विश्वास-प्रस्तुतिः
विधौ प्रवृत्ते यद्द्रव्यं गुणसंस्कारनामभिः ।
श्रेयः साधनमाम्नातं तत्पदत्रं तथाऽस्तु मे॥ 29.1
मूलम्
विधौ प्रवृत्ते यद्द्रव्यं गुणसंस्कारनामभिः ।
श्रेयः साधनमाम्नातं तत्पदत्रं तथाऽस्तु मे॥ 29.1
विश्वास-प्रस्तुतिः
मधुरस्मितरम्यमौक्तिकश्रीर्विशसि
व्यञ्जितमञ्जुळप्रणादा ।
सह रङ्गनृपेण वासगेहं
तनुमध्या मणिपादुके ! त्वमेका॥ 29.2
मूलम्
मधुरस्मितरम्यमौक्तिकश्रीर्विशसि
व्यञ्जितमञ्जुळप्रणादा ।
सह रङ्गनृपेण वासगेहं
तनुमध्या मणिपादुके ! त्वमेका॥ 29.2
विश्वास-प्रस्तुतिः
शुभशब्दविशेषसंश्रिताभिः
भवती शौरिपदावनि ! क्रियाभिः ।
अनुतिष्ठति नूनमाश्रितानां
अखिलोपद्रवशान्तिकं नवीनम्॥ 29.3
मूलम्
शुभशब्दविशेषसंश्रिताभिः
भवती शौरिपदावनि ! क्रियाभिः ।
अनुतिष्ठति नूनमाश्रितानां
अखिलोपद्रवशान्तिकं नवीनम्॥ 29.3
विश्वास-प्रस्तुतिः
मणिभिर्मधुवैरिपादरक्षे !
भवती विक्रमणे प्रवर्धमाना ।
युगपद्भवतां युगान्तकाले
दिवि लक्ष्मीं विदधे दिवाकराणाम्॥ 29.4
मूलम्
मणिभिर्मधुवैरिपादरक्षे !
भवती विक्रमणे प्रवर्धमाना ।
युगपद्भवतां युगान्तकाले
दिवि लक्ष्मीं विदधे दिवाकराणाम्॥ 29.4
विश्वास-प्रस्तुतिः
मञ्जुस्वनां मणिमयूखकलापिनीं त्वां
दृष्ट्वा कपर्दसविधे विनिवेश्यमानाम् ।
गूढीभवन्ति गरुडध्वजपादरक्षे !
फूत्कारवन्ति पुरवैरिविभूषणानि॥ 29.5
मूलम्
मञ्जुस्वनां मणिमयूखकलापिनीं त्वां
दृष्ट्वा कपर्दसविधे विनिवेश्यमानाम् ।
गूढीभवन्ति गरुडध्वजपादरक्षे !
फूत्कारवन्ति पुरवैरिविभूषणानि॥ 29.5
विश्वास-प्रस्तुतिः
मध्ये परिस्फुरितनिर्मलचन्द्रतारा
प्रान्तेषु रत्ननिकरेण विचित्रवर्णा ।
पुष्णासि रङ्गनृपतेर्मणिपादुके ! त्वं
चक्षुर्वशीकरणयन्त्रविशेषशङ्काम्॥ 29.6
मूलम्
मध्ये परिस्फुरितनिर्मलचन्द्रतारा
प्रान्तेषु रत्ननिकरेण विचित्रवर्णा ।
पुष्णासि रङ्गनृपतेर्मणिपादुके ! त्वं
चक्षुर्वशीकरणयन्त्रविशेषशङ्काम्॥ 29.6
विश्वास-प्रस्तुतिः
पादेन रङ्गनृपतेः परिभुज्यमाना
मुक्ताफलप्रकटितश्रमवारिबिन्दुः ।
उत्कण्टका मणिमयूखशतैरुदग्रैः
सीत्कारिणीव चरणावनि ! शिञ्जितैस्त्वम्॥ 29.7
मूलम्
पादेन रङ्गनृपतेः परिभुज्यमाना
मुक्ताफलप्रकटितश्रमवारिबिन्दुः ।
उत्कण्टका मणिमयूखशतैरुदग्रैः
सीत्कारिणीव चरणावनि ! शिञ्जितैस्त्वम्॥ 29.7
विश्वास-प्रस्तुतिः
दूरप्रसारितकरा निनदैर्मणीनाम्
आयाति दैत्यरिपुरित्यसकृद्ब्रुवाणा ।
दैत्येश्वरानभिमुखान् जनितानुकम्पा
मन्ये निवारयसि माधवपादुके ! त्वम्॥ 29.8
मूलम्
दूरप्रसारितकरा निनदैर्मणीनाम्
आयाति दैत्यरिपुरित्यसकृद्ब्रुवाणा ।
दैत्येश्वरानभिमुखान् जनितानुकम्पा
मन्ये निवारयसि माधवपादुके ! त्वम्॥ 29.8
विश्वास-प्रस्तुतिः
अच्छेद्यरश्मिनियतक्रमरत्नधुर्या
निष्कम्पकूबरनिभं दधती प्रतीकम् ।
क्रीडागतेषु मधुजित्पदपद्मलक्ष्म्याः
कर्णीरथस्त्वमसि काञ्चनपादरक्षे !॥ 29.9
मूलम्
अच्छेद्यरश्मिनियतक्रमरत्नधुर्या
निष्कम्पकूबरनिभं दधती प्रतीकम् ।
क्रीडागतेषु मधुजित्पदपद्मलक्ष्म्याः
कर्णीरथस्त्वमसि काञ्चनपादरक्षे !॥ 29.9
विश्वास-प्रस्तुतिः
मञ्जुस्वना मरतकोपलमेचकाङ्गी
शोणाश्मतुण्डरुचिरा मणिपादुके ! त्वम् ।
पद्माविहाररसिकस्य परस्य यूनः
पर्यायतां भजसि पञ्जरशारिकाणाम्॥ 29.10
मूलम्
मञ्जुस्वना मरतकोपलमेचकाङ्गी
शोणाश्मतुण्डरुचिरा मणिपादुके ! त्वम् ।
पद्माविहाररसिकस्य परस्य यूनः
पर्यायतां भजसि पञ्जरशारिकाणाम्॥ 29.10
विश्वास-प्रस्तुतिः
शोणोपलैश्चरणरक्षिणि ! संश्रितेषु
छायात्मना मरतकेषु तवावगाढः ।
अन्वेति शौरिरभितः फलपङ्क्तिशोभिनि
आत्मानमेव शयितुं वटपत्रमध्ये॥ 29.11
मूलम्
शोणोपलैश्चरणरक्षिणि ! संश्रितेषु
छायात्मना मरतकेषु तवावगाढः ।
अन्वेति शौरिरभितः फलपङ्क्तिशोभिनि
आत्मानमेव शयितुं वटपत्रमध्ये॥ 29.11
विश्वास-प्रस्तुतिः
स्फीतं पदावनि ! तव स्नपनार्द्रमूर्तेः
आसागरं ततमभून्मणिरश्मिजालम् ।
लीलोचितं रघुसुतस्य शरव्यमासन्
यातूनि यस्य वलयेन विवेष्टितानि॥ 29.12
मूलम्
स्फीतं पदावनि ! तव स्नपनार्द्रमूर्तेः
आसागरं ततमभून्मणिरश्मिजालम् ।
लीलोचितं रघुसुतस्य शरव्यमासन्
यातूनि यस्य वलयेन विवेष्टितानि॥ 29.12
विश्वास-प्रस्तुतिः
रत्नांशुभिस्तव तदा मणिपादरक्षे !
