32 फलपद्धतिः

विश्वास-प्रस्तुतिः

उपाख्यातां तथात्वेन वसिष्ठाद्यैर्महर्षिभिः ।
उपायफलयोः काष्ठामुपासे रामपादुकाम्॥ 32.1

मूलम्

उपाख्यातां तथात्वेन वसिष्ठाद्यैर्महर्षिभिः ।
उपायफलयोः काष्ठामुपासे रामपादुकाम्॥ 32.1

विश्वास-प्रस्तुतिः

निविशेय निरन्तरं प्रतीतः
त्रिदशानां विभवं तृणाय मत्वा ।
सविधे तव देवि ! रङ्गभर्तुः
पदलीलाकमलं समुद्वहन्त्याः॥ 32.2

मूलम्

निविशेय निरन्तरं प्रतीतः
त्रिदशानां विभवं तृणाय मत्वा ।
सविधे तव देवि ! रङ्गभर्तुः
पदलीलाकमलं समुद्वहन्त्याः॥ 32.2

विश्वास-प्रस्तुतिः

किमहं मणिपादुके ! त्वया मे
सुलभे रङ्गनिधौ श्रिया सनाथे ।
करणानि पुनः कदर्थयेयं
कृपणद्वारदुरासिकादिदुः खैः॥ 32.3

मूलम्

किमहं मणिपादुके ! त्वया मे
सुलभे रङ्गनिधौ श्रिया सनाथे ।
करणानि पुनः कदर्थयेयं
कृपणद्वारदुरासिकादिदुः खैः॥ 32.3

विश्वास-प्रस्तुतिः

सकृदप्यनुभूय रङ्गभर्तुः
त्वदुपश्लेषमनोहरं पदाब्जम् ।
अपुनर्भवकौतुकं तदैव
प्रशमं गच्छति पादुके ! मुनीनाम्॥ 32.4

मूलम्

सकृदप्यनुभूय रङ्गभर्तुः
त्वदुपश्लेषमनोहरं पदाब्जम् ।
अपुनर्भवकौतुकं तदैव
प्रशमं गच्छति पादुके ! मुनीनाम्॥ 32.4

विश्वास-प्रस्तुतिः

अपरस्परपातिनाममीषाम्
अनिदम्पूर्वनिरूढसन्ततीनाम् ।
भरतव्यसनादनूनसीम्नां
दुरितानां मम निष्कृतिस्त्वमासीः॥ 32.5

मूलम्

अपरस्परपातिनाममीषाम्
अनिदम्पूर्वनिरूढसन्ततीनाम् ।
भरतव्यसनादनूनसीम्नां
दुरितानां मम निष्कृतिस्त्वमासीः॥ 32.5

विश्वास-प्रस्तुतिः

त्वदुपासनसम्प्रदायविद्भिः
समये सात्त्वतसेविते नियुक्ताः ।
भरतव्रतिनो भवाम्बुराशिं
कतिचित् काञ्चनपादुके ! तरन्ति॥ 32.6

मूलम्

त्वदुपासनसम्प्रदायविद्भिः
समये सात्त्वतसेविते नियुक्ताः ।
भरतव्रतिनो भवाम्बुराशिं
कतिचित् काञ्चनपादुके ! तरन्ति॥ 32.6

विश्वास-प्रस्तुतिः

अलमच्युतपादुके ! यथावत्
भवती यच्च पदं त्वदेकधार्यम् ।
इतरेतरभूषितं तदेतत्
द्वितयं संवननाय चेतसो नः॥ 32.7

मूलम्

अलमच्युतपादुके ! यथावत्
भवती यच्च पदं त्वदेकधार्यम् ।
इतरेतरभूषितं तदेतत्
द्वितयं संवननाय चेतसो नः॥ 32.7

विश्वास-प्रस्तुतिः

अनन्यसामान्यतया मुरारेः
अङ्गेष्ववाप्तेषु किरीटमुख्यैः ।
पादावनि ! त्वं निजमेव भागं
सर्वात्मसाधारणतामनैषीः॥ 32.8

