25 सन्निवेशपद्धतिः

विश्वास-प्रस्तुतिः

अणोरणीयसीं विष्णोर्महतोऽपि महीयसीम् ।
प्रपद्ये पादुकां नित्यं तत्पदेनैव सम्मिताम्॥ 25.1

मूलम्

अणोरणीयसीं विष्णोर्महतोऽपि महीयसीम् ।
प्रपद्ये पादुकां नित्यं तत्पदेनैव सम्मिताम्॥ 25.1

विश्वास-प्रस्तुतिः

प्रतितिष्ठति पादसंमितायां
त्वयि नित्यं मणिपादुके ! मुकुन्दः ।
इतरे तु परिच्छदास्त एते
विभवव्यञ्जनहेतवो भवन्ति॥ 25.2

मूलम्

प्रतितिष्ठति पादसंमितायां
त्वयि नित्यं मणिपादुके ! मुकुन्दः ।
इतरे तु परिच्छदास्त एते
विभवव्यञ्जनहेतवो भवन्ति॥ 25.2

विश्वास-प्रस्तुतिः

तव रङ्गनरेन्द्रपादरक्षे !
प्रकृतिः सन्नपि भक्तिपारतन्त्र्यात् ।
भवतीं वहतीव पन्नगेन्द्रः
प्रथितस्वस्तिकलक्षणैः शिरोभिः॥ 25.3

मूलम्

तव रङ्गनरेन्द्रपादरक्षे !
प्रकृतिः सन्नपि भक्तिपारतन्त्र्यात् ।
भवतीं वहतीव पन्नगेन्द्रः
प्रथितस्वस्तिकलक्षणैः शिरोभिः॥ 25.3

विश्वास-प्रस्तुतिः

परस्य पुंसः पदसन्निवेशान्
प्रयुञ्जते भावितपञ्चरात्राः ।
अघप्रतीपानपदिश्य पुण्ड्रान्
अङ्गेषु रङ्गेशयपादुके ! त्वाम्॥ 25.4

मूलम्

परस्य पुंसः पदसन्निवेशान्
प्रयुञ्जते भावितपञ्चरात्राः ।
अघप्रतीपानपदिश्य पुण्ड्रान्
अङ्गेषु रङ्गेशयपादुके ! त्वाम्॥ 25.4

विश्वास-प्रस्तुतिः

विमृश्य रङ्गेन्द्रपतिंवरायाः
श्रुतेः स्थितां मूर्धनि पादुके ! त्वाम् ।
बध्नन्ति वृद्धाः समये वधूनां
त्वन्मुद्रितान्याभरणानि मौळौ॥ 25.5

मूलम्

विमृश्य रङ्गेन्द्रपतिंवरायाः
श्रुतेः स्थितां मूर्धनि पादुके ! त्वाम् ।
बध्नन्ति वृद्धाः समये वधूनां
त्वन्मुद्रितान्याभरणानि मौळौ॥ 25.5

विश्वास-प्रस्तुतिः

वहन्ति रङ्गेश्वरपादरक्षे !
दीर्घायुषां दर्शितभक्तिबन्धाः ।
आशाधिपानामवरोधनार्यः
त्वन्मुद्रिकां मङ्गळहेमसूत्रैः॥ 25.6

मूलम्

वहन्ति रङ्गेश्वरपादरक्षे !
दीर्घायुषां दर्शितभक्तिबन्धाः ।
आशाधिपानामवरोधनार्यः
त्वन्मुद्रिकां मङ्गळहेमसूत्रैः॥ 25.6

विश्वास-प्रस्तुतिः

व्यूहक्रमेण प्रथितारमग्रे
सन्दर्शयन्तीं मणिपादुके ! त्वाम् ।
पातुं त्रिलोकीं पदपद्मभाजं
सौदर्शनीं शक्तिमवैमि शौरेः॥ 25.7

मूलम्

व्यूहक्रमेण प्रथितारमग्रे
सन्दर्शयन्तीं मणिपादुके ! त्वाम् ।
पातुं त्रिलोकीं पदपद्मभाजं
सौदर्शनीं शक्तिमवैमि शौरेः॥ 25.7