संरज्यमानवपुषां रजनीमुखेषु ।
आकस्मिकागतमदर्शि महौषधित्वं
साकेतपत्तनसमीपरुहां द्रुमाणाम्॥ 29.13
मूलम्
रत्नांशुभिस्तव तदा मणिपादरक्षे !
संरज्यमानवपुषां रजनीमुखेषु ।
आकस्मिकागतमदर्शि महौषधित्वं
साकेतपत्तनसमीपरुहां द्रुमाणाम्॥ 29.13
विश्वास-प्रस्तुतिः
रामे वनं दशरथे च दिवं प्रयाते
निर्धूतविश्वतिमिरा सहसा बभूव ।
भूयिष्ठरत्नकिरणा भवती रघूणां
भूयः प्रतापतपनोदयपूर्वसन्ध्या॥ 29.14
मूलम्
रामे वनं दशरथे च दिवं प्रयाते
निर्धूतविश्वतिमिरा सहसा बभूव ।
भूयिष्ठरत्नकिरणा भवती रघूणां
भूयः प्रतापतपनोदयपूर्वसन्ध्या॥ 29.14
विश्वास-प्रस्तुतिः
प्रीतेन देवि ! विभुना प्रतिपादनीयां
पादावनि ! प्रतिपदोदितमञ्जुनादाम् ।
विद्यां विदुर्भगवतः प्रतिपादनार्हां
पारायणागमपयोनिधिपारगास्त्वाम्॥ 29.15
मूलम्
प्रीतेन देवि ! विभुना प्रतिपादनीयां
पादावनि ! प्रतिपदोदितमञ्जुनादाम् ।
विद्यां विदुर्भगवतः प्रतिपादनार्हां
पारायणागमपयोनिधिपारगास्त्वाम्॥ 29.15
विश्वास-प्रस्तुतिः
मुक्तांशुकेसरवती स्थिरवज्रदंष्ट्रा
प्रह्लादसम्पदनुरूपहिरण्यभेदा ।
मूर्तिः श्रियो भवसि माधवपादरक्षे !
नाथस्य नूनमुचिता नरसिंहमूर्तेः॥ 29.16
मूलम्
मुक्तांशुकेसरवती स्थिरवज्रदंष्ट्रा
प्रह्लादसम्पदनुरूपहिरण्यभेदा ।
मूर्तिः श्रियो भवसि माधवपादरक्षे !
नाथस्य नूनमुचिता नरसिंहमूर्तेः॥ 29.16
विश्वास-प्रस्तुतिः
सम्भावयन्ति कवयश्चतुरप्रचारां
मञ्जुस्वनां महितमौक्तिकपत्रळाङ्गीम् ।
स्वाधीनसर्वभुवनां मणिपादुके ! त्वां
रङ्गाधिराजपदपङ्कजराजहंसीम्॥ 29.17
मूलम्
सम्भावयन्ति कवयश्चतुरप्रचारां
मञ्जुस्वनां महितमौक्तिकपत्रळाङ्गीम् ।
स्वाधीनसर्वभुवनां मणिपादुके ! त्वां
रङ्गाधिराजपदपङ्कजराजहंसीम्॥ 29.17
विश्वास-प्रस्तुतिः
मुक्तामयूखरुचिरां मणिपादरक्षे !
मञ्जुस्वनां मणिभिराहितवर्णवर्गाम् ।
मन्ये मुकुन्दपदपद्ममधुव्रतीनाम्
अन्यामकृत्रिमगिरामधिदेवतां त्वाम्॥ 29.18
मूलम्
मुक्तामयूखरुचिरां मणिपादरक्षे !
मञ्जुस्वनां मणिभिराहितवर्णवर्गाम् ।
मन्ये मुकुन्दपदपद्ममधुव्रतीनाम्
अन्यामकृत्रिमगिरामधिदेवतां त्वाम्॥ 29.18
विश्वास-प्रस्तुतिः
आसाद्य केकयसुतावरदानमूलं
कालं प्रदोषमनिरीक्ष्य रमासहायम् ।
मञ्जुप्रणादरहिता मणिपादरक्षे !
मौनव्रतं किमपि नूनमवर्तयस्त्वम्॥ 29.19
मूलम्
आसाद्य केकयसुतावरदानमूलं
कालं प्रदोषमनिरीक्ष्य रमासहायम् ।
मञ्जुप्रणादरहिता मणिपादरक्षे !
