विश्वास-प्रस्तुतिः
उदग्रयन्त्रिकां वन्दे पादुकां यन्निवेशनात् ।
उपर्यपि पदं विष्णोः प्रत्यादिष्टप्रसाधनम्॥ 26.1
मूलम्
उदग्रयन्त्रिकां वन्दे पादुकां यन्निवेशनात् ।
उपर्यपि पदं विष्णोः प्रत्यादिष्टप्रसाधनम्॥ 26.1
विश्वास-प्रस्तुतिः
प्रसभं प्रतिरुध्य कण्टकादीन्
भवती शौरिपदाम्बुजादधस्तात् ।
चरणावनि ! धारयत्यमुष्मिन्
उचितच्छायमुपर्यपि प्रतीकम्॥ 26.2
मूलम्
प्रसभं प्रतिरुध्य कण्टकादीन्
भवती शौरिपदाम्बुजादधस्तात् ।
चरणावनि ! धारयत्यमुष्मिन्
उचितच्छायमुपर्यपि प्रतीकम्॥ 26.2
विश्वास-प्रस्तुतिः
मुरभिन्मणिपादुके ! त्वदीयां
अनघामङ्गुलियन्त्रिकामवैमि ।
स्वयमुन्नमितां प्रदेशिनीं ते
परमं दैवतमेकमित्यृचन्तीम्॥ 26.3
मूलम्
मुरभिन्मणिपादुके ! त्वदीयां
अनघामङ्गुलियन्त्रिकामवैमि ।
स्वयमुन्नमितां प्रदेशिनीं ते
परमं दैवतमेकमित्यृचन्तीम्॥ 26.3
विश्वास-प्रस्तुतिः
स्वदते मणिपादुके ! त्वदीया
पदशाखायुगयन्त्रिका विचित्रा ।
परमं पुरुषं प्रकाशयन्ती
प्रणवस्येव परेयमर्घमात्रा॥ 26.4
मूलम्
स्वदते मणिपादुके ! त्वदीया
पदशाखायुगयन्त्रिका विचित्रा ।
परमं पुरुषं प्रकाशयन्ती
प्रणवस्येव परेयमर्घमात्रा॥ 26.4
विश्वास-प्रस्तुतिः
अनुयातमनोरथा मुरारेः
भवती केळिरथश्रियं दधाति ।
चरणावनि ! यन्त्रिका तवैषा
तनुते कूबरसम्पदं पुरस्तात्॥ 26.5
मूलम्
अनुयातमनोरथा मुरारेः
भवती केळिरथश्रियं दधाति ।
चरणावनि ! यन्त्रिका तवैषा
तनुते कूबरसम्पदं पुरस्तात्॥ 26.5
विश्वास-प्रस्तुतिः
शङ्के भवत्याः सुभगं प्रतीकं
रङ्गेशपादाङ्गुळिसङ्ग्रहार्थम् ।
त्राणाय पादावनि ! विष्टपानां
आज्ञाकरीमङ्गुळिमुद्रिकां ते॥ 26.6
मूलम्
शङ्के भवत्याः सुभगं प्रतीकं
रङ्गेशपादाङ्गुळिसङ्ग्रहार्थम् ।
त्राणाय पादावनि ! विष्टपानां
आज्ञाकरीमङ्गुळिमुद्रिकां ते॥ 26.6
विश्वास-प्रस्तुतिः
अलङ्कृतं कर्णिकयोपरिष्टाद्
उदग्रनाळं तव यन्त्रिकांशम् ।
पद्मापतेः पादसरोजलक्ष्म्याः
प्रत्येमि पादावनि ! केळिपद्मम्॥ 26.7
मूलम्
अलङ्कृतं कर्णिकयोपरिष्टाद्
उदग्रनाळं तव यन्त्रिकांशम् ।
पद्मापतेः पादसरोजलक्ष्म्याः
प्रत्येमि पादावनि ! केळिपद्मम्॥ 26.7
विश्वास-प्रस्तुतिः
उपरि विनिहितस्य केशवाङ्घ्रेः
उपरि पदावनि ! यन्त्रिकात्मिका त्वम् ।
इति तव महिमा लघूकरोति
प्रणतसुरेश्वरशेखराधिरोहम्॥ 26.8
मूलम्
उपरि विनिहितस्य केशवाङ्घ्रेः
उपरि पदावनि ! यन्त्रिकात्मिका त्वम् ।
इति तव महिमा लघूकरोति
प्रणतसुरेश्वरशेखराधिरोहम्॥ 26.8
विश्वास-प्रस्तुतिः
नित्यं पदावनि ! निबद्धकिरीटशोभं
पद्मालयापरिचितं पदमुद्वहन्त्याः ।
अङ्गीकरोति रुचिमङ्गुळियन्त्रिका ते
साम्राज्यसंपदनुरूपमिवातपत्रम्॥ 26.9
मूलम्
नित्यं पदावनि ! निबद्धकिरीटशोभं
पद्मालयापरिचितं पदमुद्वहन्त्याः ।
अङ्गीकरोति रुचिमङ्गुळियन्त्रिका ते
साम्राज्यसंपदनुरूपमिवातपत्रम्॥ 26.9
विश्वास-प्रस्तुतिः
प्रथमा कलेव भवती चरणावनि ! भाति रङ्गचन्द्रमसः ।
शृङ्गोन्नतिरिव यत्र श्रियं विभावयति यन्त्रिकायोगः॥ 26.10
मूलम्
प्रथमा कलेव भवती चरणावनि ! भाति रङ्गचन्द्रमसः ।
शृङ्गोन्नतिरिव यत्र श्रियं विभावयति यन्त्रिकायोगः॥ 26.10