भगवद्ध्यानसोपानम्

विस्तारः (द्रष्टुं नोद्यम्)

मुनिवाहनभोगम् इति द्राविड्या, भगवद्-ध्यान-सोपानम् इति संस्कृतेन तिरुप्पान्-भक्तकृतिम् आधारीकृत्य रचितं वेङ्कटनाथार्येण। तिरुप्पान् इति देवस्मृतिलयेन प्रमत्तो ऽस्पृश्यो ऽर्चकेन शिलया ताडितः, पश्चात् तेनैव भगवच्चोदनेन प्रसाद्य, स्कन्दम् आरोप्य देवालयम् आनीतः, भगवति लीनः।

विश्वास-प्रस्तुतिः

अन्तर्-ज्योतिः किम् अपि यमिनाम्, अञ्जनं योग-दृष्टेः,
चिन्ता-रत्नं सुलभम् इह नः, सिद्धि-मोक्षानुरूपम् ।
दीनानाथ-व्यसन-शमनं दैवतं दैवतानां,
दिव्यं चक्षुः श्रुति-परिषदां दृश्यते रङ्ग-मध्ये ॥

मूलम्

अन्तर्ज्योतिः किमपि यमिनामञ्जनं योगदृष्टेः
चिन्तारत्नं सुलभमिह नः सिद्धिमोक्षानुरूपम् ।
दीनानाथव्यसनशमनं दैवतं दैवतानां
दिव्यं चक्षुः श्रुतिपरिषदां दृश्यते रङ्गमध्ये ॥

विश्वास-प्रस्तुतिः

वेलातीत-श्रुति-परिमलं, वेधसां मौलि-सेव्यं,
प्रादुर्भूतं कनक-सरितः सैकते हंस-जुष्टे ।
लक्ष्मी-भूम्योः कर-सरसि-जैर् लालितं रङ्ग-भर्तुः
पादाम्भो-जं प्रतिफलति मे भावना-दीर्घिकायाम्(=ह्रदे)

मूलम्

वेलातीतश्रुतिपरिमलं वेधसां मौलिसेव्यं
प्रादुर्भूतं कनकसरितः सैकते हंसजुष्टे ।
लक्ष्मीभूम्योः करसरसिजैर्लालितं रङ्गभर्तुः
पादाम्भोजं प्रतिफलति मे भावनादीर्घिकायाम् ॥

विश्वास-प्रस्तुतिः

चित्राकारां कटक-रुचिभिश्, चारु-वृत्तानुपूर्वां,
काले दूत्य-द्रुततर-गतिं कान्ति-लीला-कलाचीम्(=forearm)
जानु-च्छाया-द्वि-गुण-सुभगां रङ्ग-भर्तुर् मद्-आत्मा
जङ्घां दृष्ट्वा जनन-पदवी-जाङ्घिकत्वं(=धावकत्वं) जहाति

मूलम्

चित्राकारां कटकरुचिभिश्चारुवृत्तानुपूर्वां
काले दूत्यद्रुततरगतिं कान्तिलीलाकलाचीम् ।
जानुच्छायाद्विगुणसुभगां रङ्गभर्तुर्मदात्मा
जङ्घां दृष्ट्वा जननपदवीजाङ्घिकत्वं जहाति ॥

विश्वास-प्रस्तुतिः

कामाराम-स्थिर-कदलिका-स्तम्भ-सम्भावनीयं
क्षौमाश्लिष्टं किम् अपि कमला-भूमि-नीलोपधानम् ।
न्यञ्चत्-काञ्ची-किरण-रुचिरं निर्विशत्य् ऊरु-युग्मं
लावण्यौघ-द्वयम् इव मतिर् मामिका रङ्ग-यूनः ॥

मूलम्

कामारामस्थिरकदलिकास्तम्भसम्भावनीयं
क्षौमाश्लिष्टं किमपि कमलाभूमिनीलोपधानम् ।
न्यञ्चत्काञ्चीकिरणरुचिरं निर्विशत्यूरुयुग्मं
लावण्यौघद्वयमिव मतिर्मामिका रङ्गयूनः ॥

विश्वास-प्रस्तुतिः

सम्प्रीणाति प्रतिकलम् असौ मानसं मे सुजाता
गम्भीरत्वात् क्वचन समये गूढ-निक्षिप्त-विश्वा ।
नालीकेन स्फुरित-रजसा वेधसो निर्मिमाणा
रम्यावर्त-द्युति-सहचरी रङ्ग-नाथस्य नाभिः

मूलम्

सम्प्रीणाति प्रतिकलमसौ मानसं मे सुजाता
गम्भीरत्वात् क्वचन समये गूढनिक्षिप्तविश्वा ।
नालीकेन स्फुरितरजसा वेधसो निर्मिमाणा
रम्यावर्तद्युतिसहचरी रङ्गनाथस्य नाभिः ॥

विश्वास-प्रस्तुतिः

श्रीवत्सेन प्रथित-विभवं, श्री-पद-न्यास-धन्यं,
मध्यं बाह्वोर् मणि-वर-रुचा रञ्जितं रङ्ग-धाम्नः ।
सान्द्र-च्छायं तरुण-तुलसी-चित्रया, वैजयन्त्या,
सन्तापं मे शमयति धियश् चन्द्रिकोदार-हारम् ॥