विश्वास-प्रस्तुतिः

बद्धासिका कनकपङ्कजकर्णिकायां
मध्ये कृशा मुररिपोर्मणिपादुके ! त्वम् ।
सन्दृश्यसे सरसिजासनया गृहीतं
रूपान्तरं किमपि रङ्गविहारयोग्यम्॥ 25.8

मूलम्

बद्धासिका कनकपङ्कजकर्णिकायां
मध्ये कृशा मुररिपोर्मणिपादुके ! त्वम् ।
सन्दृश्यसे सरसिजासनया गृहीतं
रूपान्तरं किमपि रङ्गविहारयोग्यम्॥ 25.8

विश्वास-प्रस्तुतिः

मानोचितस्य मदधीनजनस्य नित्यं
मा भूदतः कृपणतेति विचिन्तयन्त्या ।
बन्दीकृतं ध्रुवमवैमि वलग्नदेशे
कार्श्यं त्वया कमललोचनपादरक्षे !॥ 25.9

मूलम्

मानोचितस्य मदधीनजनस्य नित्यं
मा भूदतः कृपणतेति विचिन्तयन्त्या ।
बन्दीकृतं ध्रुवमवैमि वलग्नदेशे
कार्श्यं त्वया कमललोचनपादरक्षे !॥ 25.9

विश्वास-प्रस्तुतिः

मध्ये कृशामुभयतः प्रतिपन्नवृद्धिं
मन्ये समीक्ष्य भवतीं मणिपादरक्षे ! ।
नित्यं मुकुन्दपदसङ्गमविप्रयोगौ
निश्चिन्वते कृतधियः सुखदुः खकाष्ठाम्॥ 25.10

मूलम्

मध्ये कृशामुभयतः प्रतिपन्नवृद्धिं
मन्ये समीक्ष्य भवतीं मणिपादरक्षे ! ।
नित्यं मुकुन्दपदसङ्गमविप्रयोगौ
निश्चिन्वते कृतधियः सुखदुः खकाष्ठाम्॥ 25.10

विश्वास-प्रस्तुतिः

रङ्गेशितुश्चरणपङ्कजयोर्भजन्ती
रक्षाप्रसाधनविकल्पसहामवस्थाम् ।
मान्याकृतिर्निविशसे मणिपादरक्षे !
मध्ये परिच्छदविभूषणवर्गयोस्त्वम्॥ 25.11

मूलम्

रङ्गेशितुश्चरणपङ्कजयोर्भजन्ती
रक्षाप्रसाधनविकल्पसहामवस्थाम् ।
मान्याकृतिर्निविशसे मणिपादरक्षे !
मध्ये परिच्छदविभूषणवर्गयोस्त्वम्॥ 25.11

विश्वास-प्रस्तुतिः

अङ्गान्तरेषु निहितान्यखिलानि कामं
पर्यायकल्पनसहानि विभूषणानि ।
नित्यं मुकुन्दपदपद्मतलानुरूपं
नैपथ्यमम्ब ! भवती नयनाभिरामम्॥ 25.12

मूलम्

अङ्गान्तरेषु निहितान्यखिलानि कामं
पर्यायकल्पनसहानि विभूषणानि ।
नित्यं मुकुन्दपदपद्मतलानुरूपं
नैपथ्यमम्ब ! भवती नयनाभिरामम्॥ 25.12

विश्वास-प्रस्तुतिः

ये नाम भक्तिनियतैस्तव सन्निवेशं
निर्विश्य नेत्रयुगळैर्न भजन्ति तृप्तिम् ।
कालक्रमेण कमलेक्षणपादरक्षे !
प्रायेण ते परिणमन्ति सहस्रनेत्राः॥ 25.13

मूलम्

ये नाम भक्तिनियतैस्तव सन्निवेशं
निर्विश्य नेत्रयुगळैर्न भजन्ति तृप्तिम् ।
कालक्रमेण कमलेक्षणपादरक्षे !
प्रायेण ते परिणमन्ति सहस्रनेत्राः॥ 25.13