मौनव्रतं किमपि नूनमवर्तयस्त्वम्॥ 29.19
विश्वास-प्रस्तुतिः
वैडूर्यरम्यसलिला महिता मरुद्भिः
छायावती मरतकोपलरश्मिजालैः ।
अश्रान्तमोहपदवीपथिकस्य जन्तोः
विश्रान्तिभूमिरिव शौरिपदावनि ! त्वम्॥ 29.20
मूलम्
वैडूर्यरम्यसलिला महिता मरुद्भिः
छायावती मरतकोपलरश्मिजालैः ।
अश्रान्तमोहपदवीपथिकस्य जन्तोः
विश्रान्तिभूमिरिव शौरिपदावनि ! त्वम्॥ 29.20
विश्वास-प्रस्तुतिः
आद्यो रघुक्षितिभुजामभिषेकदीप्तैः
आप्यायितस्तव पदावनि ! रश्मिजालैः ।
मन्दीचकार तपनो व्यपनीतभीतिः
मन्दोदरीवदनचन्द्रमसो मयूखान्॥ 29.21
मूलम्
आद्यो रघुक्षितिभुजामभिषेकदीप्तैः
आप्यायितस्तव पदावनि ! रश्मिजालैः ।
मन्दीचकार तपनो व्यपनीतभीतिः
मन्दोदरीवदनचन्द्रमसो मयूखान्॥ 29.21
विश्वास-प्रस्तुतिः
मान्या समस्तजगतां मणिभङ्गनीला
पादे निसर्गघटिता मणिपादुके ! त्वम् ।
अन्तः पुरेषु लळितानि गतागतानि
छायेव रङ्गनृपतेरनुवर्तसे त्वम्॥ 29.22
मूलम्
मान्या समस्तजगतां मणिभङ्गनीला
पादे निसर्गघटिता मणिपादुके ! त्वम् ।
अन्तः पुरेषु लळितानि गतागतानि
छायेव रङ्गनृपतेरनुवर्तसे त्वम्॥ 29.22
विश्वास-प्रस्तुतिः
रङ्गाधिराजपदपङ्कजमाश्रयन्ती
हैमी स्वयं परिगता हरिनीलरत्नैः ।
सम्भाव्यसे सुकृतिभिर्मणिपादुके ! त्वं
सामान्यमूर्तिरिव सिन्धुसुताधरण्योः॥ 29.23
मूलम्
रङ्गाधिराजपदपङ्कजमाश्रयन्ती
हैमी स्वयं परिगता हरिनीलरत्नैः ।
सम्भाव्यसे सुकृतिभिर्मणिपादुके ! त्वं
सामान्यमूर्तिरिव सिन्धुसुताधरण्योः॥ 29.23
विश्वास-प्रस्तुतिः
अभ्यर्चिता सुमनसां निवहैरजस्रं
मुक्तारुणोपलनखाङ्गुळिपल्लवश्रीः ।
श्रेयस्करीं मुरभिदश्चरणद्वयीव
कान्तिं समाश्रयसि काञ्चनपादुके ! त्वम्॥ 29.24
मूलम्
अभ्यर्चिता सुमनसां निवहैरजस्रं
मुक्तारुणोपलनखाङ्गुळिपल्लवश्रीः ।
श्रेयस्करीं मुरभिदश्चरणद्वयीव
कान्तिं समाश्रयसि काञ्चनपादुके ! त्वम्॥ 29.24
विश्वास-प्रस्तुतिः
निर्मृष्टगात्ररुचिरा मणिपादुके ! त्वं
स्नातानुलेपसुरभिर्नवमाल्यचित्रा ।
प्राप्ते विहारसमये भजसे मुरारेः
पादारविन्दपरिभोगमनन्यलभ्यम्॥ 29.25
मूलम्
निर्मृष्टगात्ररुचिरा मणिपादुके ! त्वं
स्नातानुलेपसुरभिर्नवमाल्यचित्रा ।
प्राप्ते विहारसमये भजसे मुरारेः
पादारविन्दपरिभोगमनन्यलभ्यम्॥ 29.25
विश्वास-प्रस्तुतिः
नादे पदावनि ! तथा तव सन्निवेशे
निर्वेशनक्रममसह्यमपाचिकीर्षुः ।
यैरेव लोचनशतैरभिवीक्षते त्वां
तैरेव पन्नगपतिः श्रुतिमान् बभूव॥ 29.26
मूलम्
नादे पदावनि ! तथा तव सन्निवेशे
निर्वेशनक्रममसह्यमपाचिकीर्षुः ।
यैरेव लोचनशतैरभिवीक्षते त्वां
तैरेव पन्नगपतिः श्रुतिमान् बभूव॥ 29.26
विश्वास-प्रस्तुतिः
पादावनि ! स्फुटमयूखसहस्रदृश्या
विष्णोः पदेन भवती विहितप्रचारा ।
त्वद्भक्तियन्त्रितजनप्रथमस्य शम्भोः
वैकर्तनीमनुकरोति विहारमूर्तिम्॥ 29.27
मूलम्
पादावनि ! स्फुटमयूखसहस्रदृश्या
विष्णोः पदेन भवती विहितप्रचारा ।
त्वद्भक्तियन्त्रितजनप्रथमस्य शम्भोः
वैकर्तनीमनुकरोति विहारमूर्तिम्॥ 29.27
विश्वास-प्रस्तुतिः
राज्ये वनेऽपि रघुवीरपदोचितायाः
संस्मृत्य गौतमवधूपरिरक्षणं ते ।
मन्ये समाहितधियो मणिपादुके ! त्वां
मूर्ध्ना भजन्त्यनुदिनं मुनिधर्मदाराः ॥ 29.28
मूलम्
राज्ये वनेऽपि रघुवीरपदोचितायाः
संस्मृत्य गौतमवधूपरिरक्षणं ते ।
मन्ये समाहितधियो मणिपादुके ! त्वां
मूर्ध्ना भजन्त्यनुदिनं मुनिधर्मदाराः ॥ 29.28
विश्वास-प्रस्तुतिः
त्वामाश्रितो मणिमयूखसहस्रदृश्यां
त्वच्छिञ्जितेन सह रङ्गपतिः समुद्यन् ।
आशङ्क्यते सुमतिभिर्मणिपादरक्षे !
विद्यासखः सवितृमण्डलमध्यवर्ती ॥ 29.29
मूलम्
त्वामाश्रितो मणिमयूखसहस्रदृश्यां
त्वच्छिञ्जितेन सह रङ्गपतिः समुद्यन् ।
आशङ्क्यते सुमतिभिर्मणिपादरक्षे !
