22 काञ्चनपद्धतिः

विश्वास-प्रस्तुतिः

कल्याणप्रकृतिं वन्दे भजन्तीं काञ्चनश्रियम् ।
पदार्हां पादुकां शौरेः पद एव निवेशिताम्॥ 22.1

मूलम्

कल्याणप्रकृतिं वन्दे भजन्तीं काञ्चनश्रियम् ।
पदार्हां पादुकां शौरेः पद एव निवेशिताम्॥ 22.1

विश्वास-प्रस्तुतिः

मधुजित्तनुकान्तितस्कराणां
जलदानामभयं विधातुकामा ।
चपलेव तदङ्घ्रिमाश्रयन्ती
भवती काञ्चनपादुके ! विभाति॥ 22.2

मूलम्

मधुजित्तनुकान्तितस्कराणां
जलदानामभयं विधातुकामा ।
चपलेव तदङ्घ्रिमाश्रयन्ती
भवती काञ्चनपादुके ! विभाति॥ 22.2

विश्वास-प्रस्तुतिः

निकषीकृतरम्यकृष्णरत्ना
भवती काञ्चनसंपदं व्यनक्ति ।
परिपुष्यति पादुके ! यदीक्षा
सहसा नः समलोष्टकाञ्चनत्वम्॥ 22.3

मूलम्

निकषीकृतरम्यकृष्णरत्ना
भवती काञ्चनसंपदं व्यनक्ति ।
परिपुष्यति पादुके ! यदीक्षा
सहसा नः समलोष्टकाञ्चनत्वम्॥ 22.3

विश्वास-प्रस्तुतिः

सुरभिर्निगमैः समग्रकामा
कनकोत्कर्षवती पदावनि ! त्वम् ।
दिशसि प्रतिपन्नमाधवश्रीः
अनिशोन्निद्रमशोकवैभवं नः॥ 22.4

मूलम्

सुरभिर्निगमैः समग्रकामा
कनकोत्कर्षवती पदावनि ! त्वम् ।
दिशसि प्रतिपन्नमाधवश्रीः
अनिशोन्निद्रमशोकवैभवं नः॥ 22.4

विश्वास-प्रस्तुतिः

सति वर्णगुणे सुवर्णजातेः
जगति ख्यातमसौरभादवर्णम् ।
श्रुतिसौरभशालिना स्वहेम्ना
भवती शौरिपदावनि ! व्युदास्थत्॥ 22.5

मूलम्

सति वर्णगुणे सुवर्णजातेः
जगति ख्यातमसौरभादवर्णम् ।
श्रुतिसौरभशालिना स्वहेम्ना
भवती शौरिपदावनि ! व्युदास्थत्॥ 22.5

विश्वास-प्रस्तुतिः

प्रतिपन्नमयूरकण्ठधाम्ना
परिशुद्धेन पदावनि ! स्वकेन ।
कमलास्तनभूषणोचितं तत्
भवती रत्नमलङ्करोति हेम्ना॥ 22.6

मूलम्

प्रतिपन्नमयूरकण्ठधाम्ना
परिशुद्धेन पदावनि ! स्वकेन ।
कमलास्तनभूषणोचितं तत्
भवती रत्नमलङ्करोति हेम्ना॥ 22.6

विश्वास-प्रस्तुतिः

कान्त्या परं पुरुषमाप्रणखात् सुवर्णं
कर्तुं क्षमा त्वमसि काञ्चनपादरक्षे ! ।
अन्यादृशीं दिशसि या विनतस्य दूराद्
आरग्वधस्तबकसम्पदमिन्दुमौळेः॥ 22.7

मूलम्

कान्त्या परं पुरुषमाप्रणखात् सुवर्णं
कर्तुं क्षमा त्वमसि काञ्चनपादरक्षे ! ।
अन्यादृशीं दिशसि या विनतस्य दूराद्
आरग्वधस्तबकसम्पदमिन्दुमौळेः॥ 22.7

विश्वास-प्रस्तुतिः

चन्द्राकृतिः कथमकल्पयथास्तदानीं
वैमानिकप्रणयिनीवदनाम्बुजानाम् ।
विक्रान्तिकालविततेन निजेन धाम्ना
बालातपं बलिविमर्दनपादुके ! त्वम्॥ 22.8

