सं १

श्रुतीनामिति । श्रुतीनाम् - वेदानाम्, उत्तरं भागम् - उपरितनभागम्, उपनिषद्भागमित्यर्थः । कामात् - इच्छया, अधिवसन् - अहमुपनिषत्प्रतिपाद्यः स्यामिति नित्येच्छया उपनिषत्सु प्रतिपाद्यत्वेन अधिवसन्, वेगवत्याः - वेगवत्याख्यनद्याः, दक्षिणं भागं च - दक्षिणप्रदेशं च, कामात् - भोग्यत्वबुद्ध्या अधिवसन्, कश्चित् - अनिर्वचनीयमहिमा, अद्भुतकेसरी - आश्चर्यभूतो नृसिह्मः, जीयात् - आश्रितविरोधिनो विजयतात् । उत्तरभागं दक्षिणभागमिति विरोधस्फोरणम् ॥ १ ॥

तपनेति । तपनेन्द्वग्निनयनः - तपनः - सूर्यः, इन्दुः, अग्निः - वह्निः, एते नयनानि यस्य सः, तपनेन्द्वग्निस्वरूपनयनत्रयवानित्यर्थः । तापनीयरहस्यानाम् - तापनीयोपनिषदः, सारः - प्रधानप्रतिपाद्यः, कामासिकाहरिः - कामात् आसिकया इच्छया अवस्थानं, कामासिकया युक्तः, हरिः - नृसिह्मः, नः - आश्रितानाम् अस्माकम्, तापान् - आध्यामिकाधिदैविकाधिभौतिकरूपदुःखानि, अपचिनोतु - निवर्तयतु ॥ २ ॥

आकण्ठमिति । अहम्, आकण्ठम् - कण्ठपर्यन्तम् । आदिपुरुषम् - पुराणपुरुषाकारम्, उपरि - शिरसि, कण्ठीरवम् - सिंहाकारम्, कुण्ठितारातिम् - कुण्ठितः निरस्तः अरातिः हिरण्यकशिपुरूपः शत्रुः येन तम्, वेगोपकण्ठसङ्गात् - वेगायाः - वेगवतीनद्याः, उपकण्ठे - तीरप्रदेशे, सङ्गात् - आशया, विमुक्तवैकुण्ठबहुमतिम् - विमुक्ता त्यक्ता वैकुण्ठे परमपदे बहुमतिः बहुमानं येन तं, कामासिकानरहरिः इति विशेष्यपदमध्याहार्यम्, उपासे - भजे । वैकुण्ठादपि वेगवतीतीरे अत्यादरोऽस्ति भगवतः इति भावः ॥ ३ ॥

बन्धुमिति । अहम्, अखिलस्य जन्तोः, बन्धुम् - निरुपाधिकसर्वविधबन्धुं, ‘माता पिता भ्राता निवासश्शरणं सुहृत् गतिर्नारायणः’ इति हि श्रूयते । बन्धुरपर्यङ्कबन्धरमणीयम् - बन्धुरः मनोज्ञः यः पर्यङ्कबन्धः योगशास्त्रप्रसिद्धः आसनबन्धविशेषः तेन रमणीयं मनोज्ञम्, विषमविलोचनम् - विषमानि अयुग्मानि विलोचनानि नेत्राणि यस्य तम्, वेगवतीपुलिनकेलिनरसिंहम् - वेगवतीनद्याः पुलिने तट इति यावत् वर्तमानं केलिनरसिंहम्, ईडे - स्तौमि, ईड स्तुताविति धातुः ॥ ४ ॥