मूलम्

अनन्यसामान्यतया मुरारेः
अङ्गेष्ववाप्तेषु किरीटमुख्यैः ।
पादावनि ! त्वं निजमेव भागं
सर्वात्मसाधारणतामनैषीः॥ 32.8

विश्वास-प्रस्तुतिः

समाश्रितानां मणिपादुके ! त्वां
विपश्चितां विष्णुपदेऽप्यनास्था ।
कथं पुनस्ते कृतिनो भजेरन्
वासादरं वासवराजधान्याम्॥ 32.9

मूलम्

समाश्रितानां मणिपादुके ! त्वां
विपश्चितां विष्णुपदेऽप्यनास्था ।
कथं पुनस्ते कृतिनो भजेरन्
वासादरं वासवराजधान्याम्॥ 32.9

विश्वास-प्रस्तुतिः

विमृश्य रङ्गेश्वरपादरक्षे !
वारक्रमं नूनमवारणीयम् ।
पद्माग्रहेऽपि स्पृशती प्रतीता
स्थूलेन रूपेण वसुन्धरा त्वाम्॥ 32.10

मूलम्

विमृश्य रङ्गेश्वरपादरक्षे !
वारक्रमं नूनमवारणीयम् ।
पद्माग्रहेऽपि स्पृशती प्रतीता
स्थूलेन रूपेण वसुन्धरा त्वाम्॥ 32.10

विश्वास-प्रस्तुतिः

अभिरक्षसि त्वमनपायनिधिं
मणिपादुके ! मधुभिदश्चरणम् ।
अत एव देवि ! तदनन्यधनाः
शिरसा वहन्ति भवतीं कृतिनः॥ 32.11

मूलम्

अभिरक्षसि त्वमनपायनिधिं
मणिपादुके ! मधुभिदश्चरणम् ।
अत एव देवि ! तदनन्यधनाः
शिरसा वहन्ति भवतीं कृतिनः॥ 32.11

विश्वास-प्रस्तुतिः

पदयुगमिव पादुके ! मुरारेः
भवति विभूतिरकण्टका त्वयैव ।
कथमिव हृदयानि भावुकानां
त्वदनुभवादुपजातकण्टकानि॥ 32.12

मूलम्

पदयुगमिव पादुके ! मुरारेः
भवति विभूतिरकण्टका त्वयैव ।
कथमिव हृदयानि भावुकानां
त्वदनुभवादुपजातकण्टकानि॥ 32.12

विश्वास-प्रस्तुतिः

ज्ञानक्रियाभजनसीमविदूरवृत्तेः
वैदेशिकस्य तदवाप्तिकृतां गुणानाम् ।
मौळौ ममासि मधुसूदनपादुके ! त्वं
गङ्गेव हन्त पतिता विधिनैव पङ्गोः॥ 32.13

मूलम्

ज्ञानक्रियाभजनसीमविदूरवृत्तेः
वैदेशिकस्य तदवाप्तिकृतां गुणानाम् ।
मौळौ ममासि मधुसूदनपादुके ! त्वं
गङ्गेव हन्त पतिता विधिनैव पङ्गोः॥ 32.13

विश्वास-प्रस्तुतिः

रङ्गेश्वरस्य यदिदं मणिपादरक्षे !
पादारविन्दयुगळं भवतीसमेतम् ।
पुंसामुपोषितविलोचनपारणार्हं
क्षीरं तदेतदिह शर्करया समेतम्॥ 32.14

मूलम्

रङ्गेश्वरस्य यदिदं मणिपादरक्षे !
पादारविन्दयुगळं भवतीसमेतम् ।
पुंसामुपोषितविलोचनपारणार्हं
क्षीरं तदेतदिह शर्करया समेतम्॥ 32.14

विश्वास-प्रस्तुतिः

कामादिदोषरहितं त्वदनन्यकामाः
कर्म त्रयोदशविधं परिशीलयन्तः ।
पादावनि ! त्वदनुषङ्गविशेषदृश्यम्
एकान्तिनः परिचरन्ति पदं मुरारेः॥ 32.15

