21 बिम्बप्रतिबिम्बपद्धतिः

विश्वास-प्रस्तुतिः

शौरेः शुद्धान्तनारीणां विहारमणिदर्पणम् ।
प्रसत्तेरिव संस्थानं पदत्राणमुपास्महे॥ 21.1

मूलम्

शौरेः शुद्धान्तनारीणां विहारमणिदर्पणम् ।
प्रसत्तेरिव संस्थानं पदत्राणमुपास्महे॥ 21.1

विश्वास-प्रस्तुतिः

कमलापतिपादुके ! कदाचिद्
विहगेन्द्रस्त्वयि बिम्बितो विभाति ।
सविलासगतेऽपि रङ्गभर्तुः
निजमात्मानमिवोपधातुकामः॥ 21.2

मूलम्

कमलापतिपादुके ! कदाचिद्
विहगेन्द्रस्त्वयि बिम्बितो विभाति ।
सविलासगतेऽपि रङ्गभर्तुः
निजमात्मानमिवोपधातुकामः॥ 21.2

विश्वास-प्रस्तुतिः

मणिपङ्क्तिषु ते दिशामधीशाः
प्रतिबिम्बानि निजानि वीक्षमाणाः ।
अभियन्ति मुकुन्दपादुके ! त्वां
अधिकारान्तरसृष्टिशङ्कयेव॥ 21.3

मूलम्

मणिपङ्क्तिषु ते दिशामधीशाः
प्रतिबिम्बानि निजानि वीक्षमाणाः ।
अभियन्ति मुकुन्दपादुके ! त्वां
अधिकारान्तरसृष्टिशङ्कयेव॥ 21.3

विश्वास-प्रस्तुतिः

मणिमौळिशतेन बिम्बितेन
प्रणतानां परितः सुरासुराणाम् ।
मुरभिन्मणिपादुके ! महिम्ना
युगपत्तेषु समर्पितेव भासि॥ 21.4

मूलम्

मणिमौळिशतेन बिम्बितेन
प्रणतानां परितः सुरासुराणाम् ।
मुरभिन्मणिपादुके ! महिम्ना
युगपत्तेषु समर्पितेव भासि॥ 21.4

विश्वास-प्रस्तुतिः

उपनीतमुपायनं सुरेन्द्रैः
प्रतिबिम्बच्छलतस्त्वयि प्रविष्टम् ।
स्वयमेव किल प्रसादभूम्ना
प्रतिगृह्णासि मुकुन्दपादुके ! त्वम्॥ 21.5

मूलम्

उपनीतमुपायनं सुरेन्द्रैः
प्रतिबिम्बच्छलतस्त्वयि प्रविष्टम् ।
स्वयमेव किल प्रसादभूम्ना
प्रतिगृह्णासि मुकुन्दपादुके ! त्वम्॥ 21.5

विश्वास-प्रस्तुतिः

रङ्गेश्वरस्य नवपल्लवलोभनीयौ
पादौ कथन्नु कठिना स्वयमुद्वहेयम् ।
इत्याकलय्य नियतं मणिपादुके ! त्वं
पद्मास्तरं वहसि तत्प्रतिबिम्बलक्षात्॥ 21.6

मूलम्

रङ्गेश्वरस्य नवपल्लवलोभनीयौ
पादौ कथन्नु कठिना स्वयमुद्वहेयम् ।
इत्याकलय्य नियतं मणिपादुके ! त्वं
पद्मास्तरं वहसि तत्प्रतिबिम्बलक्षात्॥ 21.6

विश्वास-प्रस्तुतिः

पादार्पणात् प्रथमतो हरिदश्मरम्ये
मध्ये तव प्रतिफलन्मणिपादरक्षे ! ।
मन्ये निदर्शयति रङ्गपतिर्युगान्ते
न्यग्रोधपत्रशयितं निजमेव रूपम्॥ 21.7

मूलम्

पादार्पणात् प्रथमतो हरिदश्मरम्ये
मध्ये तव प्रतिफलन्मणिपादरक्षे ! ।
मन्ये निदर्शयति रङ्गपतिर्युगान्ते
न्यग्रोधपत्रशयितं निजमेव रूपम्॥ 21.7

विश्वास-प्रस्तुतिः

यात्रावसानमधिगच्छति रङ्गनाथे
विश्राणयस्यनुपदं मणिपादुके ! त्वम् ।
प्रायः प्रयाणसमये प्रतिबिम्बितानां
तीर्थावगाहमपरं त्रिदशेश्वराणाम्॥ 21.8