मूलम्

चन्द्राकृतिः कथमकल्पयथास्तदानीं
वैमानिकप्रणयिनीवदनाम्बुजानाम् ।
विक्रान्तिकालविततेन निजेन धाम्ना
बालातपं बलिविमर्दनपादुके ! त्वम्॥ 22.8

विश्वास-प्रस्तुतिः

लेभे तदाप्रभृति नूनमियं भवत्याः
कान्त्या कवेरतनया कनकापगात्वम् ।
यावन्मुकुन्दपदहेमपदावनि ! त्वं
पुण्यं विभूषितवती पुळिनं तदीयम्॥ 22.9

मूलम्

लेभे तदाप्रभृति नूनमियं भवत्याः
कान्त्या कवेरतनया कनकापगात्वम् ।
यावन्मुकुन्दपदहेमपदावनि ! त्वं
पुण्यं विभूषितवती पुळिनं तदीयम्॥ 22.9

विश्वास-प्रस्तुतिः

चित्रं सरोजनिलयासहितस्य शौरेः
वासोचितानि चरणावनि ! संविधित्सोः ।
सद्यो विकासमुपयान्ति समाधिभाजां
चन्द्रातपेन तव मानसपङ्कजानि॥ 22.10

मूलम्

चित्रं सरोजनिलयासहितस्य शौरेः
वासोचितानि चरणावनि ! संविधित्सोः ।
सद्यो विकासमुपयान्ति समाधिभाजां
चन्द्रातपेन तव मानसपङ्कजानि॥ 22.10

विश्वास-प्रस्तुतिः

त्वय्येव पादमधिरोप्य नवं प्रवाहं
नाथे पदावनि ! निशामयितुं प्रवृत्ते ।
आत्मीयकाञ्चनरुचा भवती विधत्ते
हेमारविन्दभरितामिव हेमसिन्धुम्॥ 22.11

मूलम्

त्वय्येव पादमधिरोप्य नवं प्रवाहं
नाथे पदावनि ! निशामयितुं प्रवृत्ते ।
आत्मीयकाञ्चनरुचा भवती विधत्ते
हेमारविन्दभरितामिव हेमसिन्धुम्॥ 22.11

विश्वास-प्रस्तुतिः

विहरति पुळिनेषु त्वत्सखे रङ्गनाथे
कनकसरिदियं ते पादुके ! हेमधाम्ना ।
वहति सलिलकेळीस्रस्तचोळावरोध-
स्तनकलशहरिद्रापङ्कपिङ्गामवस्थाम्॥ 22.12

मूलम्

विहरति पुळिनेषु त्वत्सखे रङ्गनाथे
कनकसरिदियं ते पादुके ! हेमधाम्ना ।
वहति सलिलकेळीस्रस्तचोळावरोध-
स्तनकलशहरिद्रापङ्कपिङ्गामवस्थाम्॥ 22.12

विश्वास-प्रस्तुतिः

सुरभिनिगमगन्धा सौम्यपद्माकरस्था
कनककमलिनीव प्रेक्ष्यसे पादुके ! त्वम् ।
भ्रमर इव सदा त्वां प्राप्तनानाविहारः
शतमखमणिनीलः सेवते शार्ङ्गधन्वा॥ 22.13

मूलम्

सुरभिनिगमगन्धा सौम्यपद्माकरस्था
कनककमलिनीव प्रेक्ष्यसे पादुके ! त्वम् ।
भ्रमर इव सदा त्वां प्राप्तनानाविहारः
शतमखमणिनीलः सेवते शार्ङ्गधन्वा॥ 22.13

विश्वास-प्रस्तुतिः

कनकरुचिरवर्णां पादुके ! सह्यसिन्धुः
श्रियमिव महनीयां सिन्धुराजस्य पत्नी ।
स्वयमिह सविधस्था सौम्यजामातृयुक्ताम्
उपचरति रसेन त्वामपत्याभिमानात्॥ 22.14

मूलम्

कनकरुचिरवर्णां पादुके ! सह्यसिन्धुः
श्रियमिव महनीयां सिन्धुराजस्य पत्नी ।
स्वयमिह सविधस्था सौम्यजामातृयुक्ताम्
उपचरति रसेन त्वामपत्याभिमानात्॥ 22.14

