24 द्वन्द्वपद्धतिः

विश्वास-प्रस्तुतिः

प्रपद्ये पादुकारूपं प्रणवस्य कलाद्वयम् ।
ओतं मितमिदं यस्मिन्ननन्तस्यापि तत्पदम्॥ 24.1

मूलम्

प्रपद्ये पादुकारूपं प्रणवस्य कलाद्वयम् ।
ओतं मितमिदं यस्मिन्ननन्तस्यापि तत्पदम्॥ 24.1

विश्वास-प्रस्तुतिः

मणिपादुकयोर्युगं मुरारेः
मम नित्यं विदधातु मङ्गळानि ।
अधिकृत्य चराचरस्य रक्षां
अनुकम्पाक्षमयोरिवावतारः॥ 24.2

मूलम्

मणिपादुकयोर्युगं मुरारेः
मम नित्यं विदधातु मङ्गळानि ।
अधिकृत्य चराचरस्य रक्षां
अनुकम्पाक्षमयोरिवावतारः॥ 24.2

विश्वास-प्रस्तुतिः

चरणौ मणिपादुके ! मुरारेः
प्रणतान् पालयितुं प्रपद्यमानम् ।
विपदामिह दैवमानुषीणां
प्रतिकारं युवयोर्द्वयं प्रतीमः॥ 24.3

मूलम्

चरणौ मणिपादुके ! मुरारेः
प्रणतान् पालयितुं प्रपद्यमानम् ।
विपदामिह दैवमानुषीणां
प्रतिकारं युवयोर्द्वयं प्रतीमः॥ 24.3

विश्वास-प्रस्तुतिः

मुरभिन्मणिपादुके ! भवत्योः
विहितो नूनमसौ मिथो विभागः ।
भजतामपरस्परप्रियाणां
अविरोधाय सुरासुरेश्वराणाम्॥ 24.4

मूलम्

मुरभिन्मणिपादुके ! भवत्योः
विहितो नूनमसौ मिथो विभागः ।
भजतामपरस्परप्रियाणां
अविरोधाय सुरासुरेश्वराणाम्॥ 24.4

विश्वास-प्रस्तुतिः

अहितोन्मथनाय संश्रितानाम्
अलमालोकवशेन शब्दतो वा ।
करयोश्च रथाङ्गपाञ्चजन्यौ
मधुहन्तुः पदयोश्च पादुके ये॥ 24.5

मूलम्

अहितोन्मथनाय संश्रितानाम्
अलमालोकवशेन शब्दतो वा ।
करयोश्च रथाङ्गपाञ्चजन्यौ
मधुहन्तुः पदयोश्च पादुके ये॥ 24.5

विश्वास-प्रस्तुतिः

अवधीरितसाधुपद्धतीनाम्
अलसानां मधुवैरिपादुके द्वे ।
इतरेतरसाहचर्यमित्थं
प्रतिपन्ने इव दैवपौरुषे नः॥ 24.6

मूलम्

अवधीरितसाधुपद्धतीनाम्
अलसानां मधुवैरिपादुके द्वे ।
इतरेतरसाहचर्यमित्थं
प्रतिपन्ने इव दैवपौरुषे नः॥ 24.6

विश्वास-प्रस्तुतिः

पार्श्वयोः सरसिजावसुन्धरे
पादयोश्च मणिपादुके ! युवाम् ।
सन्निकर्षथ न चेन्मधुद्विषः
किं करिष्यति कृतागसां गणः॥ 24.7

मूलम्

पार्श्वयोः सरसिजावसुन्धरे
पादयोश्च मणिपादुके ! युवाम् ।
सन्निकर्षथ न चेन्मधुद्विषः
किं करिष्यति कृतागसां गणः॥ 24.7

विश्वास-प्रस्तुतिः

पादुके ! भवभयप्रतीपयोः
भावयामि युवयोः समागमम् ।
सक्तयोर्दनुजवैरिणः पदे
विद्ययोरिव परावरात्मनोः॥ 24.8

