्याह ऊरीकर्तुमिति (हे अम्ब अखिलं कुशलम्) क्षेमं (ऊरीकर्तुम्) अङ्गीकर्तुम् कुशलशब्देन स्वात्मानन्दानुभवरूपभोगस्यापि क्रोडीकारः । (आदीनरातीन्) कामक्रोधादिरूपप्राचीनशत्रूनित्यर्थः । (जेतुं दुरितनिवहं) पापसमूहं (दूरीकर्तुं ) दूरतो निराकर्तुं विद्याद्वारेति शेषः (आद्यामविद्याम्) मूलप्रकृतिम् (त्यक्तुम्) तर्तुं अत्रापि विद्याद्वारेति योजयम् (स्तम्बावधिकजननग्रामसीमान्तरेखाम्) ब्रह्मादिस्तम्बावधिकजन्तूनां जननानि जन्मानि तान्येव ग्रामः तस्य सीमायाः अन्तर्वर्तिनी रेखा अन्तरेखा संसारग्रामात् ग्रामान्तरप्रापकाभिज्ञानरेखामिव विद्यमानां (ते) तव (दयां आलम्बन्ते) साधनतया स्वीकुर्वन्तीत्यर्थः । दयामेव ते सर्वशेयस्साधनतया स्वीकुर्वन्ति । दाराः पुत्रस्तथागारास्सुहृत् धान्यधनादिकम् । भवत्येतन्महाभागे नित्यत्वं त्वद्वीक्षणान्नृणाम्। शरीरारोग्य
[[289]]
मैश्वर्यमपिपक्षक्षयस्सुखम्। देवि त्वदृष्टिदृष्टानां पुरुषाणाञ्च दुर्लभम् । सत्येन सत्त्वशौचाभ्यां तथा शीलादिभिर्गुणैः। त्यजयन्ते ते नरास्सद्यस्सन्त्यक्ताये त्वयाऽमले । त्वया विलोकितास्सद्यः शीलाद्यैस्सकलैर्गुणैः ॥ इत्यादि स्मरणात् ॥
தமிழ்ப்பதவுரை
அவதாரிகை: இப்படி ஸ்ரீதேவிக்கு ஐச்வர்யம், கைவல்யம் மோக்ஷம் என்றும் மூன்று விதபதசமளிப்பதில் ஐச்வர்யமளிப்பதை கீழிற்சொல்ல கைவல்யமென்மு பதமளிப்பதை யருளிச் செய்கிறார் கரிகர்பு என்பதால்.
பதம்
हे अम्ब हे विष्णुकान्ते
உரை
ஏ தாயே
விஷ்ணுவுக்கு ப்ரியையானவளே
अखिलं कुशलम् ऊरीकर्तुम्
எல்லா நன்மையையும்
आदीन् अरातीन्
அடைகைக்கு
जेतुम्
நித்ய சத்ருக்களை (காமாதிகளையென்றபடி)
दुरितनिवहम्
ஜயிக்கைக்கும்
दूरीकर्तुम्
பாபத்திரளை
आद्यां अविद्याम्
விரட்டுகைக்கும்
மூலப்ரக்ருதியை
त्यक्तुम्
स्तम्वावधिक
जननग्रामसीमा
न्तरेखाम्
ते दयाम् आलम्बन्ते
விடுகைக்கும்
ஸ்தம்பமென்கிற பூச்சி வரையிலுள்ள
பிறவியாகிற ஊரெல்லைக்கு
அப்புறம் காட்டும் ஒற்றை வழி போன்ற
உமது தயையை
பிடிக்கிறார்கள்
[[290]]
॥ श्रीस्तुतिः ॥
நன்மைகளை பெறுகைக்கு தக்கவுபாயம் அனுஷ்டிக்கவேணும் காமாதிவைரிகளை ஜயித்து ஐம்புலன்களை அடக்கி ஸுக்ருதத்தால் பாபத்தை போக்கி ப்ரக்ருத்யனுபவத்தில் ஆசையற்று ஆத்மமாத்ரானுபவமாகிற கைவல்யத்திலாசை பூண்டு அதற்காக அடைவே கர்மஞானபக்திகளை அனுஷ்டித்து அதினால் ப்ரஸன்னையான தேவரீருடைய ஸம்ஸாரத்துக்கு அக்கரைவழியைக் காட்டாநின்றது போலுள்ள தயையைப் பற்றுகிறார்கள். இப்படியுமது தயையுமுபாயத்தையுமனுஷ்டித்தவன் திறத்திலேயே பயன்படுகிறது என்று இச்ச்லோகத்திற்கு கருத்து.
(ए. वि. गो. व्या)ः मोक्षार्थं त्वमाश्रीयसे । योगः सिध्यति त्वत्कृपया । विमलमनसो योगिनः । अनाद्यान्तर शत्रवो निर्मूल्यन्ते । अनाद्यविद्योच्छिद्यते । क्षीयन्ते सर्वकर्माणि । त्वद्दययैव सर्वं सम्पद्यते ॥
अखिलं कुशलमूरीकर्तुम् । सर्वकामावाप्त्यर्थम् ।
आदीनरातीञ्जेतुम् । आदिशत्रवोऽनादिशत्रवः । जगदादिरनादिस्त्वम् । आदिभूतस्यानादित्त्वम् । आदिशब्दप्रयोगस्य प्रयोजनमन्तः शत्रूणां मुख्यत्वद्योतनम् ॥
दुरितनिवहं दूरीकर्तुम् । एनं प्रत्येव विनाशः पूर्वपुण्यपापानाम् । स्वरूपतो न विनाशः । अन्यत्र संक्रमिष्यमाणत्वात् । अतो दूरीकरणमुच्यते । निवहमिति संचितदुरितद्योतनम् । ब्रह्म निकटे भवति । दुरितानि दूरीभवन्ति ॥
आद्यामविद्यां त्यक्तुम् । ‘कर्माविद्यादिचक्रे ’ इति कर्मणाविद्या । कर्मणि निवृत्तेऽविद्यापि निवर्तते । अविद्यायास्त्यागः । नाविद्यकप्रपञ्चप्रविलापनम् यथाद्वैते ॥ अम्ब । दयाप्रार्थने वात्सल्यप्रयोजक संबन्धद्योतकसंबुद्धिः ॥
स्तम्बावधिकजननग्रामसीमान्तरेखाम् । आलम्ब्यमानादयारेखा जननग्रामसीमान्तरेखा भवति । नास्माकं कश्चिज्जन्मग्रामविशेषोऽस्ति । अस्मज्जननग्राम इति वृथैव कंचिद्गा मविशेषमभिमनुमहे । नैकोऽस्मज्जननग्रामः । अनन्तास्तेऽत्यन्तमनियताः । जननसमूहोऽस्मज्जननग्राम इति वक्तुं साम्प्रतम् । एतद्व्यज्यत इव ग्रामशब्देन । जनन-
[[291]]
॥ श्री देशिकस्तोत्राणि चतुर्थो भागः ॥
ग्रामाद्बहिर्निःसारणं दयया । प्रकृतिमण्डलं कृत्स्नमस्मज्जननग्रामः । तन्मण्डलाद्बहिर्नयनमिष्यते ॥
आलम्बन्ते विमलमनसो विष्णुकान्ते दयान्ते । ‘दान्ते दयान्ते विदन्’ इति श्रीयामुनमुनयः । दान्तविवरणं विमलमनस इति । विष्णुकान्तेति वैष्णवाध्वनयनसामर्थ्यद्योतनम् ॥
॥ मूलं ॥ जाताकाङ्क्षा जननि युवयोरेकसेवाधिकारे मायालीढं विभवमखिलं मन्यमानास्तृणा । प्रीत्यै विष्णोस्तव च कृतिनः प्रीतिमन्तो भजन्ते वेलाभङ्गप्रशमनफलं वैदिकं धर्मसेतुम् ॥ १९