मूलम्

कामादिदोषरहितं त्वदनन्यकामाः
कर्म त्रयोदशविधं परिशीलयन्तः ।
पादावनि ! त्वदनुषङ्गविशेषदृश्यम्
एकान्तिनः परिचरन्ति पदं मुरारेः॥ 32.15

विश्वास-प्रस्तुतिः

मौळौ स्थिता मखभुजामथवा श्रुतीनां
तद्रङ्गराजचरणावनि ! वैभवं ते ।
अस्मादृशामपि यदि प्रथितं ततः स्यात्
सौलभ्यमम्ब ! तदिदं तव सार्वभौमम्॥ 32.16

मूलम्

मौळौ स्थिता मखभुजामथवा श्रुतीनां
तद्रङ्गराजचरणावनि ! वैभवं ते ।
अस्मादृशामपि यदि प्रथितं ततः स्यात्
सौलभ्यमम्ब ! तदिदं तव सार्वभौमम्॥ 32.16

विश्वास-प्रस्तुतिः

स्वप्नेऽपि चेत् त्वमसि मूर्धनि सन्निविष्टा
नम्रस्य मे नरकमर्दनपादरक्षे ! ।
स्थाने तदेतदिह देवि ! यतः समाधौ
सन्तो विदुस्तमपि तादृशबुद्धिगम्यम्॥ 32.17

मूलम्

स्वप्नेऽपि चेत् त्वमसि मूर्धनि सन्निविष्टा
नम्रस्य मे नरकमर्दनपादरक्षे ! ।
स्थाने तदेतदिह देवि ! यतः समाधौ
सन्तो विदुस्तमपि तादृशबुद्धिगम्यम्॥ 32.17

विश्वास-प्रस्तुतिः

बद्धाञ्जलिः परिचरन्नियमेन रङ्गे
विश्राणिताच्युतनिधिं मणिपादुके ! त्वाम् ।
कस्यापि कूणितदृशो धनिनः पुरस्तात्
उत्तानयेय न कदाऽपि करं विकोशम्॥ 32.18

मूलम्

बद्धाञ्जलिः परिचरन्नियमेन रङ्गे
विश्राणिताच्युतनिधिं मणिपादुके ! त्वाम् ।
कस्यापि कूणितदृशो धनिनः पुरस्तात्
उत्तानयेय न कदाऽपि करं विकोशम्॥ 32.18

विश्वास-प्रस्तुतिः

त्वय्यर्पितेन चरणेन सदध्वभाजः
पादावनि ! प्रथितसात्त्विकभावदृश्याः ।
रङ्गेशवद्विदधते मुहुरङ्गहारान्
रङ्गे महीयसि नटा इव भावुकास्ते॥ 32.19

मूलम्

त्वय्यर्पितेन चरणेन सदध्वभाजः
पादावनि ! प्रथितसात्त्विकभावदृश्याः ।
रङ्गेशवद्विदधते मुहुरङ्गहारान्
रङ्गे महीयसि नटा इव भावुकास्ते॥ 32.19

विश्वास-प्रस्तुतिः

येन स्थिता शिरसि मे विधिनाऽधुना त्वं
तेनैव देवि ! नियतं मम साम्पराये ।
लक्षीकरिष्यसि पदावनि ! रङ्गनाथं
लक्ष्मीपदाम्बुरुहयावकपङ्कलक्ष्यम्॥ 32.20

मूलम्

येन स्थिता शिरसि मे विधिनाऽधुना त्वं
तेनैव देवि ! नियतं मम साम्पराये ।
लक्षीकरिष्यसि पदावनि ! रङ्गनाथं
लक्ष्मीपदाम्बुरुहयावकपङ्कलक्ष्यम्॥ 32.20

विश्वास-प्रस्तुतिः

हरिचरणसरोजे भक्तिभाजां जनानाम्
अनुकरणविशेषैरात्मनैवोपहास्यम् ।
परिणमय दयार्द्रा पादुके ! तादृशं मां
भरतपरिषदन्तर्वर्तिभिः प्रेक्षणीयम्॥ 32.21