मूलम्

यात्रावसानमधिगच्छति रङ्गनाथे
विश्राणयस्यनुपदं मणिपादुके ! त्वम् ।
प्रायः प्रयाणसमये प्रतिबिम्बितानां
तीर्थावगाहमपरं त्रिदशेश्वराणाम्॥ 21.8

विश्वास-प्रस्तुतिः

उच्चावचेषु तव रत्नगणेषु मातः !
वेधाः प्रयाणसमये प्रतिबिम्बिताङ्गः ।
आशङ्कते मुरभिदो मणिपादुके ! त्वाम्
आगामिकल्पकमलासनपङ्क्तिगर्भाम्॥ 21.9

मूलम्

उच्चावचेषु तव रत्नगणेषु मातः !
वेधाः प्रयाणसमये प्रतिबिम्बिताङ्गः ।
आशङ्कते मुरभिदो मणिपादुके ! त्वाम्
आगामिकल्पकमलासनपङ्क्तिगर्भाम्॥ 21.9

विश्वास-प्रस्तुतिः

आलोलरश्मिनियतां मणिपादुके ! त्वाम्
आरुह्य सञ्चरति रङ्गपतौ सलीलम् ।
अन्तः पुरेषु युगपत्सुदृशो भजन्ते
डोळाधिरोहणरसं त्वयि बिम्बिताङ्ग्यः॥ 21.10

मूलम्

आलोलरश्मिनियतां मणिपादुके ! त्वाम्
आरुह्य सञ्चरति रङ्गपतौ सलीलम् ।
अन्तः पुरेषु युगपत्सुदृशो भजन्ते
डोळाधिरोहणरसं त्वयि बिम्बिताङ्ग्यः॥ 21.10

विश्वास-प्रस्तुतिः

कालेषु राघवपदावनि ! भक्तिनम्रः
कार्याणि देवि ! भरतो विनिवेदयंस्ते ।
त्वद्रत्नबिम्बिततयाऽपि मुहुः स्वकीयां
राजासनस्थितिमवेक्ष्य भृशं ललज्जे॥ 21.11

मूलम्

कालेषु राघवपदावनि ! भक्तिनम्रः
कार्याणि देवि ! भरतो विनिवेदयंस्ते ।
त्वद्रत्नबिम्बिततयाऽपि मुहुः स्वकीयां
राजासनस्थितिमवेक्ष्य भृशं ललज्जे॥ 21.11

विश्वास-प्रस्तुतिः

प्रत्यागते विजयिनि प्रथमे रघूणां
विन्यस्यति त्वयि पदं मणिपादरक्षे ! ।
रत्नौघबिम्बितनिशाचरवानरां त्वां
पूर्वक्षणस्थमिव पुष्पकमन्वपश्यन्॥ 21.12

मूलम्

प्रत्यागते विजयिनि प्रथमे रघूणां
विन्यस्यति त्वयि पदं मणिपादरक्षे ! ।
रत्नौघबिम्बितनिशाचरवानरां त्वां
पूर्वक्षणस्थमिव पुष्पकमन्वपश्यन्॥ 21.12

विश्वास-प्रस्तुतिः

वैयाकुलीं शमयितुं जगतो वहन्त्या
रक्षाधुरां रघुधुरन्धरपादरक्षे ! ।
प्राज्यं यशः प्रचुरचामरबिम्बलक्षात्
प्रायस्त्वया कबळितं प्रतिभूपतीनाम्॥ 21.13

मूलम्

वैयाकुलीं शमयितुं जगतो वहन्त्या
रक्षाधुरां रघुधुरन्धरपादरक्षे ! ।
प्राज्यं यशः प्रचुरचामरबिम्बलक्षात्
प्रायस्त्वया कबळितं प्रतिभूपतीनाम्॥ 21.13

विश्वास-प्रस्तुतिः

प्रतिदिशमुपयाते देवि ! यात्रोत्सवार्थं
त्वयि विहरणकाले बिम्बिते जीवलोके ।
वहसि मणिगणैस्त्वं पादुके ! रङ्गभर्तुः
कबळितसकलार्थां काञ्चिदन्यामवस्थाम्॥ 21.14

मूलम्

प्रतिदिशमुपयाते देवि ! यात्रोत्सवार्थं
त्वयि विहरणकाले बिम्बिते जीवलोके ।
वहसि मणिगणैस्त्वं पादुके ! रङ्गभर्तुः
कबळितसकलार्थां काञ्चिदन्यामवस्थाम्॥ 21.14