विश्वास-प्रस्तुतिः

पदमप्रमाणमिति वादिनां मतं
मधुजित्पदे महति मास्म भूदिति ।
व्युदपादि तस्य चरणावनि ! त्वया
निगमात्मनस्तव समप्रमाणता॥ 25.14

मूलम्

पदमप्रमाणमिति वादिनां मतं
मधुजित्पदे महति मास्म भूदिति ।
व्युदपादि तस्य चरणावनि ! त्वया
निगमात्मनस्तव समप्रमाणता॥ 25.14

विश्वास-प्रस्तुतिः

अप्रभूतमभवज्जगत्त्रयं
यस्य मातुमुदितस्य पादुके ! ।
अप्रमेयममितस्य तत्पदं
नित्यमेव ननु सम्मितं त्वया॥ 25.15

मूलम्

अप्रभूतमभवज्जगत्त्रयं
यस्य मातुमुदितस्य पादुके ! ।
अप्रमेयममितस्य तत्पदं
नित्यमेव ननु सम्मितं त्वया॥ 25.15

विश्वास-प्रस्तुतिः

आलवालमिव भाति पादुके !
पादपस्य भवती मधुद्विषः ।
यत्समीपविनतस्य शूलिनः
सारिणी भवति मौळिनिम्नगा॥ 25.16

मूलम्

आलवालमिव भाति पादुके !
पादपस्य भवती मधुद्विषः ।
यत्समीपविनतस्य शूलिनः
सारिणी भवति मौळिनिम्नगा॥ 25.16

विश्वास-प्रस्तुतिः

मोदमानमुनिबृन्दषट्पदा
भाति मुक्तिमकरन्दवर्षिणी ।
काऽपि रङ्गनृपतेः पदाम्बुजे
कर्णिका कनकपादुकामयी॥ 25.17

मूलम्

मोदमानमुनिबृन्दषट्पदा
भाति मुक्तिमकरन्दवर्षिणी ।
काऽपि रङ्गनृपतेः पदाम्बुजे
कर्णिका कनकपादुकामयी॥ 25.17

विश्वास-प्रस्तुतिः

युगपदनुविधास्यन् यौवतं तुल्यरागं
यदुपतिरधिचक्रे यावतो रूपभेदान् ।
तदिदमतिविकल्पं बिभ्रती सन्निवेशं
तव खलु पदरक्षे ! तावती मूर्तिरासीत्॥ 25.18

मूलम्

युगपदनुविधास्यन् यौवतं तुल्यरागं
यदुपतिरधिचक्रे यावतो रूपभेदान् ।
तदिदमतिविकल्पं बिभ्रती सन्निवेशं
तव खलु पदरक्षे ! तावती मूर्तिरासीत्॥ 25.18

विश्वास-प्रस्तुतिः

तत्तद्वृत्तेरनुगुणतया वामनीं व्यापिनीं वा
प्राप्ते रङ्गप्रथितविभवे भूमिकां सूत्रधारे ।
मन्ये विश्वस्थितिमयमहानाटिकां नेतुकामा
नानासंस्था भवति भवती पादुके ! नर्तकीव॥ 25.19

मूलम्

तत्तद्वृत्तेरनुगुणतया वामनीं व्यापिनीं वा
प्राप्ते रङ्गप्रथितविभवे भूमिकां सूत्रधारे ।
मन्ये विश्वस्थितिमयमहानाटिकां नेतुकामा
नानासंस्था भवति भवती पादुके ! नर्तकीव॥ 25.19

विश्वास-प्रस्तुतिः

माने परं समाने
प्रत्यक्षेणागमेनापि ।
हरिचरणस्य तवापि तु
वैषम्यं रक्ष्यरक्षकत्वाभ्याम्॥ 25.20

मूलम्

माने परं समाने
प्रत्यक्षेणागमेनापि ।
हरिचरणस्य तवापि तु
वैषम्यं रक्ष्यरक्षकत्वाभ्याम्॥ 25.20