देहलीशस्तुतिः

विक्रम्य येन विजितानि जगन्ति भूम्ना
विश्वस्य यं परम कारणमामनन्ति ।
विश्राणयन् प्रणयिनां विविधान् पुमर्थान्
गोप्ता स मे भवतु गोपपुराधिराजः ॥ 1 ॥

देहल्यधीश्वर तवेदृशमीश्वरत्वं
तुष्ट् ऊषतां दिशति गद्गदिकानुबन्धम् ।
वाचालयत्यथ च मां क्वचन क्षपायां
क्षान्तेन दान्त कवि मुख्य विमर्दनेन ॥ 2 ॥

त्वच्चक्रवद् द्रुतमनेहसि घूर्णमाने
निम्नोन्नत क्रम निदर्शित नेमि वृत्ताः ।
आराध्य गोप नगरे कृपयोदितं त्वां
स्वाराज्यमग्र्यमलभन्त सुरासुरेन्द्राः ॥ 3 ॥

आकल्प पुष्प सुभगोन्नत बाहु शाखः
पादे सदा परिपचेलिम सत्फलस्त्वम् ।
पण्णा तट स्पृशि मृकण्डु तपोवनेऽस्मिन्
छाया निलीन भुवनोऽसि तमाल शाखी ॥ 4 ॥

चक्रस्य दैत्य दनुजादिषु वाम भावं
शङ्खस्य चाश्रितजनेष्वपि दक्षिणत्वम् ।
व्यक्तं प्रदर्शयसि गोपपुराधिराज
व्यत्यस्य नूनमनयोः कर सं प्रयोगम् ॥ 5 ॥

दीपेन केनचिदशीत रुचा निशीथे
स्नेहोपपन्न परिशुद्ध गुणार्पितेन ।
दह्रावकाश निबिडं ददृशुर्भवन्तं
स्वाध्याय योग नयनाः शुचयः कवीन्द्राः ॥ 6 ॥

कासार पूर्व कवि मुख्य विमर्दजन्मा
पण्णा तटेक्षु सुभगस्य रसो बहुस्ते ।
त्वत्पाद पद्म मधुनि त्वदनन्य भोग्ये
नूनं समाश्रयति नूतन शर्करात्वम् ॥ 7 ॥

वैरोचनेः सदसि वामन भूमिकावान्
विक्रान्ति ताण्डव रसेन विजृम्भमाणः ।
चक्रे भवान् मकर कुण्डल कर्णपाशः
श्यामैक मेघ भरितामिव सप्त लोकीम् ॥ 8 ॥

चित्रं न तत् त्रिषु मितानि पदेषु यत् ते
विश्वान्यमूनि भुवनानि विशङ्कटेषु ।
भक्तैः समं क्वचिदसौ भवनैकदेशे
माति स्म मूर्तिरमिता तदिहाद्भुतं नः ॥ 9 ॥

भक्तप्रिय त्वयि तथा परिवर्धमाने
मुक्ता वितान विततिस्तव पूर्वमासीत् ।
हारावलिः परमथो रशना कलापः
तारागणस्तदनु मौक्तिक नूपुर श्रीः ॥ 10 ॥

भिक्षोचितं प्रकटयन् प्रथमाश्रमं त्वं
कृष्णाजिनं यवनिकां कृतवान् प्रियायाः ।
व्यक्ताकृतेस्तव समीक्ष्य भुजान्तरे तां
त्वामेव गोप नगरीश जना विदुस्त्वाम् ॥ 11 ॥

सत्कुर्वतां तव पदं चतुराननत्वं
पादोदकं च शिरसा वहतां शिवत्वम् ।
एकत्र विक्रमण कर्मणि तद् द्वयं ते
देहल्यधीश युगपत् प्रथितं पृथिव्याम् ॥ 12 ॥

भक्तोपरोधसह पाद सरोजतस्ते
मन्दाकिनी विगलिता मकरन्द धारा ।
सद्यस्त्रिवर्गं अपवर्गमपि क्षरन्ती
पुण्या बभूव पुर शासन मौलिमाला ॥ 13 ॥

विक्रान्ति केतु पटिका पद वाहिनी ते
न्यञ्चन्त्युपैति नतजीवित शिं शुमारम् ।
औत्तानपादिममृतां शुमशीत भानुं
हेमाचलं पशुपतिं हिमवन्तमुर्वीम् ॥ 14 ॥