विद्यासखः सवितृमण्डलमध्यवर्ती ॥ 29.29
विश्वास-प्रस्तुतिः
रत्नाश्रितैर्हरिपदं मणिपादुके ! त्वं
स्पृष्ट्वा करैः श्रुतिरसायनमञ्जुनादा ।
तत्त्वं तदेतदिति बोधयसीव सम्यक्
वेदान् प्रतारितवतो विविधान् कुदृष्टीन् ॥ 29.30
मूलम्
रत्नाश्रितैर्हरिपदं मणिपादुके ! त्वं
स्पृष्ट्वा करैः श्रुतिरसायनमञ्जुनादा ।
तत्त्वं तदेतदिति बोधयसीव सम्यक्
वेदान् प्रतारितवतो विविधान् कुदृष्टीन् ॥ 29.30
विश्वास-प्रस्तुतिः
आनन्दसूः प्रणयिनामनघप्रसादा
रङ्गाधिराजपदरक्षिणि ! रत्नभासा ।
न्यस्ते मुहुर्निजभरे स्थिरतां भजन्त्याः
वर्णांशुकं वितरसीव वसुन्धरायाः॥ 29.31
मूलम्
आनन्दसूः प्रणयिनामनघप्रसादा
रङ्गाधिराजपदरक्षिणि ! रत्नभासा ।
न्यस्ते मुहुर्निजभरे स्थिरतां भजन्त्याः
वर्णांशुकं वितरसीव वसुन्धरायाः॥ 29.31
विश्वास-प्रस्तुतिः
त्वं चित्रभानुरसि रत्नविशेषयोगात्
भूम्ना निजेन परिपुष्यसि पावकत्वम् ।
स्वेनैव शौरिचरणावनि ! चन्द्ररूपा
तेजस्त्रयीव मिळिताऽसि तमोपहा नः॥ 29.32
मूलम्
त्वं चित्रभानुरसि रत्नविशेषयोगात्
भूम्ना निजेन परिपुष्यसि पावकत्वम् ।
स्वेनैव शौरिचरणावनि ! चन्द्ररूपा
तेजस्त्रयीव मिळिताऽसि तमोपहा नः॥ 29.32
विश्वास-प्रस्तुतिः
प्रौढप्रवाळरुचिरा भुवनैकवन्द्या
रङ्गाधिराजचरणावनि ! रम्यचन्द्रा ।
सम्भिन्नमौक्तिकरुचिः सततं प्रजानां
तापात्ययं दिशसि तारकितेव सन्ध्या॥ 29.33
मूलम्
प्रौढप्रवाळरुचिरा भुवनैकवन्द्या
रङ्गाधिराजचरणावनि ! रम्यचन्द्रा ।
सम्भिन्नमौक्तिकरुचिः सततं प्रजानां
तापात्ययं दिशसि तारकितेव सन्ध्या॥ 29.33
विश्वास-प्रस्तुतिः
रङ्गेश्वरस्य पुरतो मणिपादुके ! त्वं
रत्नांशुभिर्विकिरसि स्फुटभक्तिबन्धा ।
पादौ विहारयितुमद्भुतसौकुमार्यौ
प्रायः सरोजकुमुदोत्पलपत्रपङ्क्तिम्॥ 29.34
मूलम्
रङ्गेश्वरस्य पुरतो मणिपादुके ! त्वं
रत्नांशुभिर्विकिरसि स्फुटभक्तिबन्धा ।
पादौ विहारयितुमद्भुतसौकुमार्यौ
प्रायः सरोजकुमुदोत्पलपत्रपङ्क्तिम्॥ 29.34
विश्वास-प्रस्तुतिः
आसन्नवृत्तिरवरोधगृहेषु शौरेः
आपादयस्यनुपदं वरवर्णिनीनाम् ।
आलग्नरत्नकिरणा मणिपादुके ! त्वं
मञ्जुस्वना मदनबाणनिघर्षशङ्काम्॥ 29.35
मूलम्
आसन्नवृत्तिरवरोधगृहेषु शौरेः
आपादयस्यनुपदं वरवर्णिनीनाम् ।
आलग्नरत्नकिरणा मणिपादुके ! त्वं
मञ्जुस्वना मदनबाणनिघर्षशङ्काम्॥ 29.35
विश्वास-प्रस्तुतिः
पर्याप्तमौक्तिकनखा स्फुटपद्मरागा
रेखाविशेषरुचिरा लळितप्रचारा ।
रङ्गाधिराजपदयोर्मणिपादुके ! त्वं
सायुज्यमाश्रितवतीव समस्तवन्द्या॥ 29.36
मूलम्
पर्याप्तमौक्तिकनखा स्फुटपद्मरागा
रेखाविशेषरुचिरा लळितप्रचारा ।
रङ्गाधिराजपदयोर्मणिपादुके ! त्वं
सायुज्यमाश्रितवतीव समस्तवन्द्या॥ 29.36
विश्वास-प्रस्तुतिः
प्राप्ताभिषेका मणिपादुके ! त्वं
प्रदीप्तरत्ना रघुराजधान्याः ।
प्रदक्षिणप्रक्रमणादकार्षीः
प्राकारमाग्नेयमिव प्रभाभिः॥ 29.37
मूलम्
प्राप्ताभिषेका मणिपादुके ! त्वं
प्रदीप्तरत्ना रघुराजधान्याः ।
प्रदक्षिणप्रक्रमणादकार्षीः
प्राकारमाग्नेयमिव प्रभाभिः॥ 29.37
विश्वास-प्रस्तुतिः
रत्नासने राघवपादरक्षे !
प्रदीप्यमानास्तव पद्मरागाः ।
प्रायो नरेन्द्रान् भरतस्य
जेतुः प्रतापवह्नेरभवन् प्ररोहाः॥ 29.38
मूलम्
रत्नासने राघवपादरक्षे !
प्रदीप्यमानास्तव पद्मरागाः ।
प्रायो नरेन्द्रान् भरतस्य
जेतुः प्रतापवह्नेरभवन् प्ररोहाः॥ 29.38
विश्वास-प्रस्तुतिः
शुभप्रणादा भवती श्रुतीनां
कण्ठेषु वैकुण्ठपतिं वराणाम् ।
बध्नासि नूनं मणिपादरक्षे !
माङ्गळ्यसूत्रं मणिरश्मिजालैः॥ 29.39
मूलम्
शुभप्रणादा भवती श्रुतीनां
कण्ठेषु वैकुण्ठपतिं वराणाम् ।
बध्नासि नूनं मणिपादरक्षे !
माङ्गळ्यसूत्रं मणिरश्मिजालैः॥ 29.39
विश्वास-प्रस्तुतिः
विचित्रवर्णा श्रुतिरम्यशब्दा
निषेव्यसे नाकसदां शिरोभिः ।
मधुद्विषस्त्वं मणिपादरक्षे !
श्रेयस्करी शासनपत्रिकेव॥ 29.40
मूलम्
विचित्रवर्णा श्रुतिरम्यशब्दा
निषेव्यसे नाकसदां शिरोभिः ।
मधुद्विषस्त्वं मणिपादरक्षे !
श्रेयस्करी शासनपत्रिकेव॥ 29.40
विश्वास-प्रस्तुतिः
स्थिरा स्वभावान्मणिपादुके ! त्वं
सर्वंसहा स्वादुफलप्रसूतिः ।
पृथ्वीव पद्भ्यां परमस्य पुंसः
संसृज्यसे देवि ! विभज्यसे च॥ 29.41
मूलम्
स्थिरा स्वभावान्मणिपादुके ! त्वं
सर्वंसहा स्वादुफलप्रसूतिः ।
पृथ्वीव पद्भ्यां परमस्य पुंसः
संसृज्यसे देवि ! विभज्यसे च॥ 29.41
विश्वास-प्रस्तुतिः
पश्यन्ति रङ्गेश्वरपादरक्षे !
पूजासु ते संहितपुष्पजालाम् ।
मृगीदृशो वासवरत्नरेखां
सचित्रपुङ्खामिव मन्मथज्याम्॥ 29.42
मूलम्
पश्यन्ति रङ्गेश्वरपादरक्षे !
