30 चित्रपद्धतिः

विश्वास-प्रस्तुतिः

प्रतिष्ठां सर्वचित्राणां प्रपद्ये मणिपादुकाम् ।
विचित्रजगदाधारो विष्णुर्यत्र प्रतिष्ठितः॥ 30.1

मूलम्

प्रतिष्ठां सर्वचित्राणां प्रपद्ये मणिपादुकाम् ।
विचित्रजगदाधारो विष्णुर्यत्र प्रतिष्ठितः॥ 30.1

विश्वास-प्रस्तुतिः

शृणु ते पादुके ! चित्रं चित्राभिर्मणिभिर्विभोः ।
युगक्रमभुवो वर्णान् युगपद्वहसे स्वयम्॥ 30.2

मूलम्

शृणु ते पादुके ! चित्रं चित्राभिर्मणिभिर्विभोः ।
युगक्रमभुवो वर्णान् युगपद्वहसे स्वयम्॥ 30.2

विश्वास-प्रस्तुतिः

सुरासुरार्चिता धन्या तुङ्गमङ्गळपालिका ।
चराचराश्रिता मान्या रङ्गपुङ्गवपादुका॥ 30.3

मूलम्

सुरासुरार्चिता धन्या तुङ्गमङ्गळपालिका ।
चराचराश्रिता मान्या रङ्गपुङ्गवपादुका॥ 30.3

विश्वास-प्रस्तुतिः

पद्मेव मङ्गळसरित्पारं संसारसन्ततेः ।
दुरितक्षेपिका भूयात् पादुका रङ्गभूपतेः॥ 30.4

मूलम्

पद्मेव मङ्गळसरित्पारं संसारसन्ततेः ।
दुरितक्षेपिका भूयात् पादुका रङ्गभूपतेः॥ 30.4

विश्वास-प्रस्तुतिः

अनन्यशरणः सीदन्ननन्तक्लेशसागरे ।
शरणं चरणत्राणं रङ्गनाथस्य संश्रये॥ 30.5

मूलम्

अनन्यशरणः सीदन्ननन्तक्लेशसागरे ।
शरणं चरणत्राणं रङ्गनाथस्य संश्रये॥ 30.5

विश्वास-प्रस्तुतिः

प्रतिभायाः परं तत्त्वं बिभ्रती पद्मलोचनम् ।
पश्चिमायामवस्थायां पादुके ! मुह्यतो मम॥ 30.6

मूलम्

प्रतिभायाः परं तत्त्वं बिभ्रती पद्मलोचनम् ।
पश्चिमायामवस्थायां पादुके ! मुह्यतो मम॥ 30.6

विश्वास-प्रस्तुतिः

यामः श्रयति यां धत्ते यैन यात्याय याच्च या ।
याऽस्य मानाय यै वान्या सा मामवतु पादुका॥ 30.7

मूलम्

यामः श्रयति यां धत्ते यैन यात्याय याच्च या ।
याऽस्य मानाय यै वान्या सा मामवतु पादुका॥ 30.7

विश्वास-प्रस्तुतिः

चर्या नः शौरिपादु ! त्वं प्रायश्चित्तेष्वनुत्तमा ।
निवेश्यसे ततः सद्भिः प्रायश्चित्तेष्वनुत्तमा॥ 30.8

मूलम्

चर्या नः शौरिपादु ! त्वं प्रायश्चित्तेष्वनुत्तमा ।
निवेश्यसे ततः सद्भिः प्रायश्चित्तेष्वनुत्तमा॥ 30.8

विश्वास-प्रस्तुतिः

रामपादगता भासा सा भाता गदपामरा ।
कादुपानञ्च कासह्या ह्यास काञ्चनपादुका॥ 30.9

मूलम्

रामपादगता भासा सा भाता गदपामरा ।
कादुपानञ्च कासह्या ह्यास काञ्चनपादुका॥ 30.9

विश्वास-प्रस्तुतिः

बाढाघाळीझाटतुच्छे गाथाभानाय फुल्लखे ।
समाधौ शठजिच्चूडां वृणोषि हरिपादुके !॥ 30.10

