…
विश्वास-प्रस्तुतिः
अव्यासुर् भुवन-त्रयीम् अनिभृतं
कण्डूयनैरद्रिणा
निद्राणस्य परस्य कूर्म वपुषो
निः श्वास वातोर्मयः ।
यद्विक्षेपण सं स्कृतो दधिपयः
प्रेङ्खोलपर्यङ्किका-
नित्यारोहण निर्वृतो विहरते
देवः सहैव श्रिया ॥ 3 ॥
मूलम्
अव्यासुर्भुवन त्रयीमनिभृतं
कण्डूयनैरद्रिणा
निद्राणस्य परस्य कूर्म वपुषो
निः श्वास वातोर्मयः ।
यद्विक्षेपण सं स्कृतो दधिपयः
प्रेङ्खोलपर्यङ्किका-
नित्यारोहण निर्वृतो विहरते
देवः सहैव श्रिया ॥ 3 ॥
विश्वास-प्रस्तुतिः
गोपायेदनिशं जगन्ति कुहना
पोत्री पवित्री कृत-
ब्रह्माण्डः प्रलयोर्मि घोष गुरुभिर्-
घोणा रवैर्घुर्घुरैः ।
यद्दं ष्ट्राङ्कुर कोटि गाढ घटना
निष्कम्प नित्य स्थितिः
ब्रह्म स्तम्बमसौदसौ भगवती
मुस्तेव विश्वं भरा ॥ 4 ॥
मूलम्
गोपायेदनिशं जगन्ति कुहना
पोत्री पवित्री कृत-
ब्रह्माण्डः प्रलयोर्मि घोष गुरुभिर्-
घोणा रवैर्घुर्घुरैः ।
यद्दं ष्ट्राङ्कुर कोटि गाढ घटना
निष्कम्प नित्य स्थितिः
ब्रह्म स्तम्बमसौदसौ भगवती
मुस्तेव विश्वं भरा ॥ 4 ॥
विश्वास-प्रस्तुतिः
प्रत्यादिष्ट पुरातन प्रहरण
ग्रामः क्षणं पाणिजैः
अव्यात् त्रीणि जगन्त्यकुण्ठ महिमा
वैकुण्ठ कण्ठीरवः ।
यत्प्रादुर्भवनादवन्ध्य जठरा
यादृच्छिकाद् वेधसां
या काचित् सहसा महासुर गृह
स्थूणा पितामह्यभूत् ॥ 5 ॥
मूलम्
प्रत्यादिष्ट पुरातन प्रहरण
ग्रामः क्षणं पाणिजैः
अव्यात् त्रीणि जगन्त्यकुण्ठ महिमा
वैकुण्ठ कण्ठीरवः ।
यत्प्रादुर्भवनादवन्ध्य जठरा
यादृच्छिकाद् वेधसां
या काचित् सहसा महासुर गृह
स्थूणा पितामह्यभूत् ॥ 5 ॥
विश्वास-प्रस्तुतिः
व्रीडा विद्ध वदान्य दानव यशो
नासीर धाट् ई भटः
त्रैयक्षं मकुटं पुनन्नवतु नस्-
त्रैविक्रमो विक्रमः ।
यत्प्रस्ताव समुच्छ्रित ध्वज पट् ई
वृत्तान्त सिद्धान्तिभिः
स्रोतोभिः सुरसिन्धुरष्टसु दिशा
सौधेषु दोधूयते ॥ 6 ॥
मूलम्
व्रीडा विद्ध वदान्य दानव यशो
नासीर धाट् ई भटः
त्रैयक्षं मकुटं पुनन्नवतु नस्-
त्रैविक्रमो विक्रमः ।
यत्प्रस्ताव समुच्छ्रित ध्वज पट् ई
वृत्तान्त सिद्धान्तिभिः
स्रोतोभिः सुरसिन्धुरष्टसु दिशा
सौधेषु दोधूयते ॥ 6 ॥
विश्वास-प्रस्तुतिः
क्रोधाग्निं जमदग्नि पीडन भवं
सं तर्पयिष्यन् क्रमात्
अक्षत्रामिह सन्ततक्ष य इमां
त्रिः सप्त कृत्वः क्षितिम् ।
दत्त्वा कर्मणि दक्षिणां क्वचन ताम्-
आस्कन्द्य सिन्धुं वसन्
अब्रह्मण्यमपाकरोतु भगवान्-
आब्रह्म कीटं मुनिः ॥ 7 ॥
मूलम्
क्रोधाग्निं जमदग्नि पीडन भवं
सं तर्पयिष्यन् क्रमात्
अक्षत्रामिह सन्ततक्ष य इमां
त्रिः सप्त कृत्वः क्षितिम् ।
दत्त्वा कर्मणि दक्षिणां क्वचन ताम्-
आस्कन्द्य सिन्धुं वसन्
अब्रह्मण्यमपाकरोतु भगवान्-
आब्रह्म कीटं मुनिः ॥ 7 ॥
विश्वास-प्रस्तुतिः
पारावार पयो विशोषण कला
पारीण कालानल-
ज्वाला जाल विहार हारि विशिख
व्यापार घोर क्रमः ।
सर्वावस्थ सकृत्प्रपन्न जनता
