विश्वास-प्रस्तुतिः
प्रपद्ये पादुकां देवीं परविद्यामिव स्वयम् ।
यामर्पयति दीनानां दयमानो जगद्गुरुः॥ 31.1
मूलम्
प्रपद्ये पादुकां देवीं परविद्यामिव स्वयम् ।
यामर्पयति दीनानां दयमानो जगद्गुरुः॥ 31.1
विश्वास-प्रस्तुतिः
अपि जन्मनि पादुके ! परस्मिन्
अनघैः कर्मभिरीदृशो भवेयम् ।
य इमे विनयेन रङ्गभर्तुः
समये त्वां पदयोः समर्पयन्ति॥ 31.2
मूलम्
अपि जन्मनि पादुके ! परस्मिन्
अनघैः कर्मभिरीदृशो भवेयम् ।
य इमे विनयेन रङ्गभर्तुः
समये त्वां पदयोः समर्पयन्ति॥ 31.2
विश्वास-प्रस्तुतिः
परिवर्तयिता पितामहादीन्
त्वमिवानन्तमसौ वहत्यनेहा ।
अधुनाऽपि न शौरिपादुके ! त्वां
अनघालम्बनमभ्युपैति चित्तम्॥ 31.3
मूलम्
परिवर्तयिता पितामहादीन्
त्वमिवानन्तमसौ वहत्यनेहा ।
अधुनाऽपि न शौरिपादुके ! त्वां
अनघालम्बनमभ्युपैति चित्तम्॥ 31.3
विश्वास-प्रस्तुतिः
कमलाध्युषिते निधौ निरीहे
सुलभे तिष्ठति रङ्गकोशमध्ये ।
त्वयि तत्प्रतिलम्भने स्थितायां
परमन्विच्छति पादुके ! मनो मे॥ 31.4
मूलम्
कमलाध्युषिते निधौ निरीहे
सुलभे तिष्ठति रङ्गकोशमध्ये ।
त्वयि तत्प्रतिलम्भने स्थितायां
परमन्विच्छति पादुके ! मनो मे॥ 31.4
विश्वास-प्रस्तुतिः
यद्यप्यहं तरळधीस्तव न स्मरेयं
न स्मर्तुमर्हति कथं भवती स्वयं मे ।
वत्से विहारकुतुकं कलयत्यवस्था
का नाम केशवपदावनि ! वत्सलायाः॥ 31.5
मूलम्
यद्यप्यहं तरळधीस्तव न स्मरेयं
न स्मर्तुमर्हति कथं भवती स्वयं मे ।
वत्से विहारकुतुकं कलयत्यवस्था
का नाम केशवपदावनि ! वत्सलायाः॥ 31.5
विश्वास-प्रस्तुतिः
मातर्मुकुन्दकरुणामपि निह्नुवानात्
किं वा परं किमपि किल्बिषतो मदीयात् ।
गाढं गृहीतचरणागमनापदेशात्
तत्प्रेरणप्रणयिनी तव चेन्न लीला॥ 31.6
मूलम्
मातर्मुकुन्दकरुणामपि निह्नुवानात्
किं वा परं किमपि किल्बिषतो मदीयात् ।
गाढं गृहीतचरणागमनापदेशात्
तत्प्रेरणप्रणयिनी तव चेन्न लीला॥ 31.6
विश्वास-प्रस्तुतिः
क्षीबाऽसि काञ्चनपदावनि ! कैटभारेः
पादारविन्दमकरन्दनिषेवणेन ।
देवि ! त्वदन्तिकजुषः कथमन्यथा मे
दीनाक्षराणि न शृणोषि दयाधिका त्वम्॥ 31.7
मूलम्
क्षीबाऽसि काञ्चनपदावनि ! कैटभारेः
पादारविन्दमकरन्दनिषेवणेन ।
देवि ! त्वदन्तिकजुषः कथमन्यथा मे
दीनाक्षराणि न शृणोषि दयाधिका त्वम्॥ 31.7
विश्वास-प्रस्तुतिः
मातस्त्वदर्पितभरस्य मुकुन्दपादे
भद्रेतराणि यदि नाम भवन्ति भूयः ।
कीर्तिः प्रपन्नपरिरक्षणदीक्षितायाः
किं न त्रपेत तव काञ्चनपादरक्षे॥ 31.8