मूलम्

श्रीवत्सेन प्रथितविभवं श्रीपदन्यासधन्यं
मध्यं बाह्वोर्मणिवररुचा रञ्जितं रङ्गधाम्नः ।
सान्द्रच्छायं तरुणतुलसीचित्रया वैजयन्त्या
सन्तापं मे शमयति धियश्चन्द्रिकोदारहारम् ॥

विश्वास-प्रस्तुतिः

एकं लीलोपहितम्, इतरं बाहुम् आ-जानु-लम्बं
प्राप्ता रङ्गे-शयितुर् अखिल-प्रार्थना-पारिजातम् ।
दृप्ता सेयं दृढ-नियमिता रश्मिभिर् भूषणानां,
चिन्ता-हस्तिन्य् अनुभवति मे चित्रम् आलान(←लीङ् संश्लेषणे)-यन्त्रम् ॥

मूलम्

एकं लीलोपहितमितरं बाहुमाजानुलम्बं
प्राप्ता रङ्गेशयितुरखिलप्रार्थनापारिजातम् ।
दृप्ता सेयं दृढनियमिता रश्मिभिर्भूषणानां
चिन्ताहस्तिन्यनुभवति मे चित्रमालानयन्त्रम् ॥

विश्वास-प्रस्तुतिः

साभिप्राय-स्मित-विकसितं, चारु-बिम्बाधरोष्ठं,
दुःखापाय-प्रणयिनि जने, दूर-दत्ताभिमुख्यम् ।
कान्तं वक्त्रं कनक-तिलकालङ्कृतं रङ्ग-भर्तुः
स्वान्ते गाढं मम विलगति स्वागतोदार-नेत्रम् ॥(5)

मूलम्

साभिप्रायस्मितविकसितं चारुबिम्बाधरोष्ठं
दुःखापायप्रणयिनि जने दूरदत्ताभिमुख्यम् ।
कान्तं वक्त्रं कनकतिलकालङ्कृतं रङ्गभर्तुः
स्वान्ते गाढं मम विलगति स्वागतोदारनेत्रम् ॥

विश्वास-प्रस्तुतिः

माल्यैर् अन्तः स्थिर-परिमलैर् वल्लभा-स्पर्श-मान्यैः
कुप्यच्-चोली(←चोल)-वचन-कुटिलैः कुन्तलैः श्लिष्ट-मूले ।
रत्नापीड-द्युति-शबलिते रङ्ग-भर्तुः किरीटे
राजन्वत्यः स्थितिम् अधिगता वृत्तयश् चेतसो मे ॥(4)

मूलम्

माल्यैरन्तः स्थिरपरिमलैर्वल्लभास्पर्शमान्यैः
कुप्यच्चोलीवचनकुटिलैः कुन्तलैः श्लिष्टमूले ।
रत्नापीडद्युतिशबलिते रङ्गभर्तुः किरीटे
राजन्वत्यः स्थितिमधिगता वृत्तयश्चेतसो मे ॥

विश्वास-प्रस्तुतिः

पादम्भोजं स्पृशति, भजते रङ्गनाथस्य जङ्घाम्,
ऊरु-द्वन्द्वे विलगति, शनैर् ऊर्ध्वम् अभ्येति नाभिम् ।
वक्षस्य् आस्ते, वलति भुजयोर् मामिकेयं मनीषा
वक्त्राभिख्यां पिबति, वहते वासनां मौलि-बन्धे ॥

मूलम्

पादम्भोजं स्पृशति भजते रङ्गनाथस्य जङ्घाम्
ऊरुद्वन्द्वे विलगति शनैरूर्ध्वमभ्येति नाभिम् ।
वक्षस्यास्ते वलति भुजयोर्मामिकेयं मनीषा
वक्त्राभिख्यां पिबति वहते वासनां मौलिबन्धे ॥

विश्वास-प्रस्तुतिः

कान्तोदारैर् अयम् इह भुजैः कङ्कण-ज्या-किणाङ्कैः,
लक्ष्मी-धाम्नः पृथुल-परिघैर् लक्षिताभीति-हेतिः ।
अग्रे किञ्चिद् भुज-ग-शयनः, स्वात्मनैवात्मनः सन्
मध्ये-रङ्गं, मम च हृदये वर्तते सावरोधः ॥

मूलम्

कान्तोदारैरयमिह भुजैः कङ्कणज्याकिणाङ्कैः
लक्ष्मीधाम्नः पृथुलपरिघैर्लक्षिताभीतिहेतिः ।
अग्रे किञ्चिद्भुजगशयनः स्वात्मनैवात्मनः सन्
मध्येरङ्गं मम च हृदये वर्तते सावरोधः ॥

विश्वास-प्रस्तुतिः

रङ्गास्थाने रसिक-महिते रञ्जिताशेष-चित्ते
विद्वत्-सेवा-विमल-मनसा वेङ्कटेशेन कॢप्तम् ।
अ-क्लेशेन प्रणिहित-धियाम् आरुरुक्षोर् अवस्थां,
भक्तिं गाढां दिशतु भगवद्-ध्यान-सोपानम् अतेत् ॥

मूलम्

रङ्गास्थाने रसिकमहिते रञ्जिताशेषचित्ते
विद्वत्सेवाविमलमनसा वेङ्कटेशने कॢप्तम् ।
अक्लेशेन प्रणिहितधियामारुरुक्षोरवस्थां
भक्तिं गाढां दिशतु भगवद्ध्यानसोपानमतेत् ॥