गोपालविंशतिः

01

वन्दे वृन्दावन-चरं
वल्लवी जन वल्लभम्‌ ।
जयन्ती(दिन)-संभवं धाम
वैजयन्ती-विभूषणम्‌ ॥ १ ॥(4 प्रासः)

02

(वसन्ततिलका। नामाक्षराणि लिखितान्य् अष्टदल-पद्म-मध्यस्थ-त्रिकोण-यन्त्रे । गो-पालः = सरस्वती-पालः!)
वाचं(=सरस्वतीनिभदेवीं!) निजाङ्क(=[नाम]लेख)-रसिकां प्रसमीक्षमाणो
वक्त्रारविन्द-विनिवेशित-पाञ्चजन्यः ।
वर्ण-त्रिकोण-रुचिरे वर-पुण्डरीके (यन्त्रे)
बद्धासनो जयति वल्लव-चक्रवर्ती ॥ २ ॥

03

आम्नाय-गन्धि-रुदित-स्फुरिताधरोष्टम्‌
आस्राविल+ईक्षणम् अनु-क्षण-मन्द-हासम्‌ ।
गोपाल-डिम्भ-वपुषं कुहना(=दाम्भिक)-जनन्याः (पूतनायाः)
प्राण-स्तनन्-धयम् अवैमि परं पुमांसम्‌ ॥ ३ ॥(4)

04

आविर् भवद्‌ (अ)वनिभृताऽऽभरणम् पुरस्तात्‌
आकुञ्चितैक-चरणं निभृतान्य-पादम्‌ ।
दध्ना निमन्थ-मुखरेण निबध्द-तालं
नाथस्य नन्द-भवने नवनीत-नाट्यम्‌ ॥ ४ ॥(5)

05

(मन्दाक्रान्ता)
हर्तुं कुम्भे, विनिहित-करः, स्वादु-हैयङ्गवीनं
दृष्टवा दाम–ग्रहण-चटुलां, मातरं जात-रोषाम्‌ ।
पायाद् ईषत्–प्रचलित-पदो, नाप-गच्छन्‌ न तिष्ठन्‌
मिथ्यागोपः, सपदि नयने, मीलयन्‌ विश्व-गोप्ता ॥ ५ ॥(5)

06

(औपच्छान्दसिकम्)
व्रज-योषिद्-अपाङ्ग-वेधनीयं
मधुरा-भाग्यम्‌ अनन्य-भोग्यम् ईडे ।
वसुदेव-वधू-स्तनन्-धयं तत्‌
किम् अपि ब्रह्म किशोर-भाव-दृश्यम्‌ ॥ ६ ॥

07

परिवर्तित-कन्धरं (गता मातेति खल्विति) भयेन
स्मित-फुल्लाधर-पल्लवं स्मरामि ।
विटपित्व-निरासकं कयोश्-चित् (कुबेरपुत्रयोः)
विपुलोलूखल-कर्षकं कुमारम्‌ ॥ ७ ॥

08

(राजगोपालवरेण) निकटेषु निशामयामि नित्यं
निगमान्तैर् अधुनाऽपि मृग्यमाणम्‌ ।
यमलार्जुन(वृक्ष)-दृष्ट-बाल-केलिं
यमुना-साक्षिक-यौवनं युवानम्‌ ॥ ८ ॥(4)

09

पदवीम् अ-दवीयसीं(=अदूरां) विमुक्तेः
अटवी-संपदम्‌ अम्बु-वाहयन्तीम्(← अम्बु-वाह + तद्वचाचरतीति क्विप् + प्रेरणार्थे णिच् + शतृँ) ‌।
अरुणाधर-साभिलाष-वंशां
करुणां (लोकोद्धार-)कारण-मानुषीं भजामी ॥ ९ ॥(5)

10

अनिमेष-निषेवणीयम् अक्ष्णोः
अजहद्-यौवनम् आविर् अस्तु चित्ते ।
कलहायित कुन्तलं कलापैः(=गुच्छैः)
करणोन्मादक-विभ्रमं महो मे ॥ १० ॥(5)