॥ व्या॥ एवमैहिकामुष्मिक सकलफलप्रदत्वमुक्त्वा एतावदखिलमपि प्राकृतफलं तृणीकृत्य अविद्यातरमरूपसंसारनिवृत्तिकानामनामपि विहाय श्रीमन्नारायणसेवामेवाधिकृत्य अनन्यप्रयोजनाः भगवच्चरणैकशरणाः यो नित्यमच्युतपदाम्बुजयुग्मरुक्मव्यामोहतस्तदितराणि तृणायमेने इति प्रसिद्धाः भगवद्रामानुजार्यादयः तेषामपि देहपतनानन्तरभाविनिरन्तरकैङ्कर्यशृंखलितमिह यावज्जीवं नित्य नैमित्तिकात्मककैङ्कर्यं स्वप्रीतिफलकतया स्वयमेव लक्ष्मीतन्त्रे सलङ्ग्रहाय च लोकानां मर्यादास्थापनाय च। प्रियाय मम विष्णोश्च देवदेवस्य शार्ङ्गिणः । मनीषीवैदिकाचारं मनसापि न लङ्घयेदिति निर्दिष्टवती भवती, फलकामा मुमुक्षवोपि सर्वधर्मत्यागेन विश्येयुरिति धर्मसेतुं करुमया व्यवस्थापितवीत्याह जाताकाङ्क्षति (हे जननि युवयोरेकसेवाधिकारे) एकसेवाविशिष्टसेव स एव अधिकारः फलम्-तत्र (जाताकाङ्क्षाः) जातस्पृहाः (मायालीढम् ) मायया प्रकृत्या लीढं सम्बद्धम् “मायान्तु प्रकृतिं विद्यात् मायिनं तु महेश्वरमिति हि श्रुतिः । (अखिलं विभवम् ) ऐश्वर्यम्) (तृणाय मन्यमानाः) तृणमिव नाद्रियमाणाः मन्यकर्मण्यनादर इति चतुर्थी ( विष्णोस्तव च प्रीत्यै वेलाभङ्गप्रशमनफलम्) शास्त्रीयमर्यादातिलङ्घननिरासकप्रयोजनकं (वैदिकम् ) श्रुतिस्मृत्यादिविहितम् (धर्मसेतुम् ) धर्म एव सेतुः तम् (प्रीतिमन्तः भजन्ते ) संश्रयन्ते । धर्स्थापि देशान्तरप्रापकत्वात् सेतुत्वनिरूपणम्।
[[292]]
தமிழ்ப்பதவுரை
அவதாரிகை: கைவல்யமளிப்பவளென்றார். கீழ் மோக்ஷம் அளிக்கும்படியை ஒரு
ப்ரபந்நாதிகாரியினுடைய அனுஷ்டானமுகமாகவருளிச் செய்கிறார். என்பதால். பதம் हे जननि युवयोः एकसेवाधिकारे जाताकाङ्क्षाः मायालीढम् अखिलं विभवम् तृणाय मन्यमानाः कृतिनः तव विष्णोश्च प्रीत्यै वैदिकम् धर्मसेतुम् वेलाभङ्गप्रशमनफलम् भजन्ते உரை ஏ தாயே உங்களுடைய சேர்த்தியில் ஸேவித்துக் கொள்ளுகையில் ஆசையுடையவர் ப்ரக்ருதியால் மொய்த்த எல்லா ஐச்வர்யத்தையும் புல்லுக்கொப்பாக எண்ணமுடையவரான ப்ரபன்னவர்கள் உம்முடையவும் பெருமாளுடையவும் உவப்பின் பொருட்டு வேதத்தில் சொல்லப்பட்ட ஸமயாசாரமாகிற அணையை எல்லைக் கடத்திலில்லாமையையே பலமாக அடைகிறார்கள்.
உங்களிருவருடைய சேர்த்தியில் கைங்கர்யத்தையே விரும்பி கைவல்யம் வரையில் புல்லாக நினைத்து ப்ரபன்னர் இருந்த நாட்செய்யும் வர்ணாச்ரமாசாரங்களை ஆக்ஞாகைங்கர்யமாக நினைத்துவரை தவறாமல் செய்கிறார்களென்று அருளிச் செய்தாரென்று கருத்து.
[[293]]
॥ श्री देशिकस्तोत्राणि चतुर्थो भागः ॥
(ए. वि. गो. व्या)ः दयालम्बनकथने न प्रपदनं सूचितम् । प्रपत्त्यनन्तरदशा वर्ण्यते । दुरितनिवहस्य दूरीकरणमुक्तम् । न तावता नित्यकर्महानिरित्युच्यते ॥
जननि । प्रपदनेन सत्त्वे संपादिते इदानीमेव तव पुत्रोऽहं जात इति द्योत्यते ॥
युवरोरेकसेवाधिकारे जाताकाङ्क्षाः । युवयोः सेवाकाङ्क्षायां जातायां त्वं जननी भवसि । सेवाकाङ्गाजन्मना वास्तवं जन्म प्रजानाम् । सेवाया अधिकारत्वेनादरणं तस्या नीचवृत्तित्त्वदुःखहेतुत्वादिनिरासाय । स्वतो रुचिविषया स्वरूपस्य परमानुकूला सेवा। 1
मायालीढं विभवमखिलं मन्यमानास्तृणाय । ‘अच्युतपदाम्बुजयुग्मरुक्मव्या मोहतस्तदितराणि तृणाय मेने’ इतिवदत्रानुभवः । एकसेवाधिकार इत्येकपदेन न वित्तादि सेवान्विष्यत इति द्योत्यते । तद्भावविवरणं द्वितीयपादेन । मायालीढं विभवमिति शुनालीढ पुरोडाशवद्दूरतः क्षेपणीयत्वस्य व्यञ्जनमालीढशब्देन । ‘न च सुखमशेषाभिलषितम्; नान्यत्किमपि तव शेषत्वविभवाद्बहिर्भूतं नाथ क्षणमपि सहे’ इत्यस्य स्मारणमिव । तव शेषत्वविभवाद्वहिर्भूतविभवस्य नानिष्टता ॥
प्रीत्यै विष्णोस्तव च कृतिनः प्रीतिमन्तो भजन्ते । परस्परं प्रीयमाणत्वम् । ‘प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः ।’ कृतिन इति कृतकृत्यत्वमुच्यते । कृतिन इति कर्मनिष्ठत्वमप्युच्यते । कर्मिणो न कर्मत्यागिनः । ‘अस्या मम च शेषं हि ’ इति वचनानुरोधेन शेषिद्वयस्य पृथक्पृथङ्गिर्देशः । प्रीतिमन्त इति मतुपा प्रीत्यनपायद्योतनम् । प्रीतिमन्त इति कर्मानुष्ठाने भोग्यताबुद्धिमन्त इति च ॥
वेलाभङ्गप्रशमनफलं वैदिकं धर्मसेतुम् । आज्ञासेतुरनुपाल्यते । लोकानामसंभेदाय धर्मसेतुर्निबद्धः । तद्भङ्गे उद्वेलं जगत्कदर्थ्येत ॥
॥ मूलं
॥ सेवे देवि त्रिदशमहिलामौलिमालाचितन्ते सिद्धक्षेत्रं शमितविपदां सम्पदां पादपद्म । यस्मिन्नीषत्रमितशिरसो यापयित्वा शरीरं वर्तिष्यन्ते वितमसिपदे वासुदेवस्य धन्याः ॥ २०
[[294]]
॥ श्रीस्तुतिः ॥
