28 सुभाषितपद्धतिः

विश्वास-प्रस्तुतिः

कलासु काष्ठामातिष्ठन् भूम्ने सम्बन्धिनामपि ।
पादुका रङ्गधुर्यस्य भरताराध्यतां गता॥ 28.1

मूलम्

कलासु काष्ठामातिष्ठन् भूम्ने सम्बन्धिनामपि ।
पादुका रङ्गधुर्यस्य भरताराध्यतां गता॥ 28.1

विश्वास-प्रस्तुतिः

सन्तः स्वदेशपरदेशविभागशून्यं
हन्त स्ववृत्तिमनघां न परित्यजन्ति ।
राज्ये वने च रघुपुङ्गवपादरक्षा
नैजं जहौ न खलु कण्टकशोधनं तत्॥ 28.2

मूलम्

सन्तः स्वदेशपरदेशविभागशून्यं
हन्त स्ववृत्तिमनघां न परित्यजन्ति ।
राज्ये वने च रघुपुङ्गवपादरक्षा
नैजं जहौ न खलु कण्टकशोधनं तत्॥ 28.2

विश्वास-प्रस्तुतिः

ब्रह्मास्त्रतामधिजगाम तृणं प्रयुक्तं
पुण्यं शरव्यमभवत् पयसान्निधिर्वा ।
पृथ्वीं शशास परिमुक्तपदं पदत्रं
किं वा न किं भवति केळिविधौ विभूनाम्॥ 28.3

मूलम्

ब्रह्मास्त्रतामधिजगाम तृणं प्रयुक्तं
पुण्यं शरव्यमभवत् पयसान्निधिर्वा ।
पृथ्वीं शशास परिमुक्तपदं पदत्रं
किं वा न किं भवति केळिविधौ विभूनाम्॥ 28.3

विश्वास-प्रस्तुतिः

अन्येषु सत्स्वपि नरेन्द्रसुतेषु दैवाद्
भ्रष्टः पदादधिकरोति पदं पदार्हः ।
प्रायो निदर्शयति तत् प्रथमो रघूणां
तत्पादयोः प्रतिनिधी मणिपादुके वा॥ 28.4

मूलम्

अन्येषु सत्स्वपि नरेन्द्रसुतेषु दैवाद्
भ्रष्टः पदादधिकरोति पदं पदार्हः ।
प्रायो निदर्शयति तत् प्रथमो रघूणां
तत्पादयोः प्रतिनिधी मणिपादुके वा॥ 28.4

विश्वास-प्रस्तुतिः

चरणमनघवृत्तेः कस्यचित्प्राप्य नित्यं
सकलभुवनगुप्त्यै सत्पथे वर्तते यः ।
नरपतिबहुमानं पादुकेवाधिगच्छन्
स भवति समयेषु प्रेक्षितज्ञैरुपास्यः॥ 28.5

मूलम्

चरणमनघवृत्तेः कस्यचित्प्राप्य नित्यं
सकलभुवनगुप्त्यै सत्पथे वर्तते यः ।
नरपतिबहुमानं पादुकेवाधिगच्छन्
स भवति समयेषु प्रेक्षितज्ञैरुपास्यः॥ 28.5

विश्वास-प्रस्तुतिः

रामे राज्यं पितुरभिमतं सम्मतं च प्रजानां
माता वव्रे तदिह भरते सत्यवादी ददौ च ।
चिन्तातीतः समजनि तदा पादुकाग्र्याभिषेको
दुर्विज्ञानस्वहृदयमहो दैवमत्र प्रमाणम्॥ 28.6

मूलम्

रामे राज्यं पितुरभिमतं सम्मतं च प्रजानां
माता वव्रे तदिह भरते सत्यवादी ददौ च ।
चिन्तातीतः समजनि तदा पादुकाग्र्याभिषेको
दुर्विज्ञानस्वहृदयमहो दैवमत्र प्रमाणम्॥ 28.6

विश्वास-प्रस्तुतिः

नातिक्रामेच्चरणवहनात्पादुका पादपीठं
यद्वाऽऽसन्नं परमिह सदा भाति राजासनस्य ।
पूर्वत्रैव प्रणिहितमभूद्धन्त रामेण राज्यं
शङ्के भर्तुर्बहुमतिपदं विक्रमे साहचर्यम्॥ 28.7

मूलम्

नातिक्रामेच्चरणवहनात्पादुका पादपीठं
यद्वाऽऽसन्नं परमिह सदा भाति राजासनस्य ।
पूर्वत्रैव प्रणिहितमभूद्धन्त रामेण राज्यं
शङ्के भर्तुर्बहुमतिपदं विक्रमे साहचर्यम्॥ 28.7

विश्वास-प्रस्तुतिः

प्रतिपदचपलाऽपि पादुका
रघुपतिना स्वपदे निवेशिता ।
समजनि निभृतस्थितिस्तदा
भवति गुणः श्रियमभ्युपेयुषाम्॥ 28.8

मूलम्

प्रतिपदचपलाऽपि पादुका
रघुपतिना स्वपदे निवेशिता ।
समजनि निभृतस्थितिस्तदा
भवति गुणः श्रियमभ्युपेयुषाम्॥ 28.8

विश्वास-प्रस्तुतिः

गतिहेतुरभूत् क्वचित्पदे स्थितिहेतुर्मणिपादुका क्वचित् ।
न हि वस्तुषु शक्तिनिश्चयो नियतिः केवलमीश्वरेच्छया॥ 28.9

मूलम्

गतिहेतुरभूत् क्वचित्पदे स्थितिहेतुर्मणिपादुका क्वचित् ।
न हि वस्तुषु शक्तिनिश्चयो नियतिः केवलमीश्वरेच्छया॥ 28.9

विश्वास-प्रस्तुतिः

अधरीकृतोऽपि महता तमेव सेवेत सादरं भूष्णुः ।
अलभत समये रामात् पादाक्रान्ताऽपि पादुका राज्यम्॥ 28.10

मूलम्

अधरीकृतोऽपि महता तमेव सेवेत सादरं भूष्णुः ।
अलभत समये रामात् पादाक्रान्ताऽपि पादुका राज्यम्॥ 28.10