मूलम्
मातस्त्वदर्पितभरस्य मुकुन्दपादे
भद्रेतराणि यदि नाम भवन्ति भूयः ।
कीर्तिः प्रपन्नपरिरक्षणदीक्षितायाः
किं न त्रपेत तव काञ्चनपादरक्षे॥ 31.8
विश्वास-प्रस्तुतिः
दौवारिकद्विरसनप्रबलान्तरायैः
दूये पदावनि ! दुराढ्यबिलप्रवेशैः ।
तद्रङ्गधामनिरपायधनोत्तरायां
त्वय्येव विश्रमय मङ्क्षु मनोरथं मे॥ 31.9
मूलम्
दौवारिकद्विरसनप्रबलान्तरायैः
दूये पदावनि ! दुराढ्यबिलप्रवेशैः ।
तद्रङ्गधामनिरपायधनोत्तरायां
त्वय्येव विश्रमय मङ्क्षु मनोरथं मे॥ 31.9
विश्वास-प्रस्तुतिः
व्यामुह्यतां त्रिविधतापमये निदाघे
मायाविशेषजनितासु मरीचिकासु ।
संस्पृष्टशौरिचरणा चरणावनि ! त्वं
स्थेया स्वयं भवसि नश्चरमे पुमर्थे॥ 31.10
मूलम्
व्यामुह्यतां त्रिविधतापमये निदाघे
मायाविशेषजनितासु मरीचिकासु ।
संस्पृष्टशौरिचरणा चरणावनि ! त्वं
स्थेया स्वयं भवसि नश्चरमे पुमर्थे॥ 31.10
विश्वास-प्रस्तुतिः
अच्छेद्यया विषयवागुरया निबद्धान्
दीनान् जनार्दनपदावनि ! सत्पथस्था ।
प्रायः क्रमेण भवती परिगृह्य मौळौ
कालेन मोचयति नः कृपया सनाथा॥ 31.11
मूलम्
अच्छेद्यया विषयवागुरया निबद्धान्
दीनान् जनार्दनपदावनि ! सत्पथस्था ।
प्रायः क्रमेण भवती परिगृह्य मौळौ
कालेन मोचयति नः कृपया सनाथा॥ 31.11
विश्वास-प्रस्तुतिः
संवाहिका चरणयोर्मणिपादरक्षे !
देवस्य रङ्गवसतेर्दयिता ननु त्वम् ।
कस्त्वां निवारयितुमर्हसि योजयन्तीं
मातः ! स्वयं गुणगणेषु ममापराधान्॥ 31.12
मूलम्
संवाहिका चरणयोर्मणिपादरक्षे !
देवस्य रङ्गवसतेर्दयिता ननु त्वम् ।
कस्त्वां निवारयितुमर्हसि योजयन्तीं
मातः ! स्वयं गुणगणेषु ममापराधान्॥ 31.12
विश्वास-प्रस्तुतिः
किं वा भविष्यति परं कलुषैकवृत्तेः
एतावताऽप्यनुपजातमनेहसा मे ।
एकं तदस्ति यदि पश्यसि पादुके ! ते
पद्मासहायपदपङ्कजभोगसाम्यम्॥ 31.13
मूलम्
किं वा भविष्यति परं कलुषैकवृत्तेः
एतावताऽप्यनुपजातमनेहसा मे ।
एकं तदस्ति यदि पश्यसि पादुके ! ते
पद्मासहायपदपङ्कजभोगसाम्यम्॥ 31.13
विश्वास-प्रस्तुतिः
विविधविषयचिन्तासन्तताभिश्चिरं मां
जनितकलुषमित्थं देवि ! दुर्वासनाभिः ।
पदसरसिजयोस्त्वं पादुके रङ्गभर्तुः
परिमळपरिवाहैः पावनैर्वासयेथाः॥ 31.14
मूलम्
विविधविषयचिन्तासन्तताभिश्चिरं मां
जनितकलुषमित्थं देवि ! दुर्वासनाभिः ।
पदसरसिजयोस्त्वं पादुके रङ्गभर्तुः
परिमळपरिवाहैः पावनैर्वासयेथाः॥ 31.14
विश्वास-प्रस्तुतिः
शरणमधिगतस्त्वां शार्ङ्गिणः पादरक्षे !