विश्वास-प्रस्तुतिः

भगवति गरुडस्थे वाहनस्थाः सुरेन्द्राः
त्वयि विनिहितपादे भूमिमेवाश्रयन्ति ।
तदपि चरणरक्षे ! रत्नजाले त्वदीये
प्रतिफलितनिजाङ्गास्तुल्यवाहा भवन्ति॥ 21.15

मूलम्

भगवति गरुडस्थे वाहनस्थाः सुरेन्द्राः
त्वयि विनिहितपादे भूमिमेवाश्रयन्ति ।
तदपि चरणरक्षे ! रत्नजाले त्वदीये
प्रतिफलितनिजाङ्गास्तुल्यवाहा भवन्ति॥ 21.15

विश्वास-प्रस्तुतिः

स्वच्छाकारां सुरयुवतयः स्वप्रतिच्छन्दलक्ष्यात्
गाहन्ते त्वां प्रणतिसमये पादुके ! साभिमानाः ।
स्त्रीरत्नानां परिभवविधौ सृष्टिमात्रेण दक्षां
नीचैः कर्तुं नरसखमुनेरूर्वशीमूरुजाताम्॥ 21.16

मूलम्

स्वच्छाकारां सुरयुवतयः स्वप्रतिच्छन्दलक्ष्यात्
गाहन्ते त्वां प्रणतिसमये पादुके ! साभिमानाः ।
स्त्रीरत्नानां परिभवविधौ सृष्टिमात्रेण दक्षां
नीचैः कर्तुं नरसखमुनेरूर्वशीमूरुजाताम्॥ 21.16

विश्वास-प्रस्तुतिः

स्वेच्छाकेळिप्रियसहचरीं स्वच्छरत्नाभिरामाम्
स्थाने स्थाने निहितचरणो निर्विशन् रङ्गनाथः ।
सञ्चारान्ते सह कमलया शेषशय्याधिरूढः
त्यक्त्वाऽपि त्वां त्यजति न पुनः स्वप्रतिच्छन्दलक्षात्॥ 21.17

मूलम्

स्वेच्छाकेळिप्रियसहचरीं स्वच्छरत्नाभिरामाम्
स्थाने स्थाने निहितचरणो निर्विशन् रङ्गनाथः ।
सञ्चारान्ते सह कमलया शेषशय्याधिरूढः
त्यक्त्वाऽपि त्वां त्यजति न पुनः स्वप्रतिच्छन्दलक्षात्॥ 21.17

विश्वास-प्रस्तुतिः

त्वामेवैकामधिगतवतः केळिसञ्चारकाले
पार्श्वे स्थित्वा विनिहितदृशोः पादुकेऽनन्यलक्ष्यम् ।
त्वद्रत्नेषु प्रतिफलितयोर्नित्यलक्ष्यप्रसादा
पद्माभूम्योर्दिशति भवती पादसेवां मुरारेः॥ 21.18

मूलम्

त्वामेवैकामधिगतवतः केळिसञ्चारकाले
पार्श्वे स्थित्वा विनिहितदृशोः पादुकेऽनन्यलक्ष्यम् ।
त्वद्रत्नेषु प्रतिफलितयोर्नित्यलक्ष्यप्रसादा
पद्माभूम्योर्दिशति भवती पादसेवां मुरारेः॥ 21.18

विश्वास-प्रस्तुतिः

एकामेकः किल निरविशत्पादुके ! द्वारकायां
क्रीडायोगी कृतबहुतनुः षोडशस्त्रीसहस्रे ।
शुद्धे देवि ! त्वदुपनिहिते बिम्बितो रत्नजाले
भुङ्क्ते नित्यं स खलु भवतीं भूमिकानां
सहस्रैः॥ 21.19

मूलम्

एकामेकः किल निरविशत्पादुके ! द्वारकायां
क्रीडायोगी कृतबहुतनुः षोडशस्त्रीसहस्रे ।
शुद्धे देवि ! त्वदुपनिहिते बिम्बितो रत्नजाले
भुङ्क्ते नित्यं स खलु भवतीं भूमिकानां
सहस्रैः॥ 21.19

विश्वास-प्रस्तुतिः

हरिपदनखेषु भवती
प्रतिफलति तवैतदपि च रत्नेषु ।
उचिता मिथः पदावनि !
बिम्बप्रतिबिम्बता युवयोः॥ 21.20

मूलम्

हरिपदनखेषु भवती
प्रतिफलति तवैतदपि च रत्नेषु ।
उचिता मिथः पदावनि !
बिम्बप्रतिबिम्बता युवयोः॥ 21.20