मूलम्

हरिचरणसरोजे भक्तिभाजां जनानाम्
अनुकरणविशेषैरात्मनैवोपहास्यम् ।
परिणमय दयार्द्रा पादुके ! तादृशं मां
भरतपरिषदन्तर्वर्तिभिः प्रेक्षणीयम्॥ 32.21

विश्वास-प्रस्तुतिः

दुरितमपनयन्ती दूरतः पादुके ! त्वं
दनुजमथनलीलां देवतामानयन्ती ।
अनितरशरणानामग्रिमस्यास्य जन्तोः
अवशकरणवृत्तेरग्रतः सन्निधेयाः॥ 32.22

मूलम्

दुरितमपनयन्ती दूरतः पादुके ! त्वं
दनुजमथनलीलां देवतामानयन्ती ।
अनितरशरणानामग्रिमस्यास्य जन्तोः
अवशकरणवृत्तेरग्रतः सन्निधेयाः॥ 32.22

विश्वास-प्रस्तुतिः

चरमनिगमगीते सप्ततन्तौ समाप्ते
निजसदनसमीपे प्रापयिष्यन् विहारम् ।
ज्वलनमिव भवत्योः सम्यगारोपयेन्मां
प्रथमवरणवश्यः पादुके ! रङ्गनाथः॥ 32.23

मूलम्

चरमनिगमगीते सप्ततन्तौ समाप्ते
निजसदनसमीपे प्रापयिष्यन् विहारम् ।
ज्वलनमिव भवत्योः सम्यगारोपयेन्मां
प्रथमवरणवश्यः पादुके ! रङ्गनाथः॥ 32.23

विश्वास-प्रस्तुतिः

पुनरुदरनिवासच्छेदनं सह्यसिन्धोः
पुलिनमधिवसेयं पुण्यमाब्रह्मलाभात् ।
परिणमति शरीरे पादुके ! यत्र पुंसां
त्वमसि निगमगीता शाश्वतं मौळिरत्नम्॥ 32.24

मूलम्

पुनरुदरनिवासच्छेदनं सह्यसिन्धोः
पुलिनमधिवसेयं पुण्यमाब्रह्मलाभात् ।
परिणमति शरीरे पादुके ! यत्र पुंसां
त्वमसि निगमगीता शाश्वतं मौळिरत्नम्॥ 32.24

विश्वास-प्रस्तुतिः

बहुविधपुरुषार्थग्रामसीमान्तरेखां
हरिचरणसरोजन्यासधन्यामनन्यः ।
भरतसमयसिद्धां पादुके ! भावयंस्त्वां
शतमिह शरदस्ते श्रावयेयं समृद्धिम्॥ 32.25

मूलम्

बहुविधपुरुषार्थग्रामसीमान्तरेखां
हरिचरणसरोजन्यासधन्यामनन्यः ।
भरतसमयसिद्धां पादुके ! भावयंस्त्वां
शतमिह शरदस्ते श्रावयेयं समृद्धिम्॥ 32.25

विश्वास-प्रस्तुतिः

तिलकयसि शिरो मे शौरिपादावनि ! त्वं
भजसि मनसि नित्यं भूमिकां भावनाख्याम् ।
वचसि च विभवैः स्वैर्व्यक्तिमित्थं प्रयाता
तदिह परिणतं मे तादृशं भागधेयम्॥ 32.26

मूलम्

तिलकयसि शिरो मे शौरिपादावनि ! त्वं
भजसि मनसि नित्यं भूमिकां भावनाख्याम् ।
वचसि च विभवैः स्वैर्व्यक्तिमित्थं प्रयाता
तदिह परिणतं मे तादृशं भागधेयम्॥ 32.26

विश्वास-प्रस्तुतिः

अजनिषि चिरमादौ हन्त देहेन्द्रियादिः
तदनु तदधिकस्सन्नीश्वरोऽहं बभूव ।
अथ भगवत एवाभूवमर्थादिदानीं
तव पुनरहमासं पादुके ! धन्यजन्मा॥ 32.27