॥ व्या॥ अथ स्वरूपरूपगुणविशिष्टतया सर्वेश्वरीभावेन च देवीमुपपाद्य सर्वरक्षणसामर्थ्य कारुण्याभ्यां शरण्यत्वं निश्चित्य प्रथमश्लोक एव पुरुषकारतया तस्याश्शरणागतमनुष्ठास्यन् भगवति युवां दैवतं दम्पती नः इति उपायशरणागतेरात्मरक्षाभरसमर्पणात्मिकायाः अंशभूतस्वरूपसमर्पणसम्प्रदानादेवतात्वमुभयवृत्तीति वचनेन स्वात्मस्वरूपसमर्पणं दर्शयित्वा रक्षाभरसमर्पणमपि तदुभयसम्प्रदानकमिति मन्यमानो विशिष्टान्तः प्रविष्टश्रीशरणागतिमनुतिष्ठति । सेव इति । न्यासतिलके " अनादेर्निस्सीम्न इति श्लोके पुरुषाकारशरणागतिं लक्ष्मीतन्त्रे मामेकान्देवदेवस्य महिषीं शरणं व्रजेदिति विहितां भगन्नारायणेति भाष्यकारानुष्ठितां स्वयमप्यनुष्ठाय गद्यान्ते तदनुष्ठइतां श्रीमन्नारायणायेति विशिष्टशरणागतिमपि महेन्द्राग्नाविष्णविति द्वितीयश्लोके “प्रपत्तव्ये तत्वे परिणमितवैशिष्ट्यविभवां श्रियं शीतापाङ्गमहमशरणो यामि शरणमिति विशेषेणभूत श्रीगोचरामपि अन्वतिष्ठन्नाचार्या इति अत्रापि तन्न्यायो द्रष्टव्यः । (हे देवि शमितविपदाम् ) शमिताः विपदो यासु (सम्पदाम् ) ऐश्वर्याणाम् (सिद्धिक्षेत्रम्) उत्पत्तिभूमिम् अनिष्टनिवृत्तीष्टप्राप्त्योरुत्पत्तिभूमिमित्यर्थः (त्रिदशमहिलामौलिमालाचितम्) देवस्त्रीमौलिगतमालाभिः अर्चितम् पूजितम् एतेन देव्याः परत्वं सूचितम् (ते पादयुग्मम् (पद्मम्) सेवे) उपायतया सेवे शरणं प्रपद्य इत्यर्थः शिरसा सेव इति वाऽर्थः । अत एवास्य शिसा सेवनस्य मोक्षसाधनत्वमस्तीत्याहयस्मिन्नित्यादि यस्मिन्) पादपद्ये (युग्मे) (ईषत्) अष्टाङ्गद्वादशाङ्गादिप्रणामलक्षणपर्यायेण यथा तथा वापि सकृत्कृतोऽञ्जलिरिति न्यायेन अमनस्कतया कृतमपि शिरोनमनं मोक्षाय कल्पत इति भावः। (श्रनमितशिरसः) पित्रादिना नमितं शिरो येषान्ते भक्त्या स्वेच्छयापि नमितशिरसां किमु वक्तव्यमिति भावः । एतेन आचार्यनिष्ठारूपाऽपि प्रपत्तिस्सूचिता । ( धन्याः) परिपक्वसुकृताः (शरीरं यापयित्वा) एतद्देहावसान इति क्रोडीकारात् । तदेव शरीरं चरिमतियेकवचनाभिप्रायः अभ्युपगतप्रारब्धकर्मानुभवेन । ( वासुदेवस्य वितमसि ) विगतप्रकृतिसम्बन्धे अक्षरन्तमसि लीयते इति तमश्शब्दो हि प्रकृतौ प्रसिद्धः । तमोगुमरहित इति वार्थः । शुद्धसत्त्वरूप इत्याशयः । (पदे) परमपदे (वर्तिष्यन्ते) यावत्कालतत्वमिति शेषः । न पुनरावर्तन्त इति भावः ।.
தமிழ்ப்பதவுரை
அவதாரிகை: மோக்ஷமளிப்பதற்குண்டான அதிகாரிக்ருத்யத்தையும் அவன் பெறும் பேற்றையும் தன்னுடைய அனுஷ்டானமுகமாகவருளிச் செய்கிறார். a என்பதால்.
[[295]]
॥ श्री देशिकस्तोत्राणि चतुर्थो भागः ॥
பதம் हे देवि त्रिदशमहिला मौलिमाला अर्चितम् शमितविपदाम् உரை ஏ தாயே தேவஸ்த்ரீகளுடைய மயிர்முடியிலணிந்த பூமாலையினால் அர்ச்சிக்கப் பட்டவும் ஆபத்துக்கலசாததான सम्पदाम् सिद्धिक्षेत्रम् ते पादपद्मम् ஐச்வர்யங்களுக்கு இருப்பிடமுமான உமது திருவடித் தாமரையை सेवे यस्मिन् ईषन्नमितशिरसः வணங்குகிறேன் யாதொரு திருவடிகளில் கொஞ்சம் தலைவணங்கினவர் (சரணாகதரென்றபடி)
பெறப் புகுகின்ற பேற்றின் கனத்தையும் அனுஷ்டிக்கிற உபாயத்தையும் பார்த்து இது அற்பமானதைப் பற்றி $வு என்றார்.
शरीरम्
यापयित्वा
वासुदेवस्य
கர்மானுகுணமான சரீரத்தை
वितमसिपदे
பரவாஸுதேவனுடைய
वर्तिष्यन्ते
(ஆகையாலே) க்ருதக்ருத்யரானார்.
கழித்து
சுத்தஸத்துவஸ்தானத்திலே
நித்யவாஸம் பண்ணுகிறார்.
ஏ தாயே தேவஸ்த்ரீ கேசபாசாலங்காரமான உமது திருவடிகளில் மோக்ஷார்த்தமாகச் சரணாகதி பண்ணி க்ருதக்ருத்யரான ப்ரபன்னர் இருந்த நாளில் கர்மாதீனமாக வருகிற பயன்களையனுபவித்துக் குறிப்பிட்ட நாளில் சரீரத்தை விட்டு அர்ச்சிராதிகதியால்
[[296]]
॥ श्रीस्तुतिः ॥
ப்ரக்ருதியை நீக்கி அப்ராக்ருதமான பரமபதத்தில் பரமபதநாதனுடைய கைங்கர்யஸாம்ராஜ்யமடைந்து வாழ்வரென்று கருத்து.
(ए. वि. गो. व्या )ः चरणकमलसेवया परप्राप्तिरुच्यते । ‘कृष्णप्रणामी न पुनर्भवाय’ इत्युक्तम् । ‘जगन्मातृ पदपद्मे प्रणमितो न पुनर्भवाय’ इत्यत्र वैलक्षण्यमुच्यत इव । ‘नामान्यावर्तयन्तो नावर्तन्ते जन्मचक्रे’ इत्युक्तम् । कुत्र ते वर्तेरन्निति पृष्टे उच्यते वासुदेवस्य वितमसि पद इति ॥
न केवलं मुखेस्मितम् । पार्श्वयोरपि स्मितं भवति तामरैर्वीज्यमानैः ।
देवि । ‘देवि! दिव्यं पदं वा ‘, ’ तव भूमा’ इत्युक्तं स्मार्यतेऽनेन संबोधनेन ॥ त्रिदशमहिलामौलिमालार्चितम् । न पुष्पमालाभिरर्चनं चरणयोः; किं तु मौलि मालाभिरर्चनम् ॥