11

अनुयायि-मनोज्ञ-वंश-नालैः
अवतु स्पर्शित-वल्लवी-विमोहैः ।
अनघ-स्मित-शीतलैर् असौ माम्‌
अनुकम्पा-सरिद्-अम्बुजैर् अपाङ्गैः ॥ ११ ॥

12

अधराहित-चारु-वंश-नालाः
मकुटालम्बि-मयूर-पिञ्छ-मालाः ।
हरि(=इन्द्र)-नील-शिला-विभङ्ग-नीलाः
प्रतिभाः सन्तु ममान्तिम-प्रयाणे ॥ १२ ॥

13

अखिलान् अवलोकयामि कालान्‌
महिलाधीन-भुजान्तरस्य यूनः ।
अभिलाष-पदं व्रजाङ्गनानाम्‌
(अवर्णनीयत्वाद्) अभिलाप-क्रम-दूरम् आभिरूप्यम्‌ ॥१३॥(4)

14

(वियोगिनी)

हृदि मुग्ध-शिखण्ड-मण्डनो
लिखितः केन ममैष शिल्पिना ।(4)
मदनातुर-वल्लवाङ्गना-
वदनाम्बोज-दिवाकरो युवा ॥ १४ ॥

15

महसे महिताय मौलिना
विनतेनाञ्जलिम् अञ्जन-त्विषे ।
कलयामि विमुग्ध-वल्लवी-
(करस्थ-)वलयाभाषित-मञ्जु-वेणवे ॥ १५ ॥

16

(मालिनी)

जयति ललित-वृत्तिं शिक्षितो वल्लवीनां
शितिल-वलय(=कङ्कण)-शिञ्जा-शीतलैर् हस्त-तालैः ।
अखिल-भुवन-रक्षा-गोप-वेषस्य विष्णोः
अधर-मणि-सुधायाम् अंशवान्‌ वंशनालः ॥ १६ ॥(5)

17

(मन्दाक्रान्ता)

चित्राकल्पः श्रवसि कलयन्‌ - लाङ्गली(=नारिकेल[पुष्प])-कर्णपूरं
बर्होत्तंस-स्फुरित-चिकुरो(=केशो) बन्धुजीवं (Hibiscus-सदृशं) दधानः ।
गुञ्जा(बीज)-बद्धाम् उरसि ललितां धारयन्‌ (बीजपूर्णत्वाद्) हार-यष्टिं
गोप-स्त्रीणां जयति कितवः कोऽपि कौमार-हारी ॥ १७ ॥

18

लीलायष्टिं कर किसलये दक्षिणे न्यस्य धन्याम्‌
अंसे देव्याः पुलक-रुचिरे सन्निविष्टान्य-बाहुः ।
मेघ-श्यामो जयति ललितो मेखला-दत्त-वेणुः
गुञ्जापीड(=गुञ्जा-शिखामाला)-स्फुरित-चिकुरो(=केशो) गोप-कन्या-भुजङ्गः ॥ १८ ॥

19

(धनुष्मान् इव) प्रत्यालीढ-स्थितिम् अधिगतां, प्राप्त–गाढाङ्ग-पालिं(=आलिङ्गनां)
पश्चाद् ईषन् मिलित-नयनां प्रेयसीं प्रेक्षमाणः ।
(जलक्षेप-)भस्रा-यन्त्र-प्रणिहित-करो भक्त-जीवातुर् अव्यात्‌
वारि-क्रीडा-निबिड(=दृढ)-वसनो वल्लवी-वल्लभो नः ॥ १९ ॥

20

वासो हृत्वा दिनकर-सुता(यमुना)-सन्निधौ वल्लवीनां
लीला-स्मेरो जयति ललिताम्‌ आस्थितः कुन्द-शाखाम्‌ ।
सव्रीडाभिस् तदनु वसने ताभिर् अभ्यर्थ्यमाने
कामी कश्चित्‌ कर कमलयोर्‌ अञ्जलिं(=प्रणाममुद्रां) याचमानः ॥ २० ॥

21

(आर्या)

इत्यनन्य मनसा विनिर्मितां
वेङ्कटेश कविना स्तुतिं पठन्।‌
दिव्य वेणु रसिकं समीक्षते
दैवतं किमपि यौवत-प्रियम्‌ ॥ २१ ॥

व्याख्यानम्

(ए.वि.गो.व्या)