सकृदपि विनियुक्तं त्वत्सपर्याधिकारे ।
पुनरपि कथमेनं हस्तमुत्तानयेयं
धनमदमुदितानां मानवानां समाजे॥ 31.15
मूलम्
शरणमधिगतस्त्वां शार्ङ्गिणः पादरक्षे !
सकृदपि विनियुक्तं त्वत्सपर्याधिकारे ।
पुनरपि कथमेनं हस्तमुत्तानयेयं
धनमदमुदितानां मानवानां समाजे॥ 31.15
विश्वास-प्रस्तुतिः
यदि किमपि समीहे कर्म कर्तुं यथावत्
प्रतिपदमुपजातैः प्रत्यवेयां निमित्तैः ।
अवधिरसि यदि त्वं तत्र नैमित्तिकानां
शरणमिह न किं मे शौरिपादावनि ! स्याः॥ 31.16
मूलम्
यदि किमपि समीहे कर्म कर्तुं यथावत्
प्रतिपदमुपजातैः प्रत्यवेयां निमित्तैः ।
अवधिरसि यदि त्वं तत्र नैमित्तिकानां
शरणमिह न किं मे शौरिपादावनि ! स्याः॥ 31.16
विश्वास-प्रस्तुतिः
अन्तर्लीनैरघपरिकरैराविला चित्तवृत्तिः
शब्दादीनां परवशतया दुर्जयानीन्द्रियाणि ।
विष्णोः पादप्रणयिनि ! चिरादस्य मे दुः खसिन्धोः
पारं प्राप्यं भवति परया विद्यया वा त्वया वा॥ 31.17
मूलम्
अन्तर्लीनैरघपरिकरैराविला चित्तवृत्तिः
शब्दादीनां परवशतया दुर्जयानीन्द्रियाणि ।
विष्णोः पादप्रणयिनि ! चिरादस्य मे दुः खसिन्धोः
पारं प्राप्यं भवति परया विद्यया वा त्वया वा॥ 31.17
विश्वास-प्रस्तुतिः
गोमायूनां मलयपवने तस्कराणां हिमांशौ
दुर्वृत्तानां सुचरितमये सत्पथे त्वत्सनाथे ।
तत्त्वज्ञाने तरळमनसां शार्ङ्गिणः पादरक्षे !
नित्योद्वेगो भवति नियतेरीदृशी दुर्विनीतिः॥ 31.18
मूलम्
गोमायूनां मलयपवने तस्कराणां हिमांशौ
दुर्वृत्तानां सुचरितमये सत्पथे त्वत्सनाथे ।
तत्त्वज्ञाने तरळमनसां शार्ङ्गिणः पादरक्षे !
नित्योद्वेगो भवति नियतेरीदृशी दुर्विनीतिः॥ 31.18
विश्वास-प्रस्तुतिः
काले जन्तून् कलुषकरणे क्षिप्रमाकारयन्त्याः
घोरं नाहं यमपरिषदो घोषमाकर्णयेयम् ।
श्रीमद्रङ्गेश्वरचरणयोरन्तरङ्गैः प्रयुक्तं
सेवाह्वानं सपदि शृणुयां पादुकासेवकेति॥ 31.19
मूलम्
काले जन्तून् कलुषकरणे क्षिप्रमाकारयन्त्याः
घोरं नाहं यमपरिषदो घोषमाकर्णयेयम् ।
श्रीमद्रङ्गेश्वरचरणयोरन्तरङ्गैः प्रयुक्तं
सेवाह्वानं सपदि शृणुयां पादुकासेवकेति॥ 31.19
विश्वास-प्रस्तुतिः
पाषाणकल्पमन्ते परिचित-
गौतमपरिग्रहन्यायात् ।
पतिपदपरिचरणार्हं परिणमय
मुकुन्दपादरक्षिणि ! माम्॥ 31.20
मूलम्
पाषाणकल्पमन्ते परिचित-
गौतमपरिग्रहन्यायात् ।
पतिपदपरिचरणार्हं परिणमय
मुकुन्दपादरक्षिणि ! माम्॥ 31.20