शमितविपदां संपदां सिद्धिक्षेत्रं ते पादपद्मम् । ‘विपदो नैव विपदः संपदो नैव संपदः । विपद्विस्मरणं विष्णोः संपत्तस्यैव संस्मृतिः ॥’ शमितविपत्संपन्मुख्या संपत् । इतरसंपदाममुख्यत्वेनानुषङ्गिकत्वेन ग्रहणम् । पद्मशब्देन निधित्वबोधनम् । पद्मनिधेः क्षेत्रंशब्दसमभिव्याहारः ‘हिरण्यनिधिमक्षेत्रज्ञाः ’ इति श्रुतिं स्मारयति ।
यस्मिन्नीषन्नमितशिरसः । नमितत्वमात्रेणालम् । न प्रणामोऽपेक्ष्यते; यथा कृष्ण विषये । केवलनमितत्वम्, न नतत्वमपि । शिरस इति शिरोमात्रस्य नमितत्वमुच्यते औत्सर्गि कावधारणगर्भत्वाश्रयणेन । मनोबुद्ध्यभिमानेनेत्याद्यङ्गसप्तकनमनानपेक्षेति व्यज्यते । ‘शिरस्तत्रैव पञ्चमम्’ इति चरमस्य शिरसो नमितत्वेनालम् ॥
यापयित्वा शरीरम् । शरीरयात्रां निर्वर्तयित्वा ॥
वर्तिष्यन्ते वितमसि पदे वासुदेवस्य धन्याः । अस्य तत्र वर्तनेच्छा भवतु वा मा वा । प्रसभमयं तत्रातिवाह्यवर्तिष्यते । सर्वत्र णिजेव प्रयुज्यते । वासुदेवं निरवधिकवसुमन्त
[[297]]
॥ श्री देशिकस्तोत्राणि चतुर्थो भागः ॥
मपि धन्यं कुर्वन्तीमे । तद्वद्द्रव्य धनलम्भयितार इमे पद्मनिधिसेवितारः । निधिसिसेविषूणः धन्यत्वमुचितम् ॥
॥ मूलं ॥ सानुप्रासप्रकटितदयैस्सान्द्रवात्सल्यदिग्धैः अम्ब स्निग्धैरमृतलहरीलब्धब्रह्मचर्यैः । घर्मे तापत्रयविरचिते गाढतप्तं क्षणं माम् आकिञ्चन्यग्लपितमनघैराद्रि ( र्द्र ) येथाः कटाक्षैः ॥ २१
॥ व्या॥ एवं क्रियमाणायः प्रपत्तेरधिकारं आकिञ्चन्यरूपकार्पण्यगोप्तृत्ववरणाद्यङ्गपौष्कल्यं च दर्शयति, सानुप्रासेति (सानुप्रासप्रकटितदयैः) अनुप्रासेन - आवृत्त्या सहितम्। पौनःपुन्येन सहितं यथा भवति तथा। प्रकटिता प्रकाशिता दया- निरुपाधिकपरदुःखप्रहाणेच्छा यैः यद्यपि अनुप्रासो वर्णावृत्तिवाची तथाप्यावृत्तिमात्रेऽपि उपचारेण । वितरतु भवतां वीप्सयाऽभीप्सितानीतियादौ वीप्सा शब्दवद्वर्तत इति ज्ञेयम्। (सान्द्रवात्सल्यदिग्धैः) सान्द्रं निरन्तरञ्च तत् वात्सल्यं च दोषादर्शित्वम् वत्सलायाः धेनोर्वत्सगोचरप्रेमवत् देव्याश्चास्मासु यत्तादृशं प्रेमास्तितदेव वात्सल्यशब्दार्थः । तत्कार्यत्वाद्दोषादर्शित्वस्य, तेन दिग्धैः आलिप्तैः वात्सल्ये चन्दनक्रूपरद्रव्यादिशीतलद्रव्यसादृश्यमनेन द्येतितम्। (स्निग्धैः) स्नेहयुक्तैः पुत्रमित्रादिगोचरः प्रणयो हि स्नेहतया व्यपदिश्यते। (अमृतलहरी लब्धब्रह्मचर्यैः) सुधाप्रवाहेम समं लब्धं सब्रह्मचर्यं यैः आत्मोज्जीवनविद्याभ्यासे समानब्रह्मचारित्वमिति भावः । (अनघैः) उपेक्षारूपाघगन्धरहितैः (कटाक्षैः) नेत्रान्तवीक्षणैः) (तापत्रयविरचिते) आध्यात्मिकादितापत्रयविहिते (घर्मे) ऊष्मणि ( गदातप्तम्) दृढतापयुक्तम् (ईकिञ अचन्यम्लपितम्) आकिञ्चन्येनोपायान्तरदारिद्र्यरूपेम ग्लपितम् (मां आर्द्रयेथाः) आर्द्र कुरु । यथा तापत्रयादिपीडा शाम्यति तथा विलोकयेत्यर्थः । आद्रियेथा इति पाठे तु कटाक्षैराद्रियस्व इति, यथा तापत्रयं व्यपैति तथाऽद्रियेथा इत्यर्थः घर्मतप्तस्य यथाऽमृतवर्षेण तापशान्तिस्तद्विदिति उपमालङ्कार ध्वनिः । आकिञ्चन्यम्लपितमित्यधिकारसूचनम् घर्मे तापत्रयविरचित इत्यादिना कार्पण्यव्यञ्जनम्, आद्रियेथा इति गोप्तृत्ववरणस्फूर्तिः । अम्बेति सम्बुध्यात् दया वातस्ल्यादिकीर्तनेन महाविश्वासोऽपि स्वस्यास्तीति द्योत्यते। एवमानुकूल्यसङ्कल्पप्रातिकूल्यवर्जनयोरप्यर्थसिद्धत्वं ज्ञेयम् । एवं पञ्चाङ्गपौष्कल्यमाविष्कृतम् ।
[[298]]
தமிழ்ப்பதவுரை
அவதாரிகை: உபாயாநுஷ்டாநதசையில் ப்ரார்தனீயமான தயையை அருளிச்
செய்கிறார் HH என்பதால்.
பதம்
हे अम्ब
உரை
सानुप्रासप्रकटितदयैः
सान्द्रवात्सल्यदिग्धैः
3À:
fare:
अमृतलहरीलब्धसब्रह्मचर्यैः
क्षणम्
तापत्रयविरचिते
ஏ தாயே
அடிக்கடி வெளிக்காட்டாநின்ற
க்ருபையையுடையவரும்
குற்றம்பாராமை என்கிற வாத்ஸல்யம்
நெருங்கினவும்
உபேக்ஷைகலசாதனவும்
இடைவிடாமல் ஸ்நேஹமுடையனவும்
அமுதப் பெருக்கு நிகராநவுமான
ப்ரஹ்மசர்யங்களால்
கொஞ்சம்
கடைநோக்குகளால்
மூன்று தாபங்களாலுண்டான (ஆத்யாத்மிக மென்றும் ஆத்பௌதிகமென்றும்
ஆதிதைவிகமென்றும் மூன்று தாபங்களால்
घर्मे गाढतप्तम् आकिञ्चन्यग्लपितम् माम् आर्द्रयेथाः
என்றபடி
வெய்யிலில்
மிகவும் தபிக்கப்பட்ட
உபாயாந்தரமில்லாமல் வாடின
என்னை
நனைக்கவேணும்
- [[299]]
20 20
॥ श्री देशिकस्तोत्राणि चतुर्थो भागः ॥
கருத்து. ஏ தாயே தேவரீரைப் பெறுகைக்கு என் கையிலொரு கைமுதலில்லை. ஸம்ஸாரமாகிற வெய்யிலில் மிகவும் தபியானின்றேன். கருணைகூர்ந்த திருக்கடைக் கண்நோக்குகளாகிற அம்ருதவர்ஷத்தால் நனைந்து அடியேனைக் குளிரச் செய்ய வேணும் என்று தயையைப் ப்ரார்த்தித்தாராயிற்று. தயையில்லாவிடில் எந்த வுபாயமும் பயன்படாது, இத்தால் தயையின் ப்ராதான்யம் சொல்லித்தாயிற்று.
