अयत्न सङ्कल्पित सर्वलोकं
सर्गापवर्गस्थिति सं विधानम् ।
अनादिमध्यान्तमशेषनाथं
किङ्गेहनाथं शरणं भजामि ॥ 1 ॥
अकृत्रिमानां वचसामभूमिं
अगोचरं ब्रह्मशिवादिवाचाम् ।
अहं स्तुवे किङ्गृहनायक त्वां
तथाप्यलज्जं स्तु मितं पचोक्तिः ॥ 2 ॥
अकिञ्चनोऽनन्यगतिस्त्वदीय
स्तुतिं करोमीति मतिं करोमि ।
कृपानिधे किङ्गृहनायकाद्य
त्वमेव मे वाचमुदीरयेथाः ॥ 3 ॥
त्वयैव दत्तामुपलभ्य वाणीं
अणीयसीमप्यतुलप्रभावाम् ।
प्रसादये किङ्गृहनायक त्वां
न चेत् कुतो मे सफलं वचस्स्यात् ॥ 4 ॥
अनेन जीवेन समस्तवस्तुं
प्रविश्य नामानि च रूपभेदैः ।
व्याकृत्य वीक्षावनमध्य भागे
विभुं शयानं सततं भजामि ॥ 5 ॥
अशेष पुं सां हृदि सन्निविष्टं
अनल्पशक्त्यादि गुणैर्विशिष्टम् ।
हृत्ताप हृत्पङ्कज भृङ्गजुष्टं
देवं भजे किङ्गृहगं ममेष्टम् ॥ 6 ॥
श्री शालिहोत्रार्पित शालिपिष्ट
हृष्टो भवान् देव शयिष्णुरेनम् ।
किं गेहमत्रेति यदावदत् तत्
किङ्गेहमासीत् तव सद्म नाम्ना ॥ 7 ॥
पद्मा महीलालित पाद पद्मम्
पद्मासनाधिष्ठित निम्ननाभिम् ।
शयानमाक्रम्य भुजङ्गतल्पं
किङ्गेहसद्मानमहं नतोऽस्मि ॥ 8 ॥
विस्मेरमासीत् भुवनं त्वदीयं
चरित्र मन्वीक्ष्य चिरप्रवृत्तम् ।
किङ्गेह नाथासुरकैटभादि
निबर्हणाथं किल सर्वशक्ते ॥ 9 ॥
गङ्गादि तीर्थानि निषेव्य शं भुः
सर्वाणि पुण्यायतनानि गत्वा ।
अमुक्त पूर्वो विधिहत्यया त्वां
किं सेव्य किङ्गेहपदे विमुक्तः ॥ 10 ॥