मूलम्

बाढाघाळीझाटतुच्छे गाथाभानाय फुल्लखे ।
समाधौ शठजिच्चूडां वृणोषि हरिपादुके !॥ 30.10

विश्वास-प्रस्तुतिः

सा भूपा रामपारस्था विभूपास्तिसपारता ।
तारपा सकृपा दुष्टिपूरपा रामपादुका॥ 30.11

मूलम्

सा भूपा रामपारस्था विभूपास्तिसपारता ।
तारपा सकृपा दुष्टिपूरपा रामपादुका॥ 30.11

विश्वास-प्रस्तुतिः

कारिका न न यात्राया या गेयाऽस्यस्य भानुभा ।
पादपा हह सिद्धासि यज्ञाय मम साऽञ्जसा॥ 30.12

मूलम्

कारिका न न यात्राया या गेयाऽस्यस्य भानुभा ।
पादपा हह सिद्धासि यज्ञाय मम साऽञ्जसा॥ 30.12

विश्वास-प्रस्तुतिः

सराघवा श्रुतौ दृष्टा पादुका सनृपासना ।
सलाघवा गतौ श्लिष्टा स्वादुर्मे सदुपासना॥ 30.13

मूलम्

सराघवा श्रुतौ दृष्टा पादुका सनृपासना ।
सलाघवा गतौ श्लिष्टा स्वादुर्मे सदुपासना॥ 30.13

विश्वास-प्रस्तुतिः

काव्यायास्थित मावर्गव्याजयातगमार्गका ।
कामदा जगतः स्थित्यै रङ्गपुङ्गवपादुका॥ 30.14

मूलम्

काव्यायास्थित मावर्गव्याजयातगमार्गका ।
कामदा जगतः स्थित्यै रङ्गपुङ्गवपादुका॥ 30.14

विश्वास-प्रस्तुतिः

सुरकार्यकरी देवी रङ्गधुर्यस्य पादुका ।
कामदा कलितादेशा चरन्ती साधुवर्त्मसु॥ 30.15

मूलम्

सुरकार्यकरी देवी रङ्गधुर्यस्य पादुका ।
कामदा कलितादेशा चरन्ती साधुवर्त्मसु॥ 30.15

विश्वास-प्रस्तुतिः

भरताराधितां तारां वन्दे राघवपादुकाम् ।
भवतापाधितान्तानां वन्द्यां राजीवमेदुराम्॥ 30.16

मूलम्

भरताराधितां तारां वन्दे राघवपादुकाम् ।
भवतापाधितान्तानां वन्द्यां राजीवमेदुराम्॥ 30.16

विश्वास-प्रस्तुतिः

कादुपास्यसदालोका कालोदाहृतदामका ।
कामदाऽध्वरिरंसाकाऽकासा रङ्गेशपादुका॥ 30.17

मूलम्

कादुपास्यसदालोका कालोदाहृतदामका ।
कामदाऽध्वरिरंसाकाऽकासा रङ्गेशपादुका॥ 30.17

विश्वास-प्रस्तुतिः

पापाकूपारपाळीपा त्रिपादीपादपादपा ।
कृपारूपा जपालापा स्वापा माऽपान्नृपाधिपा॥ 30.18

मूलम्

पापाकूपारपाळीपा त्रिपादीपादपादपा ।
कृपारूपा जपालापा स्वापा माऽपान्नृपाधिपा॥ 30.18