(ए. वि. गो. व्या )ः शरीरस्य यापनं भविष्यतीत्युक्तम् । ‘न ह वै सशरीरस्य सतः प्रियाप्रिययोरपहतिरस्ति’ इति सशरीरत्वे तापत्रयग्लपितत्वं स्यात् । सशरीरत्वे तापत्रयनिर्वापणमासेचनकैस्त्वत्कटाक्षैराप्यायनेन भवतीत्युच्यते । ‘एष ब्रह्म प्रविष्टोऽस्मि ग्रीष्मे शीतमिव हृदम्’ इति ब्रह्मप्रवेशे संसारग्रीष्मतापनिर्वापणम्, आर्दीभवनं च भवेत् । दूरतः स्थितानप्यमृतवर्षुकैर्वात्सल्यनिर्भरैर्दयाशीतलैः कटाक्षैरार्द्रं सिञ्चति, स्नपयति च मातेत्युच्यते ॥
सानुप्रासप्रकटितदयैः । सानुप्रासशब्देन मास्मिंस्तवदया प्रसरत्विति निषिद्धाऽपि दृढं दयत इति द्योत्यते । प्रकटास्या दया । न पितुरिव निगूढा ॥
सान्द्रवात्सल्यदिग्धैरम्ब । मातृत्वरूपसंबन्धोऽत्र सहजं निमित्तमिति द्योत्यते वात्सल्य शब्देन । अम्बेति तस्यैव स्पष्टकथनम् ॥
स्निग्धैरमृतलहरीलब्धसब्रह्मचर्यैः । अमृतेन सह जातेयममृतसहजा । अमृतलह रीभिः सहजाभिः सब्रह्मचर्यमुचितम् । उभयोरेका विद्या; एकः स्वभावः ॥
अनघैः कटाक्षैः । पापहराः कटाक्षाः । न कदापि कोपकलुषिताः ।
घर्मे तापत्रयविरचिते । ग्रीष्मशब्दभावविवरणम् । मनसिजप्रसरस्यापि ग्रीष्मवत्ताप कत्वं महाकविसंमतम् । ‘समस्तापः कामं मनसिजनिदाघप्रसरयोः’ इति तदुक्तिः ॥
गाढतप्तं मामाकिंचन्यग्लपितमार्द्रयेथाः । आर्द्रीकुरुष्व माम् । ‘पानीयशालं मरुभूषु तत्स्यात्’ । तप्तस्यैवार्द्रीकरणं न्याय्यम् ॥
[[300]]
॥ श्रीस्तुतिः ॥
॥ मूलं ॥
सम्पद्यन्ते भवभयतमी (भस्वत) भानवस्त्वत्प्रसादात् भावास्सर्वे भगवति हरौ भक्तिमुद्वेलयन्तः । याचे किं त्वामहिमहिह यतश्शीतळोदारशीला भूयो भूयो दिशसि महतां मङ्गळानां प्रबन्धान् ॥
[[२२]]
॥ व्या॥ अथोपायानुष्ठानादूर्ध्वं मम प्रार्थनीयं न किञ्चिदस्ति मोक्षसाधनस्य प्रपदनस्यानुष्ठितत्वात् नापि भक्तिः प्रार्थनीया साधनभक्तेरनार्जनीयत्वात् स्वयं प्रयोजनभूता भक्तिस्तु त्वत्प्रसादादेव सिद्धा, यावज्जीवमिह वृत्त्यर्थं धनादि कञ्चन प्रार्थनीयमित्याह - संपद्यन्त इति ( भवभयतमीभास्वान्) संसार भयरात्रसूर्य इत्यर्थः तस्मात् (त्वत्प्रसादात् ) उपायानुष्ठानान्तरभाविनः तव प्रसादात् (सर्वे भावा-) अभिप्रायाः सर्वामनोवृत्त्य इत्यर्थः । (हरौ भक्तिमुद्वेलयन्तः) उन्मर्यादयन्तः (सम्पद्यन्ते) यद्वा (भङावाः) भगवच्छरीरतयाप्रतिसंधीयमानाः पदार्थास्सर्वेपि (त्वत्प्रसादात्) हरौ भक्तिं उद्वेलयन्तस्सम्पद्यन्ते) उत्तरंगयन्तीत्यर्थः । भवभयतमीभानव इति पाठे तु ( त्वत्प्रसादात् सर्वे) पदार्थाः (भ्कतिमुद्वेलयन्तः भवभयतमीभानवस्सम्पद्यन्ते) अतो भक्तिप्रार्थनमपि न मया कर्तव्यमित्यर्थः । (अहमिह) जीवनार्थं (त्वाम्) धनादिकं (किं याचे) किमर्थं याचे (यतः ) यस्मात् (शीतळोदारशीला) शीतलं दयाशीतलं उदारं सकलार्थप्रदं शीलं स्वभावः यस्याः सा ( महतां मङ्गलानां प्रबन्धान् ) समूहान् (भूयो भूयः) पुनः पुनः (दिशसि) ददासि वृत्त्यर्थमपेक्षितानि वसूनि विहितानां कर्मणां शक्यानामाचरणं निषिद्धेभ्यः परनिन्दापरद्रव्यादिहरणादिभ्यो वैमुख्यम्, भगवद्भागवतकैङ्कर्याणि, पाञ्चकालिकमर्यादयानुष्ठआनम्, व्याध्यादिना प्रतिबन्धाभावः, इत्यादीनि महान्ति मङ्गलानि ददासि, चरमदशायां अन्तिमस्मरणसुषउम्णा प्रवेशार्चिरादिगमनविरजातरणमानवस्पर्शनभगवत्प्राप्त्यन्तानि महान्ति मङ्गलानि च तत्तदवसरेषु स्वयमेव करिष्यसि तस्मान्न किञ्चिदहं प्रार्थय इत्याशयः ।
தமிழ்ப்பதவுரை
அவதாரிகை: இப்படி உபாயமநுஷ்டித்த பிறகு வேண்டுமவையொன்றுமில்லையென்றருளிச் செய்கிறார் யு என்பதால்.
பதம் भवभयतमीभास्वतः
உரை
ஸம்ஸாரபீதியாகிறஇராத்திரிக்கு ஸூர்யோயம்
போன்றவையும்
त्वत्प्रसादात्
உமது அனுக்ரஹத்தாலே
-301
भगवति हरौ भक्तिम् उद्वेलयन्तः सर्वे भावाः सम्पद्यन्ते इह ॥ श्री देशिकस्तोत्राणि चतुर्थो भागः ॥ பெருமாளிடத்தில் பக்திஞானங்களை கரைபுரளச் செய்யுமவையான எல்லா வேண்டற்பாடும் பெருகாநின்றன இங்கிப்படிச்சிந்திக்கும் பொழுது அடியேன் अहम् त्वाम् किं याचे (त्वम् यतः தேவரீரை எதை யாசிப்பேன். Couffii) யாதொரு காரணததினால் महतां मङ्गळानाम् प्रबन्धान् भूयो भूयः दिशसि மிக்க க்ஷேமங்களுடைய வரிசைகளை அடிக்கடி கொடுக்கிறீரோ
கருத்து. ப்ரபத்திக்குப் பிறகு இருந்தநாளில் பகவத்பக்தி முதலியவை வேணுமே, அவற்றை ப்ரார்த்தி வேண்டாவோவென்னில் அவற்றையும்தயாநிதியான நீரே ஆனுஷங்கிகமாக அளிப்பதால் ஒன்றும் யாசிக்கவேண்டுவதில்லையென்றபடி.