स्वस्थानेति । योगाभ्यासशालिपुरुषस्य श्रीनृसिंहस्य च शब्दश्लेष उच्यते अनेन श्लोकेन । मरुद्गणान् - मरुतां देवानां गणान् समूहान्, स्वस्थानेषु - स्वेषु स्वेषु पदेषु, नियमयन् - एवं कुर्विति प्रेरयन्, योगिपक्षे प्राणायामेन प्राणापानादिवायुसमूहान् स्वेषु हृदयादिस्थलेषु नियच्छन्निति, स्वाधीनसर्वेन्द्रियः - स्वाधीनानि स्वसङ्कल्पाधीनस्वरूपस्थितिप्रवृत्तीनि सर्वचेतनानामिन्द्रियाणि यस्य सः, हृषीकेशो हि सः । योगिपक्षे प्रत्याहाराद्यङ्गेन नियमितसर्वेन्द्रियवृत्तिरित्यर्थः । पर्यङ्कस्थिरधारणाप्रकटितप्रत्यङ्मुखावस्थितिः - पर्यङ्कस्य पर्यङ्काख्य-आसनबन्धविशेषस्य स्थिरधारणया प्रकटिता प्रकाशिता प्रत्यङ्मुखावस्थितिः प्रतीचीदिङ्मुखावस्थितिः यस्य सः, योगि पक्षे पर्यङ्के चेलाजिनाद्यासने स्थिरे, शुभाश्रये धारणाय चिन्तनेन प्रकटिता प्रकाशिता प्रत्यङ्मुखावस्थितिः प्रत्यक्तत्त्वभूतश्रियःपत्यभिमुखावस्थितिः - श्रियःपतिविषयकज्ञानं यस्य सः इत्यर्थः, प्रणिपेदुषाम् - प्रणमताम् उपासकानाम्, निजं योगम् - स्वकीयं योगम्, प्रायेण शिक्षयन् - शिक्षयन्निव । प्रायेण इत्युत्प्रेक्षाद्योतकः शब्दः । प्रभुः - स्वामी, असौ - कामासिकाकेसरी, अशेषजगताम्, कामान् - अभिलाषान्, आतनुतात् - कुर्वीत, सर्वाभीष्टप्रदो भवत्विति प्रार्थना ॥ ५ ॥

विकस्वरेति । विकस्वरेति पूर्वार्धम् एकं पदम् । विकस्वराः विलसन्तः नखा एव स्वरवः दम्बोलयः, ‘कुलिशं बिदुरं पविः । शतकोटिः स्वरुः’ इत्यमरः । तैः क्षताः भिन्नाः हिरण्यवक्षस्थली हिरण्यकशिपुवक्षःप्रदेशः, तस्याः पञ्चमी, निरर्गलं यथा तथा विनिर्गलन्त्या स्रवन्त्या रुधिरसिन्धुना सन्ध्यायिताः लोहिताः इत्यर्थः, अहम्प्रथमिकामिथःप्रकटिताहवाः - अहम्प्रथमिकया - अहमेव पूर्वं गच्छामि इति विवादेन, मिथः परस्परं प्रकटितः प्रकाशितः आहवः युद्धं यैस्ते, मदनासिकामनुजपञ्चवक्त्रस्य - मदनात् कामात् आसिका वेगवत्युपकण्ठे आधिवासः मदनासिका तया युक्तस्य मनुजपञ्चवक्त्रस्य नरसिंहस्य, कामासिकानृसिंहस्येत्यर्थः । बाहवः - आश्रितावलम्बनभूताः हस्ताः, माम् - आश्रितं माम्, अवन्तु - रक्षन्तु ॥ ६ ॥