मूलम्

अजनिषि चिरमादौ हन्त देहेन्द्रियादिः
तदनु तदधिकस्सन्नीश्वरोऽहं बभूव ।
अथ भगवत एवाभूवमर्थादिदानीं
तव पुनरहमासं पादुके ! धन्यजन्मा॥ 32.27

विश्वास-प्रस्तुतिः

त्वय्यायत्तौ भगवति शिलाभस्मनोः प्राणदानात्
आस्त्रीबालं प्रथितविभवौ पादपद्मौ मुरारेः ।
तामेवाहं शिरसि निहितामद्य पश्यामि दैवात्
आत्माधारां जननि भवतीमात्मलाभप्रसूतिम्॥ 32.28

मूलम्

त्वय्यायत्तौ भगवति शिलाभस्मनोः प्राणदानात्
आस्त्रीबालं प्रथितविभवौ पादपद्मौ मुरारेः ।
तामेवाहं शिरसि निहितामद्य पश्यामि दैवात्
आत्माधारां जननि भवतीमात्मलाभप्रसूतिम्॥ 32.28

विश्वास-प्रस्तुतिः

कथङ्कारं लक्ष्मीकरकमलयोग्यं निजपदं
निदध्याद्रङ्गेशः कुलिशकठिनेऽस्मिन्मनसि नः ।
न चेदेवं मध्ये विशति दयया देवि ! भवती
निजाक्रान्तिक्षुण्णस्मरशरशिखाकण्टकततिः॥ 32.29

मूलम्

कथङ्कारं लक्ष्मीकरकमलयोग्यं निजपदं
निदध्याद्रङ्गेशः कुलिशकठिनेऽस्मिन्मनसि नः ।
न चेदेवं मध्ये विशति दयया देवि ! भवती
निजाक्रान्तिक्षुण्णस्मरशरशिखाकण्टकततिः॥ 32.29

विश्वास-प्रस्तुतिः

क्रीडालौल्यं किमपि समये पादुके ! वर्जयन्ती
निर्वेशं स्वं दिशसि भवतीनाथयोः श्रीधरण्योः ।
मामप्येवं जनय मधुजित्पादयोरन्तरङ्गं
रङ्गं याऽसौ जनयसि गुणैर्भारतीनृत्तरङ्गम्॥ 32.30

मूलम्

क्रीडालौल्यं किमपि समये पादुके ! वर्जयन्ती
निर्वेशं स्वं दिशसि भवतीनाथयोः श्रीधरण्योः ।
मामप्येवं जनय मधुजित्पादयोरन्तरङ्गं
रङ्गं याऽसौ जनयसि गुणैर्भारतीनृत्तरङ्गम्॥ 32.30

विश्वास-प्रस्तुतिः

इति रङ्गधुरीणपादुके ! त्वं
स्तुतिलक्षेण सहस्रशो विमृष्टा ।
सफलं मम जन्म तावदेतत्
यदिहाशास्यमतः परं किमेतत्॥ 32.31

मूलम्

इति रङ्गधुरीणपादुके ! त्वं
स्तुतिलक्षेण सहस्रशो विमृष्टा ।
सफलं मम जन्म तावदेतत्
यदिहाशास्यमतः परं किमेतत्॥ 32.31

विश्वास-प्रस्तुतिः

मातः स्वरूपमिव रङ्गपतेर्निविष्टं
वाचामसीमनि पदावनि ! वैभवं ते ।
मोहादभिष्टुतवतो मम मन्दबुद्धेः
बालस्य साहसमिदं दयया सहेथाः॥ 32.32

मूलम्

मातः स्वरूपमिव रङ्गपतेर्निविष्टं
वाचामसीमनि पदावनि ! वैभवं ते ।
मोहादभिष्टुतवतो मम मन्दबुद्धेः
बालस्य साहसमिदं दयया सहेथाः॥ 32.32