(ए. वि. गो. व्या )ः आद्रियेथाः कटाक्षैरिति किमर्थं मया प्रार्थ्यते ? मत्प्रार्थनायाः पूर्वमेव त्वं स्वयं सहजौदार्यान्मङ्गलपरम्पराः प्रदिशसि । ‘अप्रार्थितो न गोपायेत्’ इति निषेधं माता त्वं न गणयसि । अनिष्टनिवृत्तिरुक्ता । इष्टप्राप्तिरुच्यते ॥
त्वत्प्रसादात् । त्वदनुप्रहात् ॥
त्वत्प्रसादात्संपद्यन्ते भवभयतमोभानवः । संसारभयरूपान्धतमसो निरासकाः सूर्या भवन्ति । तमीभास्वतस्त्वत्प्रसादादिति वा पाठः । संसाररजनीप्रभातं भवति त्वदनुग्रहेण । त्वदनुग्रहसङ्कल्पसूर्योदयः ॥
[[302]]
॥ श्रीस्तुतिः ॥
भगवति भावाः सर्वे हरौ भक्तिमुद्वेलयन्तः । वेदान्तज्ञानस्य, वेदान्तव्युत्पत्तेश्च पूर्णत्वात्सर्वमैन्द्रियकं ज्ञानं पर्यवसानभूमानं परमात्मानमनुभावयति । सर्वे भावाः पदार्थाः परमशरीरिणंमनुभावयित्वा तस्मिन्नुद्वेलां भक्तिमुत्पादयन्ति । भगवतीति संबोधनं वा । हरिविशेषणं वा ॥
I भवभयतमोभानवः संपद्यन्ते । सर्वेपदर्थास्त्वत्कृपया संसारभयरूपतमोनिरासक सूर्याः संपद्यन्ते ॥ संसार एष भगवन्नपवर्ग एव ।’ तमः एव स्वनिरासकभानुर्भवति ॥
I किं त्वामहमिह याचे । यद्यपि त्वत्पादभक्तेर्याचने न दोषः, न तस्यावकाशोऽस्ति । याचनात्पूर्वमेव स्वयं त्वया वितीर्णत्वात् ॥
यतः शीतलोदारशीला । हरिरिति ’ ताच्छील्येणिनिः’ इति शाब्दिकाः । दुःखहरणशील इति हरिशब्दार्थः । त्वं खलु शीतलोदारशीला । त्वद्वशत्वात्तु खलु हरिर्हरिर्भवति । ‘आर्द्रा पुष्करिणीम् ’ इति तद्विषये पठ्यते । उदारामिति च ॥
भूयो भूयो दिशसि महतां मङ्गलानां प्रबन्धान् । मङ्गलानामभ्यासो वीप्सा चात्र । भूयो भूयः स्वयं त्वं दिशसि । ’ लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम्’ इति भूयो भूयो नतिः क्रियते सकृदेवेति वदतो रामस्य विषये । त्वं तु स्वयं भूयो भूयो मङ्गलानि वितरसि । मङ्गलानामिति बहुवचनेनाप्यपरितोषः । तेषां प्रबन्धाः परम्पराः प्रदिश्यन्ते । मङ्गलानि च महान्ति न न्यूनानि । ‘कृतस्वस्त्ययनं मात्रा’, ‘चकार माता रामस्य मङ्गलानि मनस्विनी’ इति मातृस्वभावः ॥
॥ मूलं
॥ माता देवि त्वमसि भगवान्वासुदेवः पिता मे जातस्सोहं जननि युवयोरेकलक्ष्यं दयायाः । दत्तोयुष्मत्परिजनतया देशिकैरप्यतस्त्वं किन्ते भूयः प्रियमिति किल स्मेरवक्त्रा विभासि ॥
[[२३]]
[[303]]
॥ श्री देशिकस्तोत्राणि चतुर्थो भागः ॥
व्या ॥ तर्हि किमन्यत्तव प्रियमिति देव्याः प्रश्नमुत्प्रेक्ष्य प्रत्युत्तरमाह, मातेति (हे कमले त्वं मे माता असि, वासुदेवः पिता सः) तादृशानादि तापत्रयातुरः ( अहं युवयोः दयायाः एकलक्ष्यं जातः) युवयोरेकदयापात्रमस्मीत्यर्थः । अनादी संसारे तापत्रयातुरं मामलोक्य भवतोर्दयोदयात् ईश्वरस्य च सौहार्दं यदृच्छासुकृतन्तथा। विष्णोः कटाक्षमद्वेषामाभिमुख्यं च सात्विकैः । सम्भाषणं षडेतानि ह्याचार्यप्राप्तिहेतवः॥ इति पूर्णो देशिकानुपसन्नोस्मि, दैशिकैश्च त्वत्परिजनतया दत्तोस्मीत्याह दत्त इति (देशिकैरपि युष्मत्परिजनतया ) युवयोः किङ्करतया (दत्तः) अतो मत्प्रसादान्मोक्षार्थशरणागतिरपि तेन सिद्धा ( किन्ते भूयः प्रियं) त्वदभिप्रायस्थितं वाञ्छितं (इति स्मेरवता ) अन्तः स्मितमुखी (विभासि) द्योतसे ॥
*** தமிழ்ப்பதவுரை
அவதாரிகை: இப்படித் தம்முடைய பாரமைகாந்த்யத்தப் பார்த்து ஸ்ரீதேவி திருமுகமண்டலம் மலர்த்தியருள அதை தம்பக்கல் செய்த உபகாரபரம்பரைகளைச் சொல்லி இன்னும் வேண்டுவதென்னென்று மலர்ந்ததாகத்திருவுள்ளம் பற்றி அருளிச் செய்கிறார் HIGT என்பதால்
பதம் हे देवि உரை ஏ தாயே त्वम् தேவரீர் मे माताऽसि भगवान् वासुदेवः पिता सोऽहम् युवयोः दयायाः एकलक्ष्यम् அடியேனுக்கு தாயாகிறீர் பெரிய பெருமாள் தகப்பனாகிறார் அப்படிப்பட்ட நான் உங்களிருவருடைய அருளுக்கு
முக்யகுறிப்பாக
[[304]]
जातः युष्मत्परिजनतया दैशिकैः दत्तः ते भूयः किं प्रियम् इति किल स्मेरवक्त्रा विभासि ॥ श्रीस्तुतिः ॥ ஆனேன் உன் கிங்கரனாகைக்கு ஆசார்யர்களால் பரஸமர்பணம் பண்ணப்பட்டேன் தேவரீருக்கு பின்னும் என்னவாசை என்று சொல்வது போல மலர்ந்தமுகமுடையவளாய் விளங்குகிறீர்
அஸத்கல்பானானவடியேனை பிறவியுணர்த்தி தத்வக்ஞானத்தினை பிறப்பித்து ஆசார்யனிடம் சேர்ப்பித்து . ஸ்வரூபானுரூபமான மோக்ஷத்தில் த்வரையையுண்டாக்கி அதற்காக ஆசார்யர்களையிட்டு பரஸமர்பணம் செய்வித்து நான் இசைந்த விளம்பத்துக்கு நொந்தும் உவந்தருளி மேல் உத்தகார்யங்களைச் செய்தருளியிடமை கொள்ள ஸித்தமாயிராநின்றீர். இதற்குமேல் வேண்டுவது ஒன்றுமில்லையே.. அறிந்தீராகில் சொல்லுமென்று திருமுகம் மலர்ந்ததாகவருளிச் செய்தாரென்று கருத்து,
(ए. वि. गो. व्या)ः मङ्गलपरम्परावितरणरूपमातृस्वभाव उक्तः । अतस्त्वं मातैवेति सहेतुकं निश्चीयते । याचे किं त्वामित्यहं त्वां वदामि । तव किं ते भूयः प्रियमिति स्मितेन पृच्छसीव । मातापितरौ युवां दम्पतीत्यवसीयते । स्तोत्रे परिसमाप्यमाने स्मितमुदेति मातुर्मुखे ॥
देवि! माता त्वमसि ‘मातृदेवो भव’ इति श्रुतिः । अदेव्यपि माता देवी भवति, मातृत्वात् । तव देवीत्वे कः संशयः ? मातृभवनमतिदुष्करं सर्वं भवितुर्वासुदेवस्यापि । पिता भवेत्सः । न माता । त्वमेव माता । ‘वासुदेवः सर्वं’ इत्युत्सर्गः । मातृभावनाशक्तिस्तदप वादः ॥
[[305]]
॥ श्री देशिकस्तोत्राणि चतुर्थो भागः ॥
