विश्वास-प्रस्तुतिः
सृष्टां भूमावनन्तेन नित्यं शेषसमाधिना ।
अहं सम्भावयामि त्वामात्मानमिव पादुके !॥ 23.1
मूलम्
सृष्टां भूमावनन्तेन नित्यं शेषसमाधिना ।
अहं सम्भावयामि त्वामात्मानमिव पादुके !॥ 23.1
विश्वास-प्रस्तुतिः
पद्माभोगात् पादुके ! रङ्गभर्तुः
पादस्पर्शाद्भोगमन्यं प्रपित्सोः ।
शेषस्यैकां भूमिकामब्रवीत् त्वां
आचार्याणामग्रणीर्यामुनेयः॥ 23.2
मूलम्
पद्माभोगात् पादुके ! रङ्गभर्तुः
पादस्पर्शाद्भोगमन्यं प्रपित्सोः ।
शेषस्यैकां भूमिकामब्रवीत् त्वां
आचार्याणामग्रणीर्यामुनेयः॥ 23.2
विश्वास-प्रस्तुतिः
शेषत्वमम्ब ! यदि संश्रयति प्रकामं
त्वद्भूमिकां समधिगम्य भुजङ्गराजः ।
त्वामेव भक्तिविनतैर्वहतां शिरोभिः
काष्ठां गतं तदिह केशवपादरक्षे !॥ 23.3
मूलम्
शेषत्वमम्ब ! यदि संश्रयति प्रकामं
त्वद्भूमिकां समधिगम्य भुजङ्गराजः ।
त्वामेव भक्तिविनतैर्वहतां शिरोभिः
काष्ठां गतं तदिह केशवपादरक्षे !॥ 23.3
विश्वास-प्रस्तुतिः
मा भूदियं मयि निषण्णपदस्य नित्यं
विश्वंभरस्य वहनाद्व्यथितेति मत्वा ।
धत्से बलाभ्यधिकया मणिपादुके ! त्वं
शेषात्मना वसुमतीं निजयैव मूर्त्या॥ 23.4
मूलम्
मा भूदियं मयि निषण्णपदस्य नित्यं
विश्वंभरस्य वहनाद्व्यथितेति मत्वा ।
धत्से बलाभ्यधिकया मणिपादुके ! त्वं
शेषात्मना वसुमतीं निजयैव मूर्त्या॥ 23.4
विश्वास-प्रस्तुतिः
तत्तादृशा निजबलेन निरूढकीर्तिः
शेषस्तवैव परिणामविशेष एषः ।
रामेण सत्यवचसा यदनन्यवाह्यां
वोढुं पुरा वसुमतीं भवती नियुक्ता॥ 23.5
मूलम्
तत्तादृशा निजबलेन निरूढकीर्तिः
शेषस्तवैव परिणामविशेष एषः ।
रामेण सत्यवचसा यदनन्यवाह्यां
वोढुं पुरा वसुमतीं भवती नियुक्ता॥ 23.5
विश्वास-प्रस्तुतिः
शेषत्वसीमनियतां मणिपादरक्षे !
त्वामागमाः कुलवधूमिव बालपुत्राः ।
त्वद्रूपभेदशयितस्य परस्य पुंसः
पादोपधानशयितामुपधानयन्ति॥ 23.6
मूलम्
शेषत्वसीमनियतां मणिपादरक्षे !
त्वामागमाः कुलवधूमिव बालपुत्राः ।
त्वद्रूपभेदशयितस्य परस्य पुंसः
पादोपधानशयितामुपधानयन्ति॥ 23.6
विश्वास-प्रस्तुतिः
भरतशिरसि लग्नां पादुके ! दूरतस्त्वां
स्वतनुमपि ववन्दे लक्ष्मणः शेषभूतः ।
किमिदमिह विचित्रं नित्ययुक्तः सिषेवे
दशरथतनयः सन् रङ्गनाथः स्वमेव॥ 23.7
मूलम्
भरतशिरसि लग्नां पादुके ! दूरतस्त्वां
स्वतनुमपि ववन्दे लक्ष्मणः शेषभूतः ।
किमिदमिह विचित्रं नित्ययुक्तः सिषेवे
दशरथतनयः सन् रङ्गनाथः स्वमेव॥ 23.7
विश्वास-प्रस्तुतिः
भूयोभूयः स्तिमितचलिते यस्य सङ्कल्पसिन्धौ
ब्रह्मेशानप्रभृतय इमे बुद्बुदत्वं भजन्ति ।
तस्यानादेर्युगपरिणतौ योगनिद्रानुरूपं
क्रीडातल्पं किमपि तनुते पादुके ! भूमिकाऽन्या॥ 23.8
मूलम्
भूयोभूयः स्तिमितचलिते यस्य सङ्कल्पसिन्धौ
ब्रह्मेशानप्रभृतय इमे बुद्बुदत्वं भजन्ति ।
तस्यानादेर्युगपरिणतौ योगनिद्रानुरूपं
क्रीडातल्पं किमपि तनुते पादुके ! भूमिकाऽन्या॥ 23.8
विश्वास-प्रस्तुतिः
अहीनात्मा रङ्गक्षितिरमणपादावनि ! सदा
सतामित्थं त्राणात् प्रथितनिजसत्रत्वविभवा ।
अविद्यायामिन्याः स्पृशसि पुनरेकाहपदवीं
क्रतूनामाराध्या क्रतुरपि च सर्वस्त्वमसि नः॥ 23.9
मूलम्
अहीनात्मा रङ्गक्षितिरमणपादावनि ! सदा
सतामित्थं त्राणात् प्रथितनिजसत्रत्वविभवा ।
अविद्यायामिन्याः स्पृशसि पुनरेकाहपदवीं
क्रतूनामाराध्या क्रतुरपि च सर्वस्त्वमसि नः॥ 23.9
विश्वास-प्रस्तुतिः
बहुमुखभोगसमेतैर्निर्मुक्ततया विशुद्धिमापन्नैः ।
शेषात्मिका पदावनि ! निषेव्यसे शेषभूतैस्त्वम्॥ 23.10
मूलम्
बहुमुखभोगसमेतैर्निर्मुक्ततया विशुद्धिमापन्नैः ।
शेषात्मिका पदावनि ! निषेव्यसे शेषभूतैस्त्वम्॥ 23.10