मूलम्

पादुके ! भवभयप्रतीपयोः
भावयामि युवयोः समागमम् ।
सक्तयोर्दनुजवैरिणः पदे
विद्ययोरिव परावरात्मनोः॥ 24.8

विश्वास-प्रस्तुतिः

रङ्गसीमनि रथाङ्गलक्ष्मणः
चिन्तयामि तपनीयपादुके ! ।
शापदोषशमनाय तत्पदे
चक्रवाकमिथुनं कृतास्पदम्॥ 24.9

मूलम्

रङ्गसीमनि रथाङ्गलक्ष्मणः
चिन्तयामि तपनीयपादुके ! ।
शापदोषशमनाय तत्पदे
चक्रवाकमिथुनं कृतास्पदम्॥ 24.9

विश्वास-प्रस्तुतिः

मानयामि जगतस्तमोपहे माधवस्य मणिपादुके ! युवाम् ।
दक्षिणोत्तरगतिक्रमोचिते पद्धती इव मयूखमालिनः॥ 24.10

मूलम्

मानयामि जगतस्तमोपहे माधवस्य मणिपादुके ! युवाम् ।
दक्षिणोत्तरगतिक्रमोचिते पद्धती इव मयूखमालिनः॥ 24.10

विश्वास-प्रस्तुतिः

रङ्गनाथपदयोरलङ्क्रिया
राजते कनकपादुकाद्वयी ।
तद्विभूतियुगळीव तादृशी
छन्दतः समविभागमाश्रिता॥ 24.11

मूलम्

रङ्गनाथपदयोरलङ्क्रिया
राजते कनकपादुकाद्वयी ।
तद्विभूतियुगळीव तादृशी
छन्दतः समविभागमाश्रिता॥ 24.11

विश्वास-प्रस्तुतिः

साक्षात्पदं मधुभिदः प्रतिपादयन्त्यौ
मानोपपत्तिनियते मणिपादुके द्वे ।
अन्योन्यसङ्गतिवशादुपपन्नचर्याम्
आज्ञां श्रुतिस्मृतिमयीमवधारयामि॥ 24.12

मूलम्

साक्षात्पदं मधुभिदः प्रतिपादयन्त्यौ
मानोपपत्तिनियते मणिपादुके द्वे ।
अन्योन्यसङ्गतिवशादुपपन्नचर्याम्
आज्ञां श्रुतिस्मृतिमयीमवधारयामि॥ 24.12

विश्वास-प्रस्तुतिः

विश्वोपकारमधिकृत्य विहारकाले-
ष्वन्योन्यतः प्रथममेव परिस्फुरन्त्योः ।
दृष्टान्तयन्ति युवयोर्मणिपादरक्षे !
दिव्यं तदेव मिथुनं दिविषन्निषेव्यम्॥ 24.13

मूलम्

विश्वोपकारमधिकृत्य विहारकाले-
ष्वन्योन्यतः प्रथममेव परिस्फुरन्त्योः ।
दृष्टान्तयन्ति युवयोर्मणिपादरक्षे !
दिव्यं तदेव मिथुनं दिविषन्निषेव्यम्॥ 24.13

विश्वास-प्रस्तुतिः

द्वावेव यत्र चरणौ परमस्य पुंसः
तत्र द्विधा स्थितवती मणिपादुके ! त्वम् ।
यत्रैव दर्शयति देवि ! सहस्रपात्त्वं
तत्रापि नूनमसि दर्शिततावदात्मा॥ 24.14

मूलम्

द्वावेव यत्र चरणौ परमस्य पुंसः
तत्र द्विधा स्थितवती मणिपादुके ! त्वम् ।
यत्रैव दर्शयति देवि ! सहस्रपात्त्वं
तत्रापि नूनमसि दर्शिततावदात्मा॥ 24.14

विश्वास-प्रस्तुतिः

पर्यायतो गतिवशान्मणिपादरक्षे !
पूर्वापरत्वनियमं व्यतिवर्तयन्त्यौ ।
मन्ये युवां महति विष्णुपदे स्फुरन्त्यौ
सन्ध्ये समस्तजगतामभिवन्दनीये॥ 24.15