भगवान्वासुदेवः पिता मे । वासुदेवः सर्वम् । मातृव्यतिरिक्तसर्वं सः । वासुदेवो मे पिता । ’ त्वं माता सर्वलोकानां देवदेवो हरिः पिता’ इतीन्द्रः ॥
जातः सोऽहं जननि युवयोरेकलक्ष्यं दयायाः । योगिनां युवामेकलक्ष्यं समाधौ भवथः । अहं युवयोरेकलक्ष्यं भवामि । किमिदमाश्चर्यम् ? कृते प्रतिक्रियते कृतज्ञाभ्याम् । मम त्वद्दयालक्ष्यीभवनेन त्वं जननी भवस्यहमपि जातो भवामि । जातेन पुत्रेण मया त्वं जननी भवसि ।
दत्तो युष्मत्परिजनतया देशिकैरपि । मातापितरौ देवावुक्तौ । तद्दयाविषयत्वं चोक्तम्, तत्कृपाविषयत्वं चोच्यते । श्रुतिक्रमोऽत्रानुम्रियते । आत्मापहाररूपचौर्यमपहृतस्वस्य स्वामिनो प्रत्यर्पणाभावे न निवर्तेत । प्रत्यर्पणं च घटकैराचार्यैः क्रियते । न चोरेणैव । प्रत्यर्पणं च परिजनत्वेन । तद्दास्यमेव स्वरूपम् । ‘तव परिजनभावं कामये ।’ देशिकैर्दत्तोऽयं देशिकः । एवं मम समन्तसौभाग्यपूर्तिः ॥
अतस्त्वम् । एवं सिद्धेषु सर्वेषु मनोरथेषु ॥
किं ते भूयः प्रियमिति । किं मया तव भूयो देयमवशिष्यत इति पृच्छन्ती ॥ किल । इव ॥
स्मेरवक्त्र विभासि । स्मितेन विशेषतो भासि । श्रियोऽपि श्रीर्भवति स्मितेन । ‘कां सोऽस्मिताम् ’ इति स्मयमानत्वं श्रूयते ईषदुद्गतहासवती ॥
॥ मूलं
॥ कल्याणानामविकलनिधिः कापि कारुण्यसीमा नित्यामोदा निगमवचसां मौलिमन्दारमाला । (सम्पद्दिव्यामधुविजयिनस्सन्निधत्तां सदा मे सैषा देवी सकलभुवनप्रार्थनाकामधेनुः ॥ २४
[[306]]
॥ श्रीस्तुतिः ॥
॥ व्या ॥ एवं मत्प्राप्त्यर्थं त्वरा न कर्तव्या, मम सङ्कल्पात् भूतलेयदर्थमवतीर्णोऽसि तत्कार्यनिवृत्तिपर्यन्तमत्रैव श्रीरङ्गे सुखमास्व दुर्मतानि त्वया निरसनीयानि, मद्विषयकाः प्रबन्धाः भूयो भूः प्रवर्तनीयाः अतः क्षिप्रमवतारसमाप्तिकामनां विनाऽन्यत् प्रियमस्ति चेत् ब्रूहीति मातुः हृदयमालोच्य धर्मनित्ये महाबुद्धौ ब्रह्मण्ये सत्यवादिनि । प्रशिरिते दानशीले च सदैव निवसाम्यहमिति त्वदुक्तप्रकारेण त्वया यावदज्जीवमिहावस्थानेपि सन्निधातव्यमिति प्रार्थयते कल्यणानानामिति (कल्याणानाम्) मङ्गळानाम् (अविकलनिधिः कापि ) वाङ्मनसा नास्पदभूता (कारुण्यसीमा) कारुण्यभूमिः (नित्यामोदा) नित्यं सदा, आमोदः आनन्दो यस्यास्सा आश्रितानामोदोययेति वा (निगमवचसाम्) वेदवाचां (मौळिमन्दारमाला) मौलेः शिरसः मन्दारमाला मन्दारपुष्पमयी माला, वेदान्तप्रतिपाद्येत्यर्थः (मधुविजयिनः) विष्णोः (दिव्या सम्पत्) अतिशयिता सम्पत् (सकलभुवनप्रार्थनाकामधेनुः) भुवनशब्देन भुवस्थजना लक्षितताः सकलजनप्रार्थनाकामधेनुः प्रार्थनाशब्देन प्रार्थनाविषयो लक्ष्यते । तस्य कामधेनुः तत्प्रदाने कामधेनुरित्यर्थः। (सा) पूर्वोक्तकल्याणगुणाकरतया प्रसिद्धा ( एषा) एवं विधदिव्यमङ्गळविग्रहा ( देवी सदा मे) मह्यं (सन्निधत्ताम् ) सन्निधानं कतोत्विति प्रार्थना मातुस्सन्निधाने हि प्रजायाः पुष्टरिति भावः ।
தமிழ்ப்பதவுரை
அவதாரிகை: இப்படி உமது அபிப்ராயமாகில் நம்முடைய ப்ரஸாதத்துக்காக ஏதாவது வேண்டுமென்று ஸ்ரீரங்கநாயகி அருளிச் செய்ய தன்னிஷ்டத்தைக் கேட்டு நிகமிக்கிறார் कल्याणानाम् ढांढ
பதம் உரை कल्याणानाम् மங்களங்களுக்கு अविकलनिधिः நாசமுறா நிதியும் काऽपि வாசாமகோசரமஹிமையுடையவும் कारुण्यसीमा नित्यामोदा निगमवचसाम् मौळिमन्दारमाला தயைக்கு எல்லைநிலமாயும் நிலைநின்ற ஆநந்தமுடையவும் வேதவாக்குகளுடைய சிரஸ்ஸுக்கு கற்பகப் பூமாலை போன்றவும் 307
॥ श्री देशिकस्तोत्राणि चतुर्थो भागः ॥
मधुविजयिनः दिव्या सम्पत् सकलभुवनप्रार्थनाकामधेनुः सैषा देवी मे सदा सन्निधत्ताम् பெருமாளுடைய கலங்காப் பொருளாயும் எல்லா ஜனங்களுடைய எல்லா வேண்டுதலையும் அளிப்பதில் காமதேனு போன்றவும் அப்படிப் பட்ட இந்த ஸ்ரீ ரங்கநாயகி என்பொருட்டு எக்காலத்திலும் (கோயிலில்) நித்யவாஸம்பண்ணக் கடவள்
கருத்து. மங்களநிதியாயும் தயாவதியாயும் ஆநந்தநிலமாயும் மறைமுடிப் பூமாலையாயும் பெருமாளுடைய ஐச்வர்யம் பெருக்குமவளாயும் வேண்டும் வரமளிப்பவளாயும் இப்படி பெருமை பொருந்திய நீர் தர்மஸ்தாபநாதிகளுக்காக அவதாரஞ்செய்து கோயிலில் வாஸமுகந்தருளிற்று. இது பல்லாண்டு பல்லாண்டாகச் சொல்ல வேணும் அடியேனுக்கிரதுவே மஹாப்ரஸாதம் என்று முடித்தாராயிற்று.
(ए.वि. गो. व्या)ः उपक्रम श्लोकाभिरूप उपसंहार श्लोकः । यत्प्रतिज्ञातमाद्य श्लोके तद्विस्तरेण निरूपयित्वेदानीं तस्यैव निगमनं क्रियते ॥
कल्याणानामविकलनिधिः । हिरण्यनिधितौल्यं वर्ण्यते भगवतः । कल्याणपद परिग्रहे हिरण्यं मङ्गलमित्युभयमपि गृहीतं स्यात् । मङ्गलं मङ्गलानामित्युक्तमपि संगृह्यते । मङ्गलानां निधिभूतेयम् । अविकलनिधिरिति भगवतोऽपि वैलक्षण्यम् । अज्ञातनिग्रहेयं मङ्गलैकान्ता । पुरुषकारत्वरूपाकारोऽस्या अतिशयः ॥
कापि कारुण्यसीमा । कापीत्युभयत्रान्वेति । कारुण्यकाष्ठा ॥
नित्यामोदा । कारुण्यकाष्ठेत्युक्ते भृशं दुःखितत्वशङ्का जायेत । तद्वार्यते नित्यामोदवत्त्व कथनेन । नित्यानन्दघनेयम् । ‘नित्यानन्दा सदानन्दा ।’ नित्यामोदेति नित्यसौगन्ध्यवतीति वार्थः । तथा चोत्तरत्रान्वयो मालया । गन्धद्वारामिति सकलसौहगन्ध्यस्येयमेव द्वारभूता मूलभूता माला ॥
[[308]]
॥ श्रीस्तुतिः ॥
’ निगमवचसां मौलिमन्दारमाला। ‘पद्ममालिनी’, ‘हेममालिनी’ इति निगमशिरसो मालात्वेन लक्ष्मीं बिभ्रति । निगमवचसां नित्यपरिमलवती मौलिमालेयम् ॥