पूजासु ते संहितपुष्पजालाम् ।
मृगीदृशो वासवरत्नरेखां
सचित्रपुङ्खामिव मन्मथज्याम्॥ 29.42
विश्वास-प्रस्तुतिः
करैरुदग्रैः स्फुरतां मणीनां
मञ्जुस्वना माधवपादुके ! त्वम् ।
अनूपदेशे कनकापगायाः
कलेः प्रवेशं प्रतिषेधसीव॥ 29.43
मूलम्
करैरुदग्रैः स्फुरतां मणीनां
मञ्जुस्वना माधवपादुके ! त्वम् ।
अनूपदेशे कनकापगायाः
कलेः प्रवेशं प्रतिषेधसीव॥ 29.43
विश्वास-प्रस्तुतिः
आक्रान्तवेदिर्भवती तदानीं
अदर्शि मुक्तान्वितशोणरत्ना ।
करग्रहार्थं भरतेन भूम्याः
लाजोत्करैर्वह्निशिखेव कीर्णा॥ 29.44
मूलम्
आक्रान्तवेदिर्भवती तदानीं
अदर्शि मुक्तान्वितशोणरत्ना ।
करग्रहार्थं भरतेन भूम्याः
लाजोत्करैर्वह्निशिखेव कीर्णा॥ 29.44
विश्वास-प्रस्तुतिः
पत्रळा मणिगणैर्हिरण्मयी
भासि रङ्गपतिरत्नपादुके ! ।
केळिमण्टपगतागतोचिता
भूमिकेव गरुडेन कल्पिता॥ 29.45
मूलम्
पत्रळा मणिगणैर्हिरण्मयी
भासि रङ्गपतिरत्नपादुके ! ।
केळिमण्टपगतागतोचिता
भूमिकेव गरुडेन कल्पिता॥ 29.45
विश्वास-प्रस्तुतिः
उन्नतं बलिविरोधिनस्तदा
पादुके ! पदसरोजमाश्रिता ।
मौक्तिकस्तबकमध्यसम्मितं
व्योम षड्पदतुलामलम्भयः॥ 29.46
मूलम्
उन्नतं बलिविरोधिनस्तदा
पादुके ! पदसरोजमाश्रिता ।
मौक्तिकस्तबकमध्यसम्मितं
व्योम षड्पदतुलामलम्भयः॥ 29.46
विश्वास-प्रस्तुतिः
कोमलाङ्गुळिनिवेशयन्त्रिका-
न्यस्तमौक्तिकमयूखदन्तुरा ।
मङ्गळानि वमसीव देहिनां
रङ्गराजमणिपादुके ! स्वयम्॥ 29.47
मूलम्
कोमलाङ्गुळिनिवेशयन्त्रिका-
न्यस्तमौक्तिकमयूखदन्तुरा ।
मङ्गळानि वमसीव देहिनां
रङ्गराजमणिपादुके ! स्वयम्॥ 29.47
विश्वास-प्रस्तुतिः
पङ्कजासहचरस्य रङ्गिणः
पादुके ! निजपदादनन्तरम् ।
न्यस्यतस्त्वयि जगन्ति जायते
नागभोगशयनं निरङ्कुशम्॥ 29.48
मूलम्
पङ्कजासहचरस्य रङ्गिणः
पादुके ! निजपदादनन्तरम् ।
न्यस्यतस्त्वयि जगन्ति जायते
नागभोगशयनं निरङ्कुशम्॥ 29.48
विश्वास-प्रस्तुतिः
साधयन्ति मधुवैरिपादुके !
साधवः स्थिरमुपायमन्तिमम् ।
त्वत्प्रवृत्तिविनिवर्तनोचित-
स्वप्रवृत्तिविनिवर्तनान्वितम्॥ 29.49
मूलम्
साधयन्ति मधुवैरिपादुके !
साधवः स्थिरमुपायमन्तिमम् ।
त्वत्प्रवृत्तिविनिवर्तनोचित-
स्वप्रवृत्तिविनिवर्तनान्वितम्॥ 29.49
विश्वास-प्रस्तुतिः
नन्दसूनुपदपद्ममिन्दिरा-
पाणिपल्लवनिपीडनासहम् ।
पादुके ! तव बलेन पर्यभूत्
ऊष्मळामुरगमौळिशर्कराम्॥ 29.50
मूलम्
नन्दसूनुपदपद्ममिन्दिरा-
पाणिपल्लवनिपीडनासहम् ।
पादुके ! तव बलेन पर्यभूत्
ऊष्मळामुरगमौळिशर्कराम्॥ 29.50
विश्वास-प्रस्तुतिः
मणिनिकरसमुत्थैः सर्ववर्णा मयूखैः
प्रकटितशुभनादा पादुके ! रङ्गभर्तुः ।
निखिलनिगमसूतेर्ब्रह्मणस्तत्सनाथाम्
अवगमयसि हृद्यामर्धमात्रां चतुर्थीम्॥ 29.51
मूलम्
मणिनिकरसमुत्थैः सर्ववर्णा मयूखैः
प्रकटितशुभनादा पादुके ! रङ्गभर्तुः ।
निखिलनिगमसूतेर्ब्रह्मणस्तत्सनाथाम्
अवगमयसि हृद्यामर्धमात्रां चतुर्थीम्॥ 29.51
विश्वास-प्रस्तुतिः
श्रुतिविषयगुणा त्वं पादुके ! दैत्यहन्तुः
सततगतिमनोज्ञा स्वेन धाम्ना ज्वलन्ती ।
जनितभुवनवृद्धिः दृश्यसे स्थैर्ययुक्ता
विधृतनिखिलभूता वैजयन्तीव माला॥ 29.52
मूलम्
श्रुतिविषयगुणा त्वं पादुके ! दैत्यहन्तुः
सततगतिमनोज्ञा स्वेन धाम्ना ज्वलन्ती ।
जनितभुवनवृद्धिः दृश्यसे स्थैर्ययुक्ता
विधृतनिखिलभूता वैजयन्तीव माला॥ 29.52
विश्वास-प्रस्तुतिः
रघुपतिपदसङ्गाद्राज्यखेदं त्यजन्ती
पुनरपि भवती स्वान् दर्शयन्ती विहारान् ।
अभिसमधितवृद्धिं हर्षकोलाहलानां
जनपदजनितानां ज्यायसा शिञ्जितेन॥ 29.53
मूलम्
रघुपतिपदसङ्गाद्राज्यखेदं त्यजन्ती
पुनरपि भवती स्वान् दर्शयन्ती विहारान् ।
अभिसमधितवृद्धिं हर्षकोलाहलानां
जनपदजनितानां ज्यायसा शिञ्जितेन॥ 29.53
विश्वास-प्रस्तुतिः
हरिचरणमुपघ्नं पादुके ! संश्रितायाम्
अधिगतबहुशाखं वैभवं दर्शयन्त्याम् ।
अभजत विधिहस्तन्यस्तधर्मद्रवायां