विश्वास-प्रस्तुतिः

ये नाम भक्तिनियताः कवयो मदन्ये
मातः स्तुवन्ति मधुसूदनपादुके ! त्वाम् ।
लप्स्ये गुणां शविनिवेशितमानसानां
तेषामहं सबहुमानविलोकितानि॥ 32.33

मूलम्

ये नाम भक्तिनियताः कवयो मदन्ये
मातः स्तुवन्ति मधुसूदनपादुके ! त्वाम् ।
लप्स्ये गुणां शविनिवेशितमानसानां
तेषामहं सबहुमानविलोकितानि॥ 32.33

विश्वास-प्रस्तुतिः

सङ्घर्षयन्ति हृदयान्यसतां गुणांशे
सन्तस्तु सन्तमपि न प्रथयन्ति दोषम् ।
तद्रङ्गनाथचरणावनि ! ते स्तुतीनाम्
एका परं सदसतोरिह साक्षिणी त्वम्॥ 32.34

मूलम्

सङ्घर्षयन्ति हृदयान्यसतां गुणांशे
सन्तस्तु सन्तमपि न प्रथयन्ति दोषम् ।
तद्रङ्गनाथचरणावनि ! ते स्तुतीनाम्
एका परं सदसतोरिह साक्षिणी त्वम्॥ 32.34

विश्वास-प्रस्तुतिः

इत्थं त्वमेव निजकेळिवशादकार्षीः
इक्ष्वाकुनाथपदपङ्कजयोरनन्या ।
स्वीयं पदावनि ! मया सुमहच्चरित्रं
सीतेव देवि ! सहजेन कवीश्वरेण॥ 32.35

मूलम्

इत्थं त्वमेव निजकेळिवशादकार्षीः
इक्ष्वाकुनाथपदपङ्कजयोरनन्या ।
स्वीयं पदावनि ! मया सुमहच्चरित्रं
सीतेव देवि ! सहजेन कवीश्वरेण॥ 32.35

विश्वास-प्रस्तुतिः

पृथुकवदनशङ्खस्पर्शनीत्या कदाचित्
शिरसि विनिहितायाः स्वेन भूम्ना तवैव ।
स्तुतिरियमुपजाता मन्मुखेनेत्यधीयुः
परिचरणपरास्ते पादुकेऽपास्तदोषाः॥ 32.36

मूलम्

पृथुकवदनशङ्खस्पर्शनीत्या कदाचित्
शिरसि विनिहितायाः स्वेन भूम्ना तवैव ।
स्तुतिरियमुपजाता मन्मुखेनेत्यधीयुः
परिचरणपरास्ते पादुकेऽपास्तदोषाः॥ 32.36

विश्वास-प्रस्तुतिः

यदि स्फीता भक्तिः प्रणयमुखवाणीपरिपणं
पदत्राणस्तोत्रं हृदि बिभृत रङ्गक्षितिभृतः ।
निरुन्मादो यद्वा निरवधिसुधानिर्झरमुचो
वचोभङ्गीरेता न कथमनुरुन्धे सहृदयः॥ 32.37

मूलम्

यदि स्फीता भक्तिः प्रणयमुखवाणीपरिपणं
पदत्राणस्तोत्रं हृदि बिभृत रङ्गक्षितिभृतः ।
निरुन्मादो यद्वा निरवधिसुधानिर्झरमुचो
वचोभङ्गीरेता न कथमनुरुन्धे सहृदयः॥ 32.37

विश्वास-प्रस्तुतिः

जयति यतिराजसूक्तिः
जयति मुकुन्दस्य पादुकायुगळी ।
तदुभयधनास्त्रिवेदीं
अवन्ध्ययन्तो जयन्ति भुवि सन्तः॥ 32.38

मूलम्

जयति यतिराजसूक्तिः
जयति मुकुन्दस्य पादुकायुगळी ।
तदुभयधनास्त्रिवेदीं
अवन्ध्ययन्तो जयन्ति भुवि सन्तः॥ 32.38