मूलम्

पर्यायतो गतिवशान्मणिपादरक्षे !
पूर्वापरत्वनियमं व्यतिवर्तयन्त्यौ ।
मन्ये युवां महति विष्णुपदे स्फुरन्त्यौ
सन्ध्ये समस्तजगतामभिवन्दनीये॥ 24.15

विश्वास-प्रस्तुतिः

अश्रान्तसञ्चरणयोर्निजसम्प्रयोगाद्
अम्लानतां चरणपङ्कजयोर्दिशन्त्यौ ।
मान्ये युवां रघुपतेर्मणिपादरक्षे !
विद्ये बलामतिबलां च विचिन्तयामि॥ 24.16

मूलम्

अश्रान्तसञ्चरणयोर्निजसम्प्रयोगाद्
अम्लानतां चरणपङ्कजयोर्दिशन्त्यौ ।
मान्ये युवां रघुपतेर्मणिपादरक्षे !
विद्ये बलामतिबलां च विचिन्तयामि॥ 24.16

विश्वास-प्रस्तुतिः

अन्तर्मोहादविदितवतामात्मतत्त्वं यथावत्
पद्यामित्थं परिचितवतां पादुके ! पापलोक्याम् ।
नित्यं भक्तेरनुगुणतया नाथ पादं भजन्त्यौ
निष्ठे साक्षात् स्वयमिह युवां ज्ञानकर्मात्मिके नः॥ 24.17

मूलम्

अन्तर्मोहादविदितवतामात्मतत्त्वं यथावत्
पद्यामित्थं परिचितवतां पादुके ! पापलोक्याम् ।
नित्यं भक्तेरनुगुणतया नाथ पादं भजन्त्यौ
निष्ठे साक्षात् स्वयमिह युवां ज्ञानकर्मात्मिके नः॥ 24.17

विश्वास-प्रस्तुतिः

न्यस्तं विष्णोः पदमिह महत् स्वेन भूम्ना वहन्त्योः
आम्नायाख्यामविहतगतिं वर्तयन्त्योर्निजाज्ञाम् ।
आसन्नानां प्रणयपदवीमात्मना पूरयन्त्योः
द्वैराज्यश्रीर्भवति जगतामैकराज्ये भवत्योः॥ 24.18

मूलम्

न्यस्तं विष्णोः पदमिह महत् स्वेन भूम्ना वहन्त्योः
आम्नायाख्यामविहतगतिं वर्तयन्त्योर्निजाज्ञाम् ।
आसन्नानां प्रणयपदवीमात्मना पूरयन्त्योः
द्वैराज्यश्रीर्भवति जगतामैकराज्ये भवत्योः॥ 24.18

विश्वास-प्रस्तुतिः

अप्राप्तानामुपजनयथः सम्पदां प्राप्तिमेवं
सम्प्राप्तानां स्वयमिह पुनः पालनार्थं यतेथे ।
साक्षाद्रङ्गक्षितिपतिपदं पादुके ! साधयन्त्यौ
योगक्षेमौ सुचरितवशान्मूर्तिमन्तौ युवां नः॥ 24.19

मूलम्

अप्राप्तानामुपजनयथः सम्पदां प्राप्तिमेवं
सम्प्राप्तानां स्वयमिह पुनः पालनार्थं यतेथे ।
साक्षाद्रङ्गक्षितिपतिपदं पादुके ! साधयन्त्यौ
योगक्षेमौ सुचरितवशान्मूर्तिमन्तौ युवां नः॥ 24.19

विश्वास-प्रस्तुतिः

बद्धहरिपादयुगळं युगळं तपनीयपादुके ! युवयोः ।
मोचयति संश्रितानां पुण्यापुण्यमयशृङ्खलायुगळम् ॥ 24.20

मूलम्

बद्धहरिपादयुगळं युगळं तपनीयपादुके ! युवयोः ।
मोचयति संश्रितानां पुण्यापुण्यमयशृङ्खलायुगळम् ॥ 24.20