त्वयि मुकुळसमृद्धिं मौक्तिकश्रीस्तदानीम्॥ 29.54
मूलम्
हरिचरणमुपघ्नं पादुके ! संश्रितायाम्
अधिगतबहुशाखं वैभवं दर्शयन्त्याम् ।
अभजत विधिहस्तन्यस्तधर्मद्रवायां
त्वयि मुकुळसमृद्धिं मौक्तिकश्रीस्तदानीम्॥ 29.54
विश्वास-प्रस्तुतिः
कनकरुचिरकान्तिः कल्पिताशोकभारा
कृतपदकमलश्रीः क्रीडता माधवेन ।
दिशिदिशि सुमनोभिर्दर्शनीयानुभावा
सुरभिसमयलक्ष्मीं पादुके ! पुष्यसि त्वम्॥ 29.55
मूलम्
कनकरुचिरकान्तिः कल्पिताशोकभारा
कृतपदकमलश्रीः क्रीडता माधवेन ।
दिशिदिशि सुमनोभिर्दर्शनीयानुभावा
सुरभिसमयलक्ष्मीं पादुके ! पुष्यसि त्वम्॥ 29.55
विश्वास-प्रस्तुतिः
प्रणिहितपदपद्मा पादुके ! रङ्गभर्तुः
शुभतरगतिहेतुश्चारुमुक्ताप्रवाळा ।
स्थिरपरिणतरागां शुद्धबोधानुबद्धां
स्वजनयसि मुनीनां त्वन्मयीं चित्तवृत्तिम्॥ 29.56
मूलम्
प्रणिहितपदपद्मा पादुके ! रङ्गभर्तुः
शुभतरगतिहेतुश्चारुमुक्ताप्रवाळा ।
स्थिरपरिणतरागां शुद्धबोधानुबद्धां
स्वजनयसि मुनीनां त्वन्मयीं चित्तवृत्तिम्॥ 29.56
विश्वास-प्रस्तुतिः
विरचितनवभागा रत्नभेदैर्विचित्रैः
विविधविततरेखाव्यक्तसीमाविभागा ।
हरिचरणसरोजं प्रेप्सतामर्चनीयं
प्रथयसि नवनाभं मण्डलं पादुके ! त्वम्॥ 29.57
मूलम्
विरचितनवभागा रत्नभेदैर्विचित्रैः
विविधविततरेखाव्यक्तसीमाविभागा ।
हरिचरणसरोजं प्रेप्सतामर्चनीयं
प्रथयसि नवनाभं मण्डलं पादुके ! त्वम्॥ 29.57
विश्वास-प्रस्तुतिः
परिणतगुणजाला पङ्क्तिभिर्मौक्तिकानां
बहुविधमणिरश्मिग्रन्थिबन्धाभिरामा ।
रघुपतिपदरक्षे ! राजवाह्यस्य कुम्भे
कलितरुचिरभूस्त्वं काऽपि नक्षत्रमाला॥ 29.58
मूलम्
परिणतगुणजाला पङ्क्तिभिर्मौक्तिकानां
बहुविधमणिरश्मिग्रन्थिबन्धाभिरामा ।
रघुपतिपदरक्षे ! राजवाह्यस्य कुम्भे
कलितरुचिरभूस्त्वं काऽपि नक्षत्रमाला॥ 29.58
विश्वास-प्रस्तुतिः
चरितनिखिलवृत्तिश्चारुपद्मासनस्था
गुणनिबिडितमुक्तापङ्क्तिबद्धाक्षमाला ।
सविधमधिवसन्ती पादुके ! रङ्गभर्तुः
चरणकमलमन्तर्बिम्बितं ध्यायसीव॥ 29.59
मूलम्
चरितनिखिलवृत्तिश्चारुपद्मासनस्था
गुणनिबिडितमुक्तापङ्क्तिबद्धाक्षमाला ।
सविधमधिवसन्ती पादुके ! रङ्गभर्तुः
चरणकमलमन्तर्बिम्बितं ध्यायसीव॥ 29.59
विश्वास-प्रस्तुतिः
अनुपधि परिरक्षन्नेकपुत्राभिमानाद्
भुवनमिदमशेषं पादुके ! रङ्गनाथः ।
निजपदनिहितायां देवि ! तिष्ठन् व्रजन् वा
त्वयि निहितभरोऽभूत् किं पुनः स्वापमृच्छन्॥ 29.60
मूलम्
अनुपधि परिरक्षन्नेकपुत्राभिमानाद्
भुवनमिदमशेषं पादुके ! रङ्गनाथः ।
निजपदनिहितायां देवि ! तिष्ठन् व्रजन् वा
त्वयि निहितभरोऽभूत् किं पुनः स्वापमृच्छन्॥ 29.60
विश्वास-प्रस्तुतिः
त्वरितमुपगतानां श्रीमतो रङ्गभर्तुः
त्वदुपहितपदस्य स्वैरयात्रोत्सवेषु ।
मुखरयति दिगन्तान्मुह्यतां त्वत्प्रशस्तौ
विहितकुसुमवृष्टिर्व्यावघोषी सुराणाम्॥ 29.61
मूलम्
त्वरितमुपगतानां श्रीमतो रङ्गभर्तुः
त्वदुपहितपदस्य स्वैरयात्रोत्सवेषु ।
मुखरयति दिगन्तान्मुह्यतां त्वत्प्रशस्तौ
विहितकुसुमवृष्टिर्व्यावघोषी सुराणाम्॥ 29.61
विश्वास-प्रस्तुतिः
मनसि नियमयुक्ते वर्तमाना मुनीनां
प्रतिपदमुपयान्ती भावनीयक्रमत्वम् ।
श्रुतिरिव निजशब्दैः पादुके ! रङ्गभर्तुः
पदमनितरगम्यं व्यङ्क्तुमर्हा त्वमेव॥ 29.62
मूलम्
मनसि नियमयुक्ते वर्तमाना मुनीनां
प्रतिपदमुपयान्ती भावनीयक्रमत्वम् ।
श्रुतिरिव निजशब्दैः पादुके ! रङ्गभर्तुः
पदमनितरगम्यं व्यङ्क्तुमर्हा त्वमेव॥ 29.62
विश्वास-प्रस्तुतिः
अविकलनिजचन्द्रालोकसन्दर्शनीया
प्रतिकलमुपभोग्या पादुके ! रङ्गभर्तुः ।
मुकुळयितुमशेषं मौक्तिकज्योत्स्नया नः
प्रभवसि तिमिरौघं पौर्णमासी निशेव॥ 29.63
मूलम्
अविकलनिजचन्द्रालोकसन्दर्शनीया
प्रतिकलमुपभोग्या पादुके ! रङ्गभर्तुः ।
मुकुळयितुमशेषं मौक्तिकज्योत्स्नया नः
प्रभवसि तिमिरौघं पौर्णमासी निशेव॥ 29.63
विश्वास-प्रस्तुतिः
हंसश्रेणीपरिचितगतिर्हारिणी कल्मषाणां