वेधः कमण्डलु जलैर्विहितार्चनं ते
पादाम्बुजं प्रतिदिनं प्रतिपद्यमाना ।
स्तोत्रप्रिय त्रिपथगादि सरिद्वराणां
पण्णा बभूव भुवने बहुमान पात्रम् ॥ 15 ॥

स्वच्छन्द विक्रम समुन्नमितादमुष्मात्
स्रोतस्त्रयं यदभवत् तव पाद पद्मात् ।
वेताल भूत सरसामपदिश्य वाचं
प्रायेण तत् प्रसव भूमिमवाप भूयः ॥ 16 ॥

क्रीडापरेण भवता विहितोपरोधान्
आराधकाननुपरोधमुदञ्चयिष्यन् ।
ताम्रेण पाद नखरेण तदाऽण्डमध्ये
घण्टापथं कमपि नूनमवर्तयस्त्वम् ॥ 17 ॥

कामाविलेऽपि करुणार्णव बिन्दुरेकः
क्षिप्तः स्वकेलि तरसा तव देहलीश ।
तत्सं ततेरुभयथा विततिं भजन्त्याः
सं सार दाव दहनं शमयत्यशेषम् ॥ 18 ॥

नीडोदरान्निपतितस्य शुकार्भकस्य
त्राणेन नाथ विहरन्निव सार्वभौमः ।
आदाय गोप नगराधिपते स्वयं मां
क्रीडा दया व्यतिकरेण कृतार्थय त्वम् ॥ 19 ॥

लीला शकुन्तमिव मां स्वपदोपलब्ध्यै
स्वैरं क्षिपन् दुरित पञ्जरतो गुणस्थम् ।
तत्तादृशं कमपि गोप पुरी विहारिन्
सन्तोषमुल्ललय सागर सं भवायाः ॥ 20 ॥

वातूल कल्प वृजिन प्रभवैर्मदीयां
वैयाकुलीं विषय सिन्धु तरङ्ग भङ्गैः ।
दासोपमर्द सह दुर्निरसां त्वदन्यैः
अन्वीक्ष्य गाढमनुकम्पितुमर्हसि त्वम् ॥ 21 ॥

एनस्विनीमिति सदा मयि जायमानां
देहल्यधीश दृषदोऽपि विलापयन्तीम् ।
नाथे समग्र शकने त्वयि जागरूके
किं ते सहेत करुणा करुणामवस्थाम् ॥ 22 ॥

आत्मोन्नतिं परनिकर्षमपीह वाञ्छन्
निम्ने विमोहजलधौ निपतामि भूयः ।
तन्मामुदञ्चय तवोन्नतपाद दघ्नं
देहल्यधीश गुणितेन दयागुणेन ॥ 23 ॥

अक्षीण कल्मष रसोऽपि तवानृशं स्यात्
लक्ष्मी समक्षमपि विज्ञपयाम्यभीतः ।
भक्तोपमर्दरसिक स्वयमल्प बुद्धेः
यन्मन्यसे मम हितं तदुपाददीथाः ॥ 24 ॥

मन्ये दयार्द्र हृदयेन महा धनं मे
दत्तं त्वयेदमनपायमकिञ्चनत्वम् ।
येन स्तनं धयमिव स्वहितानभिज्ञं
न्यासीकरोषि निज पाद सरोरुहे माम् ॥ 25 ॥

दुर्वार तीव्र दुरित प्रतिवावदूकैः
औदार्यवद्भिरनघ स्मित दर्शनीयैः ।
देहल्यधीश्वर दया भरितैरपाङ्गैः
वाचं विनापि वदसीव मयि प्रसादम् ॥ 26 ॥

अयमनवम सूक्तैरादिभक्तैर्यथावत्
विशदित निज तत्त्वो विश्वमव्यादभव्यात् ।
रथ चरण निरूढ व्यञ्जनानां जनानां
दुरित मथन लीला दोहली देहलीशः ॥ 27 ॥

इयमवितथ वर्णा वर्णनीय स्वभावात्
विदित निगम सीम्ना वेङ्कटेशेन गीता ।
भव मरु भुवि तृष्णालोभ पर्याकुलानां
दिशतु फलमभीष्टं देहलीश स्तुतिर्नः ॥ 28 ॥