सटापटलेति । हे कृपाकपटकेसरिन् - आश्रितजने कृपया हिरण्यवञ्चकनृसिंह, ते - वक्त्रे, सटापटलभीषणे - सटानां केसराणां (पिटरि मयिर्) पटलेन समूहेन भीषणे भयङ्करे, सरभसाट्टहासोद्भटे - सरभसेन सवेगेन अट्टहासेन गर्जितेन उद्भटे क्रूरे, स्फुरत्क्रुधि - स्फुरन्ती प्रकाशमाना क्रुध् कोपः यस्य तस्मिन्, परिस्फुटद्भ्रुकुटिके - परितः सर्वतः स्फु(ट)रन्ति वक्रीभूता भ्रुकुटिः भ्रूः यस्य तस्मिन्, परिस्फुटद्भ्रुकुटिके, कृतेऽपि - पूर्वोक्तप्रकारेण कृते सत्यपि, दनुजडिम्भदत्तस्तना - दनुजडिम्भाय हिरण्यकशिपुपुत्राय प्रह्लादाय, यद्वा दनुजः प्रह्लादः स एव दनुजडिम्भः शिशुः, तस्मै दत्तः स्तनः यया सा, प्रह्लादपोषकमातृभूतेति भावः, ते - तव, कृपा - दया, सरोजसदृशा - पद्मसमानया, दृशा - नयनेन सह, तपनेन्द्वग्निनेत्रेषु इन्दुतुल्यनेत्रेणेति भावः, व्यतिविषज्य - विशेषेण संयुज्य, व्यज्यते - प्रकाश्यते । सूर्याग्नितुल्यनयनाभ्याम् असुरान् दहन् सन्नपि भगवान् कृपाप्रकाशकचन्द्ररूपसरोजसदृशादृशा आश्रितं प्रह्लादं कटाक्षयन्नास इति भावः । अयमेव श्लोकः दयाशतके ‘सटापटले’त्यारभ्य, ‘दये वृषगिरीशितुः दनुजडिम्भदत्तस्तना सरोजसदृशा दृशा समुदिताकृतिर्दृश्यते’ इति किञ्चित् पाठभेदेन अनुगृहीतः । समुदिताकृतिः व्यक्ताकारा दृश्यते इत्यस्मिन्नेवार्थे व्यतिविषज्यते व्यज्यते इत्युक्तः ॥ ७ ॥

त्वयीति । हे नृहरे!, त्वयि - निरुपाधिकसर्वबन्धौ त्वयि, रक्षति (सति) - आश्रितान् अभीष्टदानेन रक्षति, अन्यैः - अबन्धुभूतैः त्वदधीनैः, रक्षकैः - त्वत्सङ्कल्पाधीनरक्षकत्वशक्तियुक्तैः ब्रह्मादिदैवैः, किम् - प्रयोजनम्?, त्वयि अरक्षति च (सति) - आश्रितविरोधिनः असुरादीन् अरक्षति सति, रक्षकैः - असुरादिभ्यो वरं दत्वा तद्रक्षकैः, अन्यैः - ब्रह्मादिभिः, किम् - तेषामसुरपालने किं सामर्थ्यम्?, इति - एवम्, निश्चितधीः - निश्चिता धीः बुद्धिः यस्य सः, (अहं - सदाचार्यानुगृहीतोऽहम्), वेगवतीतटाश्रयम् - वेगवतीतीरम् आश्रयः स्थानं यस्य सः तं, त्वाम्, नित्यं श्रयामि - भजामि ॥ ८ ॥

इत्थमिति । इत्थम् - उक्तप्रकारेण, इह - वेगवतीतीरे, श्रीवेङ्कटेशरचितैः - श्रीमद्वेदान्तदेशिकरचितैः, अष्टभिः पद्यैः - श्लोकैः, सकृत् - एकवारम्, स्तुतः - ईडितः, त्रिदशेन्द्रवन्द्यः - त्रिदशेन्द्रैः देवश्रेष्ठैः, वन्द्यः - नन्तव्यः, दुर्दान्तघोरदुरितद्विरदेन्द्रभेदी - दुर्दान्तः केनापि भेत्तुमशक्यः घोरः भयङ्करः दुरितद्विरदेन्द्रः दुरितानि पापान्येव द्विरदेन्द्रः गजश्रेष्ठः तं भिनत्तीति भेदी एषः, कामासिकानरहरिः - कामासिकानृसिंहः, कामान् - आश्रितानाम् अभीष्टान्, वितनोतु - ददातु । महाविश्वासवतामपि बहुवारपठनेन अभीष्टं प्रयच्छेत्, विश्वासतारतम्यानुगुण्येन फलसिद्धौ विलम्बाविलम्बौ पठने सकृदसकृदावृत्ती च, अत इदं स्तोत्रं सर्वेषां सर्वाभीष्टप्रदमिति भावः । अत आचार्यसूक्तिफलश्रुतौ अतिवादशङ्का न कर्तव्या । अनेन स्तोत्रशब्दार्थलेखनेन श्रीवेङ्कटेशः प्रीणातु ॥ ९ ॥