मौळौ शम्भोः स्थितिमधिगता मुग्धचन्द्रानुबद्धा ।
राज्ञामेका रघुकुलभुवां सम्यगुत्तारिका त्वं
काले तस्मिन् क्षितिमधिगता पादुके ! जाह्नवीव॥ 29.64
मूलम्
हंसश्रेणीपरिचितगतिर्हारिणी कल्मषाणां
मौळौ शम्भोः स्थितिमधिगता मुग्धचन्द्रानुबद्धा ।
राज्ञामेका रघुकुलभुवां सम्यगुत्तारिका त्वं
काले तस्मिन् क्षितिमधिगता पादुके ! जाह्नवीव॥ 29.64
विश्वास-प्रस्तुतिः
स्वच्छाकारां श्रुतिसुरभितां स्वादुभावोपपन्नां
मार्गेमार्गे महितविभवां पादुके ! तीर्थभेदैः ।
शीतस्पर्शां श्रमविनयिनीं गाहते मन्दमन्दं
क्रीडालोलः कमलनिलयादत्तहस्तो युवा त्वाम्॥ 29.65
मूलम्
स्वच्छाकारां श्रुतिसुरभितां स्वादुभावोपपन्नां
मार्गेमार्गे महितविभवां पादुके ! तीर्थभेदैः ।
शीतस्पर्शां श्रमविनयिनीं गाहते मन्दमन्दं
क्रीडालोलः कमलनिलयादत्तहस्तो युवा त्वाम्॥ 29.65
विश्वास-प्रस्तुतिः
अभ्यस्त्यन्त्योः क्रममनुपमं रङ्गभर्तुर्विहारे
स्थानेस्थाने स्वरपरिणतिं लम्भितस्तत्तदर्हाम् ।
पर्यायेण प्रहितपदयोः पादुके ! श्रुत्युदारः
शिञ्जानादः स्फुरति युवयोः शृङ्खलाबन्धरम्यः॥ 29.66
मूलम्
अभ्यस्त्यन्त्योः क्रममनुपमं रङ्गभर्तुर्विहारे
स्थानेस्थाने स्वरपरिणतिं लम्भितस्तत्तदर्हाम् ।
पर्यायेण प्रहितपदयोः पादुके ! श्रुत्युदारः
शिञ्जानादः स्फुरति युवयोः शृङ्खलाबन्धरम्यः॥ 29.66
विश्वास-प्रस्तुतिः
आसन्नानां दिवसमपुनर्नक्तमापादयन्ती
स्फीतालोका मणिभिरभितः प्राणिनामस्तदोषा ।
प्रह्वैर्जुष्टा विबुधनिवहैः पादुके ! रङ्गभर्तुः
पादाम्भोजे दिशति भवती पूर्वसन्ध्येव कान्तिम्॥ 29.67
मूलम्
आसन्नानां दिवसमपुनर्नक्तमापादयन्ती
स्फीतालोका मणिभिरभितः प्राणिनामस्तदोषा ।
प्रह्वैर्जुष्टा विबुधनिवहैः पादुके ! रङ्गभर्तुः
पादाम्भोजे दिशति भवती पूर्वसन्ध्येव कान्तिम्॥ 29.67
विश्वास-प्रस्तुतिः
रम्यालोका लळितगमना पद्मरागाधरोष्ठी
मध्ये क्षामा मणिवलयिनी मौक्तिकव्यक्तहासा ।
श्यामा नित्यं हरितमणिभिः शार्ङ्गिणः पादरक्षे !
मन्ये धातुर्भवसि महिळानिर्मितौ मातृका त्वम्॥ 29.68
मूलम्
रम्यालोका लळितगमना पद्मरागाधरोष्ठी
मध्ये क्षामा मणिवलयिनी मौक्तिकव्यक्तहासा ।
श्यामा नित्यं हरितमणिभिः शार्ङ्गिणः पादरक्षे !
मन्ये धातुर्भवसि महिळानिर्मितौ मातृका त्वम्॥ 29.68
विश्वास-प्रस्तुतिः
स्थित्वा पूर्वं क्वचन भवती भद्रपीठस्य मध्ये
रत्नोदञ्चत्किरणनिकरा रङ्गिणः पादरक्षे ! ।
व्याकीर्णानां नृपतिविरहाद्देवि ! वर्णाश्रमाणां
नूनं सीमाविभजनसहं निर्ममे सूत्रपातम्॥ 29.69
मूलम्
स्थित्वा पूर्वं क्वचन भवती भद्रपीठस्य मध्ये
रत्नोदञ्चत्किरणनिकरा रङ्गिणः पादरक्षे ! ।
व्याकीर्णानां नृपतिविरहाद्देवि ! वर्णाश्रमाणां
नूनं सीमाविभजनसहं निर्ममे सूत्रपातम्॥ 29.69
विश्वास-प्रस्तुतिः
मातर्मञ्जुस्वनपरिणतप्रार्थनावाक्यपूर्वं
निक्षिप्तायां त्वयि चरणयोः पादुके ! रङ्गभर्तुः ।
त्वय्यायत्तं किमपि कुशलं जानतीनां प्रजानां
पर्याप्तं तन्न खलु न भवत्यात्मनिक्षेपकृत्यम्॥ 29.70
मूलम्
मातर्मञ्जुस्वनपरिणतप्रार्थनावाक्यपूर्वं
निक्षिप्तायां त्वयि चरणयोः पादुके ! रङ्गभर्तुः ।
त्वय्यायत्तं किमपि कुशलं जानतीनां प्रजानां
पर्याप्तं तन्न खलु न भवत्यात्मनिक्षेपकृत्यम्॥ 29.70
विश्वास-प्रस्तुतिः
नित्यं रङ्गक्षितिपतिपदन्यासधन्यात्मनस्ते
शिञ्जानादं श्रवणमधुरं पादुके ! दीर्घयन्तः ।
काले तस्मिन् करणविगमक्लेशजातं विहन्युः
सन्तापं नस्तरुणतुळसीगन्धिनो गन्धवाहाः॥ 29.71
मूलम्
नित्यं रङ्गक्षितिपतिपदन्यासधन्यात्मनस्ते
शिञ्जानादं श्रवणमधुरं पादुके ! दीर्घयन्तः ।
काले तस्मिन् करणविगमक्लेशजातं विहन्युः
सन्तापं नस्तरुणतुळसीगन्धिनो गन्धवाहाः॥ 29.71
विश्वास-प्रस्तुतिः
संसाराध्वश्रमपरिणतं संश्रितानां जनानां
तापं सद्यः शमयितुमलं शार्ङ्गिणः पादुके ! त्वम् ।
चन्द्रापीडे प्रणमति नवां चन्द्रिकामापिबद्भिः