संपद्दिव्या मधुविजयिनः । प्रथम श्लोकद्वितीयपादोक्तमत्रापि भण्यते उपसंहारे । मधुविजयिनो वेदसंप्रदायप्रवर्तकस्येयमेव संपत्; सर्वविद्यामयत्वात् । ‘यज्ञविद्या, महाविद्या, आत्मविद्या’ इति सर्वविद्यारूपत्वमस्याः इत्युच्यत इन्द्रेण ।
संनिधत्तां सदा मे । सदा मम पुरतो भवतु ॥
सैषा देवी । संनिधानप्रार्थनाक्षणे संनिहिताऽग्रतो दृश्यते देवी। सैषेति निर्देशार्हा भवति ॥
सकलभुवनप्रार्थनाकामधेनुः । ‘प्रत्यक्षानुश्रविकमहिमप्रार्थिनीनां प्रजानां श्रेयो मूर्तिम्’ इत्युक्तस्य पुनः कीर्तनम् । ‘यथा तरुणवत्सा धेनुर्वत्सम् ’ इति श्रुतिः । भगवद्विषये तदुपचारमात्रं भवेत्; स्त्रीत्वाभावात् । इयं न केवलं धेनुः, किं तु कामधेनुः ॥
॥ मूलं
॥ उपचितगुरुभक्तेरुत्थिं वेङ्कटेशात् कलिकलुषनिवृत्त्यै कल्पमानं प्रजानाम् । सरसिजनिलयायाः स्तोत्रमेतत्पठन्तः सकलकुशलसीमा सार्वभौमा भवन्ति ॥ २५
इति कवितार्किकसिम्हस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु श्रीस्तुतिस्सम्पूर्णा ॥
- ॥ व्या॥ स्वग्रन्थस्य विश्वनीयत्वाय स्वनाम प्रकटयन् स्वकृतस्तोत्रपठनस्य फलमाह उपचितेति (उपचितगुरुभक्तेः) उपचिता - अभिवर्तिता गुरुभक्तिः येन तस्मात् (वेङ्कटेशात् उत्थितम् प्रजानाम्) जनानाम् (कलिकलुषनिवृत्त्यै) कलिना जनितः यः कलुषः - पापादिः तन्नाशाय (कल्पमानं एतत् सरसिजनिलयायाः कमलालयायाः (स्तोत्रं पठन्तः) पुरुषाः (सकलकुशलसीमाः ) अखिल मङ्गभूमयः (सार्वभौमाः) सर्वोत्कृष्टाः भवन्ति॥
[[309]]
॥ श्री देशिकस्तोत्राणि चतुर्थो भागः ॥
बालस्य मेऽग्रजो भ्राता पितामह इवापरः । सारज्ञस्सुन्दराचार्यः सम्प्रदायानुपादिशत् ॥
क इह निगमचूडाचार्यसूक्तौ निगूढं करबदरयितास्यान्मां विना साहसिक्यात् । निधिमिव जनानां यो निर्भयो वा तथापि प्रतिभुव इव यन्मे देशिका दर्शयन्तु ॥
॥ इति आत्रेयकुलतिलक श्रीवरदाचार्यस्य कृतिषु श्रीस्तुतिव्याख्या सम्पूर्णा ॥
அவதாரிகை: இப்படி ஸ்ரீஸ்துதியை அருளிச் செய்து இதையறியக் காற்று வல்லர் ஆயுநன்மக்களைப் பெற்று வாழ்வரே என்று முதலானது போல ஆனுஷங்கிகமாக ஸர்வலாபமும் கிடைக்குமென்கிறார் 3qfவு என்பதால்.
பதம்
उपचित
गुरुभक्तेः
வ்ருத்தி செய்யப்பட்ட
वेङ्कटेशात्
ஆசார்யபக்தியுடைய
उत्थितम्
வேங்கடேசனென்றும் திருநாமமுடைய
அடியேனிடத்தினின்றும்
प्रजानाम्
உரை
ஸ்ரீஸங்கல்பத்தால் வெளிப்புறப்படாநின்றவும்
ப்ராணிகளுடைய
कलिकलुषनिवृत्त्यै
வினைவிலக்குதலில்
कल्पमानम् सरसिजनिलयायाः
நற்றிறமையுடையவுமான
एतत् स्तोत्रम्
पठन्तः
பத்மவாஸினியினுடைய
இந்த ஸ்துதியை
குருமுகமாக ஸார்த்தமாக்கேட்டு
அனுஸந்திக்குமவர்கள் அல்லு கிளிபோல்
சொல்லுமவர்கள்
[[310]]
॥ श्रीस्तुतिः ॥ सकलकुशलसीमाः सार्वभौमाः भवन्ति எல்லா மங்களங்களுக்கும் எல்லை நிலங்களாகவும் சக்ரவர்த்திகளாகவும் ஆகிறார்கள்
இந்தஸ்துதியை அனுஸந்திப்பவர்கள் இஹபரஸௌக்யங்களை குறைவரிவனுபவிப்பார்-
கள் என்பது கருத்து.
गोपालतातदासेन श्रीवासुमुनिसेविना ।
लिखिता श्रीस्तुतिव्याख्या द्राविडी बालतोषिणी ॥
ஸ்ரீஸ்துதி பதவுரை முற்றிற்று.
(ए. वि. गो. व्या)ः उपचितगुरुभक्तेः । गुरुषु निरवधिकभक्तिं बिना श्रीतत्त्वविषयसूक्ष्मार्था दुर्ग्रहाः । यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ’ इत्युक्ता गुरुविषयपरभक्तिर्गृह्यते उपचितगुरुभक्तेरिति ॥
वेङ्कटेशादुत्थितम् । ‘स्तुतिरियमिन्द्रमुखोद्गता’ इतीन्द्रस्तुतिवर्णनं पराशरेण । अत्रोत्थितमिति । इन्द्रस्य मुखादुद्गता स्तुतिः । गुरुमुखादुत्थितेयं स्तुतिस्तद्विषयपर भक्तेरुत्थि तत्वादिति व्यज्यत इव ॥
प्रजानां कलिकलुषनिवृत्त्यै कल्पमानम् । प्रजानामितिपुनः पुनः स्तुतौ फलश्रुतौ च पठ्यते । प्रजानामिति प्रथम श्लोके उपक्रमः तथैवोपसंह्रियते । सर्वपापापनोदनं मातुरनु प्रहेणैव सिद्ध्येत् ॥
सरसिजनिलयाया एतत्स्तोत्रम् । ‘पद्मालयां पद्मकरां पद्मपत्रनिभेक्षणाम् । वन्दे पद्ममुखीं देवीं पद्मनाभप्रियामहम् ॥’ इतीन्द्रस्तुतौ । पद्मालयामित्युक्तस्य ग्रहणं सरसिजनिल याया इति ॥
[[311]]
॥ श्री देशिकस्तोत्राणि चतुर्थो भागः ॥
पठन्तः सकलकुशलसीमासार्वभौमा भवन्ति । पठन्तो भवन्ति । इति सकलवि भूत्यवाप्तिहेतुः स्तुतिरियमिन्द्रमुखोद्गता हि लक्ष्म्याः । अनुदिनमिह पठ्यतै नृभिर्यैर्वसति न तेषु कदाचिदप्यलक्ष्मीः ॥’ इतीन्द्रस्तुतिपठनफलकथनं पराशरेण । सकलविभूत्यवाप्तिहेतु रित्युक्तस्यात्र कथनम् । सकलेति तच्छ्लोकप्रत्यभिज्ञापनम् । सकलकुशलसीमासार्वभौमेति बहुविधानन्दानुभवयुक्तभूमिषु रममाणत्वमप्युच्यते । सार्वभौमशब्दो योगशास्त्रे प्रसिद्धः । ‘सार्वभौमे निरोधे ’ इति हंस संदेशे । ‘यमिनामेकलक्ष्यं समाधौ ’ ‘योगारम्भत्वरितमनसः’ इति योगप्रस्तावः कृतः । न हि ब्रह्मानन्दव्याप्तभूमिप्राप्तेः परं कुशलमस्ति । समाधिः कुशल सीमा । सार्वभौमत्त्वेऽभिषिच्यन्ते पठितारः । ध्रुवं माता प्रजा अभिषेचयेत् । न हि लक्ष्मीस्तोतारः सार्वभौमादवरा भवेयुः । माता प्रीयताम् । तस्य प्रसादे सर्वमङ्गलावाप्तिर्नियता ॥
यत्स्तुत्या स्त्तव्यताप्राप्या तद्व्याख्याया न गर्ह्यता । इत्युत्सर्गस्यापवादो व्याख्यया गर्ह्ययानया ॥
इत्थं गोपालदासेन वात्स्यवेङ्कटसूनुना ।
रचितं निगमान्तार्यस्तोत्रव्याख्यानमादरात् ।
समाप्तोऽयं ग्रन्थः ॥
॥
॥ श्रीरस्तु ॥
312