विश्वास-प्रस्तुतिः
सूचयन्तीं स्वरेखाभिरनालेख्यसरस्वतीम् ।
अलेखनीयसौन्दर्यामाश्रये शौरिपादुकाम्॥ 27.1
मूलम्
सूचयन्तीं स्वरेखाभिरनालेख्यसरस्वतीम् ।
अलेखनीयसौन्दर्यामाश्रये शौरिपादुकाम्॥ 27.1
विश्वास-प्रस्तुतिः
मणिमौळिनिघर्षणात् सुराणां
वहसे काञ्चनपादुके ! विचित्रम् ।
कमलापतिपादपद्मयोगात्
अपरं लक्षणमाधिराज्यसारम्॥ 27.2
मूलम्
मणिमौळिनिघर्षणात् सुराणां
वहसे काञ्चनपादुके ! विचित्रम् ।
कमलापतिपादपद्मयोगात्
अपरं लक्षणमाधिराज्यसारम्॥ 27.2
विश्वास-प्रस्तुतिः
अभितो मणिपादुके ! स्फुरन्त्याः
तव रेखाविततेस्तथाविधायाः ।
मुरवैरिपदारविन्दरूढैः
अनुकल्पायितमाधिराज्यचिह्नैः॥ 27.3
मूलम्
अभितो मणिपादुके ! स्फुरन्त्याः
तव रेखाविततेस्तथाविधायाः ।
मुरवैरिपदारविन्दरूढैः
अनुकल्पायितमाधिराज्यचिह्नैः॥ 27.3
विश्वास-प्रस्तुतिः
रेखया विनमतां दिवौकसां
मौळिरत्नमकरीमुखोत्थया ।
पादुके ! वहसि नूनमद्भुतं
शौरिपादपरिभोगलक्षणम्॥ 27.4
मूलम्
रेखया विनमतां दिवौकसां
मौळिरत्नमकरीमुखोत्थया ।
पादुके ! वहसि नूनमद्भुतं
शौरिपादपरिभोगलक्षणम्॥ 27.4
विश्वास-प्रस्तुतिः
त्रिदशमकुटरत्नोल्लेखरेखापदेशात्
परिणमयसि पुंसां पादुके ! मूर्ध्नि लग्ना ।
नरकमथनसेवासंपदं साधयित्री
नियतिविलिखितानां निष्कृतिं दुर्लिपीनाम्॥ 27.5
मूलम्
त्रिदशमकुटरत्नोल्लेखरेखापदेशात्
परिणमयसि पुंसां पादुके ! मूर्ध्नि लग्ना ।
नरकमथनसेवासंपदं साधयित्री
नियतिविलिखितानां निष्कृतिं दुर्लिपीनाम्॥ 27.5
विश्वास-प्रस्तुतिः
पदकमलतलान्तः संश्रितान्यातपत्र-
ध्वजसरसिजमुख्यान्यैश्वरीलक्षणानि ।
अवगमयसि शौरेः पादुके ! मादृशानाम्
उपरि परिणतैः स्वैर्देवि ! रेखाविशेषैः॥ 27.6
मूलम्
पदकमलतलान्तः संश्रितान्यातपत्र-
ध्वजसरसिजमुख्यान्यैश्वरीलक्षणानि ।
अवगमयसि शौरेः पादुके ! मादृशानाम्
उपरि परिणतैः स्वैर्देवि ! रेखाविशेषैः॥ 27.6
विश्वास-प्रस्तुतिः
स्नाता पदावनि चिरं परिभुज्य मुक्ता
पादेन रङ्गनृपते शुभलक्षणेन ।
रेखान्तरैर्नवनवैरुपशोभसे त्वं
संस्कारचन्दनविलेपनपङ्कलग्नैः॥ 27.7
मूलम्
स्नाता पदावनि चिरं परिभुज्य मुक्ता
पादेन रङ्गनृपते शुभलक्षणेन ।
रेखान्तरैर्नवनवैरुपशोभसे त्वं
संस्कारचन्दनविलेपनपङ्कलग्नैः॥ 27.7
विश्वास-प्रस्तुतिः
भक्त्या मुहुः प्रणमतां त्रिदशेश्वराणां
कोट् ईरकोटिकषणादुपजायमानैः ।
आभाति शौरिचरणादधिकानुभावा
रेखाशतैस्तव पदावनि ! काऽपि रेखा॥ 27.8
मूलम्
भक्त्या मुहुः प्रणमतां त्रिदशेश्वराणां
कोट् ईरकोटिकषणादुपजायमानैः ।
आभाति शौरिचरणादधिकानुभावा
रेखाशतैस्तव पदावनि ! काऽपि रेखा॥ 27.8
विश्वास-प्रस्तुतिः
पादावनि ! प्रतिपदं परमस्य पुंसः
पादारविन्दपरिभोगविशेषयोग्या ।
स्वाभाविकान् सुभगभक्तिविशेषदृश्यान्
रेखात्मकान् वहसि पत्रलताविशेषान्॥ 27.9
मूलम्
पादावनि ! प्रतिपदं परमस्य पुंसः
पादारविन्दपरिभोगविशेषयोग्या ।
स्वाभाविकान् सुभगभक्तिविशेषदृश्यान्
रेखात्मकान् वहसि पत्रलताविशेषान्॥ 27.9
विश्वास-प्रस्तुतिः
रेखापदेशतस्त्वं प्रशमयितुं
प्रळयाविप्लवाशङ्काम् ।
वहसि मधुजित्पदावनि ! मन्ये
निगमस्य मातृकालेख्यम्॥ 27.10
मूलम्
रेखापदेशतस्त्वं प्रशमयितुं
प्रळयाविप्लवाशङ्काम् ।
वहसि मधुजित्पदावनि ! मन्ये
निगमस्य मातृकालेख्यम्॥ 27.10