ध्रुवम् अत्र गोपालमन्त्रस्तद्यन्त्रं चाभिप्रेयेते । नामाक्षराणि लिखितान्य् अष्टदल-पद्म-मध्यस्थ-त्रिकोण-यन्त्रे ।
रक्षार्थं तत्र निवेशितोऽयं डिम्भः(=शिशुः)। ‘तेनैव रक्षा परमार्थवेदी’ इति तेनैव तस्य रक्षा कार्यते, पित्रा मात्रा च । तम् ऋते न कस्यापि पालन-सामर्थ्यम् । तद्-रक्षणे तं विना कोऽन्यः शरणी-क्रियेत? गोपालमन्त्रस् तद्-यन्त्रं च गोपालस्य रक्षा भवति ।
कोणत्रये लिखिता वर्णा गोपाल-पद-घटकानि त्रीण्य् अक्षराणि ।

‘निजाङ्करसिकाम्’ इत्यनेन गोपाल-नाम-लेखनं व्यज्यत इव । गोपाल-नाम गोपालाङ्को भवेत् । ‘नामान्य् अनन्तस्य यशो ऽङ्कितानि’ इति श्रीशुकः । निजाङ्को लिखित-गोपाल-नाम । तत्र रसिका तदङ्कस्था वाग् देवी। गोपाल-पद-सरस्वत्यां गोपालाङ्कस्था सरस्वती रसिका। यथा तदङ्क-रसिका तथा यन्त्र-लिखिताक्षर-त्रये गोपालाङ्के ऽपि रसिका। गोपालाङ्कासिका-रसिकां तत्र स्थित्वा गोपालासन-भूते ऽष्टदले पद्माकारे यन्त्रे विद्यमान-त्रिकोण-त्रय-लिखित-गोपाल-नाम्नि चक्षुषी प्रसार्य तत् सादरं प्रसमीक्षमाणां देवीं वाचं गोपालः प्रसमीक्षते । स्वनाम्नि रसिकां तत् समीक्षमाणां कृतज्ञो गोपालः प्रसमीक्षमाण आस्ते । तन् निजनाम सा सादरं वीक्षते । तस्यां तत्कटाक्षाः सानुग्रहं पतन्ति । गोपालः सरस्वतीपालकः । तन् नाम्नि तस्या रसः सहजः । स्वपालक-गोपालाङ्कस्थत्वं न्याय्यं सरस्वत्याः।

सरस्वत्या अपि गोपालः पिता। ‘पिताहमस्य जगतः’ इत्य् उक्त-जगत्-पितुः सरस्वत्य् एका नाऽकन्या भवेत् । पितुरङ्के रसिका स्यात्कन्या। प्रौढा पुत्री न पितुरङ्के निविशेत । ‘येनैवालिङ्गिता कान्ता, तेनैवालिङ्गिता सा’ इति भाव-शुद्ध्या न दोष इति चेद् - अयं पिता श्वशुरोऽपि भवति! कथं तद्-अङ्के आसनम्? इदानीम् अवसरो लभ्यते - श्वशुरः पिता गोपाल-शिशुर् अभवत् । तद्-अङ्कस्पर्शे तत्रासने च नानौचित्यम् । लब्धोऽवसरो न त्यज्यते । अत एव शिशोः स्वाङ्के निवेशनस्योचितत्वेऽपि शिशोरङ्केऽस्या निवेशनम् । अत्रानसूया-दत्तात्रेय-वृत्तान्तः स्मर्तव्यः।

विचित्र-वाग्-अर्थ-सिद्धि-हेतोर् आचार्यैर् वाक्-पालक-गोपाल-कटाक्षित-वाग्-देवी-स्मरणम् अपि क्रियत इत्यवधेयम्। ‘देवीं वाचम् उपासते हि कवयः।’ वाग्-देव्या भगवत्-कटाक्ष-विषयत्वेनात्र स्मरणं लभ्यते यद्यप्युपसर्जनतया। विशेषणत्वेन वाग्-देव्या अप्य् उपास्यान्तर्गतत्वं सिद्ध्यति । ‘गुरुकुल-क्लिष्टो मरारिः कविः’ इति गुरुकुलक्लेशमात्रमाद्रियते ।