विश्वास-प्रस्तुतिः

स्थिरागसां सदाराध्या विहताकततामता ।
सत्पादुके ! सरासा मा रङ्गराजपदं नय॥ 30.19

मूलम्

स्थिरागसां सदाराध्या विहताकततामता ।
सत्पादुके ! सरासा मा रङ्गराजपदं नय॥ 30.19

विश्वास-प्रस्तुतिः

स्थिता समयराजत्पा गतारा मादके गवि ।
दुरंहसां सन्नतादा साध्यातापकरासरा॥ 30.20

मूलम्

स्थिता समयराजत्पा गतारा मादके गवि ।
दुरंहसां सन्नतादा साध्यातापकरासरा॥ 30.20

विश्वास-प्रस्तुतिः

लोकताराकामचारा कविराजदुरावचा ।
तारा गते पादराऽऽम राजते रामपादुका॥ 30.21

मूलम्

लोकताराकामचारा कविराजदुरावचा ।
तारा गते पादराऽऽम राजते रामपादुका॥ 30.21

विश्वास-प्रस्तुतिः

जयामपापामयाजयामहे दुदुहे मया ।
महेशकाकाशहेमपादुकाऽममकादुपा॥ 30.22

मूलम्

जयामपापामयाजयामहे दुदुहे मया ।
महेशकाकाशहेमपादुकाऽममकादुपा॥ 30.22

विश्वास-प्रस्तुतिः

पापादपापादपापाऽपादपाददपादपा ।
दपादपा पादपाद पादपाद दपादपा॥ 30.23

मूलम्

पापादपापादपापाऽपादपाददपादपा ।
दपादपा पादपाद पादपाद दपादपा॥ 30.23

विश्वास-प्रस्तुतिः

कोपोद्दीपकपापेऽपि कृपापाकोपपादिका ।
पूदपादोदकापादोद्दीपिका काऽपि पादुका॥ 30.24

मूलम्

कोपोद्दीपकपापेऽपि कृपापाकोपपादिका ।
पूदपादोदकापादोद्दीपिका काऽपि पादुका॥ 30.24

विश्वास-प्रस्तुतिः

ततातत्ता तितत्तेता ताततीतेतितातितुत् ।
तत्तत्तत्ताततितता ततेतातेततातुता॥ 30.25

मूलम्

ततातत्ता तितत्तेता ताततीतेतितातितुत् ।
तत्तत्तत्ताततितता ततेतातेततातुता॥ 30.25

विश्वास-प्रस्तुतिः

यायायायायायायाया यायायायायायायाया ।
यायायायायायायाया या या या या या या या या॥ 30.26

मूलम्

यायायायायायायाया यायायायायायायाया ।
यायायायायायायाया या या या या या या या या॥ 30.26

विश्वास-प्रस्तुतिः

रघुपतिचरणावनी तदा विरचितसञ्चरणा वनीपथे ।
कृतपरिचरणा वनीपकैर्निगममुखैश्च रणावनीगता॥ 30.27

मूलम्

रघुपतिचरणावनी तदा विरचितसञ्चरणा वनीपथे ।
कृतपरिचरणा वनीपकैर्निगममुखैश्च रणावनीगता॥ 30.27

विश्वास-प्रस्तुतिः

दत्तकेळिं जगत्कल्पनानाटिकारङ्गिणा रङ्गिणा रङ्गिणा रङ्गिणा ।
तादृशे गाधिपुत्राध्वरे त्वां विनाऽपादुका पादुका पादुका पादुका॥ 30.28

मूलम्

दत्तकेळिं जगत्कल्पनानाटिकारङ्गिणा रङ्गिणा रङ्गिणा रङ्गिणा ।
तादृशे गाधिपुत्राध्वरे त्वां विनाऽपादुका पादुका पादुका पादुका॥ 30.28

विश्वास-प्रस्तुतिः

पादपापादपापादपापादपा पादपापादपापादपाऽपादपा ।
पादपापादपापादपापादपापादपापादपापाऽऽदपापादपा॥ 30.29

मूलम्

पादपापादपापादपापादपा पादपापादपापादपाऽपादपा ।
पादपापादपापादपापादपापादपापादपापाऽऽदपापादपा॥ 30.29

विश्वास-प्रस्तुतिः

साकेतत्राणवेळाजनितततनिजप्राङ्कणश्रीप्रभासा
साभा प्रश्रीरटव्यामियमममयमिव्यापदुच्छेदिलासा ।
सालादिच्छेदतिग्माहवरुरुरुवह ह्रीकरस्यामरासाऽसा
रामस्याङ्घ्रिमभ्याजति न न नतिजस्थूलमुत्रातके सा॥ 30.30

रम्ये वेश्मनि पापराक्षसभिदास्वासक्तधीनायिका
नन्तुं कर्मजदुर्मदालसधियां सा हन्त नाथीकृता ।
सद्वाटभ्रमिकासु तापसतपोविस्रम्भभूयन्त्रिका
काचित्स्वैरगमेन केळिसमये कामव्रता पादुका॥ 30.31