विश्वास-प्रस्तुतिः

अनुकलमुपजीव्या दृश्यसे निर्जराणां
त्रिपुरमथनमौळौ शेखरत्वं दधासि ।
प्रतिपदमधिगम्य प्राप्तशृङ्गासि शौरेः
तदपि चरणरक्षे ! पूर्णचन्द्राकृतिस्त्वम्॥ 22.15

मूलम्

अनुकलमुपजीव्या दृश्यसे निर्जराणां
त्रिपुरमथनमौळौ शेखरत्वं दधासि ।
प्रतिपदमधिगम्य प्राप्तशृङ्गासि शौरेः
तदपि चरणरक्षे ! पूर्णचन्द्राकृतिस्त्वम्॥ 22.15

विश्वास-प्रस्तुतिः

कनकमपि तृणं ते मन्वते वीतरागाः
तृणमपि कनकं ते जानते त्वत्प्रकाशैः ।
मधुरिपुपदरक्षे ! यत् त्वदर्थोपनीतान्
परिणमयसि हैमान् देवि ! दूर्वाङ्कुरादीन्॥ 22.16

मूलम्

कनकमपि तृणं ते मन्वते वीतरागाः
तृणमपि कनकं ते जानते त्वत्प्रकाशैः ।
मधुरिपुपदरक्षे ! यत् त्वदर्थोपनीतान्
परिणमयसि हैमान् देवि ! दूर्वाङ्कुरादीन्॥ 22.16

विश्वास-प्रस्तुतिः

विशुद्धिमधिगच्छति ज्वलनसङ्गमात् काञ्चनं
विदन्ति च जगन्ति तन्न खलु तद्विपर्यस्यति ।
कथं कनकपादुके ! कमललोचने साक्षिणि
त्वयैव परिशुद्धता हुतभुजोऽपि जाघट्यते॥ 22.17

मूलम्

विशुद्धिमधिगच्छति ज्वलनसङ्गमात् काञ्चनं
विदन्ति च जगन्ति तन्न खलु तद्विपर्यस्यति ।
कथं कनकपादुके ! कमललोचने साक्षिणि
त्वयैव परिशुद्धता हुतभुजोऽपि जाघट्यते॥ 22.17

विश्वास-प्रस्तुतिः

तारासङ्गप्रथितविभवां चारुजाम्बूनदाभां
त्वामारूढस्त्रिदशमहितां पादुके ! रङ्गनाथः ।
सञ्चारिण्यां सुरशिखरिणस्तस्थुषा मेखलायां
धत्ते मत्तद्विरदपतिना साम्यकक्ष्यां समीक्ष्याम्॥ 22.18

मूलम्

तारासङ्गप्रथितविभवां चारुजाम्बूनदाभां
त्वामारूढस्त्रिदशमहितां पादुके ! रङ्गनाथः ।
सञ्चारिण्यां सुरशिखरिणस्तस्थुषा मेखलायां
धत्ते मत्तद्विरदपतिना साम्यकक्ष्यां समीक्ष्याम्॥ 22.18

विश्वास-प्रस्तुतिः

कनकरुचिरा काव्याख्याता शनैश्चरणोचिता
श्रितगुरुबुधा भास्वद्रूपा द्विजाधिपसेविता ।
विहितविभवा नित्यं विष्णोः पदे मणिपादुके !
त्वमसि महती विश्वेषां नः शुभा ग्रहमण्डली॥ 22.19

मूलम्

कनकरुचिरा काव्याख्याता शनैश्चरणोचिता
श्रितगुरुबुधा भास्वद्रूपा द्विजाधिपसेविता ।
विहितविभवा नित्यं विष्णोः पदे मणिपादुके !
त्वमसि महती विश्वेषां नः शुभा ग्रहमण्डली॥ 22.19

विश्वास-प्रस्तुतिः

प्रज्वलितपञ्चहेतिर्हिरण्मयीं त्वां हिरण्यविलयार्हः ।
आवहतु जातवेदाः श्रियमिव नः पादुके ! नित्यम्॥ 22.20

मूलम्

प्रज्वलितपञ्चहेतिर्हिरण्मयीं त्वां हिरण्यविलयार्हः ।
आवहतु जातवेदाः श्रियमिव नः पादुके ! नित्यम्॥ 22.20