धारानिर्यत्सलिलकणिकाशीकरैश्चन्द्रकान्तैः॥ 29.72
मूलम्
संसाराध्वश्रमपरिणतं संश्रितानां जनानां
तापं सद्यः शमयितुमलं शार्ङ्गिणः पादुके ! त्वम् ।
चन्द्रापीडे प्रणमति नवां चन्द्रिकामापिबद्भिः
धारानिर्यत्सलिलकणिकाशीकरैश्चन्द्रकान्तैः॥ 29.72
विश्वास-प्रस्तुतिः
वज्रोपेतां वलभिदुपलश्यामलां मञ्जुघोषां
मुक्तासारां मधुरचपलां वीक्ष्य विष्णोः पदे त्वाम् ।
हर्षोत्कर्षादुपरि चलयन् पादुके ! चन्द्रकान्तं
धत्ते नित्यं धृतघनरुचिस्ताण्डवं नीलकण्ठः॥ 29.73
मूलम्
वज्रोपेतां वलभिदुपलश्यामलां मञ्जुघोषां
मुक्तासारां मधुरचपलां वीक्ष्य विष्णोः पदे त्वाम् ।
हर्षोत्कर्षादुपरि चलयन् पादुके ! चन्द्रकान्तं
धत्ते नित्यं धृतघनरुचिस्ताण्डवं नीलकण्ठः॥ 29.73
विश्वास-प्रस्तुतिः
श्रीरङ्गेन्दोश्चरणकमलं तादृशं धारयन्ती
काले काले सह कमलया कॢप्तयात्रोत्सवश्रीः ।
गत्वागत्वा स्वयमनुगृहद्वारमुन्निद्रनादा
पौरान्नित्यं किमपि कुशलं पादुके ! पृच्छसीव॥ 29.74
मूलम्
श्रीरङ्गेन्दोश्चरणकमलं तादृशं धारयन्ती
काले काले सह कमलया कॢप्तयात्रोत्सवश्रीः ।
गत्वागत्वा स्वयमनुगृहद्वारमुन्निद्रनादा
पौरान्नित्यं किमपि कुशलं पादुके ! पृच्छसीव॥ 29.74
विश्वास-प्रस्तुतिः
चतुरविहारिणीं रुचिरपक्षरुचिं भवतीं
मनसिजसायकासनगुणोचितमञ्जुरवाम् ।
अनुपदमाद्रियेमहि महेन्द्रशिलामहितां
हरिचरणारविन्दमकरन्दमधुव्रतिकाम्॥ 29.75
मूलम्
चतुरविहारिणीं रुचिरपक्षरुचिं भवतीं
मनसिजसायकासनगुणोचितमञ्जुरवाम् ।
अनुपदमाद्रियेमहि महेन्द्रशिलामहितां
हरिचरणारविन्दमकरन्दमधुव्रतिकाम्॥ 29.75
विश्वास-प्रस्तुतिः
कनकरुचा जटामुरगमौळिमणीन् मणिभिः
त्रिदिवतरङ्गिणीं तरळमौक्तिकदीधितिभिः ।
कुटिलतया क्वचिच्छशिकलामधरीकुरुषे
मुररिपुपादुके ! पुरभिदः शिरसा विधृता॥ 29.76
मूलम्
कनकरुचा जटामुरगमौळिमणीन् मणिभिः
त्रिदिवतरङ्गिणीं तरळमौक्तिकदीधितिभिः ।
कुटिलतया क्वचिच्छशिकलामधरीकुरुषे
मुररिपुपादुके ! पुरभिदः शिरसा विधृता॥ 29.76
विश्वास-प्रस्तुतिः
काले तल्पभुजङ्गमस्य भजतः काष्ठां गतां शेषतां
मूर्तिं कामपि वेद्मि रङ्गनृपतेश्चित्रां पदत्रद्वयीम् ।
सेवानम्रसुरासुरेन्द्रमकुटीशेषापट् ईसङ्गमे
मुक्ताचन्द्रिकयेव या प्रथयते निर्मोकयोगं पुनः॥ 29.77
मूलम्
काले तल्पभुजङ्गमस्य भजतः काष्ठां गतां शेषतां
मूर्तिं कामपि वेद्मि रङ्गनृपतेश्चित्रां पदत्रद्वयीम् ।
सेवानम्रसुरासुरेन्द्रमकुटीशेषापट् ईसङ्गमे
मुक्ताचन्द्रिकयेव या प्रथयते निर्मोकयोगं पुनः॥ 29.77
विश्वास-प्रस्तुतिः
चन्द्रापीडशिखण्डचन्द्रशिखरच्योतत्सुधानिर्झर-
स्तोकाश्लिष्टसुरेन्द्रशेखररजः स्त्यानां स्तुमः पादुकाम् ।
ब्रह्मस्तम्बविभक्तसीमविविधक्षेत्रज्ञसर्गस्थिति-
ध्वंसानुग्रहनिग्रहप्रणयिनी या सा क्रियारङ्गिणः॥ 29.78
मूलम्
चन्द्रापीडशिखण्डचन्द्रशिखरच्योतत्सुधानिर्झर-
स्तोकाश्लिष्टसुरेन्द्रशेखररजः स्त्यानां स्तुमः पादुकाम् ।
ब्रह्मस्तम्बविभक्तसीमविविधक्षेत्रज्ञसर्गस्थिति-
ध्वंसानुग्रहनिग्रहप्रणयिनी या सा क्रियारङ्गिणः॥ 29.78
विश्वास-प्रस्तुतिः
लक्ष्मीनूपुरशिञ्जितेन गुणितं नादं तवाकर्णयन्
आजिघ्रन्निगमान्तगन्धतुळसीदामोत्थितं सौरभम् ।
काले कुत्रचिदागतं करुणया सार्धं त्वया चाग्रतः
पश्येयं मणिपादुके ! परतरं पद्मेक्षणं दैवतम्॥ 29.79
मूलम्
लक्ष्मीनूपुरशिञ्जितेन गुणितं नादं तवाकर्णयन्
आजिघ्रन्निगमान्तगन्धतुळसीदामोत्थितं सौरभम् ।
काले कुत्रचिदागतं करुणया सार्धं त्वया चाग्रतः
पश्येयं मणिपादुके ! परतरं पद्मेक्षणं दैवतम्॥ 29.79
विश्वास-प्रस्तुतिः
वहति क्षितिव्यवहितां सोऽपि
त्वां गतिषु पादुके ! रङ्गी ।
कमठपतिभुजगपरिबृढ-
करिवरकुलशिखरिभूमिकाभेदैः॥ 29.80
मूलम्
वहति क्षितिव्यवहितां सोऽपि
त्वां गतिषु पादुके ! रङ्गी ।
कमठपतिभुजगपरिबृढ-
करिवरकुलशिखरिभूमिकाभेदैः॥ 29.80