श्रीसंवेदनकर्मकृद्वसु तव स्यामृद्धधैर्यस्फुटः
श्रीपादावनि विस्तृतासि सुखिनी त्वं गेययातायना ।
वेदान्तानुभवातिपातिसुतनुः सान्द्रेड्यभावप्रथेऽङ्कस्था
चाच्युतदिव्यदास्यसुमतिः प्राणस्थसीताधन !॥ 30.32

कनकपीठनिविष्टतनुस्तदा
सुमतिदायिनिजानुभवस्मृता ।
विधिशिवप्रमुखैरभिवन्दिता
विजयते रघुपुङ्गवपादुका॥ 30.33

मूलम्

कनकपीठनिविष्टतनुस्तदा
सुमतिदायिनिजानुभवस्मृता ।
विधिशिवप्रमुखैरभिवन्दिता
विजयते रघुपुङ्गवपादुका॥ 30.33

विश्वास-प्रस्तुतिः

दीनगोपीजनिक्लिष्टभीनुत् सदा
रामपादावनि ! स्वानुभावस्थिता ।
एधि मेऽवश्यमुत्तारभावश्रिता
तेजसा तेन घुष्टिं गता पालिका॥ 30.34

मूलम्

दीनगोपीजनिक्लिष्टभीनुत् सदा
रामपादावनि ! स्वानुभावस्थिता ।
एधि मेऽवश्यमुत्तारभावश्रिता
तेजसा तेन घुष्टिं गता पालिका॥ 30.34

विश्वास-प्रस्तुतिः

धामनिराकृततामसलोका धातृमुखैर्विनता निजदासैः ।
पापमशेषमपाकुरुषे मे पादु ! विभूषितराघवपादा॥ 30.35

मूलम्

धामनिराकृततामसलोका धातृमुखैर्विनता निजदासैः ।
पापमशेषमपाकुरुषे मे पादु ! विभूषितराघवपादा॥ 30.35

विश्वास-प्रस्तुतिः

कृपानघत्रातसुभूरदुष्टा
मेध्या रुचा पारिषदामभूपा ।
पादावनि ! स्त्यानसुखैर्न तृप्ता
कान्त्या समेताधिकृताऽनिरोधा॥ 30.36

मूलम्

कृपानघत्रातसुभूरदुष्टा
मेध्या रुचा पारिषदामभूपा ।
पादावनि ! स्त्यानसुखैर्न तृप्ता
कान्त्या समेताधिकृताऽनिरोधा॥ 30.36

विश्वास-प्रस्तुतिः

सारससौख्यसमेता ख्याता पदपा भुवि स्वाज्ञा ।
साहसकार्यवनाशा धीरा वसुदा नवन्यासा॥ 30.37

मूलम्

सारससौख्यसमेता ख्याता पदपा भुवि स्वाज्ञा ।
साहसकार्यवनाशा धीरा वसुदा नवन्यासा॥ 30.37

विश्वास-प्रस्तुतिः

सान्याऽवनदा सुवराऽधीशाना वर्यका सहसा ।
ज्ञा स्वा विभुपादपताख्याता मे सख्यसौ सरसा॥ 30.38

मूलम्

सान्याऽवनदा सुवराऽधीशाना वर्यका सहसा ।
ज्ञा स्वा विभुपादपताख्याता मे सख्यसौ सरसा॥ 30.38

विश्वास-प्रस्तुतिः

तारस्फारतरस्वररसभररा सा पदावनी सारा ।
धीरस्वैरचरस्थिररघुपुरवासरतिरामसवा॥ 30.39

मूलम्

तारस्फारतरस्वररसभररा सा पदावनी सारा ।
धीरस्वैरचरस्थिररघुपुरवासरतिरामसवा॥ 30.39

विश्वास-प्रस्तुतिः

चरमचरं च नियन्तुश्चरणावनिदम्परेतरा शौरेः ।
चरमपुरुषार्थचित्रौ चरणावनि ! दिशसि चत्वरेषु सताम्॥ 30.40

मूलम्

चरमचरं च नियन्तुश्चरणावनिदम्परेतरा शौरेः ।
चरमपुरुषार्थचित्रौ चरणावनि ! दिशसि चत्वरेषु सताम्॥ 30.40