सं रक्षणैक व्रती
धर्मो विग्रहवानधर्म विरतिं
धन्वी स तन्वीत नः ॥ 8 ॥
मूलम्
पारावार पयो विशोषण कला
पारीण कालानल-
ज्वाला जाल विहार हारि विशिख
व्यापार घोर क्रमः ।
सर्वावस्थ सकृत्प्रपन्न जनता
सं रक्षणैक व्रती
धर्मो विग्रहवानधर्म विरतिं
धन्वी स तन्वीत नः ॥ 8 ॥
विश्वास-प्रस्तुतिः
फक्कत्कौरव पट् टण प्रभृतयः
प्रास्त प्रलम्बादयः
तालाङ्कस्य तथाविधा विहृतयस्
तन्वन्तु भद्राणि नः ।
क्षीरं शर्करयेव याभिरपृथग्-
भूताः प्रभूतैर्गुणैः
आकौमारकमस्वदन्त जगते
कृष्णस्य ताः केलयः ॥ 9 ॥
मूलम्
फक्कत्कौरव पट् टण प्रभृतयः
प्रास्त प्रलम्बादयः
तालाङ्कस्य तथाविधा विहृतयस्
तन्वन्तु भद्राणि नः ।
क्षीरं शर्करयेव याभिरपृथग्-
भूताः प्रभूतैर्गुणैः
आकौमारकमस्वदन्त जगते
कृष्णस्य ताः केलयः ॥ 9 ॥
विश्वास-प्रस्तुतिः
नाथायैव नमः पदं भवतु नश्-
चित्रैश्चरित्र क्रमैः
भूयोभिर्भुवनान्यमूनि कुहना
गोपाय गोपायते ।
कालिन्दी रसिकाय कालिय फणि
स्फार स्फटा वाटिका-
रङ्गोत्सङ्ग विशङ्क चं क्रम धुरा
पर्याय चर्या यते ॥ 10 ॥
मूलम्
नाथायैव नमः पदं भवतु नश्-
चित्रैश्चरित्र क्रमैः
भूयोभिर्भुवनान्यमूनि कुहना
गोपाय गोपायते ।
कालिन्दी रसिकाय कालिय फणि
स्फार स्फटा वाटिका-
रङ्गोत्सङ्ग विशङ्क चं क्रम धुरा
पर्याय चर्या यते ॥ 10 ॥
विश्वास-प्रस्तुतिः
भाविन्या दशया भवन्निह भव
ध्वं साय नः कल्पतां
कल्की विष्णुयशस्सुतः कलि कथा
कालुष्य कूलं कषः ।
निः शेष क्षत कण्टके क्षितितले
धारा जलौघैर्ध्रुवं
धर्मं कार्तयुगं प्ररोहयति यन्-
निस्त्रिं श धाराधरः ॥ 11 ॥
मूलम्
भाविन्या दशया भवन्निह भव
ध्वं साय नः कल्पतां
कल्की विष्णुयशस्सुतः कलि कथा
कालुष्य कूलं कषः ।
निः शेष क्षत कण्टके क्षितितले
धारा जलौघैर्ध्रुवं
धर्मं कार्तयुगं प्ररोहयति यन्-
निस्त्रिं श धाराधरः ॥ 11 ॥
विश्वास-प्रस्तुतिः
इच्छा मीन विहार कच्छप महा
पोत्रिन् यदृच्छा हरे
रक्षा वामन रोष राम करुणा
काकुत्स्थ हेला हलिन् ।
क्रीडा वल्लव कल्क वाहन दशा
कल्किन्निति प्रत्यहं
जल्पन्तः पुरुषाः पुनन्ति भुवनं
पुण्यौघ पण्यापणाः ॥ 12 ॥
मूलम्
इच्छा मीन विहार कच्छप महा
पोत्रिन् यदृच्छा हरे
रक्षा वामन रोष राम करुणा
काकुत्स्थ हेला हलिन् ।
क्रीडा वल्लव कल्क वाहन दशा
कल्किन्निति प्रत्यहं
जल्पन्तः पुरुषाः पुनन्ति भुवनं
पुण्यौघ पण्यापणाः ॥ 12 ॥
विश्वास-प्रस्तुतिः
विद्योदन्वति वेङ्कटेश्वरकवौ
जातं जगन्मङ्गलं
देवेशस्य दशावतार विषयं
स्तोत्रं विवक्षेत यः ।
वक्त्रे तस्य सरस्वती बहु मुखी
भक्तिः परा मानसे
शुद्धिः कापि तनौ दिशासु दशसु
ख्यातिः शुभा जृम्भते ॥ 13 ॥
मूलम्
विद्योदन्वति वेङ्कटेश्वरकवौ
जातं जगन्मङ्गलं
देवेशस्य दशावतार विषयं
स्तोत्रं विवक्षेत यः ।
वक्त्रे तस्य सरस्वती बहु मुखी
भक्तिः परा मानसे
शुद्धिः कापि तनौ दिशासु दशसु
ख्यातिः शुभा जृम्भते ॥ 13 ॥